महाभारतMahābhārata

MBh, 14, 22

1857 of 1995 · 63 verses

Select a line for its word-by-word analysis.

1.1१.१

ब्राह्मण उवाच । (१।१)

brāhmaṇa uvāca

1.2१.२

अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् । (१।२)

atrāpyudāharantīmam itihāsaṃ purātanam |

1.3१.३

सुभगे सप्तहोतॄणां विधानम् इह यादृशम् ॥ (१।३)

subhage saptahotṝṇāṃ vidhānam iha yādṛśam ||

2.1२.१

घ्राणं चक्षुश्च जिह्वा च त्वक् श्रोत्रं चैव पञ्चमम् । (२।१)

ghrāṇaṃ cakṣuśca jihvā ca tvak śrotraṃ caiva pañcamam |

2.2२.२

मनो बुद्धिश्च सप्तैते होतारः पृथग् आश्रिताः ॥ (२।२)

mano buddhiśca saptaite hotāraḥ pṛthag āśritāḥ ||

3.1३.१

सूक्ष्मे ऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् । (३।१)

sūkṣme 'vakāśe santaste na paśyantītaretaram |

3.2३.२

एतान् वै सप्तहोतॄंस्त्वं स्वभावाद् विद्धि शोभने ॥ (३।२)

etān vai saptahotṝṃstvaṃ svabhāvād viddhi śobhane ||

4.1४.१

ब्राह्मण्युवाच । (४।१)

brāhmaṇyuvāca |

4.2४.२

सूक्ष्मे ऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः । (४।२)

sūkṣme 'vakāśe santaste kathaṃ nānyonyadarśinaḥ |

4.3४.३

कथंस्वभावा भगवन्न् एतद् आचक्ष्व मे विभो ॥ (४।३)

kathaṃsvabhāvā bhagavann etad ācakṣva me vibho ||

5.1५.१

ब्राह्मण उवाच । (५।१)

brāhmaṇa uvāca

5.2५.२

गुणाज्ञानम् अविज्ञानं गुणिज्ञानम् अभिज्ञता । (५।२)

guṇājñānam avijñānaṃ guṇijñānam abhijñatā |

5.3५.३

परस्परगुणान् एते न विजानन्ति कर्हिचित् ॥ (५।३)

parasparaguṇān ete na vijānanti karhicit ||

6.1६.१

जिह्वा चक्षुस्तथा श्रोत्रं त्वङ् मनो बुद्धिर् एव च । (६।१)

jihvā cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca |

6.2६.२

न गन्धान् अधिगच्छन्ति घ्राणस्तान् अधिगच्छति ॥ (६।२)

na gandhān adhigacchanti ghrāṇastān adhigacchati ||

7.1७.१

घ्राणं चक्षुस्तथा श्रोत्रं त्वङ् मनो बुद्धिर् एव च । (७।१)

ghrāṇaṃ cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca |

7.2७.२

न रसान् अधिगच्छन्ति जिह्वा तान् अधिगच्छति ॥ (७।२)

na rasān adhigacchanti jihvā tān adhigacchati ||

8.1८.१

घ्राणं जिह्वा तथा श्रोत्रं त्वङ् मनो बुद्धिर् एव च । (८।१)

ghrāṇaṃ jihvā tathā śrotraṃ tvaṅ mano buddhir eva ca |

8.2८.२

न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ॥ (८।२)

na rūpāṇyadhigacchanti cakṣustānyadhigacchati ||

9.1९.१

घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर् मनस्तथा । (९।१)

ghrāṇaṃ jihvā ca cakṣuśca śrotraṃ buddhir manastathā |

9.2९.२

न स्पर्शान् अधिगच्छन्ति त्वक् च तान् अधिगच्छति ॥ (९।२)

na sparśān adhigacchanti tvak ca tān adhigacchati ||

10.1१०.१

घ्राणं जिह्वा च चक्षुश्च त्वङ् मनो बुद्धिर् एव च । (१०।१)

ghrāṇaṃ jihvā ca cakṣuśca tvaṅ mano buddhir eva ca |

10.2१०.२

न शब्दान् अधिगच्छन्ति श्रोत्रं तान् अधिगच्छति ॥ (१०।२)

na śabdān adhigacchanti śrotraṃ tān adhigacchati ||

11.1११.१

घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं बुद्धिर् एव च । (११।१)

ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ buddhir eva ca |

11.2११.२

संशयान्नाधिगच्छन्ति मनस्तान् अधिगच्छति ॥ (११।२)

saṃśayānnādhigacchanti manastān adhigacchati ||

12.1१२.१

घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च । (१२।१)

ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ mana eva ca |

12.2१२.२

न निष्ठाम् अधिगच्छन्ति बुद्धिस्ताम् अधिगच्छति ॥ (१२।२)

na niṣṭhām adhigacchanti buddhistām adhigacchati ||

13.1१३.१

अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् । (१३।१)

atrāpyudāharantīmam itihāsaṃ purātanam |

13.2१३.२

इन्द्रियाणां च संवादं मनसश्चैव भामिनि ॥ (१३।२)

indriyāṇāṃ ca saṃvādaṃ manasaścaiva bhāmini ||

14.1१४.१

मन उवाच । (१४।१)

mana uvāca

14.2१४.२

न घ्राति माम् ऋते घ्राणं रसं जिह्वा न बुध्यते । (१४।२)

na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate |

14.3१४.३

रूपं चक्षुर् न गृह्णाति त्वक् स्पर्शं नावबुध्यते ॥ (१४।३)

rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate ||

15.1१५.१

न श्रोत्रं बुध्यते शब्दं मया हीनं कथंचन । (१५।१)

na śrotraṃ budhyate śabdaṃ mayā hīnaṃ kathaṃcana |

15.2१५.२

प्रवरं सर्वभूतानाम् अहम् अस्मि सनातनम् ॥ (१५।२)

pravaraṃ sarvabhūtānām aham asmi sanātanam ||

16.1१६.१

अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः । (१६।१)

agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ |

16.2१६.२

इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ॥ (१६।२)

indriyāṇi na bhāsante mayā hīnāni nityaśaḥ ||

17.1१७.१

काष्ठानीवार्द्रशुष्काणि यतमानैर् अपीन्द्रियैः । (१७।१)

kāṣṭhānīvārdraśuṣkāṇi yatamānair apīndriyaiḥ |

17.2१७.२

गुणार्थान्नाधिगच्छन्ति माम् ऋते सर्वजन्तवः ॥ (१७।२)

guṇārthānnādhigacchanti mām ṛte sarvajantavaḥ ||

18.1१८.१

इन्द्रियाण्यूचुः । (१८।१)

indriyāṇyūcuḥ |

18.2१८.२

एवम् एतद् भवेत् सत्यं यथैतन्मन्यते भवान् । (१८।२)

evam etad bhavet satyaṃ yathaitanmanyate bhavān |

18.3१८.३

ऋते ऽस्मान् अस्मदर्थांस्तु भोगान् भुङ्क्ते भवान् यदि ॥ (१८।३)

ṛte 'smān asmadarthāṃstu bhogān bhuṅkte bhavān yadi ||

19.1१९.१

यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् । (१९।१)

yadyasmāsu pralīneṣu tarpaṇaṃ prāṇadhāraṇam |

19.2१९.२

भोगान् भुङ्क्षे रसान् भुङ्क्षे यथैतन्मन्यते तथा ॥ (१९।२)

bhogān bhuṅkṣe rasān bhuṅkṣe yathaitanmanyate tathā ||

20.1२०.१

अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च । (२०।१)

atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca |

20.2२०.२

यदि संकल्पमात्रेण भुङ्क्ते भोगान् यथार्थवत् ॥ (२०।२)

yadi saṃkalpamātreṇa bhuṅkte bhogān yathārthavat ||

21.1२१.१

अथ चेन्मन्यसे सिद्धिम् अस्मदर्थेषु नित्यदा । (२१।१)

atha cenmanyase siddhim asmadartheṣu nityadā |

21.2२१.२

घ्राणेन रूपम् आदत्स्व रसम् आदत्स्व चक्षुषा ॥ (२१।२)

ghrāṇena rūpam ādatsva rasam ādatsva cakṣuṣā ||

22.1२२.१

श्रोत्रेण गन्धम् आदत्स्व निष्ठाम् आदत्स्व जिह्वया । (२२।१)

śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā |

22.2२२.२

त्वचा च शब्दम् आदत्स्व बुद्ध्या स्पर्शम् अथापि च ॥ (२२।२)

tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca ||

23.1२३.१

बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् । (२३।१)

balavanto hyaniyamā niyamā durbalīyasām |

23.2२३.२

भोगान् अपूर्वान् आदत्स्व नोच्छिष्टं भोक्तुम् अर्हसि ॥ (२३।२)

bhogān apūrvān ādatsva nocchiṣṭaṃ bhoktum arhasi ||

24.1२४.१

यथा हि शिष्यः शास्तारं श्रुत्यर्थम् अभिधावति । (२४।१)

yathā hi śiṣyaḥ śāstāraṃ śrutyartham abhidhāvati |

24.2२४.२

ततः श्रुतम् उपादाय श्रुतार्थम् उपतिष्ठति ॥ (२४।२)

tataḥ śrutam upādāya śrutārtham upatiṣṭhati ||

25.1२५.१

विषयान् एवम् अस्माभिर् दर्शितान् अभिमन्यसे । (२५।१)

viṣayān evam asmābhir darśitān abhimanyase |

25.2२५.२

अनागतान् अतीतांश्च स्वप्ने जागरणे तथा ॥ (२५।२)

anāgatān atītāṃśca svapne jāgaraṇe tathā ||

26.1२६.१

वैमनस्यं गतानां च जन्तूनाम् अल्पचेतसाम् । (२६।१)

vaimanasyaṃ gatānāṃ ca jantūnām alpacetasām |

26.2२६.२

अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् ॥ (२६।२)

asmadarthe kṛte kārye dṛśyate prāṇadhāraṇam ||

27.1२७.१

बहून् अपि हि संकल्पान्मत्वा स्वप्नान् उपास्य च । (२७।१)

bahūn api hi saṃkalpānmatvā svapnān upāsya ca |

27.2२७.२

बुभुक्षया पीड्यमानो विषयान् एव धावसि ॥ (२७।२)

bubhukṣayā pīḍyamāno viṣayān eva dhāvasi ||

28.1२८.१

अगारम् अद्वारम् इव प्रविश्य संकल्पभोगो विषयान् अविन्दन् । (२८।१)

agāram advāram iva praviśya saṃkalpabhogo viṣayān avindan |

28.2२८.२

प्राणक्षये शान्तिम् उपैति नित्यं दारुक्षये ऽग्निर् ज्वलितो यथैव ॥ (२८।२)

prāṇakṣaye śāntim upaiti nityaṃ dārukṣaye 'gnir jvalito yathaiva ||

29.1२९.१

कामं तु नः स्वेषु गुणेषु सङ्गः कामं च नान्योन्यगुणोपलब्धिः । (२९।१)

kāmaṃ tu naḥ sveṣu guṇeṣu saṅgaḥ kāmaṃ ca nānyonyaguṇopalabdhiḥ |

29.2२९.२

अस्मान् ऋते नास्ति तवोपलब्धिस् त्वाम् अप्य् ऋते ऽस्मान्न भजेत हर्षः ॥ (२९।२)

asmān ṛte nāsti tavopalabdhis tvām apy ṛte 'smānna bhajeta harṣaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 14, 22

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit