महाभारतMahābhārata

MBh, 1, 25

25 of 1995 · 121 verses

Select a line for its word-by-word analysis.

1.1१.१

सूत उवाच । (१।१)

sūta uvāca

1.2१.२

तस्य कण्ठम् अनुप्राप्तो ब्राह्मणः सह भार्यया । (१।२)

tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā |

1.3१.३

दहन् दीप्त इवाङ्गारस्तम् उवाचान्तरिक्षगः ॥ (१।३)

dahan dīpta ivāṅgārastam uvācāntarikṣagaḥ ||

2.1२.१

द्विजोत्तम विनिर्गच्छ तूर्णम् आस्याद् अपावृतात् । (२।१)

dvijottama vinirgaccha tūrṇam āsyād apāvṛtāt |

2.2२.२

न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा । (२।२)

na hi me brāhmaṇo vadhyaḥ pāpeṣvapi rataḥ sadā |

2.3२.३

कथं च त्वम् इहायातो निषादानां महालयम् । (२।३)

kathaṃ ca tvam ihāyāto niṣādānāṃ mahālayam |

2.4२.४

अस्पृश्या याजिनां नित्यं सत्यं च वद मे द्विज ॥ (२।४)

aspṛśyā yājināṃ nityaṃ satyaṃ ca vada me dvija ||

3.1३.१

ब्रुवाणम् एवं गरुडं ब्राह्मणः समभाषत । (३।१)

bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata |

3.2३.२

ब्राह्मण उवाच । (३।२)

brāhmaṇa uvāca

3.3३.३

मध्यदेशात् समायातो धनार्थी मेदिनीं भ्रमन् । (३।३)

madhyadeśāt samāyāto dhanārthī medinīṃ bhraman |

3.4३.४

ततो निषादान् सम्प्राप्तो रतिं चाप्यत्र लब्धवान् । (३।४)

tato niṣādān samprāpto ratiṃ cāpyatra labdhavān |

3.5३.५

गां हिरण्यं धनं धान्यं घटांश्च कटकांस्तथा । (३।५)

gāṃ hiraṇyaṃ dhanaṃ dhānyaṃ ghaṭāṃśca kaṭakāṃstathā |

3.6३.६

निषादा मे प्रयच्छन्ति सततं प्रियकारिणः । (३।६)

niṣādā me prayacchanti satataṃ priyakāriṇaḥ |

3.7३.७

निषादी शोभना चात्र भार्या जाता खगोत्तम । (३।७)

niṣādī śobhanā cātra bhāryā jātā khagottama |

3.8३.८

तया सह वसन् नित्यं रतिम् अग्र्याम् अवाप्तवान् । (३।८)

tayā saha vasan nityaṃ ratim agryām avāptavān |

3.9३.९

निषादी मम भार्येयं निर्गच्छतु मया सह । (३।९)

niṣādī mama bhāryeyaṃ nirgacchatu mayā saha |

3.10३.१०

ततो ऽहं निर्गमिष्यामि न निर्गच्छेयम् अन्यथा ॥ (३।१०)

tato 'haṃ nirgamiṣyāmi na nirgaccheyam anyathā ||

4.1४.१

गरुड उवाच । (४।१)

garuḍa uvāca

4.2४.२

एताम् अपि निषादीं त्वं परिगृह्याशु निष्पत । (४।२)

etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata |

4.3४.३

तूर्णं संभावयात्मानम् अजीर्णं मम तेजसा ॥ (४।३)

tūrṇaṃ saṃbhāvayātmānam ajīrṇaṃ mama tejasā ||

5.1५.१

सूत उवाच । (५।१)

sūta uvāca

5.2५.२

ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा । (५।२)

tataḥ sa vipro niṣkrānto niṣādīsahitastadā |

5.3५.३

वर्धयित्वा च गरुडम् इष्टं देशं जगाम ह ॥ (५।३)

vardhayitvā ca garuḍam iṣṭaṃ deśaṃ jagāma ha ||

6.1६.१

सहभार्ये विनिष्क्रान्ते तस्मिन् विप्रे स पक्षिराट् । (६।१)

sahabhārye viniṣkrānte tasmin vipre sa pakṣirāṭ |

6.2६.२

वितत्य पक्षावाकाशम् उत्पपात मनोजवः ॥ (६।२)

vitatya pakṣāvākāśam utpapāta manojavaḥ ||

7.1७.१

ततो ऽपश्यत् स पितरं पृष्टश्चाख्यातवान् पितुः । (७।१)

tato 'paśyat sa pitaraṃ pṛṣṭaścākhyātavān pituḥ |

7.2७.२

यथान्यायम् अमेयात्मा तं चोवाच महान् ऋषिः । (७।२)

yathānyāyam ameyātmā taṃ covāca mahān ṛṣiḥ |

7.3७.३

कच्चिद् वः कुशलं नित्यं भोजने बहुलं सुत । (७।३)

kaccid vaḥ kuśalaṃ nityaṃ bhojane bahulaṃ suta |

7.4७.४

कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु । (७।४)

kaccicca mānuṣe loke tavānnaṃ vidyate bahu |

7.5७.५

समुत्पत्याभिविश्रान्तः पितरं च समेत्य सः । (७।५)

samutpatyābhiviśrāntaḥ pitaraṃ ca sametya saḥ |

7.6७.६

ववन्दे पततां श्रेष्ठो ब्रह्म ब्रह्मविदां प्रभुम् । (७।६)

vavande patatāṃ śreṣṭho brahma brahmavidāṃ prabhum |

7.7७.७

पृष्टश्च पित्रा बलवान् वैनतेयः प्रतापवान् । (७।७)

pṛṣṭaśca pitrā balavān vainateyaḥ pratāpavān |

7.8७.८

क्व गन्तासीति वेगेन मम त्वं वक्तुम् अर्हसि । (७।८)

kva gantāsīti vegena mama tvaṃ vaktum arhasi |

7.9७.९

गरुड उवाच । (७।९)

garuḍa uvāca

7.10७.१०

माता मे कुशला शश्वत् तथा भ्राता तथा ह्यहम् । (७।१०)

mātā me kuśalā śaśvat tathā bhrātā tathā hyaham |

7.11७.११

न हि मे कुशलं तात भोजने बहुले सदा । (७।११)

na hi me kuśalaṃ tāta bhojane bahule sadā |

7.12७.१२

अहं हि सर्पैः प्रहितः सोमम् आहर्तुम् उद्यतः । (७।१२)

ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ |

7.13७.१३

मातुर् दास्यविमोक्षार्थम् आहरिष्ये तम् अद्य वै ॥ (७।१३)

mātur dāsyavimokṣārtham āhariṣye tam adya vai ||

8.1८.१

मात्रा चास्मि समादिष्टो निषादान् भक्षयेति वै । (८।१)

mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai |

8.2८.२

न च मे तृप्तिर् अभवद् भक्षयित्वा सहस्रशः ॥ (८।२)

na ca me tṛptir abhavad bhakṣayitvā sahasraśaḥ ||

9.1९.१

तस्माद् भोक्तव्यम् अपरं भगवन् प्रदिशस्व मे । (९।१)

tasmād bhoktavyam aparaṃ bhagavan pradiśasva me |

9.2९.२

यद् भुक्त्वामृतम् आहर्तुं समर्थः स्याम् अहं प्रभो । (९।२)

yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho |

9.3९.३

क्षुत्पिपासाविघातार्थं भक्ष्यम् आख्यातु मे भवान् ॥ (९।३)

kṣutpipāsāvighātārthaṃ bhakṣyam ākhyātu me bhavān ||

10.1१०.१

कश्यप उवाच । (१०।१)

kaśyapa uvāca

10.2१०.२

इदं सरो महापुण्यं देवलोके ऽपि विश्रुतम् । (१०।२)

idaṃ saro mahāpuṇyaṃ devaloke 'pi viśrutam |

10.3१०.३

यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः । (१०।३)

yatra kūrmāgrajaṃ hastī sadā karṣatyavāṅmukhaḥ |

10.4१०.४

तयोर् जन्म तु ते कृत्स्नं प्रवक्ष्याम्यनुपूर्वशः । (१०।४)

tayor janma tu te kṛtsnaṃ pravakṣyāmyanupūrvaśaḥ |

10.5१०.५

तन् मे तत्त्वं निबोधस्व यत्प्रमाणौ च तौ मतौ । (१०।५)

tan me tattvaṃ nibodhasva yatpramāṇau ca tau matau |

10.6१०.६

शृणु त्वं वत्स भद्रं ते कथां वैराग्यवर्धिनीम् । (१०।६)

śṛṇu tvaṃ vatsa bhadraṃ te kathāṃ vairāgyavardhinīm |

10.7१०.७

पित्रोर् अर्थविभागे वै समुत्पन्नां पुराण्डज । (१०।७)

pitror arthavibhāge vai samutpannāṃ purāṇḍaja |

10.8१०.८

आसीद् विभावसुर् नाम महर्षिः कोपनो भृशम् । (१०।८)

āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam |

10.9१०.९

भ्राता तस्यानुजश्चासीत् सुप्रतीको महातपाः ॥ (१०।९)

bhrātā tasyānujaścāsīt supratīko mahātapāḥ ||

11.1११.१

स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः । (११।१)

sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ |

11.2११.२

विभागं कीर्तयत्येव सुप्रतीको ऽथ नित्यशः ॥ (११।२)

vibhāgaṃ kīrtayatyeva supratīko 'tha nityaśaḥ ||

12.1१२.१

अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः । (१२।१)

athābravīcca taṃ bhrātā supratīkaṃ vibhāvasuḥ |

12.2१२.२

विभागे बहवो दोषा भविष्यन्ति महातपाः । (१२।२)

vibhāge bahavo doṣā bhaviṣyanti mahātapāḥ |

12.3१२.३

विभागं बहवो मोहात् कर्तुम् इच्छन्ति नित्यदा । (१२।३)

vibhāgaṃ bahavo mohāt kartum icchanti nityadā |

12.4१२.४

ततो विभक्ता अन्योन्यं नाद्रियन्ते ऽर्थमोहिताः ॥ (१२।४)

tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ ||

13.1१३.१

ततः स्वार्थपरान् मूढान् पृथग् भूतान् स्वकैर् धनैः । (१३।१)

tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ |

13.2१३.२

विदित्वा भेदयन्त्येतान् अमित्रा मित्ररूपिणः ॥ (१३।२)

viditvā bhedayantyetān amitrā mitrarūpiṇaḥ ||

14.1१४.१

विदित्वा चापरे भिन्नान् अन्तरेषु पतन्त्यथ । (१४।१)

viditvā cāpare bhinnān antareṣu patantyatha |

14.2१४.२

भिन्नानाम् अतुलो नाशः क्षिप्रम् एव प्रवर्तते ॥ (१४।२)

bhinnānām atulo nāśaḥ kṣipram eva pravartate ||

15.1१५.१

तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः । (१५।१)

tasmāccaiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ |

15.2१५.२

एवम् उक्तः सुप्रतीको भागं कीर्तयते ऽनिशम् । (१५।२)

evam uktaḥ supratīko bhāgaṃ kīrtayate 'niśam |

15.3१५.३

एवं निर्बध्यमानस्तु शशापैनं विभावसुः । (१५।३)

evaṃ nirbadhyamānastu śaśāpainaṃ vibhāvasuḥ |

15.4१५.४

गुरुशास्त्रे निबद्धानाम् अन्योन्यम् अभिशङ्किनाम् । (१५।४)

guruśāstre nibaddhānām anyonyam abhiśaṅkinām |

15.5१५.५

तेषां मध्ये त्वम् अप्येकश्छद्मकृच्च महात्मभिः ॥ (१५।५)

teṣāṃ madhye tvam apyekaśchadmakṛcca mahātmabhiḥ ||

16.1१६.१

नियन्तुं न हि शक्यस्त्वं भेदतो धनम् इच्छसि । (१६।१)

niyantuṃ na hi śakyastvaṃ bhedato dhanam icchasi |

16.2१६.२

यस्मात् तस्मात् सुप्रतीक हस्तित्वं समवाप्स्यसि ॥ (१६।२)

yasmāt tasmāt supratīka hastitvaṃ samavāpsyasi ||

17.1१७.१

शप्तस्त्वेवं सुप्रतीको विभावसुम् अथाब्रवीत् । (१७।१)

śaptastvevaṃ supratīko vibhāvasum athābravīt |

17.2१७.२

त्वम् अप्यन्तर्जलचरः कच्छपः सम्भविष्यसि ॥ (१७।२)

tvam apyantarjalacaraḥ kacchapaḥ sambhaviṣyasi ||

18.1१८.१

एवम् अन्योन्यशापात् तौ सुप्रतीकविभावसू । (१८।१)

evam anyonyaśāpāt tau supratīkavibhāvasū |

18.2१८.२

गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ॥ (१८।२)

gajakacchapatāṃ prāptāvarthārthaṃ mūḍhacetasau ||

19.1१९.१

रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि । (१९।१)

roṣadoṣānuṣaṅgeṇa tiryagyonigatāvapi |

19.2१९.२

परस्परद्वेषरतौ प्रमाणबलदर्पितौ ॥ (१९।२)

parasparadveṣaratau pramāṇabaladarpitau ||

20.1२०.१

सरस्यस्मिन् महाकायौ पूर्ववैरानुसारिणौ । (२०।१)

sarasyasmin mahākāyau pūrvavairānusāriṇau |

20.2२०.२

तयोर् एकतरः श्रीमान् समुपैति महागजः ॥ (२०।२)

tayor ekataraḥ śrīmān samupaiti mahāgajaḥ ||

21.1२१.१

तस्य बृंहितशब्देन कूर्मो ऽप्यन्तर्जलेशयः । (२१।१)

tasya bṛṃhitaśabdena kūrmo 'pyantarjaleśayaḥ |

21.2२१.२

उत्थितो ऽसौ महाकायः कृत्स्नं संक्षोभयन् सरः ॥ (२१।२)

utthito 'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayan saraḥ ||

22.1२२.१

तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् । (२२।१)

taṃ dṛṣṭvāveṣṭitakaraḥ patatyeṣa gajo jalam |

22.2२२.२

दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ॥ (२२।२)

dantahastāgralāṅgūlapādavegena vīryavān ||

23.1२३.१

तं विक्षोभयमाणं तु सरो बहुझषाकुलम् । (२३।१)

taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam |

23.2२३.२

कूर्मो ऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ॥ (२३।२)

kūrmo 'pyabhyudyataśirā yuddhāyābhyeti vīryavān ||

24.1२४.१

षड् उच्छ्रितो योजनानि गजस्तद् द्विगुणायतः । (२४।१)

ṣaḍ ucchrito yojanāni gajastad dviguṇāyataḥ |

24.2२४.२

कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥ (२४।२)

kūrmastriyojanotsedho daśayojanamaṇḍalaḥ ||

25.1२५.१

तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ । (२५।१)

tāvetau yuddhasaṃmattau parasparajayaiṣiṇau |

25.2२५.२

उपयुज्याशु कर्मेदं साधयेप्सितम् आत्मनः । (२५।२)

upayujyāśu karmedaṃ sādhayepsitam ātmanaḥ |

25.3२५.३

महाभ्रघनसंकाशं तं भुक्त्वामृतम् आनय । (२५।३)

mahābhraghanasaṃkāśaṃ taṃ bhuktvāmṛtam ānaya |

25.4२५.४

महागिरिसमप्रख्यं घोररूपं च हस्तिनम् ॥ (२५।४)

mahāgirisamaprakhyaṃ ghorarūpaṃ ca hastinam ||

26.1२६.१

सूत उवाच । (२६।१)

sūta uvāca

26.2२६.२

इत्युक्त्वा गरुडं सर्षिः माङ्गल्यम् अकरोत् तदा । (२६।२)

ityuktvā garuḍaṃ sarṣiḥ māṅgalyam akarot tadā |

26.3२६.३

युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम् । (२६।३)

yudhyataḥ saha devaiste yuddhe bhavatu maṅgalam |

26.4२६.४

पूर्णकुम्भो द्विजा गावो यच्चान्यत् किंचिद् उत्तमम् । (२६।४)

pūrṇakumbho dvijā gāvo yaccānyat kiṃcid uttamam |

26.5२६.५

शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डज । (२६।५)

śubhaṃ svastyayanaṃ cāpi bhaviṣyati tavāṇḍaja |

26.6२६.६

युध्यमानस्य संग्रामे देवैः सार्धं महाबल । (२६।६)

yudhyamānasya saṃgrāme devaiḥ sārdhaṃ mahābala |

26.7२६.७

ऋचो यजूंषि सामानि पवित्राणि हवींषि च । (२६।७)

ṛco yajūṃṣi sāmāni pavitrāṇi havīṃṣi ca |

26.8२६.८

रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम् । (२६।८)

rahasyāni ca sarvāṇi sarve vedāśca te balam |

26.9२६.९

इत्युक्तो गरुडः पित्रा गतस्तं ह्रदम् अन्तिकात् । (२६।९)

ityukto garuḍaḥ pitrā gatastaṃ hradam antikāt |

26.10२६.१०

अपश्यन् निर्मलजलं नानापक्षिसमाकुलम् । (२६।१०)

apaśyan nirmalajalaṃ nānāpakṣisamākulam |

26.11२६.११

एतस्मिन्न् एव काले तु तावृषी वित्तलोलुपौ । (२६।११)

etasminn eva kāle tu tāvṛṣī vittalolupau |

26.12२६.१२

गजकच्छपतां प्राप्य युयुधाते परस्परम् । (२६।१२)

gajakacchapatāṃ prāpya yuyudhāte parasparam |

26.13२६.१३

स तच्छ्रुत्वा पितुर् वाक्यं भीमवेगो ऽन्तरिक्षगः । (२६।१३)

sa tacchrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ |

26.14२६.१४

नखेन गजम् एकेन कूर्मम् एकेन चाक्षिपत् ॥ (२६।१४)

nakhena gajam ekena kūrmam ekena cākṣipat ||

27.1२७.१

समुत्पपात चाकाशं तत उच्चैर् विहंगमः । (२७।१)

samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ |

27.2२७.२

सो ऽलम्बतीर्थम् आसाद्य देववृक्षान् उपागमत् ॥ (२७।२)

so 'lambatīrtham āsādya devavṛkṣān upāgamat ||

28.1२८.१

ते भीताः समकम्पन्त तस्य पक्षानिलाहताः । (२८।१)

te bhītāḥ samakampanta tasya pakṣānilāhatāḥ |

28.2२८.२

न नो भञ्ज्याद् इति तदा दिव्याः कनकशाखिनः ॥ (२८।२)

na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ ||

29.1२९.१

प्रचलाङ्गान् स तान् दृष्ट्वा मनोरथफलाङ्कुरान् । (२९।१)

pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān |

29.2२९.२

अन्यान् अतुलरूपाङ्गान् उपचक्राम खेचरः ॥ (२९।२)

anyān atularūpāṅgān upacakrāma khecaraḥ ||

30.1३०.१

काञ्चनै राजतैश्चैव फलैर् वैडूर्यशाखिनः । (३०।१)

kāñcanai rājataiścaiva phalair vaiḍūryaśākhinaḥ |

30.2३०.२

सागराम्बुपरिक्षिप्तान् भ्राजमानान् महाद्रुमान् । (३०।२)

sāgarāmbuparikṣiptān bhrājamānān mahādrumān |

30.3३०.३

तेषां मध्ये महान् आसीत् पादपः सुमनोहरः । (३०।३)

teṣāṃ madhye mahān āsīt pādapaḥ sumanoharaḥ |

30.4३०.४

सहस्रयोजनोत्सेधो बहुशाखासमन्वितः । (३०।४)

sahasrayojanotsedho bahuśākhāsamanvitaḥ |

30.5३०.५

खगानाम् आलयो दिव्यो नाम्ना रोहिणपादपः । (३०।५)

khagānām ālayo divyo nāmnā rohiṇapādapaḥ |

30.6३०.६

यस्य छायां समाश्रित्य सद्यो भवति निर्वृतः ॥ (३०।६)

yasya chāyāṃ samāśritya sadyo bhavati nirvṛtaḥ ||

31.1३१.१

तम् उवाच खगश्रेष्ठं तत्र रोहिणपादपः । (३१।१)

tam uvāca khagaśreṣṭhaṃ tatra rohiṇapādapaḥ |

31.2३१.२

अतिप्रवृद्धः सुमहान् आपतन्तं मनोजवम् ॥ (३१।२)

atipravṛddhaḥ sumahān āpatantaṃ manojavam ||

32.1३२.१

यैषा मम महाशाखा शतयोजनम् आयता । (३२।१)

yaiṣā mama mahāśākhā śatayojanam āyatā |

32.2३२.२

एताम् आस्थाय शाखां त्वं खादेमौ गजकच्छपौ ॥ (३२।२)

etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau ||

33.1३३.१

ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन् । (३३।१)

tato drumaṃ patagasahasrasevitaṃ mahīdharapratimavapuḥ prakampayan |

33.2३३.२

खगोत्तमो द्रुतम् अभिपत्य वेगवान् बभञ्ज ताम् अविरलपत्रसंवृताम् ॥ (३३।२)

khagottamo drutam abhipatya vegavān babhañja tām aviralapatrasaṃvṛtām ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 25

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit