महाभारतMahābhārata

MBh, 1, 207

207 of 1995 · 67 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

कथयित्वा तु तत् सर्वं ब्राह्मणेभ्यः स भारत । (१।२)

kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata |

1.3१.३

प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥ (१।३)

prayayau himavatpārśvaṃ tato vajradharātmajaḥ ||

2.1२.१

अगस्त्यवटम् आसाद्य वसिष्ठस्य च पर्वतम् । (२।१)

agastyavaṭam āsādya vasiṣṭhasya ca parvatam |

2.2२.२

भृगुतुङ्गे च कौन्तेयः कृतवाञ् शौचम् आत्मनः ॥ (२।२)

bhṛgutuṅge ca kaunteyaḥ kṛtavāñ śaucam ātmanaḥ ||

3.1३.१

प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च । (३।१)

pradadau gosahasrāṇi tīrtheṣvāyataneṣu ca |

3.2३.२

निवेशांश्च द्विजातिभ्यः सो ऽददत् कुरुसत्तमः ॥ (३।२)

niveśāṃśca dvijātibhyaḥ so 'dadat kurusattamaḥ ||

4.1४.१

हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः । (४।१)

hiraṇyabindostīrthe ca snātvā puruṣasattamaḥ |

4.2४.२

दृष्टवान् पर्वतश्रेष्ठं पुण्यान्यायतनानि च ॥ (४।२)

dṛṣṭavān parvataśreṣṭhaṃ puṇyānyāyatanāni ca ||

5.1५.१

अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत । (५।१)

avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata |

5.2५.२

प्राचीं दिशम् अभिप्रेप्सुर् जगाम भरतर्षभः ॥ (५।२)

prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ ||

6.1६.१

आनुपूर्व्येण तीर्थानि दृष्टवान् कुरुसत्तमः । (६।१)

ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ |

6.2६.२

नदीं चोत्पलिनीं रम्याम् अरण्यं नैमिषं प्रति ॥ (६।२)

nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati ||

7.1७.१

नन्दाम् अपरनन्दां च कौशिकीं च यशस्विनीम् । (७।१)

nandām aparanandāṃ ca kauśikīṃ ca yaśasvinīm |

7.2७.२

महानदीं गयां चैव गङ्गाम् अपि च भारत ॥ (७।२)

mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata ||

8.1८.१

एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् । (८।१)

evaṃ sarvāṇi tīrthāni paśyamānastathāśramān |

8.2८.२

आत्मनः पावनं कुर्वन् ब्राह्मणेभ्यो ददौ वसु ॥ (८।२)

ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu ||

9.1९.१

अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् । (९।१)

aṅgavaṅgakaliṅgeṣu yāni puṇyāni kānicit |

9.2९.२

जगाम तानि सर्वाणि तीर्थान्यायतनानि च । (९।२)

jagāma tāni sarvāṇi tīrthānyāyatanāni ca |

9.3९.३

दृष्ट्वा च विधिवत् तानि धनं चापि ददौ ततः ॥ (९।३)

dṛṣṭvā ca vidhivat tāni dhanaṃ cāpi dadau tataḥ ||

10.1१०.१

कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः । (१०।१)

kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ |

10.2१०.२

अभ्यनुज्ञाय कौन्तेयम् उपावर्तन्त भारत ॥ (१०।२)

abhyanujñāya kaunteyam upāvartanta bhārata ||

11.1११.१

स तु तैर् अभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः । (११।१)

sa tu tair abhyanujñātaḥ kuntīputro dhanaṃjayaḥ |

11.2११.२

सहायैर् अल्पकैः शूरः प्रययौ येन सागरम् ॥ (११।२)

sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram ||

12.1१२.१

स कलिङ्गान् अतिक्रम्य देशान् आयतनानि च । (१२।१)

sa kaliṅgān atikramya deśān āyatanāni ca |

12.2१२.२

धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः । (१२।२)

dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ |

12.3१२.३

शूर्पाकारम् अथाप्लुत्य सागरानूपम् आश्रितः ॥ (१२।३)

śūrpākāram athāplutya sāgarānūpam āśritaḥ ||

13.1१३.१

महेन्द्रपर्वतं दृष्ट्वा तापसैर् उपशोभितम् । (१३।१)

mahendraparvataṃ dṛṣṭvā tāpasair upaśobhitam |

13.2१३.२

गोदावर्यां ततः स्नात्वा ताम् अतीत्य महाबलः । (१३।२)

godāvaryāṃ tataḥ snātvā tām atītya mahābalaḥ |

13.3१३.३

कावेरीं तां समासाद्य संगमे सागरस्य ह । (१३।३)

kāverīṃ tāṃ samāsādya saṃgame sāgarasya ha |

13.4१३.४

स्नात्वा सम्पूज्य देवांश्च पितॄंश्च ऋषिभिः सह । (१३।४)

snātvā sampūjya devāṃśca pitṝṃśca ṛṣibhiḥ saha |

13.5१३.५

समुद्रतीरेण शनैर् मणलूरं जगाम ह ॥ (१३।५)

samudratīreṇa śanair maṇalūraṃ jagāma ha ||

14.1१४.१

तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च । (१४।१)

tatra sarvāṇi tīrthāni puṇyānyāyatanāni ca |

14.2१४.२

अथ त्रयोदशे मासे मणलूरेश्वरं प्रभुम् । (१४।२)

atha trayodaśe māse maṇalūreśvaraṃ prabhum |

14.3१४.३

अभिगम्य महाबाहुर् अभ्यगच्छन् महीपतिम् । (१४।३)

abhigamya mahābāhur abhyagacchan mahīpatim |

14.4१४.४

मणलूरेश्वरं राजन् धर्मज्ञं चित्रवाहनम् । (१४।४)

maṇalūreśvaraṃ rājan dharmajñaṃ citravāhanam |

14.5१४.५

सर्वशास्त्रेषु नेतारं सर्वास्त्रज्ञम् अकल्मषम् । (१४।५)

sarvaśāstreṣu netāraṃ sarvāstrajñam akalmaṣam |

14.6१४.६

धर्मे सत्ये दमे शौचे शौर्ये चैव विशेषतः । (१४।६)

dharme satye dame śauce śaurye caiva viśeṣataḥ |

14.7१४.७

द्विजराजऋषीणां च धार्मिकाणां महीतले । (१४।७)

dvijarājaṛṣīṇāṃ ca dhārmikāṇāṃ mahītale |

14.8१४.८

कीर्तने चोपमाभूतं क्षत्रधर्मविदुत्तमम् । (१४।८)

kīrtane copamābhūtaṃ kṣatradharmaviduttamam |

14.9१४.९

स च तं प्रतिजग्राह विधिपूर्वेण पाण्डवम् ॥ (१४।९)

sa ca taṃ pratijagrāha vidhipūrveṇa pāṇḍavam ||

15.1१५.१

तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना । (१५।१)

tasya citrāṅgadā nāma duhitā cārudarśanā |

15.2१५.२

तां ददर्श पुरे तस्मिन् विचरन्तीं यदृच्छया ॥ (१५।२)

tāṃ dadarśa pure tasmin vicarantīṃ yadṛcchayā ||

16.1१६.१

दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् । (१६।१)

dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm |

16.2१६.२

अभिगम्य च राजानं ज्ञापयत् स्वं प्रयोजनम् । (१६।२)

abhigamya ca rājānaṃ jñāpayat svaṃ prayojanam |

16.3१६.३

देहि मे खल्विमां राजन् क्षत्रियाय महात्मने । (१६।३)

dehi me khalvimāṃ rājan kṣatriyāya mahātmane |

16.4१६.४

तच्छ्रुत्वा त्वब्रवीद् राजा कस्य पुत्रो ऽसि नाम किम् । (१६।४)

tacchrutvā tvabravīd rājā kasya putro 'si nāma kim |

16.5१६.५

उवाच तं पाण्डवो ऽहं कुन्तीपुत्रो धनंजयः । (१६।५)

uvāca taṃ pāṇḍavo 'haṃ kuntīputro dhanaṃjayaḥ |

16.6१६.६

तम् उवाचाथ राजा स सान्त्वपूर्वम् इदं वचः ॥ (१६।६)

tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ ||

17.1१७.१

राजा प्रभंकरो नाम कुले अस्मिन् बभूव ह । (१७।१)

rājā prabhaṃkaro nāma kule asmin babhūva ha |

17.2१७.२

अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ॥ (१७।२)

aputraḥ prasavenārthī tapastepe sa uttamam ||

18.1१८.१

उग्रेण तपसा तेन प्रणिपातेन शंकरः । (१८।१)

ugreṇa tapasā tena praṇipātena śaṃkaraḥ |

18.2१८.२

ईश्वरस्तोषितस्तेन महादेव उमापतिः ॥ (१८।२)

īśvarastoṣitastena mahādeva umāpatiḥ ||

19.1१९.१

स तस्मै भगवान् प्रादाद् एकैकं प्रसवं कुले । (१९।१)

sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule |

19.2१९.२

एकैकः प्रसवस्तस्माद् भवत्यस्मिन् कुले सदा ॥ (१९।२)

ekaikaḥ prasavastasmād bhavatyasmin kule sadā ||

20.1२०.१

तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे । (२०।१)

teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire |

20.2२०.२

कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् ॥ (२०।२)

kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam ||

21.1२१.१

पुत्रो ममेयम् इति मे भावना पुरुषोत्तम । (२१।१)

putro mameyam iti me bhāvanā puruṣottama |

21.2२१.२

पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ । (२१।२)

putrikā hetuvidhinā saṃjñitā bharatarṣabha |

21.3२१.३

तस्माद् एकः सुतो यो ऽस्यां जायते भारत त्वया ॥ (२१।३)

tasmād ekaḥ suto yo 'syāṃ jāyate bhārata tvayā ||

22.1२२.१

एतच्छुल्कं भवत्वस्याः कुलकृज्जायताम् इह । (२२।१)

etacchulkaṃ bhavatvasyāḥ kulakṛjjāyatām iha |

22.2२२.२

एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ॥ (२२।२)

etena samayenemāṃ pratigṛhṇīṣva pāṇḍava ||

23.1२३.१

स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च । (२३।१)

sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca |

23.2२३.२

मासे त्रयोदशे पार्थः कृत्वा वैवाहिकीं क्रियाम् । (२३।२)

māse trayodaśe pārthaḥ kṛtvā vaivāhikīṃ kriyām |

23.3२३.३

उवास नगरे तस्मिन् कौन्तेयस्त्रिहिमाः समाः । (२३।३)

uvāsa nagare tasmin kaunteyastrihimāḥ samāḥ |

23.4२३.४

तस्यां सुते समुत्पन्ने परिष्वज्य वराङ्गनाम् । (२३।४)

tasyāṃ sute samutpanne pariṣvajya varāṅganām |

23.5२३.५

आमन्त्र्य नृपतिं तं तु जगाम परिवर्तितुम् ॥ (२३।५)

āmantrya nṛpatiṃ taṃ tu jagāma parivartitum ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 207

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit