MBh, 13, 124
Select a line for its word-by-word analysis.
सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर । (१।२)
satstrīṇāṃ samudācāraṃ sarvadharmabhṛtāṃ vara |
श्रोतुम् इच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह ॥ (१।३)
śrotum icchāmyahaṃ tvattastaṃ me brūhi pitāmaha ||
सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम् । (२।२)
sarvajñāṃ sarvadharmajñāṃ devaloke manasvinīm |
इमं लोकम् अनुप्राप्ता तस्मात् तत्त्वं वदस्व मे ॥ (६।२)
imaṃ lokam anuprāptā tasmāt tattvaṃ vadasva me ||
शाण्डिली निभृतं वाक्यं सुमनाम् इदम् अब्रवीत् ॥ (७।२)
śāṇḍilī nibhṛtaṃ vākyaṃ sumanām idam abravīt ||
अप्रमत्ता च भर्तारं कदाचिन्नाहम् अब्रुवम् ॥ (९।२)
apramattā ca bhartāraṃ kadācinnāham abruvam ||
देवतानां पितॄणां च ब्राह्मणानां च पूजने । (१०।१)
devatānāṃ pitṝṇāṃ ca brāhmaṇānāṃ ca pūjane |
अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी ॥ (१०।२)
apramattā sadāyuktā śvaśrūśvaśuravartinī ||
असद् वा हसितं किंचिद् अहितं वापि कर्मणा । (१२।१)
asad vā hasitaṃ kiṃcid ahitaṃ vāpi karmaṇā |
रहस्यम् अरहस्यं वा न प्रवर्तामि सर्वथा ॥ (१२।२)
rahasyam arahasyaṃ vā na pravartāmi sarvathā ||
कार्यार्थे निर्गतं चापि भर्तारं गृहम् आगतम् । (१३।१)
kāryārthe nirgataṃ cāpi bhartāraṃ gṛham āgatam |
यद् यच्च नाभिजानाति यद् भोज्यं नाभिनन्दति । (१४।१)
yad yacca nābhijānāti yad bhojyaṃ nābhinandati |
भक्ष्यं वाप्यथ वा लेह्यं तत् सर्वं वर्जयाम्यहम् ॥ (१४।२)
bhakṣyaṃ vāpyatha vā lehyaṃ tat sarvaṃ varjayāmyaham ||
कुटुम्बार्थे समानीतं यत् किंचित् कार्यम् एव तु । (१५।१)
kuṭumbārthe samānītaṃ yat kiṃcit kāryam eva tu |
प्रातर् उत्थाय तत् सर्वं कारयामि करोमि च ॥ (१५।२)
prātar utthāya tat sarvaṃ kārayāmi karomi ca ||
प्रवासं यदि मे भर्ता याति कार्येण केनचित् । (१६।१)
pravāsaṃ yadi me bhartā yāti kāryeṇa kenacit |
मङ्गलैर् बहुभिर् युक्ता भवामि नियता सदा ॥ (१६।२)
maṅgalair bahubhir yuktā bhavāmi niyatā sadā ||
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् । (१७।१)
añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam |
प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ॥ (१७।२)
prasādhanaṃ ca niṣkrānte nābhinandāmi bhartari ||
नोत्थापयामि भर्तारं सुखसुप्तम् अहं सदा । (१८।१)
notthāpayāmi bhartāraṃ sukhasuptam ahaṃ sadā |
नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा । (१९।१)
nāyāsayāmi bhartāraṃ kuṭumbārthe ca sarvadā |
यश्चेदं पाण्डवाख्यानं पठेत् पर्वणि पर्वणि । (२२।१)
yaścedaṃ pāṇḍavākhyānaṃ paṭhet parvaṇi parvaṇi |
स देवलोकं सम्प्राप्य नन्दने सुसुखं वसेत् ॥ (२२।२)
sa devalokaṃ samprāpya nandane susukhaṃ vaset ||
Data courtesy of The Digital Corpus of Sanskrit.