MBh, 12, 131
Select a line for its word-by-word analysis.
स्वराष्ट्रात् परराष्ट्राच्च कोशं संजनयेन्नृपः । (१।२)
svarāṣṭrāt pararāṣṭrācca kośaṃ saṃjanayennṛpaḥ |
कोशाद्धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते ॥ (१।३)
kośāddhi dharmaḥ kaunteya rājyamūlaḥ pravartate ||
तस्मात् संजनयेत् कोशं संहृत्य परिपालयेत् । (२।१)
tasmāt saṃjanayet kośaṃ saṃhṛtya paripālayet |
अबलस्य कुतो राज्यम् अराज्ञः श्रीः कुतो भवेत् ॥ (४।२)
abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet ||
उच्चैर् वृत्तेः श्रियो हानिर् यथैव मरणं तथा । (५।१)
uccair vṛtteḥ śriyo hānir yathaiva maraṇaṃ tathā |
तस्मात् कोशं बलं मित्राण्यथ राजा विवर्धयेत् ॥ (५।२)
tasmāt kośaṃ balaṃ mitrāṇyatha rājā vivardhayet ||
न चास्याल्पेन तुष्यन्ति कार्यम् अभ्युत्सहन्ति च ॥ (६।२)
na cāsyālpena tuṣyanti kāryam abhyutsahanti ca ||
श्रियो हि कारणाद् राजा सत्क्रियां लभते पराम् । (७।१)
śriyo hi kāraṇād rājā satkriyāṃ labhate parām |
सास्य गूहति पापानि वासो गुह्यम् इव स्त्रियाः ॥ (७।२)
sāsya gūhati pāpāni vāso guhyam iva striyāḥ ||
ऋद्धिम् अस्यानुवर्तन्ते पुरा विप्रकृता जनाः । (८।१)
ṛddhim asyānuvartante purā viprakṛtā janāḥ |
उद्यच्छेद् एव न ग्लायेद् उद्यमो ह्येव पौरुषम् । (९।१)
udyacched eva na glāyed udyamo hyeva pauruṣam |
अप्यरण्यं समाश्रित्य चरेद् दस्युगणैः सह । (१०।१)
apyaraṇyaṃ samāśritya cared dasyugaṇaiḥ saha |
न त्वेवोद्धृतमर्यादैर् दस्युभिः सहितश्चरेत् । (१०।२)
na tvevoddhṛtamaryādair dasyubhiḥ sahitaścaret |
एकान्तेन ह्यमर्यादात् सर्वो ऽप्युद्विजते जनः । (११।१)
ekāntena hyamaryādāt sarvo 'pyudvijate janaḥ |
स्थापयेद् एव मर्यादां जनचित्तप्रसादिनीम् । (१२।१)
sthāpayed eva maryādāṃ janacittaprasādinīm |
नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि ॥ (१३।२)
nālaṃ gantuṃ ca viśvāsaṃ nāstike bhayaśaṅkini ||
यथा सद्भिः परादानम् अहिंसा दस्युभिस्तथा । (१४।१)
yathā sadbhiḥ parādānam ahiṃsā dasyubhistathā |
स्त्रिया मोषः परिस्थानं दस्युष्वेतद् विगर्हितम् ॥ (१५।३)
striyā moṣaḥ paristhānaṃ dasyuṣvetad vigarhitam ||
नशेषम् एवोपालभ्य न कुर्वन्तीति निश्चयः ॥ (१६।३)
naśeṣam evopālabhya na kurvantīti niścayaḥ ||
तस्मात् सशेषं कर्तव्यं स्वाधीनम् अपि दस्युभिः । (१७।१)
tasmāt saśeṣaṃ kartavyaṃ svādhīnam api dasyubhiḥ |
न बलस्थो ऽहम् अस्मीति नृशंसानि समाचरेत् ॥ (१७।२)
na balastho 'ham asmīti nṛśaṃsāni samācaret ||
Data courtesy of The Digital Corpus of Sanskrit.