महाभारतMahābhārata

MBh, 8, 19

1169 of 1995 · 160 verses

Select a line for its word-by-word analysis.

1.1१.१

संजय उवाच । (१।१)

saṃjaya uvāca

1.2१.२

श्वेताश्वो ऽपि महाराज व्यधमत् तावकं बलम् । (१।२)

śvetāśvo 'pi mahārāja vyadhamat tāvakaṃ balam |

1.3१.३

यथा वायुः समासाद्य तूलराशिं समन्ततः ॥ (१।३)

yathā vāyuḥ samāsādya tūlarāśiṃ samantataḥ ||

2.1२.१

प्रत्युद्ययुस् त्रिगर्तास् तं शिबयः कौरवैः सह । (२।१)

pratyudyayus trigartās taṃ śibayaḥ kauravaiḥ saha |

2.2२.२

शाल्वाः संशप्तकाश् चैव नारायणबलं च यत् ॥ (२।२)

śālvāḥ saṃśaptakāś caiva nārāyaṇabalaṃ ca yat ||

3.1३.१

सत्यसेनः सत्यकीर्तिर् मित्रदेवः श्रुतंजयः । (३।१)

satyasenaḥ satyakīrtir mitradevaḥ śrutaṃjayaḥ |

3.2३.२

सौश्रुतिश् चित्रसेनश् च मित्रवर्मा च भारत ॥ (३।२)

sauśrutiś citrasenaś ca mitravarmā ca bhārata ||

4.1४.१

त्रिगर्तराजः समरे भ्रातृभिः परिवारितः । (४।१)

trigartarājaḥ samare bhrātṛbhiḥ parivāritaḥ |

4.2४.२

पुत्रैश् चैव महेष्वासैर् नानाशस्त्रधरैर् युधि ॥ (४।२)

putraiś caiva maheṣvāsair nānāśastradharair yudhi ||

5.1५.१

ते सृजन्तः शरव्रातान् किरन्तो ऽर्जुनम् आहवे । (५।१)

te sṛjantaḥ śaravrātān kiranto 'rjunam āhave |

5.2५.२

अभ्यद्रवन्त समरे वार्योघा इव सागरम् ॥ (५।२)

abhyadravanta samare vāryoghā iva sāgaram ||

6.1६.१

ते त्व् अर्जुनं समासाद्य योधाः शतसहस्रशः । (६।१)

te tv arjunaṃ samāsādya yodhāḥ śatasahasraśaḥ |

6.2६.२

अगच्छन् विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः ॥ (६।२)

agacchan vilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ ||

7.1७.१

ते वध्यमानाः समरे नाजहुः पाण्डवं तदा । (७।१)

te vadhyamānāḥ samare nājahuḥ pāṇḍavaṃ tadā |

7.2७.२

दह्यमाना यथा राजञ् शलभा इव पावकम् ॥ (७।२)

dahyamānā yathā rājañ śalabhā iva pāvakam ||

8.1८.१

सत्यसेनस् त्रिभिर् बाणैर् विव्याध युधि पाण्डवम् । (८।१)

satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam |

8.2८.२

मित्रदेवस् त्रिषष्ट्या च चन्द्रदेवश् च सप्तभिः ॥ (८।२)

mitradevas triṣaṣṭyā ca candradevaś ca saptabhiḥ ||

9.1९.१

मित्रवर्मा त्रिसप्तत्या सौश्रुतिश् चापि पञ्चभिः । (९।१)

mitravarmā trisaptatyā sauśrutiś cāpi pañcabhiḥ |

9.2९.२

शत्रुंजयश् च विंशत्या सुशर्मा नवभिः शरैः ॥ (९।२)

śatruṃjayaś ca viṃśatyā suśarmā navabhiḥ śaraiḥ ||

10.1१०.१

शत्रुंजयं च राजानं हत्वा तत्र शिलाशितैः । (१०।१)

śatruṃjayaṃ ca rājānaṃ hatvā tatra śilāśitaiḥ |

10.2१०.२

सौश्रुतेः सशिरस्त्राणं शिरः कायाद् अपाहरत् । (१०।२)

sauśruteḥ saśirastrāṇaṃ śiraḥ kāyād apāharat |

10.3१०.३

त्वरितश् चन्द्रदेवं च शरैर् निन्ये यमक्षयम् ॥ (१०।३)

tvaritaś candradevaṃ ca śarair ninye yamakṣayam ||

11.1११.१

अथेतरान् महाराज यतमानान् महारथान् । (११।१)

athetarān mahārāja yatamānān mahārathān |

11.2११.२

पञ्चभिः पञ्चभिर् बाणैर् एकैकं प्रत्यवारयत् ॥ (११।२)

pañcabhiḥ pañcabhir bāṇair ekaikaṃ pratyavārayat ||

12.1१२.१

सत्यसेनस् तु संक्रुद्धस् तोमरं व्यसृजन् महत् । (१२।१)

satyasenas tu saṃkruddhas tomaraṃ vyasṛjan mahat |

12.2१२.२

समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च ॥ (१२।२)

samuddiśya raṇe kṛṣṇaṃ siṃhanādaṃ nanāda ca ||

13.1१३.१

स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः । (१३।१)

sa nirbhidya bhujaṃ savyaṃ mādhavasya mahātmanaḥ |

13.2१३.२

अयस्मयो महाचण्डो जगाम धरणीं तदा ॥ (१३।२)

ayasmayo mahācaṇḍo jagāma dharaṇīṃ tadā ||

14.1१४.१

माधवस्य तु विद्धस्य तोमरेण महारणे । (१४।१)

mādhavasya tu viddhasya tomareṇa mahāraṇe |

14.2१४.२

प्रतोदः प्रापतद्धस्ताद् रश्मयश् च विशां पते ॥ (१४।२)

pratodaḥ prāpataddhastād raśmayaś ca viśāṃ pate ||

15.1१५.१

स प्रतोदं पुनर् गृह्य रश्मींश् चैव महायशाः । (१५।१)

sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ |

15.2१५.२

वाहयामास तान् अश्वान् सत्यसेनरथं प्रति ॥ (१५।२)

vāhayāmāsa tān aśvān satyasenarathaṃ prati ||

16.1१६.१

विष्वक्सेनं तु निर्भिन्नं प्रेक्ष्य पार्थो धनंजयः । (१६।१)

viṣvaksenaṃ tu nirbhinnaṃ prekṣya pārtho dhanaṃjayaḥ |

16.2१६.२

सत्यसेनं शरैस् तीक्ष्णैर् दारयित्वा महाबलः ॥ (१६।२)

satyasenaṃ śarais tīkṣṇair dārayitvā mahābalaḥ ||

17.1१७.१

ततः सुनिशितैर् बाणै राज्ञस् तस्य महच्छिरः । (१७।१)

tataḥ suniśitair bāṇai rājñas tasya mahacchiraḥ |

17.2१७.२

कुण्डलोपचितं कायाच् चकर्त पृतनान्तरे ॥ (१७।२)

kuṇḍalopacitaṃ kāyāc cakarta pṛtanāntare ||

18.1१८.१

तं निहत्य शितैर् बाणैर् मित्रवर्माणम् आक्षिपत् । (१८।१)

taṃ nihatya śitair bāṇair mitravarmāṇam ākṣipat |

18.2१८.२

वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष ॥ (१८।२)

vatsadantena tīkṣṇena sārathiṃ cāsya māriṣa ||

19.1१९.१

ततः शरशतैर् भूयः संशप्तकगणान् वशी । (१९।१)

tataḥ śaraśatair bhūyaḥ saṃśaptakagaṇān vaśī |

19.2१९.२

पातयामास संक्रुद्धः शतशो ऽथ सहस्रशः ॥ (१९।२)

pātayāmāsa saṃkruddhaḥ śataśo 'tha sahasraśaḥ ||

20.1२०.१

ततो रजतपुङ्खेन राज्ञः शीर्षं महात्मनः । (२०।१)

tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ |

20.2२०.२

मित्रदेवस्य चिछेद क्षुरप्रेण महायशाः । (२०।२)

mitradevasya cicheda kṣurapreṇa mahāyaśāḥ |

20.3२०.३

सुशर्माणं च संक्रुद्धो जत्रुदेशे समार्दयत् ॥ (२०।३)

suśarmāṇaṃ ca saṃkruddho jatrudeśe samārdayat ||

21.1२१.१

ततः संशप्तकाः सर्वे परिवार्य धनंजयम् । (२१।१)

tataḥ saṃśaptakāḥ sarve parivārya dhanaṃjayam |

21.2२१.२

शस्त्रौघैर् ममृदुः क्रुद्धा नादयन्तो दिशो दश ॥ (२१।२)

śastraughair mamṛduḥ kruddhā nādayanto diśo daśa ||

22.1२२.१

अभ्यर्दितस् तु तैर् जिष्णुः शक्रतुल्यपराक्रमः । (२२।१)

abhyarditas tu tair jiṣṇuḥ śakratulyaparākramaḥ |

22.2२२.२

ऐन्द्रम् अस्त्रम् अमेयात्मा प्रादुश्चक्रे महारथः । (२२।२)

aindram astram ameyātmā prāduścakre mahārathaḥ |

22.3२२.३

ततः शरसहस्राणि प्रादुरासन् विशां पते ॥ (२२।३)

tataḥ śarasahasrāṇi prādurāsan viśāṃ pate ||

23.1२३.१

ध्वजानां छिद्यमानानां कार्मुकाणां च संयुगे । (२३।१)

dhvajānāṃ chidyamānānāṃ kārmukāṇāṃ ca saṃyuge |

23.2२३.२

रथानां सपताकानां तूणीराणां शरैः सह ॥ (२३।२)

rathānāṃ sapatākānāṃ tūṇīrāṇāṃ śaraiḥ saha ||

24.1२४.१

अक्षाणाम् अथ योक्त्राणां चक्राणां रश्मिभिः सह । (२४।१)

akṣāṇām atha yoktrāṇāṃ cakrāṇāṃ raśmibhiḥ saha |

24.2२४.२

कूबराणां वरूथानां पृषत्कानां च संयुगे ॥ (२४।२)

kūbarāṇāṃ varūthānāṃ pṛṣatkānāṃ ca saṃyuge ||

25.1२५.१

अश्मनां पततां चैव प्रासानाम् ऋष्टिभिः सह । (२५।१)

aśmanāṃ patatāṃ caiva prāsānām ṛṣṭibhiḥ saha |

25.2२५.२

गदानां परिघाणां च शक्तीनां तोमरैः सह ॥ (२५।२)

gadānāṃ parighāṇāṃ ca śaktīnāṃ tomaraiḥ saha ||

26.1२६.१

शतघ्नीनां सचक्राणां भुजानाम् ऊरुभिः सह । (२६।१)

śataghnīnāṃ sacakrāṇāṃ bhujānām ūrubhiḥ saha |

26.2२६.२

कण्ठसूत्राङ्गदानां च केयूराणां च मारिष ॥ (२६।२)

kaṇṭhasūtrāṅgadānāṃ ca keyūrāṇāṃ ca māriṣa ||

27.1२७.१

हाराणाम् अथ निष्काणां तनुत्राणां च भारत । (२७।१)

hārāṇām atha niṣkāṇāṃ tanutrāṇāṃ ca bhārata |

27.2२७.२

छत्राणां व्यजनानां च शिरसां मुकुटैः सह । (२७।२)

chatrāṇāṃ vyajanānāṃ ca śirasāṃ mukuṭaiḥ saha |

27.3२७.३

अश्रूयत महाञ् शब्दस् तत्र तत्र विशां पते ॥ (२७।३)

aśrūyata mahāñ śabdas tatra tatra viśāṃ pate ||

28.1२८.१

सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च । (२८।१)

sakuṇḍalāni svakṣīṇi pūrṇacandranibhāni ca |

28.2२८.२

शिरांस्य् उर्व्याम् अदृश्यन्त तारागण इवाम्बरे ॥ (२८।२)

śirāṃsy urvyām adṛśyanta tārāgaṇa ivāmbare ||

29.1२९.१

सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च । (२९।१)

susragvīṇi suvāsāṃsi candanenokṣitāni ca |

29.2२९.२

शरीराणि व्यदृश्यन्त हतानां च महीतले । (२९।२)

śarīrāṇi vyadṛśyanta hatānāṃ ca mahītale |

29.3२९.३

गन्धर्वनगराकारं घोरम् आयोधनं तदा ॥ (२९।३)

gandharvanagarākāraṃ ghoram āyodhanaṃ tadā ||

30.1३०.१

निहतै राजपुत्रैश् च क्षत्रियैश् च महाबलैः । (३०।१)

nihatai rājaputraiś ca kṣatriyaiś ca mahābalaiḥ |

30.2३०.२

हस्तिभिः पतितैश् चैव तुरगैश् चाभवन् मही । (३०।२)

hastibhiḥ patitaiś caiva turagaiś cābhavan mahī |

30.3३०.३

अगम्यमार्गा समरे विशीर्णैर् इव पर्वतैः ॥ (३०।३)

agamyamārgā samare viśīrṇair iva parvataiḥ ||

31.1३१.१

नासीच् चक्रपथश् चैव पाण्डवस्य महात्मनः । (३१।१)

nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ |

31.2३१.२

निघ्नतः शात्रवान् भल्लैर् हस्त्यश्वं चामितं महत् ॥ (३१।२)

nighnataḥ śātravān bhallair hastyaśvaṃ cāmitaṃ mahat ||

32.1३२.१

आ तुम्बाद् अवसीदन्ति रथचक्राणि मारिष । (३२।१)

ā tumbād avasīdanti rathacakrāṇi māriṣa |

32.2३२.२

रणे विचरतस् तस्य तस्मिंल् लोहितकर्दमे ॥ (३२।२)

raṇe vicaratas tasya tasmiṃl lohitakardame ||

33.1३३.१

सीदमानानि चक्राणि समूहुस् तुरगा भृशम् । (३३।१)

sīdamānāni cakrāṇi samūhus turagā bhṛśam |

33.2३३.२

श्रमेण महता युक्ता मनोमारुतरंहसः ॥ (३३।२)

śrameṇa mahatā yuktā manomārutaraṃhasaḥ ||

34.1३४.१

वध्यमानं तु तत् सैन्यं पाण्डुपुत्रेण धन्विना । (३४।१)

vadhyamānaṃ tu tat sainyaṃ pāṇḍuputreṇa dhanvinā |

34.2३४.२

प्रायशो विमुखं सर्वं नावतिष्ठत संयुगे ॥ (३४।२)

prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge ||

35.1३५.१

ताञ् जित्वा समरे जिष्णुः संशप्तकगणान् बहून् । (३५।१)

tāñ jitvā samare jiṣṇuḥ saṃśaptakagaṇān bahūn |

35.2३५.२

रराज स महाराज विधूमो ऽग्निर् इव ज्वलन् ॥ (३५।२)

rarāja sa mahārāja vidhūmo 'gnir iva jvalan ||

36.1३६.१

युधिष्ठिरं महाराज विसृजन्तं शरान् बहून् । (३६।१)

yudhiṣṭhiraṃ mahārāja visṛjantaṃ śarān bahūn |

36.2३६.२

स्वयं दुर्योधनो राजा प्रत्यगृह्णाद् अभीतवत् ॥ (३६।२)

svayaṃ duryodhano rājā pratyagṛhṇād abhītavat ||

37.1३७.१

तम् आपतन्तं सहसा तव पुत्रं महाबलम् । (३७।१)

tam āpatantaṃ sahasā tava putraṃ mahābalam |

37.2३७.२

धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत् ॥ (३७।२)

dharmarājo drutaṃ viddhvā tiṣṭha tiṣṭheti cābravīt ||

38.1३८.१

सा च तं प्रतिविव्याध नवभिर् निशितैः शरैः । (३८।१)

sā ca taṃ prativivyādha navabhir niśitaiḥ śaraiḥ |

38.2३८.२

सारथिं चास्य भल्लेन भृशं क्रुद्धो ऽभ्यताडयत् ॥ (३८।२)

sārathiṃ cāsya bhallena bhṛśaṃ kruddho 'bhyatāḍayat ||

39.1३९.१

ततो युधिष्ठिरो राजा हेमपुङ्खाञ् शिलीमुखान् । (३९।१)

tato yudhiṣṭhiro rājā hemapuṅkhāñ śilīmukhān |

39.2३९.२

दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान् ॥ (३९।२)

duryodhanāya cikṣepa trayodaśa śilāśitān ||

40.1४०.१

चतुर्भिश् चतुरो वाहांस् तस्य हत्वा महारथः । (४०।१)

caturbhiś caturo vāhāṃs tasya hatvā mahārathaḥ |

40.2४०.२

पञ्चमेन शिरः कायात् सारथेस् तु समाक्षिपत् ॥ (४०।२)

pañcamena śiraḥ kāyāt sārathes tu samākṣipat ||

41.1४१.१

षष्ठेन च ध्वजं राज्ञः सप्तमेन च कार्मुकम् । (४१।१)

ṣaṣṭhena ca dhvajaṃ rājñaḥ saptamena ca kārmukam |

41.2४१.२

अष्टमेन तथा खड्गं पातयामास भूतले । (४१।२)

aṣṭamena tathā khaḍgaṃ pātayāmāsa bhūtale |

41.3४१.३

पञ्चभिर् नृपतिं चापि धर्मराजो ऽर्दयद् भृशम् ॥ (४१।३)

pañcabhir nṛpatiṃ cāpi dharmarājo 'rdayad bhṛśam ||

42.1४२.१

हताश्वात् तु रथात् तस्माद् अवप्लुत्य सुतस् तव । (४२।१)

hatāśvāt tu rathāt tasmād avaplutya sutas tava |

42.2४२.२

उत्तमं व्यसनं प्राप्तो भूमाव् एव व्यतिष्ठत ॥ (४२।२)

uttamaṃ vyasanaṃ prāpto bhūmāv eva vyatiṣṭhata ||

43.1४३.१

तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः । (४३।१)

taṃ tu kṛcchragataṃ dṛṣṭvā karṇadrauṇikṛpādayaḥ |

43.2४३.२

अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम् ॥ (४३।२)

abhyavartanta sahitāḥ parīpsanto narādhipam ||

44.1४४.१

अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् । (४४।१)

atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram |

44.2४४.२

अभ्ययुः समरे राजंस् ततो युद्धम् अवर्तत ॥ (४४।२)

abhyayuḥ samare rājaṃs tato yuddham avartata ||

45.1४५.१

अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे । (४५।१)

atha tūryasahasrāṇi prāvādyanta mahāmṛdhe |

45.2४५.२

क्ष्वेडाः किलकिलाशब्दाः प्रादुरासन् महीपते । (४५।२)

kṣveḍāḥ kilakilāśabdāḥ prādurāsan mahīpate |

45.3४५.३

यद् अभ्यगच्छन् समरे पाञ्चालाः कौरवैः सह ॥ (४५।३)

yad abhyagacchan samare pāñcālāḥ kauravaiḥ saha ||

46.1४६.१

नरा नरैः समाजग्मुर् वारणा वरवारणैः । (४६।१)

narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ |

46.2४६.२

रथाश् च रथिभिः सार्धं हयाश् च हयसादिभिः ॥ (४६।२)

rathāś ca rathibhiḥ sārdhaṃ hayāś ca hayasādibhiḥ ||

47.1४७.१

द्वंद्वान्य् आसन् महाराज प्रेक्षणीयानि संयुगे । (४७।१)

dvaṃdvāny āsan mahārāja prekṣaṇīyāni saṃyuge |

47.2४७.२

विस्मापनान्य् अचिन्त्यानि शस्त्रवन्त्य् उत्तमानि च ॥ (४७।२)

vismāpanāny acintyāni śastravanty uttamāni ca ||

48.1४८.१

अयुध्यन्त महावेगाः परस्परवधैषिणः । (४८।१)

ayudhyanta mahāvegāḥ parasparavadhaiṣiṇaḥ |

48.2४८.२

अन्योन्यं समरे जघ्नुर् योधव्रतम् अनुष्ठिताः । (४८।२)

anyonyaṃ samare jaghnur yodhavratam anuṣṭhitāḥ |

48.3४८.३

न हि ते समरं चक्रुः पृष्ठतो वै कथंचन ॥ (४८।३)

na hi te samaraṃ cakruḥ pṛṣṭhato vai kathaṃcana ||

49.1४९.१

मुहूर्तम् एव तद् युद्धम् आसीन् मधुरदर्शनम् । (४९।१)

muhūrtam eva tad yuddham āsīn madhuradarśanam |

49.2४९.२

तत उन्मत्तवद् राजन् निर्मर्यादम् अवर्तत ॥ (४९।२)

tata unmattavad rājan nirmaryādam avartata ||

50.1५०.१

रथी नागं समासाद्य विचरन् रणमूर्धनि । (५०।१)

rathī nāgaṃ samāsādya vicaran raṇamūrdhani |

50.2५०.२

प्रेषयामास कालाय शरैः संनतपर्वभिः ॥ (५०।२)

preṣayāmāsa kālāya śaraiḥ saṃnataparvabhiḥ ||

51.1५१.१

नागा हयान् समासाद्य विक्षिपन्तो बहून् अथ । (५१।१)

nāgā hayān samāsādya vikṣipanto bahūn atha |

51.2५१.२

द्रावयामासुर् अत्युग्रास् तत्र तत्र तदा तदा ॥ (५१।२)

drāvayāmāsur atyugrās tatra tatra tadā tadā ||

52.1५२.१

विद्राव्य च बहून् अश्वान् नागा राजन् बलोत्कटाः । (५२।१)

vidrāvya ca bahūn aśvān nāgā rājan balotkaṭāḥ |

52.2५२.२

विषाणैश् चापरे जघ्नुर् ममृदुश् चापरे भृशम् ॥ (५२।२)

viṣāṇaiś cāpare jaghnur mamṛduś cāpare bhṛśam ||

53.1५३.१

साश्वारोहांश् च तुरगान् विषाणैर् बिभिदू रणे । (५३।१)

sāśvārohāṃś ca turagān viṣāṇair bibhidū raṇe |

53.2५३.२

अपरांश् चिक्षिपुर् वेगात् प्रगृह्यातिबलास् तथा ॥ (५३।२)

aparāṃś cikṣipur vegāt pragṛhyātibalās tathā ||

54.1५४.१

पादातैर् आहता नागा विवरेषु समन्ततः । (५४।१)

pādātair āhatā nāgā vivareṣu samantataḥ |

54.2५४.२

चक्रुर् आर्तस्वरं घोरं व्यद्रवन्त दिशो दश ॥ (५४।२)

cakrur ārtasvaraṃ ghoraṃ vyadravanta diśo daśa ||

55.1५५.१

पदातीनां तु सहसा प्रद्रुतानां महामृधे । (५५।१)

padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe |

55.2५५.२

उत्सृज्याभरणं तूर्णम् अवप्लुत्य रणाजिरे ॥ (५५।२)

utsṛjyābharaṇaṃ tūrṇam avaplutya raṇājire ||

56.1५६.१

निमित्तं मन्यमानास् तु परिणम्य महागजाः । (५६।१)

nimittaṃ manyamānās tu pariṇamya mahāgajāḥ |

56.2५६.२

जगृहुर् बिभिदुश् चैव चित्राण्य् आभरणानि च ॥ (५६।२)

jagṛhur bibhiduś caiva citrāṇy ābharaṇāni ca ||

57.1५७.१

प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे । (५७।१)

pratimāneṣu kumbheṣu dantaveṣṭeṣu cāpare |

57.2५७.२

निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः ॥ (५७।२)

nigṛhītā bhṛśaṃ nāgāḥ prāsatomaraśaktibhiḥ ||

58.1५८.१

निगृह्य च गदाः केचित् पार्श्वस्थैर् भृशदारुणैः । (५८।१)

nigṛhya ca gadāḥ kecit pārśvasthair bhṛśadāruṇaiḥ |

58.2५८.२

रथाश्वसादिभिस् तत्र संभिन्ना न्यपतन् भुवि ॥ (५८।२)

rathāśvasādibhis tatra saṃbhinnā nyapatan bhuvi ||

59.1५९.१

सरथं सादिनं तत्र अपरे तु महागजाः । (५९।१)

sarathaṃ sādinaṃ tatra apare tu mahāgajāḥ |

59.2५९.२

भूमाव् अमृद्नन् वेगेन सवर्माणं पताकिनम् ॥ (५९।२)

bhūmāv amṛdnan vegena savarmāṇaṃ patākinam ||

60.1६०.१

रथं नागाः समासाद्य धुरि गृह्य च मारिष । (६०।१)

rathaṃ nāgāḥ samāsādya dhuri gṛhya ca māriṣa |

60.2६०.२

व्याक्षिपन् सहसा तत्र घोररूपे महामृधे ॥ (६०।२)

vyākṣipan sahasā tatra ghorarūpe mahāmṛdhe ||

61.1६१.१

नाराचैर् निहतश् चापि निपपात महागजः । (६१।१)

nārācair nihataś cāpi nipapāta mahāgajaḥ |

61.2६१.२

पर्वतस्येव शिखरं वज्रभग्नं महीतले ॥ (६१।२)

parvatasyeva śikharaṃ vajrabhagnaṃ mahītale ||

62.1६२.१

योधा योधान् समासाद्य मुष्टिभिर् व्यहनन् युधि । (६२।१)

yodhā yodhān samāsādya muṣṭibhir vyahanan yudhi |

62.2६२.२

केशेष्व् अन्योन्यम् आक्षिप्य चिछिदुर् बिभिदुः सह ॥ (६२।२)

keśeṣv anyonyam ākṣipya cichidur bibhiduḥ saha ||

63.1६३.१

उद्यम्य च भुजाव् अन्यो निक्षिप्य च महीतले । (६३।१)

udyamya ca bhujāv anyo nikṣipya ca mahītale |

63.2६३.२

पदा चोरः समाक्रम्य स्फुरतो व्यहनच्छिरः ॥ (६३।२)

padā coraḥ samākramya sphurato vyahanacchiraḥ ||

64.1६४.१

मृतम् अन्यो महाराज पद्भ्यां ताडितवांस् तदा । (६४।१)

mṛtam anyo mahārāja padbhyāṃ tāḍitavāṃs tadā |

64.2६४.२

जीवतश् च तथैवान्यः शस्त्रं काये न्यमज्जयत् ॥ (६४।२)

jīvataś ca tathaivānyaḥ śastraṃ kāye nyamajjayat ||

65.1६५.१

मुष्टियुद्धं महच् चासीद् योधानां तत्र भारत । (६५।१)

muṣṭiyuddhaṃ mahac cāsīd yodhānāṃ tatra bhārata |

65.2६५.२

तथा केशग्रहश् चोग्रो बाहुयुद्धं च केवलम् ॥ (६५।२)

tathā keśagrahaś cogro bāhuyuddhaṃ ca kevalam ||

66.1६६.१

समासक्तस्य चान्येन अविज्ञातस् तथापरः । (६६।१)

samāsaktasya cānyena avijñātas tathāparaḥ |

66.2६६.२

जहार समरे प्राणान् नानाशस्त्रैर् अनेकधा ॥ (६६।२)

jahāra samare prāṇān nānāśastrair anekadhā ||

67.1६७.१

संसक्तेषु च योधेषु वर्तमाने च संकुले । (६७।१)

saṃsakteṣu ca yodheṣu vartamāne ca saṃkule |

67.2६७.२

कबन्धान्य् उत्थितानि स्म शतशो ऽथ सहस्रशः ॥ (६७।२)

kabandhāny utthitāni sma śataśo 'tha sahasraśaḥ ||

68.1६८.१

लोहितैः सिच्यमानानि शस्त्राणि कवचानि च । (६८।१)

lohitaiḥ sicyamānāni śastrāṇi kavacāni ca |

68.2६८.२

महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे ॥ (६८।२)

mahāraṅgānuraktāni vastrāṇīva cakāśire ||

69.1६९.१

एवम् एतन् महायुद्धं दारुणं भृशसंकुलम् । (६९।१)

evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam |

69.2६९.२

उन्मत्तरङ्गप्रतिमं शब्देनापूरयज् जगत् ॥ (६९।२)

unmattaraṅgapratimaṃ śabdenāpūrayaj jagat ||

70.1७०.१

नैव स्वे न परे राजन् विज्ञायन्ते शरातुराः । (७०।१)

naiva sve na pare rājan vijñāyante śarāturāḥ |

70.2७०.२

योद्धव्यम् इति युध्यन्ते राजानो जयगृद्धिनः ॥ (७०।२)

yoddhavyam iti yudhyante rājāno jayagṛddhinaḥ ||

71.1७१.१

स्वान् स्वे जघ्नुर् महाराज परांश् चैव समागतान् । (७१।१)

svān sve jaghnur mahārāja parāṃś caiva samāgatān |

71.2७१.२

उभयोः सेनयोर् वीरैर् व्याकुलं समपद्यत ॥ (७१।२)

ubhayoḥ senayor vīrair vyākulaṃ samapadyata ||

72.1७२.१

रथैर् भग्नैर् महाराज वारणैश् च निपातितैः । (७२।१)

rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ |

72.2७२.२

हयैश् च पतितैस् तत्र नरैश् च विनिपातितैः ॥ (७२।२)

hayaiś ca patitais tatra naraiś ca vinipātitaiḥ ||

73.1७३.१

अगम्यरूपा पृथिवी मांसशोणितकर्दमा । (७३।१)

agamyarūpā pṛthivī māṃsaśoṇitakardamā |

73.2७३.२

क्षणेनासीन् महाराज क्षतजौघप्रवर्तिनी ॥ (७३।२)

kṣaṇenāsīn mahārāja kṣatajaughapravartinī ||

74.1७४.१

पाञ्चालान् अवधीत् कर्णस् त्रिगर्तांश् च धनंजयः । (७४।१)

pāñcālān avadhīt karṇas trigartāṃś ca dhanaṃjayaḥ |

74.2७४.२

भीमसेनः कुरून् राजन् हस्त्यनीकं च सर्वशः ॥ (७४।२)

bhīmasenaḥ kurūn rājan hastyanīkaṃ ca sarvaśaḥ ||

75.1७५.१

एवम् एष क्षयो वृत्तः कुरुपाण्डवसेनयोः । (७५।१)

evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ |

75.2७५.२

अपराह्णे महाराज काङ्क्षन्त्योर् विपुलं जयम् ॥ (७५।२)

aparāhṇe mahārāja kāṅkṣantyor vipulaṃ jayam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 8, 19

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit