MBh, 1, 203
Select a line for its word-by-word analysis.
जग्मुस्तदा पराम् आर्तिं दृष्ट्वा तत् कदनं महत् ॥ (१।३)
jagmustadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat ||
ते ऽभिजग्मुर् जितक्रोधा जितात्मानो जितेन्द्रियाः । (२।१)
te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ |
सिद्धैर् ब्रह्मर्षिभिश्चैव समन्तात् परिवारितम् ॥ (३।२)
siddhair brahmarṣibhiścaiva samantāt parivāritam ||
चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ॥ (४।२)
candrādityau ca dharmaśca parameṣṭhī tathā budhaḥ ||
ततः पितामहः श्रुत्वा सर्वेषां तद् वचस्तदा । (९।१)
tataḥ pitāmahaḥ śrutvā sarveṣāṃ tad vacastadā |
मुहूर्तम् इव संचिन्त्य कर्तव्यस्य विनिश्चयम् ॥ (९।२)
muhūrtam iva saṃcintya kartavyasya viniścayam ||
तयोर् वधं समुद्दिश्य विश्वकर्माणम् आह्वयत् । (१०।१)
tayor vadhaṃ samuddiśya viśvakarmāṇam āhvayat |
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः । (१०।२)
dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ |
सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः ॥ (१०।३)
sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ ||
पितामहं नमस्कृत्य तद्वाक्यम् अभिनन्द्य च । (११।१)
pitāmahaṃ namaskṛtya tadvākyam abhinandya ca |
निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः ॥ (११।२)
nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ ||
त्रिषु लोकेषु यत् किंचिद् भूतं स्थावरजङ्गमम् । (१२।१)
triṣu lokeṣu yat kiṃcid bhūtaṃ sthāvarajaṅgamam |
समानयद् दर्शनीयं तत् तद् यत्नात् ततस्ततः ॥ (१२।२)
samānayad darśanīyaṃ tat tad yatnāt tatastataḥ ||
कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् । (१३।१)
koṭiśaścāpi ratnāni tasyā gātre nyaveśayat |
न तस्याः सूक्ष्मम् अप्यस्ति यद् गात्रे रूपसंपदा । (१५।१)
na tasyāḥ sūkṣmam apyasti yad gātre rūpasaṃpadā |
न युक्तं यत्र वा दृष्टिर् न सजति निरीक्षताम् ॥ (१५।२)
na yuktaṃ yatra vā dṛṣṭir na sajati nirīkṣatām ||
पितामहम् उपातिष्ठत् किं करोमीति चाब्रवीत् । (१६।२)
pitāmaham upātiṣṭhat kiṃ karomīti cābravīt |
प्रीतो भूत्वा स दृष्ट्वैव प्रीत्या चास्यै ददौ वरम् । (१६।३)
prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai dadau varam |
कान्तत्वं सर्वभूतानां स्वश्रियानुपमं वपुः । (१६।४)
kāntatvaṃ sarvabhūtānāṃ svaśriyānupamaṃ vapuḥ |
तिलं तिलं समानीय रत्नानां यद् विनिर्मिता । (१७।१)
tilaṃ tilaṃ samānīya ratnānāṃ yad vinirmitā |
ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर् वाक्यम् अब्रवीत् । (१७।३)
brahmāṇaṃ sā namaskṛtya prāñjalir vākyam abravīt |
किं कार्यं मयि भूतेश येनास्म्यद्येह निर्मिता । (१७।४)
kiṃ kāryaṃ mayi bhūteśa yenāsmyadyeha nirmitā |
ततस्तां चारुसर्वाङ्गीं मनःप्रह्लादिनीं शुभाम् । (१७।६)
tatastāṃ cārusarvāṅgīṃ manaḥprahlādinīṃ śubhām |
उवाच भगवान् देवः कार्यम् एतत् प्रसाध्यताम् ॥ (१७।७)
uvāca bhagavān devaḥ kāryam etat prasādhyatām ||
गच्छ सुन्दोपसुन्दाभ्याम् असुराभ्यां तिलोत्तमे । (१८।२)
gaccha sundopasundābhyām asurābhyāṃ tilottame |
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥ (१८।३)
prārthanīyena rūpeṇa kuru bhadre pralobhanam ||
विरोधः स्याद् यथा ताभ्याम् अन्योन्येन तथा कुरु ॥ (१९।२)
virodhaḥ syād yathā tābhyām anyonyena tathā kuru ||
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥ (२०।३)
cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam ||
प्राङ्मुखो भगवान् आस्ते दक्षिणेन महेश्वरः । (२१।१)
prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ |
देवाश्चैवोत्तरेणासन् सर्वतस्त्व् ऋषयो ऽभवन् ॥ (२१।२)
devāścaivottareṇāsan sarvatastv ṛṣayo 'bhavan ||
कुर्वन्त्या तु तया तत्र मण्डलं तत् प्रदक्षिणम् । (२२।१)
kurvantyā tu tayā tatra maṇḍalaṃ tat pradakṣiṇam |
ब्रह्मा विष्णुश्च भगवान् तृणीकृत्यावतिष्ठताम् । (२२।२)
brahmā viṣṇuśca bhagavān tṛṇīkṛtyāvatiṣṭhatām |
इन्द्रः स्थाणुश्च भगवान् धैर्येण प्रत्यवस्थितौ ॥ (२२।३)
indraḥ sthāṇuśca bhagavān dhairyeṇa pratyavasthitau ||
द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा । (२३।१)
draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatastadā |
अन्यद् अञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ॥ (२३।२)
anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham ||
पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् । (२४।१)
pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham |
गतायाश्चोत्तरं पार्श्वम् उत्तरं निःसृतं मुखम् ॥ (२४।२)
gatāyāścottaraṃ pārśvam uttaraṃ niḥsṛtaṃ mukham ||
महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतो ऽग्रतः । (२५।१)
mahendrasyāpi netrāṇāṃ pārśvataḥ pṛṣṭhato 'grataḥ |
रक्तान्तानां विशालानां सहस्रं सर्वतो ऽभवत् ॥ (२५।२)
raktāntānāṃ viśālānāṃ sahasraṃ sarvato 'bhavat ||
एवं चतुर्मुखः स्थाणुर् महादेवो ऽभवत् पुरा । (२६।१)
evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā |
मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा ॥ (२७।२)
mukhānyabhipravartante yena yāti tilottamā ||
तस्या गात्रे निपतिता तेषां दृष्टिर् महात्मनाम् । (२८।१)
tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām |
सर्वेषाम् एव भूयिष्ठम् ऋते देवं पितामहम् ॥ (२८।२)
sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham ||
गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः । (२९।१)
gacchantyāstu tadā devāḥ sarve ca paramarṣayaḥ |
कृतम् इत्येव तत् कार्यं मेनिरे रूपसंपदा ॥ (२९।२)
kṛtam ityeva tat kāryaṃ menire rūpasaṃpadā ||
सर्वान् विसर्जयामास देवान् ऋषिगणांश्च तान् । (३०।२)
sarvān visarjayāmāsa devān ṛṣigaṇāṃśca tān |
कृतं कार्यम् इति श्रीमान् अब्रवीच्च पितामहः ॥ (३०।३)
kṛtaṃ kāryam iti śrīmān abravīcca pitāmahaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.