MBh, 2, 18
Select a line for its word-by-word analysis.
न स शक्यो रणे जेतुं सर्वैर् अपि सुरासुरैः । (२।१)
na sa śakyo raṇe jetuṃ sarvair api surāsuraiḥ |
त्रिभिर् आसादितो ऽस्माभिर् विजने स नराधिपः । (४।१)
tribhir āsādito 'smābhir vijane sa narādhipaḥ |
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे ॥ (७।२)
bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me ||
भीमपार्थौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ ॥ (८।३)
bhīmapārthau samālokya samprahṛṣṭamukhau sthitau ||
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् ॥ (९।२)
pāṇḍavānāṃ bhavānnātho bhavantaṃ cāśritā vayam ||
न हि त्वम् अग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी । (१०।२)
na hi tvam agratasteṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī |
येषाम् अभिमुखी लक्ष्मीस्तेषां कृष्ण त्वम् अग्रतः ॥ (१०।३)
yeṣām abhimukhī lakṣmīsteṣāṃ kṛṣṇa tvam agrataḥ ||
क्षिप्रकारिन् यथा त्वेतत् कार्यं समुपपद्यते । (१२।१)
kṣiprakārin yathā tvetat kāryaṃ samupapadyate |
मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम ॥ (१२।२)
mama kāryaṃ jagatkāryaṃ tathā kuru narottama ||
त्रिभिर् भवद्भिर् हि विना नाहं जीवितुम् उत्सहे । (१३।१)
tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe |
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना । (१४।१)
na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā |
नाजेयो ऽस्त्यनयोर् लोके कृष्णयोर् इति मे मतिः ॥ (१४।२)
nājeyo 'styanayor loke kṛṣṇayor iti me matiḥ ||
अयं च बलिनां श्रेष्ठः श्रीमान् अपि वृकोदरः । (१५।१)
ayaṃ ca balināṃ śreṣṭhaḥ śrīmān api vṛkodaraḥ |
युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः ॥ (१५।२)
yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ ||
सुप्रणीतो बलौघो हि कुरुते कार्यम् उत्तमम् । (१६।१)
supraṇīto balaugho hi kurute kāryam uttamam |
अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः ॥ (१६।२)
andhaṃ jaḍaṃ balaṃ prāhuḥ praṇetavyaṃ vicakṣaṇaiḥ ||
यतश्छिद्रं ततश्चापि नयन्ते धीधना बलम् ॥ (१७।२)
yataśchidraṃ tataścāpi nayante dhīdhanā balam ||
वयम् आश्रित्य गोविन्दं यतामः कार्यसिद्धये ॥ (१८।२)
vayam āśritya govindaṃ yatāmaḥ kāryasiddhaye ||
पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये ॥ (१९।२)
puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye ||
एवम् एव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये । (२०।१)
evam eva yaduśreṣṭhaṃ pārthaḥ kāryārthasiddhaye |
अर्जुनः कृष्णम् अन्वेतु भीमो ऽन्वेतु धनंजयम् । (२०।२)
arjunaḥ kṛṣṇam anvetu bhīmo 'nvetu dhanaṃjayam |
नयो जयो बलं चैव विक्रमे सिद्धिम् एष्यति ॥ (२०।३)
nayo jayo balaṃ caiva vikrame siddhim eṣyati ||
एवम् उक्तास्ततः सर्वे भ्रातरो विपुलौजसः । (२१।१)
evam uktāstataḥ sarve bhrātaro vipulaujasaḥ |
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर् मागधं प्रति ॥ (२१।२)
vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ prati ||
वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान् । (२२।१)
varcasvināṃ brāhmaṇānāṃ snātakānāṃ paricchadān |
आच्छाद्य सुहृदां वाक्यैर् मनोज्ञैर् अभिनन्दिताः । (२२।२)
ācchādya suhṛdāṃ vākyair manojñair abhinanditāḥ |
माधवः पाण्डवेयौ च प्रतस्थुर् व्रतधारिणः ॥ (२२।३)
mādhavaḥ pāṇḍaveyau ca pratasthur vratadhāriṇaḥ ||
अमर्षाद् अभितप्तानां ज्ञात्यर्थं मुख्यवाससाम् । (२३।१)
amarṣād abhitaptānāṃ jñātyarthaṃ mukhyavāsasām |
एककार्यसमुद्युक्तौ कृष्णौ युद्धे ऽपराजितौ ॥ (२४।२)
ekakāryasamudyuktau kṛṣṇau yuddhe 'parājitau ||
ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने । (२५।१)
īśau hi tau mahātmānau sarvakāryapravartane |
धर्मार्थकामकार्याणां कार्याणाम् इव निग्रहे ॥ (२५।२)
dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe ||
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् । (२६।१)
kurubhyaḥ prasthitāste tu madhyena kurujāṅgalam |
एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते ॥ (२७।२)
ekaparvatake nadyaḥ krameṇaitya vrajanti te ||
संतीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् । (२८।१)
saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃśca kosalān |
अतीत्य जग्मुर् मिथिलां मालां चर्मण्वतीं नदीम् ॥ (२८।२)
atītya jagmur mithilāṃ mālāṃ carmaṇvatīṃ nadīm ||
उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रयः । (२९।१)
uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhāstrayaḥ |
कुरवोरश्छदं जग्मुर् मागधं क्षेत्रम् अच्युताः ॥ (२९।२)
kuravoraśchadaṃ jagmur māgadhaṃ kṣetram acyutāḥ ||
ते शश्वद् गोधनाकीर्णम् अम्बुमन्तं शुभद्रुमम् । (३०।१)
te śaśvad godhanākīrṇam ambumantaṃ śubhadrumam |
गोरथं गिरिम् आसाद्य ददृशुर् मागधं पुरम् ॥ (३०।२)
gorathaṃ girim āsādya dadṛśur māgadhaṃ puram ||
Data courtesy of The Digital Corpus of Sanskrit.