महाभारतMahābhārata

MBh, 1, 162

162 of 1995 · 71 verses

Select a line for its word-by-word analysis.

1.1१.१

गन्धर्व उवाच । (१।१)

gandharva uvāca

1.2१.२

एवम् उक्त्वा ततस्तूर्णं जगामोर्ध्वम् अनिन्दिता । (१।२)

evam uktvā tatastūrṇaṃ jagāmordhvam aninditā |

1.3१.३

तपती तपतीत्येवं विललापातुरो नृपः । (१।३)

tapatī tapatītyevaṃ vilalāpāturo nṛpaḥ |

1.4१.४

प्रास्खलच्चासकृद् राजा पुनर् उत्थाय धावति । (१।४)

prāskhalaccāsakṛd rājā punar utthāya dhāvati |

1.5१.५

धावमानस्तु तपतीम् अदृष्ट्वैव महीपतिः । (१।५)

dhāvamānastu tapatīm adṛṣṭvaiva mahīpatiḥ |

1.6१.६

स तु राजा पुनर् भूमौ तत्रैव निपपात ह । (१।६)

sa tu rājā punar bhūmau tatraiva nipapāta ha |

1.7१.७

अन्वेषमाणः सबलस्तं राजानं नृपोत्तमम् ॥ (१।७)

anveṣamāṇaḥ sabalastaṃ rājānaṃ nṛpottamam ||

2.1२.१

अमात्यः सानुयात्रस्तु तं ददर्श महावने । (२।१)

amātyaḥ sānuyātrastu taṃ dadarśa mahāvane |

2.2२.२

क्षितौ निपतितं काले शक्रध्वजम् इवोच्छ्रितम् ॥ (२।२)

kṣitau nipatitaṃ kāle śakradhvajam ivocchritam ||

3.1३.१

तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ । (३।१)

taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau |

3.2३.२

बभूव सो ऽस्य सचिवः संप्रदीप्त इवाग्निना ॥ (३।२)

babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā ||

4.1४.१

त्वरया चोपसंगम्य स्नेहाद् आगतसंभ्रमः । (४।१)

tvarayā copasaṃgamya snehād āgatasaṃbhramaḥ |

4.2४.२

तं समुत्थापयामास नृपतिं काममोहितम् ॥ (४।२)

taṃ samutthāpayāmāsa nṛpatiṃ kāmamohitam ||

5.1५.१

भूतलाद् भूमिपालेशं पितेव पतितं सुतम् । (५।१)

bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam |

5.2५.२

प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च ॥ (५।२)

prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca ||

6.1६.१

अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः । (६।१)

amātyastaṃ samutthāpya babhūva vigatajvaraḥ |

6.2६.२

उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् । (६।२)

uvāca cainaṃ kalyāṇyā vācā madhurayotthitam |

6.3६.३

मा भैर् मनुजशार्दूल भद्रं चास्तु तवानघ ॥ (६।३)

mā bhair manujaśārdūla bhadraṃ cāstu tavānagha ||

7.1७.१

क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम् । (७।१)

kṣutpipāsāpariśrāntaṃ tarkayāmāsa taṃ nṛpam |

7.2७.२

पतितं पातनं संख्ये शात्रवाणां महीतले ॥ (७।२)

patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale ||

8.1८.१

वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत् । (८।१)

vāriṇātha suśītena śirastasyābhyaṣecayat |

8.2८.२

अस्पृशन् मुकुटं राज्ञः पुण्डरीकसुगन्धिना ॥ (८।२)

aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā ||

9.1९.१

ततः प्रत्यागतप्राणस्तद् बलं बलवान् नृपः । (९।१)

tataḥ pratyāgataprāṇastad balaṃ balavān nṛpaḥ |

9.2९.२

सर्वं विसर्जयामास तम् एकं सचिवं विना ॥ (९।२)

sarvaṃ visarjayāmāsa tam ekaṃ sacivaṃ vinā ||

10.1१०.१

ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद् बलम् । (१०।१)

tatastasyājñayā rājño vipratasthe mahad balam |

10.2१०.२

स तु राजा गिरिप्रस्थे तस्मिन् पुनर् उपाविशत् । (१०।२)

sa tu rājā giriprasthe tasmin punar upāviśat |

10.3१०.३

चिन्तयानस्तु तपतीं तद्रूपाकृष्टमानसः । (१०।३)

cintayānastu tapatīṃ tadrūpākṛṣṭamānasaḥ |

10.4१०.४

उन्मत्तक इवासंज्ञस्तदासीद् भरतर्षभः ॥ (१०।४)

unmattaka ivāsaṃjñastadāsīd bharatarṣabhaḥ ||

11.1११.१

ततस्तस्मिन् गिरिवरे शुचिर् भूत्वा कृताञ्जलिः । (११।१)

tatastasmin girivare śucir bhūtvā kṛtāñjaliḥ |

11.2११.२

आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ । (११।२)

ārirādhayiṣuḥ sūryaṃ tasthāvūrdhvabhujaḥ kṣitau |

11.3११.३

पूजयानो दिनकरं भक्तियुक्तो महीपतिः ॥ (११।३)

pūjayāno dinakaraṃ bhaktiyukto mahīpatiḥ ||

12.1१२.१

जगाम मनसा चैव वसिष्ठम् ऋषिसत्तमम् । (१२।१)

jagāma manasā caiva vasiṣṭham ṛṣisattamam |

12.2१२.२

पुरोहितम् अमित्रघ्नस्तदा संवरणो नृपः ॥ (१२।२)

purohitam amitraghnastadā saṃvaraṇo nṛpaḥ ||

13.1१३.१

नक्तंदिनम् अथैकस्थे स्थिते तस्मिञ् जनाधिपे । (१३।१)

naktaṃdinam athaikasthe sthite tasmiñ janādhipe |

13.2१३.२

अथाजगाम विप्रर्षिस्तदा द्वादशमे ऽहनि ॥ (१३।२)

athājagāma viprarṣistadā dvādaśame 'hani ||

14.1१४.१

स विदित्वैव नृपतिं तपत्या हृतमानसम् । (१४।१)

sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam |

14.2१४.२

दिव्येन विधिना ज्ञात्वा भावितात्मा महान् ऋषिः ॥ (१४।२)

divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ ||

15.1१५.१

तथा तु नियतात्मानं स तं नृपतिसत्तमम् । (१५।१)

tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam |

15.2१५.२

आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया । (१५।२)

ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā |

15.3१५.३

भद्रं ते राजशार्दूल तपती याचते ह्यहम् । (१५।३)

bhadraṃ te rājaśārdūla tapatī yācate hyaham |

15.4१५.४

विवस्वतस्तदर्थे चेत्युक्त्वागाद् ऋषिसत्तमः ॥ (१५।४)

vivasvatastadarthe cetyuktvāgād ṛṣisattamaḥ ||

16.1१६.१

स तस्य मनुजेन्द्रस्य पश्यतो भगवान् ऋषिः । (१६।१)

sa tasya manujendrasya paśyato bhagavān ṛṣiḥ |

16.2१६.२

ऊर्ध्वम् आचक्रमे द्रष्टुं भास्करं भास्करद्युतिः । (१६।२)

ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ |

16.3१६.३

योजनानां तु नियुतं क्षणाद् गत्वा तपोधनः ॥ (१६।३)

yojanānāṃ tu niyutaṃ kṣaṇād gatvā tapodhanaḥ ||

17.1१७.१

सहस्रांशुं ततो विप्रः कृताञ्जलिर् उपस्थितः । (१७।१)

sahasrāṃśuṃ tato vipraḥ kṛtāñjalir upasthitaḥ |

17.2१७.२

वसिष्ठो ऽहम् इति प्रीत्या स चात्मानं न्यवेदयत् ॥ (१७।२)

vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat ||

18.1१८.१

तम् उवाच महातेजा विवस्वान् मुनिसत्तमम् । (१८।१)

tam uvāca mahātejā vivasvān munisattamam |

18.2१८.२

महर्षे स्वागतं ते ऽस्तु कथयस्व यथेच्छसि । (१८।२)

maharṣe svāgataṃ te 'stu kathayasva yathecchasi |

18.3१८.३

गन्धर्वः । (१८।३)

gandharvaḥ |

18.4१८.४

वसिष्ठः । (१८।४)

vasiṣṭhaḥ |

18.5१८.५

सूर्यः । (१८।५)

sūryaḥ |

18.6१८.६

योजनानां चतुःषष्टिं निमेषात् त्रिंशतं तथा । (१८।६)

yojanānāṃ catuḥṣaṣṭiṃ nimeṣāt triṃśataṃ tathā |

18.7१८.७

अश्वैर् गच्छति नित्यं यस्तत्पार्श्वस्थो ऽब्रवीद् इदम् । (१८।७)

aśvair gacchati nityaṃ yastatpārśvastho 'bravīd idam |

18.8१८.८

अजाय लोकत्रयभावनाय । (१८।८)

ajāya lokatrayabhāvanāya |

18.9१८.९

भूतात्मने गोपतये वृषाय । (१८।९)

bhūtātmane gopataye vṛṣāya |

18.10१८.१०

सूर्याय सर्गप्रलयालयाय । (१८।१०)

sūryāya sargapralayālayāya |

18.11१८.११

नमो महाकारुणिकोत्तमाय । (१८।११)

namo mahākāruṇikottamāya |

18.12१८.१२

विवस्वते ज्ञानभृद् अन्तरात्मने । (१८।१२)

vivasvate jñānabhṛd antarātmane |

18.13१८.१३

जगत्प्रदीपाय जगद्धितैषिणे । (१८।१३)

jagatpradīpāya jagaddhitaiṣiṇe |

18.14१८.१४

स्वयंभुवे दीप्तसहस्रचक्षुषे । (१८।१४)

svayaṃbhuve dīptasahasracakṣuṣe |

18.15१८.१५

सुरोत्तमायामिततेजसे नमः । (१८।१५)

surottamāyāmitatejase namaḥ |

18.16१८.१६

स्तुतो ऽस्मि वरदस्ते ऽहं वरं वरय सुव्रत । (१८।१६)

stuto 'smi varadaste 'haṃ varaṃ varaya suvrata |

18.17१८.१७

स्तुतिस्त्वयोक्ता भक्तानां जप्येयं वरदो ऽस्म्यहम् । (१८।१७)

stutistvayoktā bhaktānāṃ japyeyaṃ varado 'smyaham |

18.18१८.१८

नमः सवित्रे जगदेकचक्षुषे । (१८।१८)

namaḥ savitre jagadekacakṣuṣe |

18.19१८.१९

जगत्प्रसूतिस्थितिनाशहेतवे । (१८।१९)

jagatprasūtisthitināśahetave |

18.20१८.२०

त्रयीमयाय त्रिगुणात्मधारिणे । (१८।२०)

trayīmayāya triguṇātmadhāriṇe |

18.21१८.२१

विरिञ्चिनारायणशंकरात्मने । (१८।२१)

viriñcinārāyaṇaśaṃkarātmane |

18.22१८.२२

यद् इच्छसि महाभाग मत्तः प्रवदतां वर । (१८।२२)

yad icchasi mahābhāga mattaḥ pravadatāṃ vara |

18.23१८.२३

तत् ते दद्याम् अभिप्रेतं यद्यपि स्यात् सुदुर्लभम् । (१८।२३)

tat te dadyām abhipretaṃ yadyapi syāt sudurlabham |

18.24१८.२४

एवम् उक्तः स तेनर्षिर् वसिष्ठः प्रत्यभाषत । (१८।२४)

evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata |

18.25१८.२५

प्रणिपत्य विवस्वन्तं भानुमन्तं महातपाः ॥ (१८।२५)

praṇipatya vivasvantaṃ bhānumantaṃ mahātapāḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 162

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit