महाभारतMahābhārata

MBh, 3, 251

549 of 1995 · 48 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशम्पायन उवाच । (१।१)

vaiśampāyana uvāca

1.2१.२

अथासीनेषु सर्वेषु तेषु राजसु भारत । (१।२)

athāsīneṣu sarveṣu teṣu rājasu bhārata |

1.3१.३

कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरको ऽब्रवीत् ॥ (१।३)

koṭikāśyavacaḥ śrutvā śaibyaṃ sauvīrako 'bravīt ||

2.1२.१

यदा वाचं व्याहरन्त्याम् अस्यां मे रमते मनः । (२।१)

yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ |

2.2२.२

सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान् ॥ (२।२)

sīmantinīnāṃ mukhyāyāṃ vinivṛttaḥ kathaṃ bhavān ||

3.1३.१

एतां दृष्ट्वा स्त्रियो मे ऽन्या यथा शाखामृगस्त्रियः । (३।१)

etāṃ dṛṣṭvā striyo me 'nyā yathā śākhāmṛgastriyaḥ |

3.2३.२

प्रतिभान्ति महाबाहो सत्यम् एतद् ब्रवीमि ते ॥ (३।२)

pratibhānti mahābāho satyam etad bravīmi te ||

4.1४.१

दर्शनाद् एव हि मनस् तया मे ऽपहृतं भृशम् । (४।१)

darśanād eva hi manas tayā me 'pahṛtaṃ bhṛśam |

4.2४.२

तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी ॥ (४।२)

tāṃ samācakṣva kalyāṇīṃ yadi syācchaibya mānuṣī ||

5.1५.१

कोटिकाश्य उवाच । (५।१)

koṭikāśya uvāca

5.2५.२

एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी । (५।२)

eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī |

5.3५.३

पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् ॥ (५।३)

pañcānāṃ pāṇḍuputrāṇāṃ mahiṣī saṃmatā bhṛśam ||

6.1६.१

सर्वेषां चैव पार्थानां प्रिया बहुमता सती । (६।१)

sarveṣāṃ caiva pārthānāṃ priyā bahumatā satī |

6.2६.२

तया समेत्य सौवीर सुवीरान् सुसुखी व्रज ॥ (६।२)

tayā sametya sauvīra suvīrān susukhī vraja ||

7.1७.१

वैशम्पायन उवाच । (७।१)

vaiśampāyana uvāca

7.2७.२

एवम् उक्तः प्रत्युवाच पश्यामो द्रौपदीम् इति । (७।२)

evam uktaḥ pratyuvāca paśyāmo draupadīm iti |

7.3७.३

पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ॥ (७।३)

patiḥ sauvīrasindhūnāṃ duṣṭabhāvo jayadrathaḥ ||

8.1८.१

स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा । (८।१)

sa praviśyāśramaṃ śūnyaṃ siṃhagoṣṭhaṃ vṛko yathā |

8.2८.२

आत्मना सप्तमः कृष्णाम् इदं वचनम् अब्रवीत् ॥ (८।२)

ātmanā saptamaḥ kṛṣṇām idaṃ vacanam abravīt ||

9.1९.१

कुशलं ते वरारोहे भर्तारस् ते ऽप्यनामयाः । (९।१)

kuśalaṃ te varārohe bhartāras te 'pyanāmayāḥ |

9.2९.२

येषां कुशलकामासि ते ऽपि कच्चिद् अनामयाः ॥ (९।२)

yeṣāṃ kuśalakāmāsi te 'pi kaccid anāmayāḥ ||

10.1१०.१

द्रौपद्युवाच । (१०।१)

draupadyuvāca |

10.2१०.२

कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः । (१०।२)

kauravyaḥ kuśalī rājā kuntīputro yudhiṣṭhiraḥ |

10.3१०.३

अहं च भ्रातरश् चास्य यांश्चान्यान् परिपृच्छसि ॥ (१०।३)

ahaṃ ca bhrātaraś cāsya yāṃścānyān paripṛcchasi ||

11.1११.१

पाद्यं प्रतिगृहाणेदम् आसनं च नृपात्मज । (११।१)

pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja |

11.2११.२

मृगान् पञ्चाशतं चैव प्रातराशं ददानि ते ॥ (११।२)

mṛgān pañcāśataṃ caiva prātarāśaṃ dadāni te ||

12.1१२.१

ऐणेयान् पृषतान् न्यङ्कून् हरिणाञ्शरभाञ्शशान् । (१२।१)

aiṇeyān pṛṣatān nyaṅkūn hariṇāñśarabhāñśaśān |

12.2१२.२

ऋश्यान् रुरूञ्शम्बरांश्च गवयांश्च मृगान् बहून् ॥ (१२।२)

ṛśyān rurūñśambarāṃśca gavayāṃśca mṛgān bahūn ||

13.1१३.१

वराहान् महिषांश्चैव याश्चान्या मृगजातयः । (१३।१)

varāhān mahiṣāṃścaiva yāścānyā mṛgajātayaḥ |

13.2१३.२

प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः ॥ (१३।२)

pradāsyati svayaṃ tubhyaṃ kuntīputro yudhiṣṭhiraḥ ||

14.1१४.१

जयद्रथ उवाच । (१४।१)

jayadratha uvāca

14.2१४.२

कुशलं प्रातराशस्य सर्वा मे ऽपचितिः कृता । (१४।२)

kuśalaṃ prātarāśasya sarvā me 'pacitiḥ kṛtā |

14.3१४.३

एहि मे रथम् आरोह सुखम् आप्नुहि केवलम् ॥ (१४।३)

ehi me ratham āroha sukham āpnuhi kevalam ||

15.1१५.१

गतश्रीकांश् च्युतान् राज्यात् कृपणान् गतचेतसः । (१५।१)

gataśrīkāṃś cyutān rājyāt kṛpaṇān gatacetasaḥ |

15.2१५.२

अरण्यवासिनः पार्थान् नानुरोद्धुं त्वम् अर्हसि ॥ (१५।२)

araṇyavāsinaḥ pārthān nānuroddhuṃ tvam arhasi ||

16.1१६.१

न वै प्राज्ञा गतश्रीकं भर्तारम् उपयुञ्जते । (१६।१)

na vai prājñā gataśrīkaṃ bhartāram upayuñjate |

16.2१६.२

युञ्जानम् अनुयुञ्जीत न श्रियः संक्षये वसेत् ॥ (१६।२)

yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset ||

17.1१७.१

श्रिया विहीना राज्याच्च विनष्टाः शाश्वतीः समाः । (१७।१)

śriyā vihīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ |

17.2१७.२

अलं ते पाण्डुपुत्राणां भक्त्या क्लेशम् उपासितुम् ॥ (१७।२)

alaṃ te pāṇḍuputrāṇāṃ bhaktyā kleśam upāsitum ||

18.1१८.१

भार्या मे भव सुश्रोणि त्यजैनान् सुखम् आप्नुहि । (१८।१)

bhāryā me bhava suśroṇi tyajainān sukham āpnuhi |

18.2१८.२

अखिलान् सिन्धुसौवीरान् अवाप्नुहि मया सह ॥ (१८।२)

akhilān sindhusauvīrān avāpnuhi mayā saha ||

19.1१९.१

वैशम्पायन उवाच । (१९।१)

vaiśampāyana uvāca

19.2१९.२

इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् । (१९।२)

ityuktā sindhurājena vākyaṃ hṛdayakampanam |

19.3१९.३

कृष्णा तस्माद् अपाक्रामद् देशात् सभ्रुकुटीमुखी ॥ (१९।३)

kṛṣṇā tasmād apākrāmad deśāt sabhrukuṭīmukhī ||

20.1२०.१

अवमत्यास्य तद् वाक्यम् आक्षिप्य च सुमध्यमा । (२०।१)

avamatyāsya tad vākyam ākṣipya ca sumadhyamā |

20.2२०.२

मैवम् इत्यब्रवीत् कृष्णा लज्जस्वेति च सैन्धवम् ॥ (२०।२)

maivam ityabravīt kṛṣṇā lajjasveti ca saindhavam ||

21.1२१.१

सा काङ्क्षमाणा भर्तॄणाम् उपयानम् अनिन्दिता । (२१।१)

sā kāṅkṣamāṇā bhartṝṇām upayānam aninditā |

21.2२१.२

विलोभयामास परं वाक्यैर् वाक्यानि युञ्जती ॥ (२१।२)

vilobhayāmāsa paraṃ vākyair vākyāni yuñjatī ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 251

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit