महाभारतMahābhārata

MBh, 1, 64

64 of 1995 · 114 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

ततो मृगसहस्राणि हत्वा विपुलवाहनः । (१।२)

tato mṛgasahasrāṇi hatvā vipulavāhanaḥ |

1.3१.३

ततो मेघघनप्रख्यं सिद्धचारणसेवितम् । (१।३)

tato meghaghanaprakhyaṃ siddhacāraṇasevitam |

1.4१.४

वनम् आलोकयामास नगराद् योजनद्वये । (१।४)

vanam ālokayāmāsa nagarād yojanadvaye |

1.5१.५

मृगान् अनुचरन् वन्याञ् श्रमेण परिपीडितः । (१।५)

mṛgān anucaran vanyāñ śrameṇa paripīḍitaḥ |

1.6१.६

मृगान् अनुचरंश्चैव वेगेनाश्वान् अचोदयत् । (१।६)

mṛgān anucaraṃścaiva vegenāśvān acodayat |

1.7१.७

राजा मृगप्रसङ्गेन वनम् अन्यद् विवेश ह ॥ (१।७)

rājā mṛgaprasaṅgena vanam anyad viveśa ha ||

2.1२.१

एक एवोत्तमबलः क्षुत्पिपासासमन्वितः । (२।१)

eka evottamabalaḥ kṣutpipāsāsamanvitaḥ |

2.2२.२

स वनस्यान्तम् आसाद्य महद् ईरिणम् आसदत् ॥ (२।२)

sa vanasyāntam āsādya mahad īriṇam āsadat ||

3.1३.१

तच्चाप्यतीत्य नृपतिर् उत्तमाश्रमसंयुतम् । (३।१)

taccāpyatītya nṛpatir uttamāśramasaṃyutam |

3.2३.२

मनःप्रह्लादजननं दृष्टिकान्तम् अतीव च । (३।२)

manaḥprahlādajananaṃ dṛṣṭikāntam atīva ca |

3.3३.३

शीतमारुतसंयुक्तं जगामान्यन् महद् वनम् ॥ (३।३)

śītamārutasaṃyuktaṃ jagāmānyan mahad vanam ||

4.1४.१

पुष्पितैः पादपैः कीर्णम् अतीव सुखशाद्वलम् । (४।१)

puṣpitaiḥ pādapaiḥ kīrṇam atīva sukhaśādvalam |

4.2४.२

विपुलं मधुरारावैर् नादितं विहगैस्तथा । (४।२)

vipulaṃ madhurārāvair nāditaṃ vihagaistathā |

4.3४.३

पुंस्कोकिलनिनादैश्च झिल्लीकगणनादितम् ॥ (४।३)

puṃskokilaninādaiśca jhillīkagaṇanāditam ||

5.1५.१

प्रवृद्धविटपैर् वृक्षैः सुखच्छायैः समावृतम् । (५।१)

pravṛddhaviṭapair vṛkṣaiḥ sukhacchāyaiḥ samāvṛtam |

5.2५.२

षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् ॥ (५।२)

ṣaṭpadāghūrṇitalataṃ lakṣmyā paramayā yutam ||

6.1६.१

नापुष्पः पादपः कश्चिन् नाफलो नापि कण्टकी । (६।१)

nāpuṣpaḥ pādapaḥ kaścin nāphalo nāpi kaṇṭakī |

6.2६.२

षट्पदैर् वाप्यनाकीर्णस्तस्मिन् वै कानने ऽभवत् ॥ (६।२)

ṣaṭpadair vāpyanākīrṇastasmin vai kānane 'bhavat ||

7.1७.१

विहगैर् नादितं पुष्पैर् अलंकृतम् अतीव च । (७।१)

vihagair nāditaṃ puṣpair alaṃkṛtam atīva ca |

7.2७.२

सर्वर्तुकुसुमैर् वृक्षैर् अतीव सुखशाद्वलम् । (७।२)

sarvartukusumair vṛkṣair atīva sukhaśādvalam |

7.3७.३

मनोरमं महेष्वासो विवेश वनम् उत्तमम् ॥ (७।३)

manoramaṃ maheṣvāso viveśa vanam uttamam ||

8.1८.१

मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः । (८।१)

mārutāgalitāstatra drumāḥ kusumaśālinaḥ |

8.2८.२

पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः ॥ (८।२)

puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃste punaḥ punaḥ ||

9.1९.१

दिवस्पृशो ऽथ संघुष्टाः पक्षिभिर् मधुरस्वरैः । (९।१)

divaspṛśo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ |

9.2९.२

विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ॥ (९।२)

virejuḥ pādapāstatra vicitrakusumāmbarāḥ ||

10.1१०.१

तेषां तत्र प्रवालेषु पुष्पभारावनामिषु । (१०।१)

teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu |

10.2१०.२

रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु ॥ (१०।२)

ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu ||

11.1११.१

तत्र प्रदेशांश्च बहून् कुसुमोत्करमण्डितान् । (११।१)

tatra pradeśāṃśca bahūn kusumotkaramaṇḍitān |

11.2११.२

लतागृहपरिक्षिप्तान् मनसः प्रीतिवर्धनान् । (११।२)

latāgṛhaparikṣiptān manasaḥ prītivardhanān |

11.3११.३

संपश्यन् स महातेजा बभूव मुदितस्तदा ॥ (११।३)

saṃpaśyan sa mahātejā babhūva muditastadā ||

12.1१२.१

परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः । (१२।१)

parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ |

12.2१२.२

अशोभत वनं तत् तैर् महेन्द्रध्वजसंनिभैः । (१२।२)

aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ |

12.3१२.३

सिद्धचारणसंघैश्च गन्धर्वाप्सरसां गणैः । (१२।३)

siddhacāraṇasaṃghaiśca gandharvāpsarasāṃ gaṇaiḥ |

12.4१२.४

सेवितं वनम् अत्यर्थं मत्तवारणकिंनरैः ॥ (१२।४)

sevitaṃ vanam atyarthaṃ mattavāraṇakiṃnaraiḥ ||

13.1१३.१

सुखशीतः सुगन्धी च पुष्परेणुवहो ऽनिलः । (१३।१)

sukhaśītaḥ sugandhī ca puṣpareṇuvaho 'nilaḥ |

13.2१३.२

परिक्रामन् वने वृक्षान् उपैतीव रिरंसया ॥ (१३।२)

parikrāman vane vṛkṣān upaitīva riraṃsayā ||

14.1१४.१

एवंगुणसमायुक्तं ददर्श स वनं नृपः । (१४।१)

evaṃguṇasamāyuktaṃ dadarśa sa vanaṃ nṛpaḥ |

14.2१४.२

नदीकच्छोद्भवं कान्तम् उच्छ्रितध्वजसंनिभम् ॥ (१४।२)

nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham ||

15.1१५.१

प्रेक्षमाणो वनं तत् तु सुप्रहृष्टविहंगमम् । (१५।१)

prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam |

15.2१५.२

आश्रमप्रवरं रम्यं ददर्श च मनोरमम् ॥ (१५।२)

āśramapravaraṃ ramyaṃ dadarśa ca manoramam ||

16.1१६.१

नानावृक्षसमाकीर्णं सम्प्रज्वलितपावकम् । (१६।१)

nānāvṛkṣasamākīrṇaṃ samprajvalitapāvakam |

16.2१६.२

तं तदाप्रतिमं श्रीमान् आश्रमं प्रत्यपूजयत् । (१६।२)

taṃ tadāpratimaṃ śrīmān āśramaṃ pratyapūjayat |

16.3१६.३

यतिभिर् वालखिल्यैश्च वृतं मुनिगणान्वितम् ॥ (१६।३)

yatibhir vālakhilyaiśca vṛtaṃ munigaṇānvitam ||

17.1१७.१

अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् । (१७।१)

agnyāgāraiśca bahubhiḥ puṣpasaṃstarasaṃstṛtam |

17.2१७.२

महाकच्छैर् बृहद्भिश्च विभ्राजितम् अतीव च ॥ (१७।२)

mahākacchair bṛhadbhiśca vibhrājitam atīva ca ||

18.1१८.१

मालिनीम् अभितो राजन् नदीं पुण्यां सुखोदकाम् । (१८।१)

mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām |

18.2१८.२

नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् । (१८।२)

naikapakṣigaṇākīrṇāṃ tapovanamanoramām |

18.3१८.३

तत्र व्यालमृगान् सौम्यान् पश्यन् प्रीतिम् अवाप सः ॥ (१८।३)

tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ ||

19.1१९.१

तं चाप्यतिरथः श्रीमान् आश्रमं प्रत्यपद्यत । (१९।१)

taṃ cāpyatirathaḥ śrīmān āśramaṃ pratyapadyata |

19.2१९.२

देवलोकप्रतीकाशं सर्वतः सुमनोहरम् ॥ (१९।२)

devalokapratīkāśaṃ sarvataḥ sumanoharam ||

20.1२०.१

नदीम् आश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः । (२०।१)

nadīm āśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ |

20.2२०.२

सर्वप्राणभृतां तत्र जननीम् इव विष्ठिताम् ॥ (२०।२)

sarvaprāṇabhṛtāṃ tatra jananīm iva viṣṭhitām ||

21.1२१.१

सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् । (२१।१)

sacakravākapulināṃ puṣpaphenapravāhinīm |

21.2२१.२

सकिंनरगणावासां वानरर्क्षनिषेविताम् ॥ (२१।२)

sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām ||

22.1२२.१

पुण्यस्वाध्यायसंघुष्टां पुलिनैर् उपशोभिताम् । (२२।१)

puṇyasvādhyāyasaṃghuṣṭāṃ pulinair upaśobhitām |

22.2२२.२

मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् । (२२।२)

mattavāraṇaśārdūlabhujagendraniṣevitām |

22.3२२.३

तस्यास्तीरे भगवतः काश्यपस्य महात्मनः । (२२।३)

tasyāstīre bhagavataḥ kāśyapasya mahātmanaḥ |

22.4२२.४

आश्रमप्रवरं पुण्यं महर्षिगणसेवितम् ॥ (२२।४)

āśramapravaraṃ puṇyaṃ maharṣigaṇasevitam ||

23.1२३.१

नदीम् आश्रमसम्बद्धां दृष्ट्वाश्रमपदं तथा । (२३।१)

nadīm āśramasambaddhāṃ dṛṣṭvāśramapadaṃ tathā |

23.2२३.२

चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ॥ (२३।२)

cakārābhipraveśāya matiṃ sa nṛpatistadā ||

24.1२४.१

अलंकृतं द्वीपवत्या मालिन्या रम्यतीरया । (२४।१)

alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā |

24.2२४.२

नरनारायणस्थानं गङ्गयेवोपशोभितम् । (२४।२)

naranārāyaṇasthānaṃ gaṅgayevopaśobhitam |

24.3२४.३

मत्तबर्हिणसंघुष्टं प्रविवेश महद् वनम् ॥ (२४।३)

mattabarhiṇasaṃghuṣṭaṃ praviveśa mahad vanam ||

25.1२५.१

तत् स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः । (२५।१)

tat sa caitrarathaprakhyaṃ samupetya nareśvaraḥ |

25.2२५.२

अतीव गुणसम्पन्नम् अनिर्देश्यं च वर्चसा । (२५।२)

atīva guṇasampannam anirdeśyaṃ ca varcasā |

25.3२५.३

महर्षिं काश्यपं द्रष्टुम् अथ कण्वं तपोधनम् ॥ (२५।३)

maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam ||

26.1२६.१

रथिनीम् अश्वसंबाधां पदातिगणसंकुलाम् । (२६।१)

rathinīm aśvasaṃbādhāṃ padātigaṇasaṃkulām |

26.2२६.२

अवस्थाप्य वनद्वारि सेनाम् इदम् उवाच सः ॥ (२६।२)

avasthāpya vanadvāri senām idam uvāca saḥ ||

27.1२७.१

मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् । (२७।१)

muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam |

27.2२७.२

काश्यपं स्थीयताम् अत्र यावदागमनं मम ॥ (२७।२)

kāśyapaṃ sthīyatām atra yāvadāgamanaṃ mama ||

28.1२८.१

तद् वनं नन्दनप्रख्यम् आसाद्य मनुजेश्वरः । (२८।१)

tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ |

28.2२८.२

क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् ॥ (२८।२)

kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam ||

29.1२९.१

सामात्यो राजलिङ्गानि सो ऽपनीय नराधिपः । (२९।१)

sāmātyo rājaliṅgāni so 'panīya narādhipaḥ |

29.2२९.२

पुरोहितसहायश्च जगामाश्रमम् उत्तमम् । (२९।२)

purohitasahāyaśca jagāmāśramam uttamam |

29.3२९.३

दिदृक्षुस्तत्र तम् ऋषिं तपोराशिम् अथाव्ययम् ॥ (२९।३)

didṛkṣustatra tam ṛṣiṃ taporāśim athāvyayam ||

30.1३०.१

ब्रह्मलोकप्रतीकाशम् आश्रमं सो ऽभिवीक्ष्य च । (३०।१)

brahmalokapratīkāśam āśramaṃ so 'bhivīkṣya ca |

30.2३०.२

षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम् । (३०।२)

ṣaṭpadodgītasaṃghuṣṭaṃ nānādvijagaṇāyutam |

30.3३०.३

तथैव सामगीतैश्च सामविद्भिर् उदाहृतैः । (३०।३)

tathaiva sāmagītaiśca sāmavidbhir udāhṛtaiḥ |

30.4३०.४

ताभिर् ऋक्सामगीताभिर् अथर्वशिरसान्वितम् । (३०।४)

tābhir ṛksāmagītābhir atharvaśirasānvitam |

30.5३०.५

अमिताभिर् उक्ताभि सुश्रुवे स नृपस्तदा । (३०।५)

amitābhir uktābhi suśruve sa nṛpastadā |

30.6३०.६

विस्मयोत्फुल्लनयनो राजा तत्र बभूव ह ॥ (३०।६)

vismayotphullanayano rājā tatra babhūva ha ||

31.1३१.१

ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः । (३१।१)

ṛco bahvṛcamukhyaiśca preryamāṇāḥ padakramaiḥ |

31.2३१.२

क्रत्वर्थांश्च प्रकाशद्भिर् यजुर्भिर् निर्मलस्वरैः । (३१।२)

kratvarthāṃśca prakāśadbhir yajurbhir nirmalasvaraiḥ |

31.3३१.३

जटावर्णविभागज्ञैर् उच्यमानान्यनेकशः । (३१।३)

jaṭāvarṇavibhāgajñair ucyamānānyanekaśaḥ |

31.4३१.४

शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ॥ (३१।४)

śuśrāva manujavyāghro vitateṣviha karmasu ||

32.1३२.१

यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमान् अपि । (३२।१)

yajñavidyāṅgavidbhiśca kramadbhiśca kramān api |

32.2३२.२

मधुरैः सामगीतैश्च ऋषिभिर् नियतव्रतैः । (३२।२)

madhuraiḥ sāmagītaiśca ṛṣibhir niyatavrataiḥ |

32.3३२.३

भारुण्डसामगीताभिर् अथर्वशिरसोद्गतैः । (३२।३)

bhāruṇḍasāmagītābhir atharvaśirasodgataiḥ |

32.4३२.४

अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः ॥ (३२।४)

amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ ||

33.1३३.१

अथर्ववेदप्रवराः पूगयाज्ञिक संमताः । (३३।१)

atharvavedapravarāḥ pūgayājñika saṃmatāḥ |

33.2३३.२

संहिताम् ईरयन्ति स्म पदक्रमयुतां तु ते ॥ (३३।२)

saṃhitām īrayanti sma padakramayutāṃ tu te ||

34.1३४.१

शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर् द्विजैः । (३४।१)

śabdasaṃskārasaṃyuktaṃ bruvadbhiścāparair dvijaiḥ |

34.2३४.२

नादितः स बभौ श्रीमान् ब्रह्मलोक इवाश्रमः ॥ (३४।२)

nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ ||

35.1३५.१

यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः । (३५।१)

yajñasaṃskāravidbhiśca kramaśikṣā viśāradaiḥ |

35.2३५.२

न्यायतत्त्वार्थविज्ञानसम्पन्नैर् वेदपारगैः ॥ (३५।२)

nyāyatattvārthavijñānasampannair vedapāragaiḥ ||

36.1३६.१

नानावाक्यसमाहारसमवायविशारदैः । (३६।१)

nānāvākyasamāhārasamavāyaviśāradaiḥ |

36.2३६.२

विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः ॥ (३६।२)

viśeṣakāryavidbhiśca mokṣadharmaparāyaṇaiḥ ||

37.1३७.१

स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः । (३७।१)

sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ |

37.2३७.२

शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः । (३७।२)

śabdacchandoniruktajñaiḥ kālajñānaviśāradaiḥ |

37.3३७.३

द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः । (३७।३)

dravyakarmaguṇajñaiśca kāryakāraṇavedibhiḥ |

37.4३७.४

जल्पवादवितण्डज्ञैर् व्यासग्रन्थसमाश्रितैः । (३७।४)

jalpavādavitaṇḍajñair vyāsagranthasamāśritaiḥ |

37.5३७.५

नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनम् ईरितम् । (३७।५)

nānāśāstreṣu mukhyaiśca śuśrāva svanam īritam |

37.6३७.६

लोकायतिकमुख्यैश्च समन्ताद् अनुनादितम् ॥ (३७।६)

lokāyatikamukhyaiśca samantād anunāditam ||

38.1३८.१

तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रतान् । (३८।१)

tatra tatra ca viprendrān niyatān saṃśitavratān |

38.2३८.२

जपहोमपरान् सिद्धान् ददर्श परवीरहा ॥ (३८।२)

japahomaparān siddhān dadarśa paravīrahā ||

39.1३९.१

आसनानि विचित्राणि पुष्पवन्ति महीपतिः । (३९।१)

āsanāni vicitrāṇi puṣpavanti mahīpatiḥ |

39.2३९.२

प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयम् आगमत् ॥ (३९।२)

prayatnopahitāni sma dṛṣṭvā vismayam āgamat ||

40.1४०.१

देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः । (४०।१)

devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ |

40.2४०.२

ब्रह्मलोकस्थम् आत्मानं मेने स नृपसत्तमः ॥ (४०।२)

brahmalokastham ātmānaṃ mene sa nṛpasattamaḥ ||

41.1४१.१

स काश्यपतपोगुप्तम् आश्रमप्रवरं शुभम् । (४१।१)

sa kāśyapatapoguptam āśramapravaraṃ śubham |

41.2४१.२

नातृप्यत् प्रेक्षमाणो वै तपोधनगणैर् युतम् ॥ (४१।२)

nātṛpyat prekṣamāṇo vai tapodhanagaṇair yutam ||

42.1४२.१

स काश्यपस्यायतनं महाव्रतैर् वृतं समन्ताद् ऋषिभिस्तपोधनैः । (४२।१)

sa kāśyapasyāyatanaṃ mahāvratair vṛtaṃ samantād ṛṣibhistapodhanaiḥ |

42.2४२.२

विवेश सामात्यपुरोहितो ऽरिहा विविक्तम् अत्यर्थमनोहरं शिवम् ॥ (४२।२)

viveśa sāmātyapurohito 'rihā viviktam atyarthamanoharaṃ śivam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 64

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit