महाभारतMahābhārata

MBh, 4, 5

602 of 1995 · 211 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः । (१।२)

te vīrā baddhanistriṃśāstatāyudhakalāpinaḥ |

1.3१.३

बद्धगोधाङ्गुलित्राणाः कालिन्दीम् अभितो ययुः ॥ (१।३)

baddhagodhāṅgulitrāṇāḥ kālindīm abhito yayuḥ ||

2.1२.१

ततस्ते दक्षिणं तीरम् अन्वगच्छन् पदातयः । (२।१)

tataste dakṣiṇaṃ tīram anvagacchan padātayaḥ |

2.2२.२

सिंहान् व्याघ्रान् वराहांश्च मारयन्ति च सर्वशः । (२।२)

siṃhān vyāghrān varāhāṃśca mārayanti ca sarvaśaḥ |

2.3२.३

निवृत्तवनवासा वै स्वराष्ट्रं प्रेप्सवस्तदा । (२।३)

nivṛttavanavāsā vai svarāṣṭraṃ prepsavastadā |

2.4२.४

ततः प्रत्यक् प्रयातास्ते संक्रामन्तो वनाद् वनम् । (२।४)

tataḥ pratyak prayātāste saṃkrāmanto vanād vanam |

2.5२.५

वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः । (२।५)

vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ |

2.6२.६

पल्वलेषु च रम्येषु नदीनां संगमेषु च । (२।६)

palvaleṣu ca ramyeṣu nadīnāṃ saṃgameṣu ca |

2.7२.७

द्रुमान् नानाविधाकारान् नानाविधलताकुलान् । (२।७)

drumān nānāvidhākārān nānāvidhalatākulān |

2.8२.८

कुसुमाढ्यान्मनःकान्ताञ्शुभगन्धमनोरमान् । (२।८)

kusumāḍhyānmanaḥkāntāñśubhagandhamanoramān |

2.9२.९

चम्पकान् बकुलांश्चैव पुंनागान् केतकीस्तथा । (२।९)

campakān bakulāṃścaiva puṃnāgān ketakīstathā |

2.10२.१०

पारिभद्रान् करञ्जांश्च अन्यांश्च विविधान् द्रुमान् । (२।१०)

pāribhadrān karañjāṃśca anyāṃśca vividhān drumān |

2.11२.११

पार्था निरीक्षमाणाश्च तान् द्रुमान् पुष्पमालिनः । (२।११)

pārthā nirīkṣamāṇāśca tān drumān puṣpamālinaḥ |

2.12२.१२

जिघ्रन्तः पुष्पगन्धांश्च सुसुगन्धान्मनोरमान् ॥ (२।१२)

jighrantaḥ puṣpagandhāṃśca susugandhānmanoramān ||

3.1३.१

विध्यन्तो मृगजातानि महेष्वासा महाबलाः । (३।१)

vidhyanto mṛgajātāni maheṣvāsā mahābalāḥ |

3.2३.२

उत्तरेण दशार्णांस्ते पाञ्चालान् दक्षिणेन तु । (३।२)

uttareṇa daśārṇāṃste pāñcālān dakṣiṇena tu |

3.3३.३

उषित्वा द्वादश समा वने परपुरंजयाः ॥ (३।३)

uṣitvā dvādaśa samā vane parapuraṃjayāḥ ||

4.1४.१

अन्तरेण यकृल्लोमाञ् शूरसेनांश्च पाण्डवाः । (४।१)

antareṇa yakṛllomāñ śūrasenāṃśca pāṇḍavāḥ |

4.2४.२

लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन् वनात् । (४।२)

lubdhā bruvāṇā matsyasya viṣayaṃ prāviśan vanāt |

4.3४.३

धन्विनो बद्धनिस्त्रिंशा विवर्णाः श्मश्रुधारिणः । (४।३)

dhanvino baddhanistriṃśā vivarṇāḥ śmaśrudhāriṇaḥ |

4.4४.४

गवाढ्यम् अर्थसम्पन्नं हृष्टपुष्टजनावृतम् । (४।४)

gavāḍhyam arthasampannaṃ hṛṣṭapuṣṭajanāvṛtam |

4.5४.५

तत्र धौम्यं महात्मानं पाण्डवेया व्यसर्जयन् । (४।५)

tatra dhaumyaṃ mahātmānaṃ pāṇḍaveyā vyasarjayan |

4.6४.६

अग्निहोत्रं परिचरन् सो ऽबुद्धो ऽवसद् आश्रमे । (४।६)

agnihotraṃ paricaran so 'buddho 'vasad āśrame |

4.7४.७

ततस्तेषु प्रयातेषु पाण्डवेषु महात्मसु । (४।७)

tatasteṣu prayāteṣu pāṇḍaveṣu mahātmasu |

4.8४.८

इन्द्रसेनमुखाश्चैव यथोक्तं प्राप्य निर्वृताः । (४।८)

indrasenamukhāścaiva yathoktaṃ prāpya nirvṛtāḥ |

4.9४.९

रथान् अश्वांश्च रक्षन्तः सुखम् ऊषुः सुसंवृताः ॥ (४।९)

rathān aśvāṃśca rakṣantaḥ sukham ūṣuḥ susaṃvṛtāḥ ||

5.1५.१

ततो जनपदं प्राप्य कृष्णा राजानम् अब्रवीत् । (५।१)

tato janapadaṃ prāpya kṛṣṇā rājānam abravīt |

5.2५.२

पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च । (५।२)

paśyaikapadyo dṛśyante kṣetrāṇi vividhāni ca |

5.3५.३

वृक्षांश्चोपवनोपेतान् ग्रामाणां नगरस्य च ॥ (५।३)

vṛkṣāṃścopavanopetān grāmāṇāṃ nagarasya ca ||

6.1६.१

व्यक्तं दूरे विराटस्य राजधानी भविष्यति । (६।१)

vyaktaṃ dūre virāṭasya rājadhānī bhaviṣyati |

6.2६.२

वसामेह परां रात्रिं बलवान्मे परिश्रमः । (६।२)

vasāmeha parāṃ rātriṃ balavānme pariśramaḥ |

6.3६.३

तच्छ्रुत्वा वचनं तस्याः प्राह राजा युधिष्ठिरः । (६।३)

tacchrutvā vacanaṃ tasyāḥ prāha rājā yudhiṣṭhiraḥ |

6.4६.४

युधिष्ठिरः । (६।४)

yudhiṣṭhiraḥ |

6.5६.५

इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन । (६।५)

imāṃ kamalapatrākṣīṃ draupadīṃ mādrinandana |

6.6६.६

बाहुभ्यां परिगृह्यैनां मुहूर्तं नकुल व्रज । (६।६)

bāhubhyāṃ parigṛhyaināṃ muhūrtaṃ nakula vraja |

6.7६.७

नेतो दूरे विराटस्य नगरं भरतर्षभ । (६।७)

neto dūre virāṭasya nagaraṃ bharatarṣabha |

6.8६.८

राजधान्यां निवत्स्यामः सुमुक्तम् इव नो वनम् । (६।८)

rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam |

6.9६.९

नकुलः । (६।९)

nakulaḥ |

6.10६.१०

पूर्वाह्णे मृगयां गत्वा वने विद्धा महामृगाः । (६।१०)

pūrvāhṇe mṛgayāṃ gatvā vane viddhā mahāmṛgāḥ |

6.11६.११

अटवी च मया दूरं सृता मृगवधेप्सुना । (६।११)

aṭavī ca mayā dūraṃ sṛtā mṛgavadhepsunā |

6.12६.१२

विषमा ह्यतिदुर्गा च वेगवत् परिधावता । (६।१२)

viṣamā hyatidurgā ca vegavat paridhāvatā |

6.13६.१३

सो ऽहं घर्माभितप्तो वै नैनाम् आदातुम् उत्सहे । (६।१३)

so 'haṃ gharmābhitapto vai nainām ādātum utsahe |

6.14६.१४

युधिष्ठिरः । (६।१४)

yudhiṣṭhiraḥ |

6.15६.१५

सहदेव त्वम् आदाय मुहूर्तं द्रौपदीं नय । (६।१५)

sahadeva tvam ādāya muhūrtaṃ draupadīṃ naya |

6.16६.१६

सहदेवः । (६।१६)

sahadevaḥ |

6.17६.१७

राजधान्यां निवत्स्यामः सुमुक्तम् इव नो वनम् । (६।१७)

rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam |

6.18६.१८

अहम् अप्यस्मि तृषितः क्षुधयाभिप्रपीडितः । (६।१८)

aham apyasmi tṛṣitaḥ kṣudhayābhiprapīḍitaḥ |

6.19६.१९

श्रान्तो घर्माभितप्तो वै नैनाम् आदातुम् उत्सहे ॥ (६।१९)

śrānto gharmābhitapto vai nainām ādātum utsahe ||

7.1७.१

युधिष्ठिर उवाच । (७।१)

yudhiṣṭhira uvāca

7.2७.२

धनंजय समुद्यम्य पाञ्चालीं वह भारत । (७।२)

dhanaṃjaya samudyamya pāñcālīṃ vaha bhārata |

7.3७.३

एहि वीर विशालाक्ष वीरसिंह इवार्जुन । (७।३)

ehi vīra viśālākṣa vīrasiṃha ivārjuna |

7.4७.४

इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम् । (७।४)

imāṃ kamalapatrākṣīṃ draupadīṃ drupadātmajām |

7.5७.५

परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज । (७।५)

parigṛhya muhūrtaṃ tvaṃ bāhubhyāṃ kuśalaṃ vraja |

7.6७.६

राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः ॥ (७।६)

rājadhānyāṃ nivatsyāmo vimuktāśca vanāditaḥ ||

8.1८.१

वैशंपायन उवाच । (८।१)

vaiśaṃpāyana uvāca

8.2८.२

गुरोर् वचनम् आज्ञाय सम्प्रहृष्टो धनंजयः । (८।२)

guror vacanam ājñāya samprahṛṣṭo dhanaṃjayaḥ |

8.3८.३

ताम् आदायार्जुनस्तूर्णं द्रौपदीं गजराड् इव । (८।३)

tām ādāyārjunastūrṇaṃ draupadīṃ gajarāḍ iva |

8.4८.४

प्रवव्राज महाबाहुर् अर्जुनः प्रियदर्शनः । (८।४)

pravavrāja mahābāhur arjunaḥ priyadarśanaḥ |

8.5८.५

जटिलो वल्कलधरः शरतूणधनुर्धरः । (८।५)

jaṭilo valkaladharaḥ śaratūṇadhanurdharaḥ |

8.6८.६

स्कन्धे कृत्वा वरारोहां बालाम् आयतलोचनाम् । (८।६)

skandhe kṛtvā varārohāṃ bālām āyatalocanām |

8.7८.७

सम्प्राप्य नगराभ्याशम् अवतारयद् अर्जुनः ॥ (८।७)

samprāpya nagarābhyāśam avatārayad arjunaḥ ||

9.1९.१

स राजधानीं सम्प्राप्य कौन्तेयो ऽर्जुनम् अब्रवीत् । (९।१)

sa rājadhānīṃ samprāpya kaunteyo 'rjunam abravīt |

9.2९.२

क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम् । (९।२)

kvāyudhāni samāsajya pravekṣyāmaḥ puraṃ vayam |

9.3९.३

इमानि पुरुषव्याघ्र आयुधानि परंतप । (९।३)

imāni puruṣavyāghra āyudhāni paraṃtapa |

9.4९.४

कस्मिन्न्यासयितव्यानि गुप्तिश्चैषां कथं भवेत् ॥ (९।४)

kasminnyāsayitavyāni guptiścaiṣāṃ kathaṃ bhavet ||

10.1१०.१

सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि । (१०।१)

sāyudhāśca vayaṃ tāta pravekṣyāmaḥ puraṃ yadi |

10.2१०.२

समुद्वेगं जनस्यास्य करिष्यामो न संशयः । (१०।२)

samudvegaṃ janasyāsya kariṣyāmo na saṃśayaḥ |

10.3१०.३

गाण्डीवं च महद् गाढं लोके च विदितं नृणाम् । (१०।३)

gāṇḍīvaṃ ca mahad gāḍhaṃ loke ca viditaṃ nṛṇām |

10.4१०.४

तच्चेद् आयुधम् आदाय गच्छामो नगरं वयम् । (१०।४)

tacced āyudham ādāya gacchāmo nagaraṃ vayam |

10.5१०.५

क्षिप्रम् अस्मान् विजानीयुर् मनुष्या नात्र संशयः । (१०।५)

kṣipram asmān vijānīyur manuṣyā nātra saṃśayaḥ |

10.6१०.६

कथं नाविष्कृताः स्यामो धार्तराष्ट्रस्य मारिष । (१०।६)

kathaṃ nāviṣkṛtāḥ syāmo dhārtarāṣṭrasya māriṣa |

10.7१०.७

आशङ्कां च करिष्यामो जनस्यास्य न संशयः ॥ (१०।७)

āśaṅkāṃ ca kariṣyāmo janasyāsya na saṃśayaḥ ||

11.1११.१

ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः । (११।१)

tato dvādaśa varṣāṇi praveṣṭavyaṃ vanaṃ punaḥ |

11.2११.२

एकस्मिन्न् अपि विज्ञाते प्रतिज्ञातं हि नस्तथा । (११।२)

ekasminn api vijñāte pratijñātaṃ hi nastathā |

11.3११.३

तस्माच्छस्त्राणि सर्वाणि प्रच्छाद्यान्यत्र यत्र वा । (११।३)

tasmācchastrāṇi sarvāṇi pracchādyānyatra yatra vā |

11.4११.४

वैशंपायनः । (११।४)

vaiśaṃpāyanaḥ |

11.5११.५

प्रविशेम पुरं श्रेष्ठं तथा सम्यक् कृतं भवेत् । (११।५)

praviśema puraṃ śreṣṭhaṃ tathā samyak kṛtaṃ bhavet |

11.6११.६

अजातशत्रोर् वचनं श्रुत्वा चैव महायशाः । (११।६)

ajātaśatror vacanaṃ śrutvā caiva mahāyaśāḥ |

11.7११.७

उवाच धर्मपुत्रं तम् अर्जुनः परवीरहा ॥ (११।७)

uvāca dharmaputraṃ tam arjunaḥ paravīrahā ||

12.1१२.१

अर्जुन उवाच । (१२।१)

arjuna uvāca

12.2१२.२

इयं कूटे मनुष्येन्द्र गहना महती शमी । (१२।२)

iyaṃ kūṭe manuṣyendra gahanā mahatī śamī |

12.3१२.३

भीमशाखा दुरारोहा श्मशानस्य समीपतः ॥ (१२।३)

bhīmaśākhā durārohā śmaśānasya samīpataḥ ||

13.1१३.१

न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव । (१३।१)

na cāpi vidyate kaścinmanuṣya iha pārthiva |

13.2१३.२

यो ऽस्मान्निदधतो द्रष्टा भवेच्छस्त्राणि पार्थिव । (१३।२)

yo 'smānnidadhato draṣṭā bhavecchastrāṇi pārthiva |

13.3१३.३

धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम् । (१३।३)

dhanurbhiḥ puruṣaṃ kṛtvā carmakeśāsthisaṃvṛtam |

13.4१३.४

उद्बन्धनम् इव कृत्वा च धनुर् ज्यापाशसंवृतम् । (१३।४)

udbandhanam iva kṛtvā ca dhanur jyāpāśasaṃvṛtam |

13.5१३.५

एवं परिहरिष्यन्ति मनुष्या वनचारिणः । (१३।५)

evaṃ parihariṣyanti manuṣyā vanacāriṇaḥ |

13.6१३.६

अत्रैवं नावबुध्यन्ते मनुष्याः केचिद् आयुधम् । (१३।६)

atraivaṃ nāvabudhyante manuṣyāḥ kecid āyudham |

13.7१३.७

उत्पथे हि वने जाता मृगव्यालनिषेविते । (१३।७)

utpathe hi vane jātā mṛgavyālaniṣevite |

13.8१३.८

विपुलाकीर्णशाखा च वायसैर् उपसेविता । (१३।८)

vipulākīrṇaśākhā ca vāyasair upasevitā |

13.9१३.९

स्नेहानुबद्धां पश्यामि दुरारोहाम् इमां शमीम् । (१३।९)

snehānubaddhāṃ paśyāmi durārohām imāṃ śamīm |

13.10१३.१०

समीपे च श्मशानस्य गहनस्य विशेषतः ॥ (१३।१०)

samīpe ca śmaśānasya gahanasya viśeṣataḥ ||

14.1१४.१

समासज्यायुधान्यस्यां गच्छामो नगरं प्रति । (१४।१)

samāsajyāyudhānyasyāṃ gacchāmo nagaraṃ prati |

14.2१४.२

एवम् अत्र यथाजोषं विहरिष्याम भारत । (१४।२)

evam atra yathājoṣaṃ vihariṣyāma bhārata |

14.3१४.३

एषा शमी पापहरा सदैव यात्रोत्सवानां विजयाय हेतुः । (१४।३)

eṣā śamī pāpaharā sadaiva yātrotsavānāṃ vijayāya hetuḥ |

14.4१४.४

अत्रायुधानां कृतसंनिवेशे कृतार्थकामा जयमङ्गलं च । (१४।४)

atrāyudhānāṃ kṛtasaṃniveśe kṛtārthakāmā jayamaṅgalaṃ ca |

14.5१४.५

प्रदक्षिणीकृत्य शमीलतां ते प्रणम्य चानर्चुर् अथ प्रवीराः । (१४।५)

pradakṣiṇīkṛtya śamīlatāṃ te praṇamya cānarcur atha pravīrāḥ |

14.6१४.६

मृत्पिण्डम् आदाय निजाञ्चलेन सूतिं चकार प्रथमं किरीटी । (१४।६)

mṛtpiṇḍam ādāya nijāñcalena sūtiṃ cakāra prathamaṃ kirīṭī |

14.7१४.७

शमी शमयते पापं शमी शमयते रिपून् । (१४।७)

śamī śamayate pāpaṃ śamī śamayate ripūn |

14.8१४.८

शमी शमयते रोगाञ्छमी सर्वार्थसाधना । (१४।८)

śamī śamayate rogāñchamī sarvārthasādhanā |

14.9१४.९

रामः सीतां समादाय त्वत्प्रसादाच्छमीतले । (१४।९)

rāmaḥ sītāṃ samādāya tvatprasādācchamītale |

14.10१४.१०

कृतकृत्यः पुरे प्राप्तः प्रसादात् ते तथास्तु मे ॥ (१४।१०)

kṛtakṛtyaḥ pure prāptaḥ prasādāt te tathāstu me ||

15.1१५.१

वैशंपायन उवाच । (१५।१)

vaiśaṃpāyana uvāca

15.2१५.२

एवम् उक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम् । (१५।२)

evam uktvā sa rājānaṃ dharmātmānaṃ yudhiṣṭhiram |

15.3१५.३

प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ । (१५।३)

pracakrame nidhānāya śastrāṇāṃ bharatarṣabha |

15.4१५.४

तानि सर्वाणि संनह्य पञ्च पञ्चाचलोपमाः । (१५।४)

tāni sarvāṇi saṃnahya pañca pañcācalopamāḥ |

15.5१५.५

आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान् । (१५।५)

āyudhāni kalāpāṃśca nistriṃśāṃścātulaprabhān |

15.6१५.६

ततो युधिष्ठिरो राजा सहदेवम् उवाच ह । (१५।६)

tato yudhiṣṭhiro rājā sahadevam uvāca ha |

15.7१५.७

आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः । (१५।७)

āruhyemāṃ śamīṃ vīra nidhatsvehāyudhāni naḥ |

15.8१५.८

इति संदिश्य तं पार्थः पुनर् एव धनंजयम् । (१५।८)

iti saṃdiśya taṃ pārthaḥ punar eva dhanaṃjayam |

15.9१५.९

अब्रवीद् आयुधानीह निधातुं भरतर्षभ ॥ (१५।९)

abravīd āyudhānīha nidhātuṃ bharatarṣabha ||

16.1१६.१

येन देवान्मनुष्यांश्च सर्पांश्चैकरथो ऽजयत् । (१६।१)

yena devānmanuṣyāṃśca sarpāṃścaikaratho 'jayat |

16.2१६.२

पिशाचोरगराक्षसान् [॥। औ५ ज़ेइछेन्झ्] । (१६।२)

piśācoragarākṣasān |

16.3१६.३

निवातकवचांश्चापि पौलोमांश्च परंतपः । (१६।३)

nivātakavacāṃścāpi paulomāṃśca paraṃtapaḥ |

16.4१६.४

कालकेयांश्च दुर्धर्षान् । (१६।४)

kālakeyāṃśca durdharṣān |

16.5१६.५

स्फीताञ्जनपदांश्चान्यान् अजयत् कुरुनन्दनः ॥ (१६।५)

sphītāñjanapadāṃścānyān ajayat kurunandanaḥ ||

17.1१७.१

तद् उदारं महाघोषं सपत्नगणसूदनम् । (१७।१)

tad udāraṃ mahāghoṣaṃ sapatnagaṇasūdanam |

17.2१७.२

अपज्यम् अकरोत् पार्थो गाण्डीवम् अभयंकरम् ॥ (१७।२)

apajyam akarot pārtho gāṇḍīvam abhayaṃkaram ||

18.1१८.१

येन वीरः कुरुक्षेत्रम् अभ्यरक्षत् परंतपः । (१८।१)

yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ |

18.2१८.२

जृम्भिते च धनुष्यस्त्रं न्यासार्थं नृपसत्तमः । (१८।२)

jṛmbhite ca dhanuṣyastraṃ nyāsārthaṃ nṛpasattamaḥ |

18.3१८.३

धर्मपुत्रो महातेजाः सर्वलोकवशीकरम् । (१८।३)

dharmaputro mahātejāḥ sarvalokavaśīkaram |

18.4१८.४

भुजंगभोगसदृशं मणिकाञ्चनभूषितम् । (१८।४)

bhujaṃgabhogasadṛśaṃ maṇikāñcanabhūṣitam |

18.5१८.५

वित्रासनं दानवानां राक्षसानां च नित्यशः । (१८।५)

vitrāsanaṃ dānavānāṃ rākṣasānāṃ ca nityaśaḥ |

18.6१८.६

अमुञ्चद् धनुषस्तस्य ज्याम् अक्षय्यां युधिष्ठिरः ॥ (१८।६)

amuñcad dhanuṣastasya jyām akṣayyāṃ yudhiṣṭhiraḥ ||

19.1१९.१

पाञ्चालान् येन संग्रामे भीमसेनो ऽजयत् प्रभुः । (१९।१)

pāñcālān yena saṃgrāme bhīmaseno 'jayat prabhuḥ |

19.2१९.२

प्रत्यषेधद् बहून् एकः सपत्नांश्चैव दिग्जये ॥ (१९।२)

pratyaṣedhad bahūn ekaḥ sapatnāṃścaiva digjaye ||

20.1२०.१

निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे । (२०।१)

niśamya yasya visphāraṃ vyadravanta raṇe pare |

20.2२०.२

पर्वतस्येव दीर्णस्य विस्फोटम् अशनेर् इव ॥ (२०।२)

parvatasyeva dīrṇasya visphoṭam aśaner iva ||

21.1२१.१

सैन्धवं येन राजानं परामृषत चानघ । (२१।१)

saindhavaṃ yena rājānaṃ parāmṛṣata cānagha |

21.2२१.२

येन क्रोधवशाञ् जघ्ने पर्वते गन्धमादने । (२१।२)

yena krodhavaśāñ jaghne parvate gandhamādane |

21.3२१.३

दिव्यं सौगन्धिकं पुष्पं येनाजैषीत् स पाण्डवः । (२१।३)

divyaṃ saugandhikaṃ puṣpaṃ yenājaiṣīt sa pāṇḍavaḥ |

21.4२१.४

त्रिगर्तान् येन संग्रामे जित्वा त्रैगर्तम् आनयत् । (२१।४)

trigartān yena saṃgrāme jitvā traigartam ānayat |

21.5२१.५

इन्द्रायुधसमस्पर्शं वज्रहाटकभूषितम् । (२१।५)

indrāyudhasamasparśaṃ vajrahāṭakabhūṣitam |

21.6२१.६

ज्यापाशं धनुषस्तस्य भीमसेनो ऽवतारयत् । (२१।६)

jyāpāśaṃ dhanuṣastasya bhīmaseno 'vatārayat |

21.7२१.७

नकुलं पुनर् आहूय धर्मराजो युधिष्ठिरः । (२१।७)

nakulaṃ punar āhūya dharmarājo yudhiṣṭhiraḥ |

21.8२१.८

उवाच येन संग्रामे सर्वशत्रूञ् जिघांससि । (२१।८)

uvāca yena saṃgrāme sarvaśatrūñ jighāṃsasi |

21.9२१.९

सुराष्ट्राञ् जितवान् येन शार्ङ्गगाण्डीवसंनिभम् । (२१।९)

surāṣṭrāñ jitavān yena śārṅgagāṇḍīvasaṃnibham |

21.10२१.१०

सुवर्णविकृतं सारम् इन्द्रायुधनिभं वरम् । (२१।१०)

suvarṇavikṛtaṃ sāram indrāyudhanibhaṃ varam |

21.11२१.११

तवानुरूपं सुदृढं चापम् एतद् अलंकृतम् । (२१।११)

tavānurūpaṃ sudṛḍhaṃ cāpam etad alaṃkṛtam |

21.12२१.१२

तत् स्रंसयित्वा ज्यापाशं निधातुं धनुर् आहर । (२१।१२)

tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara |

21.13२१.१३

सहदेवं च सम्प्रेक्ष्य पुनर् धर्मसुतो ऽब्रवीत् । (२१।१३)

sahadevaṃ ca samprekṣya punar dharmasuto 'bravīt |

21.14२१.१४

कलिङ्गान् दाक्षिणात्यांश्च मागधांश्चारिमर्दन । (२१।१४)

kaliṅgān dākṣiṇātyāṃśca māgadhāṃścārimardana |

21.15२१.१५

येनैव शत्रून् समरे अधाक्षीर् अरिमर्दन । (२१।१५)

yenaiva śatrūn samare adhākṣīr arimardana |

21.16२१.१६

तत् स्रंसयित्वा ज्यापाशं निधातुं धनुर् आहर । (२१।१६)

tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara |

21.17२१.१७

अजयद् दक्षिणाम् आशां धनुषा येन पाण्डवः । (२१।१७)

ajayad dakṣiṇām āśāṃ dhanuṣā yena pāṇḍavaḥ |

21.18२१.१८

तद् असज्यं धनुश्चक्रे नकुलो धनुर् आत्मनः । (२१।१८)

tad asajyaṃ dhanuścakre nakulo dhanur ātmanaḥ |

21.19२१.१९

कलिङ्गान् दाक्षिणात्यांश्च येनाजयद् अरिंदमः ॥ (२१।१९)

kaliṅgān dākṣiṇātyāṃśca yenājayad ariṃdamaḥ ||

22.1२२.१

अजयत् पश्चिमाम् आशां धनुषा येन पाण्डवः । (२२।१)

ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ |

22.2२२.२

माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता । (२२।२)

mādrīputro mahābāhustāmrāsyo mitabhāṣitā |

22.3२२.३

तस्य मौर्वीम् अपाकर्षच्छूरः संक्रन्दनो युधि । (२२।३)

tasya maurvīm apākarṣacchūraḥ saṃkrandano yudhi |

22.4२२.४

कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः । (२२।४)

kule nāsti samo rūpe yasyeti nakulaḥ smṛtaḥ |

22.5२२.५

तेन तस्याभवन्नाम नकुलेति धनंजय ॥ (२२।५)

tena tasyābhavannāma nakuleti dhanaṃjaya ||

23.1२३.१

दक्षिणां दक्षिणाचारो दिशं येनाजयत् प्रभुः । (२३।१)

dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ |

23.2२३.२

यस्माल् लघुतरो नास्ति किंचिद् योद्धासि चर्मणि । (२३।२)

yasmāl laghutaro nāsti kiṃcid yoddhāsi carmaṇi |

23.3२३.३

अपज्यम् अकरोद् वीरः सहदेवस्तदायुधम् ॥ (२३।३)

apajyam akarod vīraḥ sahadevastadāyudham ||

24.1२४.१

खड्गांश्च पीतान् दीर्घांश्च कलापांश्च महाधनान् । (२४।१)

khaḍgāṃśca pītān dīrghāṃśca kalāpāṃśca mahādhanān |

24.2२४.२

विपाठान् क्षुरधारांश्च धनुर्भिर् निदधुः सह । (२४।२)

vipāṭhān kṣuradhārāṃśca dhanurbhir nidadhuḥ saha |

24.3२४.३

वैशंपायन उवाच । (२४।३)

vaiśaṃpāyana uvāca

24.4२४.४

अथान्वशात् स नकुलं कुन्तीपुत्रो युधिष्ठिरः । (२४।४)

athānvaśāt sa nakulaṃ kuntīputro yudhiṣṭhiraḥ |

24.5२४.५

आरुह्येमां शमीं वीर धनूंष्येतानि निक्षिप । (२४।५)

āruhyemāṃ śamīṃ vīra dhanūṃṣyetāni nikṣipa |

24.6२४.६

आयुधानि कलापांश्च गदाश्च विपुलास्तथा । (२४।६)

āyudhāni kalāpāṃśca gadāśca vipulāstathā |

24.7२४.७

तानि सर्वाणि संनह्य वासोभिः परिवेष्ट्य च । (२४।७)

tāni sarvāṇi saṃnahya vāsobhiḥ pariveṣṭya ca |

24.8२४.८

आरुह्य यावद् एतानि निधातुं विहगैर् वृताम् । (२४।८)

āruhya yāvad etāni nidhātuṃ vihagair vṛtām |

24.9२४.९

वैशंपायनः । (२४।९)

vaiśaṃpāyanaḥ |

24.10२४.१०

शमीम् आरुह्य महतीं निक्षिपाम्यायुधानि नः । (२४।१०)

śamīm āruhya mahatīṃ nikṣipāmyāyudhāni naḥ |

24.11२४.११

स हि धर्मेण धर्मात्मा तदा घोरतरे वने । (२४।११)

sa hi dharmeṇa dharmātmā tadā ghoratare vane |

24.12२४.१२

अरणीपर्वणः काले वरदत्तः परंतपः । (२४।१२)

araṇīparvaṇaḥ kāle varadattaḥ paraṃtapaḥ |

24.13२४.१३

तान्यायुधान्युपादाय कुन्तीपुत्रो युधिष्ठिरः । (२४।१३)

tānyāyudhānyupādāya kuntīputro yudhiṣṭhiraḥ |

24.14२४.१४

स वचः पुरुषव्याघ्रः प्रोवाच मधुराक्षरम् । (२४।१४)

sa vacaḥ puruṣavyāghraḥ provāca madhurākṣaram |

24.15२४.१५

युधिष्ठिरः । (२४।१५)

yudhiṣṭhiraḥ |

24.16२४.१६

युधिष्ठिरः शुचिर् भूत्वा मनसाभिप्रणम्य च । (२४।१६)

yudhiṣṭhiraḥ śucir bhūtvā manasābhipraṇamya ca |

24.17२४.१७

ब्रह्माणम् इन्द्रं वरदं कुबेरं वरुणानिलौ । (२४।१७)

brahmāṇam indraṃ varadaṃ kuberaṃ varuṇānilau |

24.18२४.१८

रुद्रं यमं च विष्णुं च सोमार्कौ धर्मम् एव च । (२४।१८)

rudraṃ yamaṃ ca viṣṇuṃ ca somārkau dharmam eva ca |

24.19२४.१९

पृथिवीम् अन्तरिक्षं च दिशश्चोपदिशस्तथा । (२४।१९)

pṛthivīm antarikṣaṃ ca diśaścopadiśastathā |

24.20२४.२०

वसूंश्च मरुतश्चैव ज्वलनं चातितेजसम् । (२४।२०)

vasūṃśca marutaścaiva jvalanaṃ cātitejasam |

24.21२४.२१

दिवाचरा रात्रिचराणि चापि । (२४।२१)

divācarā rātricarāṇi cāpi |

24.22२४.२२

यानीह भूतान्यनुकीर्तितानि । (२४।२२)

yānīha bhūtānyanukīrtitāni |

24.23२४.२३

तेभ्यो नमस्कृत्य च सुव्रतेभ्यः । (२४।२३)

tebhyo namaskṛtya ca suvratebhyaḥ |

24.24२४.२४

प्रणम्य तेषां शरणं गतो ऽहम् । (२४।२४)

praṇamya teṣāṃ śaraṇaṃ gato 'ham |

24.25२४.२५

सर्वायुधानीह महाबलानि । (२४।२५)

sarvāyudhānīha mahābalāni |

24.26२४.२६

न्यासं महादेवसमीपतो वै । (२४।२६)

nyāsaṃ mahādevasamīpato vai |

24.27२४.२७

न्यस्याम्यहं वायुसमीपतश्च । (२४।२७)

nyasyāmyahaṃ vāyusamīpataśca |

24.28२४.२८

वनस्पतीनां च सपर्वतानाम् । (२४।२८)

vanaspatīnāṃ ca saparvatānām |

24.29२४.२९

एष न्यासो मया दत्तः सूर्यसोमानिलान्तिके । (२४।२९)

eṣa nyāso mayā dattaḥ sūryasomānilāntike |

24.30२४.३०

मह्यं पार्थाय वा देयं पूर्णे वर्षे त्रयोदशे । (२४।३०)

mahyaṃ pārthāya vā deyaṃ pūrṇe varṣe trayodaśe |

24.31२४.३१

नेदं भीमे प्रदातव्यम् अयं क्रुद्धो वृकोदरः । (२४।३१)

nedaṃ bhīme pradātavyam ayaṃ kruddho vṛkodaraḥ |

24.32२४.३२

अमर्षान्नित्यसंरब्धो धृतराष्ट्रसुतान् प्रति । (२४।३२)

amarṣānnityasaṃrabdho dhṛtarāṣṭrasutān prati |

24.33२४.३३

अपूर्णकाले प्रहरेत् क्रोधसंजातमत्सरः । (२४।३३)

apūrṇakāle praharet krodhasaṃjātamatsaraḥ |

24.34२४.३४

पुनः प्रवेशो नः स्यात् तु वनवासाय सर्वथा । (२४।३४)

punaḥ praveśo naḥ syāt tu vanavāsāya sarvathā |

24.35२४.३५

समये परिपूर्णे तु धार्तराष्ट्रान्निहन्महे । (२४।३५)

samaye paripūrṇe tu dhārtarāṣṭrānnihanmahe |

24.36२४.३६

एष चार्थश्च धर्मश्च कामः कीर्तिः कुलं यशः । (२४।३६)

eṣa cārthaśca dharmaśca kāmaḥ kīrtiḥ kulaṃ yaśaḥ |

24.37२४.३७

वैशंपायनः । (२४।३७)

vaiśaṃpāyanaḥ |

24.38२४.३८

ममायत्तम् इदं सर्वं जीवितं च न संशयः । (२४।३८)

mamāyattam idaṃ sarvaṃ jīvitaṃ ca na saṃśayaḥ |

24.39२४.३९

सो ऽवतीर्य महाप्राज्ञः पाण्डवः सत्यविक्रमः । (२४।३९)

so 'vatīrya mahāprājñaḥ pāṇḍavaḥ satyavikramaḥ |

24.40२४.४०

भीमं कण्ठे परिष्वज्य चानुनीय नराधिपः । (२४।४०)

bhīmaṃ kaṇṭhe pariṣvajya cānunīya narādhipaḥ |

24.41२४.४१

दैवतेभ्यो नमस्कृत्वा शमीं कृत्वा प्रदक्षिणम् । (२४।४१)

daivatebhyo namaskṛtvā śamīṃ kṛtvā pradakṣiṇam |

24.42२४.४२

नगरं गन्तुम् आयाताः सर्वे ते भ्रातरः सह ॥ (२४।४२)

nagaraṃ gantum āyātāḥ sarve te bhrātaraḥ saha ||

25.1२५.१

ताम् उपारुह्य नकुलो धनूंषि निदधत् स्वयम् । (२५।१)

tām upāruhya nakulo dhanūṃṣi nidadhat svayam |

25.2२५.२

गाण्डीवं चापरं तत्र चतुर्भिर् निदधे सह । (२५।२)

gāṇḍīvaṃ cāparaṃ tatra caturbhir nidadhe saha |

25.3२५.३

यानि तस्यावकाशानि दृढरूपाण्यमन्यत ॥ (२५।३)

yāni tasyāvakāśāni dṛḍharūpāṇyamanyata ||

26.1२६.१

यत्र चापश्यत स वै तिरो वर्षाणि वर्षति । (२६।१)

yatra cāpaśyata sa vai tiro varṣāṇi varṣati |

26.2२६.२

तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत ॥ (२६।२)

tatra tāni dṛḍhaiḥ pāśaiḥ sugāḍhaṃ paryabandhata ||

27.1२७.१

शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः । (२७।१)

śarīraṃ ca mṛtasyaikaṃ samabadhnanta pāṇḍavāḥ |

27.2२७.२

विवर्जयिष्यन्ति नरा दूराद् एव शमीम् इमाम् । (२७।२)

vivarjayiṣyanti narā dūrād eva śamīm imām |

27.3२७.३

आबद्धं शवम् अत्रेति गन्धम् आघ्राय पूतिकम् ॥ (२७।३)

ābaddhaṃ śavam atreti gandham āghrāya pūtikam ||

28.1२८.१

अशीतिशतवर्षेयं माता न इति वादिनः । (२८।१)

aśītiśatavarṣeyaṃ mātā na iti vādinaḥ |

28.2२८.२

यया जाता स्म वृद्धा स्म इति वै व्याहरन्ति ते । (२८।२)

yayā jātā sma vṛddhā sma iti vai vyāharanti te |

28.3२८.३

कुलधर्मो ऽयम् अस्माकं पूर्वैर् आचरितो ऽपि च । (२८।३)

kuladharmo 'yam asmākaṃ pūrvair ācarito 'pi ca |

28.4२८.४

समासज्जाना वृक्षे ऽस्मिन्न् इति वै व्याहरन्ति ते । (२८।४)

samāsajjānā vṛkṣe 'sminn iti vai vyāharanti te |

28.5२८.५

तस्माद् वृक्षाद् अपाक्रम्य व्याहरन्तस्ततस्ततः ॥ (२८।५)

tasmād vṛkṣād apākramya vyāharantastatastataḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 4, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit