MBh, 15, 9
Select a line for its word-by-word analysis.
ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान् । (१।२)
tato rājñābhyanujñāto dhṛtarāṣṭraḥ pratāpavān |
मन्दप्राणगतिर् धीमान् कृच्छ्राद् इव समुद्धरन् । (२।१)
mandaprāṇagatir dhīmān kṛcchrād iva samuddharan |
तम् अन्वगच्छद् विदुरो विद्वान् सूतश्च संजयः । (३।१)
tam anvagacchad viduro vidvān sūtaśca saṃjayaḥ |
स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः । (४।१)
sa praviśya gṛhaṃ rājā kṛtapūrvāhṇikakriyaḥ |
तर्पयित्वा द्विजश्रेष्ठान् आहारम् अकरोत् तदा ॥ (४।२)
tarpayitvā dvijaśreṣṭhān āhāram akarot tadā ||
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी । (५।१)
gāndhārī caiva dharmajñā kuntyā saha manasvinī |
पाण्डवाश्च कुरुश्रेष्ठम् उपातिष्ठन्त तं नृपम् ॥ (६।२)
pāṇḍavāśca kuruśreṣṭham upātiṣṭhanta taṃ nṛpam ||
निषण्णं पाणिना पृष्ठे संस्पृशन्न् अम्बिकासुतः ॥ (७।२)
niṣaṇṇaṃ pāṇinā pṛṣṭhe saṃspṛśann ambikāsutaḥ ||
तत् तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन । (९।१)
tat tu śakyaṃ yathā tāta rakṣituṃ pāṇḍunandana |
राज्यं धर्मं च कौन्तेय विद्वान् असि निबोध तत् ॥ (९।२)
rājyaṃ dharmaṃ ca kaunteya vidvān asi nibodha tat ||
विद्यावृद्धान् सदैव त्वम् उपासीथा युधिष्ठिर । (१०।१)
vidyāvṛddhān sadaiva tvam upāsīthā yudhiṣṭhira |
शृणुयास्ते च यद् ब्रूयुः कुर्याश्चैवाविचारयन् ॥ (१०।२)
śṛṇuyāste ca yad brūyuḥ kuryāścaivāvicārayan ||
प्रातर् उत्थाय तान् राजन् पूजयित्वा यथाविधि । (११।१)
prātar utthāya tān rājan pūjayitvā yathāvidhi |
कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यम् आत्मनः ॥ (११।२)
kṛtyakāle samutpanne pṛcchethāḥ kāryam ātmanaḥ ||
ते तु संमानिता राजंस्त्वया राज्यहितार्थिना । (१२।१)
te tu saṃmānitā rājaṃstvayā rājyahitārthinā |
प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन ॥ (१२।२)
pravakṣyanti hitaṃ tāta sarvaṃ kauravanandana ||
हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा ॥ (१३।२)
hitāya vai bhaviṣyanti rakṣitaṃ draviṇaṃ yathā ||
अमात्यान् उपधातीतान् पितृपैतामहाञ् शुचीन् । (१४।१)
amātyān upadhātītān pitṛpaitāmahāñ śucīn |
दान्तान् कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः ॥ (१४।२)
dāntān karmasu sarveṣu mukhyānmukhyeṣu yojayeḥ ||
परीक्षितैर् बहुविधं स्वराष्ट्रेषु परेषु च ॥ (१५।२)
parīkṣitair bahuvidhaṃ svarāṣṭreṣu pareṣu ca ||
पुरं च ते सुगुप्तं स्याद् दृढप्राकारतोरणम् । (१६।१)
puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam |
तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च । (१७।१)
tasya dvārāṇi kāryāṇi paryāptāni bṛhanti ca |
सर्वतः सुविभक्तानि यन्त्रैर् आरक्षितानि च ॥ (१७।२)
sarvataḥ suvibhaktāni yantrair ārakṣitāni ca ||
पुरुषैर् अलम् अर्थज्ञैर् विदितैः कुलशीलतः । (१८।१)
puruṣair alam arthajñair viditaiḥ kulaśīlataḥ |
स्त्रियश्च ते सुगुप्ताः स्युर् वृद्धैर् आप्तैर् अधिष्ठिताः । (१९।२)
striyaśca te suguptāḥ syur vṛddhair āptair adhiṣṭhitāḥ |
शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर ॥ (१९।३)
śīlavadbhiḥ kulīnaiśca vidvadbhiśca yudhiṣṭhira ||
मन्त्रिणश्चैव कुर्वीथा द्विजान् विद्याविशारदान् । (२०।१)
mantriṇaścaiva kurvīthā dvijān vidyāviśāradān |
विनीतांश्च कुलीनांश्च धर्मार्थकुशलान् ऋजून् ॥ (२०।२)
vinītāṃśca kulīnāṃśca dharmārthakuśalān ṛjūn ||
तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह । (२१।१)
taiḥ sārdhaṃ mantrayethāstvaṃ nātyarthaṃ bahubhiḥ saha |
समस्तैर् अपि च व्यस्तैर् व्यपदेशेन केनचित् ॥ (२१।२)
samastair api ca vyastair vyapadeśena kenacit ||
सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः । (२२।१)
susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ |
सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गुकाः ॥ (२३।२)
sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ ||
मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् । (२४।१)
mantrabhede hi ye doṣā bhavanti pṛthivīkṣitām |
न ते शक्याः समाधातुं कथंचिद् इति मे मतिः ॥ (२४।२)
na te śakyāḥ samādhātuṃ kathaṃcid iti me matiḥ ||
दोषांश्च मन्त्रभेदेषु ब्रूयास्त्वं मन्त्रिमण्डले । (२५।१)
doṣāṃśca mantrabhedeṣu brūyāstvaṃ mantrimaṇḍale |
अभेदे च गुणान् राजन् पुनः पुनर् अरिंदम ॥ (२५।२)
abhede ca guṇān rājan punaḥ punar ariṃdama ||
यथा स्याद् विदितं राजंस्तथा कार्यम् अरिंदम ॥ (२६।२)
yathā syād viditaṃ rājaṃstathā kāryam ariṃdama ||
Data courtesy of The Digital Corpus of Sanskrit.