MBh, 3, 151
Select a line for its word-by-word analysis.
स गत्वा नलिनीं रम्यां राक्षसैर् अभिरक्षिताम् । (१।२)
sa gatvā nalinīṃ ramyāṃ rākṣasair abhirakṣitām |
पवित्रभूतां लोकस्य शुभाम् अद्भुतदर्शनाम् ॥ (३।२)
pavitrabhūtāṃ lokasya śubhām adbhutadarśanām ||
तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम् । (५।१)
tāṃ tu puṣkariṇīṃ ramyāṃ padmasaugandhikāyutām |
जातरूपमयैः पद्मैश् छन्नां परमगन्धिभिः ॥ (५।२)
jātarūpamayaiḥ padmaiś channāṃ paramagandhibhiḥ ||
गन्धर्वैर् अप्सरोभिश् च देवैश् च परमार्चिताम् ॥ (७।२)
gandharvair apsarobhiś ca devaiś ca paramārcitām ||
सेविताम् ऋषिभिर् दिव्यां यक्षैः किम्पुरुषैस् तथा । (८।१)
sevitām ṛṣibhir divyāṃ yakṣaiḥ kimpuruṣais tathā |
राक्षसैः किंनरैश् चैव गुप्तां वैश्रवणेन च ॥ (८।२)
rākṣasaiḥ kiṃnaraiś caiva guptāṃ vaiśravaṇena ca ||
तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः । (९।१)
tāṃ ca dṛṣṭvaiva kaunteyo bhīmaseno mahābalaḥ |
बभूव परमप्रीतो दिव्यं सम्प्रेक्ष्य तत् सरः ॥ (९।२)
babhūva paramaprīto divyaṃ samprekṣya tat saraḥ ||
रक्षन्ति शतसाहस्राश् चित्रायुधपरिच्छदाः ॥ (१०।२)
rakṣanti śatasāhasrāś citrāyudhaparicchadāḥ ||
ते तु दृष्ट्वैव कौन्तेयम् अजिनैः परिवारितम् । (११।१)
te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam |
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् ॥ (११।२)
rukmāṅgadadharaṃ vīraṃ bhīmaṃ bhīmaparākramam ||
सायुधं बद्धनिस्त्रिंशम् अशङ्कितम् अरिंदमम् । (१२।१)
sāyudhaṃ baddhanistriṃśam aśaṅkitam ariṃdamam |
पुष्करेप्सुम् उपायान्तम् अन्योन्यम् अभिचुक्रुशुः ॥ (१२।२)
puṣkarepsum upāyāntam anyonyam abhicukruśuḥ ||
यच्चिकीर्षुर् इह प्राप्तस्तत् संप्रष्टुम् इहार्हथ ॥ (१३।२)
yaccikīrṣur iha prāptastat saṃpraṣṭum ihārhatha ||
तेजोयुक्तम् अपृच्छन्त कस् त्वम् आख्यातुम् अर्हसि ॥ (१४।२)
tejoyuktam apṛcchanta kas tvam ākhyātum arhasi ||
यदर्थम् असि सम्प्राप्तस्तद् आचक्ष्व महाद्युते ॥ (१५।२)
yadartham asi samprāptastad ācakṣva mahādyute ||
Data courtesy of The Digital Corpus of Sanskrit.