MBh, 1, 68
Select a line for its word-by-word analysis.
गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः । (१।४)
garbhaśca vavṛdhe tasyāṃ rājaputryāṃ mahātmanaḥ |
अद्य श्वो वा परश्वो वा समायान्तीति निश्चिता । (१।८)
adya śvo vā paraśvo vā samāyāntīti niścitā |
दिनान् पक्षान् ऋतून् मासान् अयनानि च सर्वशः । (१।९)
dinān pakṣān ṛtūn māsān ayanāni ca sarvaśaḥ |
त्रिषु वर्षेषु पूर्णेषु ऋषेर् वचनगौरवात् । (१।११)
triṣu varṣeṣu pūrṇeṣu ṛṣer vacanagauravāt |
ऋषिपत्न्यः सुबहुशो हेतुमद् वाक्यम् अब्रुवन् । (१।१२)
ṛṣipatnyaḥ subahuśo hetumad vākyam abruvan |
शृणु भद्रे लोकवृत्तं श्रुत्वा यद् रोचते तव । (१।१३)
śṛṇu bhadre lokavṛttaṃ śrutvā yad rocate tava |
तत् कुरुष्व हितं देवि नावमान्यं गुरोर् वचः । (१।१४)
tat kuruṣva hitaṃ devi nāvamānyaṃ guror vacaḥ |
देवानां दैवतं विष्णुर् विप्राणाम् अग्निर् एव च । (१।१५)
devānāṃ daivataṃ viṣṇur viprāṇām agnir eva ca |
नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः । (१।१६)
nārīṇāṃ daivataṃ bhartā lokānāṃ brāhmaṇo guruḥ |
सूतिकाले प्रसूयेति भगवांस्ते पिताब्रवीत् । (१।१७)
sūtikāle prasūyeti bhagavāṃste pitābravīt |
करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत् । (१।१८)
kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet |
पत्नीनां वचनं श्रुत्वा साधु साध्वित्यचिन्तयत् । (१।१९)
patnīnāṃ vacanaṃ śrutvā sādhu sādhvityacintayat |
जाते तस्मिन्न् अन्तरिक्षात् पुष्पवृष्टिः पपात ह । (२।३)
jāte tasminn antarikṣāt puṣpavṛṣṭiḥ papāta ha |
गायद्भिर् मधुरं तत्र देवैः शक्रो ऽभ्युवाच ह । (२।५)
gāyadbhir madhuraṃ tatra devaiḥ śakro 'bhyuvāca ha |
स्वार्थं ब्राह्मणसात् कृत्वा दक्षिणाम् अमितां ददत् । (२।१०)
svārthaṃ brāhmaṇasāt kṛtvā dakṣiṇām amitāṃ dadat |
देवतानां वचः श्रुत्वा कण्वाश्रमनिवासिनः । (२।११)
devatānāṃ vacaḥ śrutvā kaṇvāśramanivāsinaḥ |
सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः । (२।१२)
sabhājayantaḥ kaṇvasya sutāṃ sarve maharṣayaḥ |
शकुन्तला च तच्छ्रुत्वा परं हर्षम् अवाप सा । (२।१३)
śakuntalā ca tacchrutvā paraṃ harṣam avāpa sā |
द्विजान् आहूय मुनिभिः सत्कृत्य च महायशाः ॥ (२।१४)
dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ ||
यथाविधि यथान्यायं क्रियाः सर्वास्त्वकारयत् ॥ (३।३)
yathāvidhi yathānyāyaṃ kriyāḥ sarvāstvakārayat ||
दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा । (४।१)
dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā |
ऋषेर् भयात् तु दुःषन्तः स्मरन् नैवाह्वयत् तदा । (४।६)
ṛṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā |
व्याघ्रान् सिंहान् वराहांश्च गजांश्च महिषांस्तथा । (५।२)
vyāghrān siṃhān varāhāṃśca gajāṃśca mahiṣāṃstathā |
ऋक्षांश्चापि द्विपान् अन्यान् व्यालान् आश्रमपीडकान् । (५।३)
ṛkṣāṃścāpi dvipān anyān vyālān āśramapīḍakān |
बलाद् भुजाभ्यां संगृह्य बलवान् संनियम्य च ॥ (५।४)
balād bhujābhyāṃ saṃgṛhya balavān saṃniyamya ca ||
बद्ध्वा वृक्षेषु बलवान् आश्रमस्य समन्ततः । (६।१)
baddhvā vṛkṣeṣu balavān āśramasya samantataḥ |
ततश्च राक्षसान् सर्वान् पिशाचांश्च रिपून् रणे । (६।४)
tataśca rākṣasān sarvān piśācāṃśca ripūn raṇe |
मुष्टियुद्धेन तान् हत्वा ऋषीन् आराधयत् तदा । (६।५)
muṣṭiyuddhena tān hatvā ṛṣīn ārādhayat tadā |
वध्यमानांस्तु दैतेयान् अमर्षी तं समभ्ययात् । (६।७)
vadhyamānāṃstu daiteyān amarṣī taṃ samabhyayāt |
तम् आगतं प्रहस्यैव बाहुभ्यां परिगृह्य च । (६।८)
tam āgataṃ prahasyaiva bāhubhyāṃ parigṛhya ca |
प्राक्रोशद् भैरवं तत्र द्वारेभ्यो निःसृतं त्वसृक् । (६।११)
prākrośad bhairavaṃ tatra dvārebhyo niḥsṛtaṃ tvasṛk |
तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः । (६।१२)
tena śabdena vitrastā mṛgāḥ siṃhādayo gaṇāḥ |
सुस्रुवुश्च शकृन्मूत्रम् आश्रमस्थाश्च सुस्रुवुः । (६।१३)
susruvuśca śakṛnmūtram āśramasthāśca susruvuḥ |
निरसुं जानुभिः कृत्वा विससर्ज च सो ऽपतत् । (६।१४)
nirasuṃ jānubhiḥ kṛtvā visasarja ca so 'patat |
तद् दृष्ट्वा विस्मयं जग्मुः कुमारस्य विचेष्टितम् । (६।१५)
tad dṛṣṭvā vismayaṃ jagmuḥ kumārasya viceṣṭitam |
नित्यकालं वध्यमाना दैतेया राक्षसैः सह । (६।१६)
nityakālaṃ vadhyamānā daiteyā rākṣasaiḥ saha |
कुमारस्य भयाद् एव नैव जग्मुस्तदाश्रमम् ॥ (६।१७)
kumārasya bhayād eva naiva jagmustadāśramam ||
कण्वेन सहिता दृष्ट्वा कर्म सर्वे ऽतिमानुषम् । (७।२)
kaṇvena sahitā dṛṣṭvā karma sarve 'timānuṣam |
शकुन्तलां च सम्प्रेक्ष्य प्रदध्यौ स मुनिस्तदा । (८।६)
śakuntalāṃ ca samprekṣya pradadhyau sa munistadā |
शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन् ॥ (८।७)
śāstrāṇi sarvavedāśca dvādaśābdasya cābhavan ||
तं कुमारम् ऋषिर् दृष्ट्वा कर्म चास्यातिमानुषम् । (९।१)
taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam |
शृणु भद्रे मम सुते मम वाक्यं शुचिस्मिते । (९।१२)
śṛṇu bhadre mama sute mama vākyaṃ śucismite |
पतिव्रतानां नारीणां विशिष्टम् इति चोच्यते । (९।१३)
pativratānāṃ nārīṇāṃ viśiṣṭam iti cocyate |
पतिशुश्रूषणं पूर्वं मनोवाक्कायचेष्टितैः । (९।१४)
patiśuśrūṣaṇaṃ pūrvaṃ manovākkāyaceṣṭitaiḥ |
अनुज्ञाता मया पूर्वं पूजयैतद् व्रतं तव । (९।१५)
anujñātā mayā pūrvaṃ pūjayaitad vrataṃ tava |
एतेनैव च वृत्तेन पुण्यांल्लोकान् अवाप्य च । (९।१६)
etenaiva ca vṛttena puṇyāṃllokān avāpya ca |
तस्यान्ते मानुषे लोके विशिष्टां लप्स्यसे श्रियम् । (९।१७)
tasyānte mānuṣe loke viśiṣṭāṃ lapsyase śriyam |
तस्माद् भद्रे ऽद्य यातव्यं समीपं पौरवस्य ह । (९।१८)
tasmād bhadre 'dya yātavyaṃ samīpaṃ pauravasya ha |
स्वयं नायाति मत्वा ते गतं कालं शुचिस्मिते । (९।१९)
svayaṃ nāyāti matvā te gataṃ kālaṃ śucismite |
दौःषन्तिं यौवराज्यस्थं दृष्ट्वा प्रीतिम् अवाप्स्यसि । (९।२१)
dauḥṣantiṃ yauvarājyasthaṃ dṛṣṭvā prītim avāpsyasi |
देवतानां गुरूणां च क्षत्रियाणां च भामिनि । (९।२२)
devatānāṃ gurūṇāṃ ca kṣatriyāṇāṃ ca bhāmini |
तस्मात् पुत्रि कुमारेण गन्तव्यं मत्प्रियेप्सया । (९।२४)
tasmāt putri kumāreṇa gantavyaṃ matpriyepsayā |
प्रतिवाक्यं न दद्यास्त्वं शापिता मम पादयोः । (९।२५)
prativākyaṃ na dadyāstvaṃ śāpitā mama pādayoḥ |
एवम् उक्त्वा सुतां तत्र पौत्रं कण्वो ऽभ्यभाषत । (९।२६)
evam uktvā sutāṃ tatra pautraṃ kaṇvo 'bhyabhāṣata |
परिष्वज्य च बाहुभ्यां मूर्ध्न्युपाघ्राय पौरवम् । (९।२७)
pariṣvajya ca bāhubhyāṃ mūrdhnyupāghrāya pauravam |
गन्तुकामा भर्तृपार्श्वं त्वया सह सुमध्यमा । (९।३०)
gantukāmā bhartṛpārśvaṃ tvayā saha sumadhyamā |
गत्वाभिवाद्य राजानं यौवराज्यम् अवाप्स्यसि । (९।३१)
gatvābhivādya rājānaṃ yauvarājyam avāpsyasi |
स पिता तव राजेन्द्रस्तस्य त्वं वशगो भव । (९।३२)
sa pitā tava rājendrastasya tvaṃ vaśago bhava |
पितृपैतामहं राज्यम् आतिष्ठस्व स्वभावतः । (९।३३)
pitṛpaitāmahaṃ rājyam ātiṣṭhasva svabhāvataḥ |
तस्मिन् काले स्वराज्यस्थो माम् अनुस्मर पौरव । (९।३४)
tasmin kāle svarājyastho mām anusmara paurava |
अभिवाद्य मुनेः पादौ पौरवो वाक्यम् अब्रवीत् । (९।३५)
abhivādya muneḥ pādau pauravo vākyam abravīt |
त्वं पिता मम विप्रर्षे त्वं माता त्वं गतिश्च मे । (९।३६)
tvaṃ pitā mama viprarṣe tvaṃ mātā tvaṃ gatiśca me |
न चान्यं पितरं मन्ये त्वाम् ऋते तु महातपः । (९।३७)
na cānyaṃ pitaraṃ manye tvām ṛte tu mahātapaḥ |
शकुन्तला भर्तृकामा स्वयं यातु यथेष्टतः । (९।३९)
śakuntalā bhartṛkāmā svayaṃ yātu yatheṣṭataḥ |
क्रीडां व्यालमृगैः सार्धं करिष्ये न पुरा यथा । (९।४१)
krīḍāṃ vyālamṛgaiḥ sārdhaṃ kariṣye na purā yathā |
त्वच्छासनपरो नित्यं स्वाध्यायं च करोम्यहम् । (९।४२)
tvacchāsanaparo nityaṃ svādhyāyaṃ ca karomyaham |
एवम् उक्त्वा तु संश्लिष्य पादौ कण्वस्य तिष्ठति । (९।४३)
evam uktvā tu saṃśliṣya pādau kaṇvasya tiṣṭhati |
तस्य तद् वचनं श्रुत्वा प्ररुरोद शकुन्तला । (९।४४)
tasya tad vacanaṃ śrutvā praruroda śakuntalā |
स्नेहात् पितुश्च पुत्रस्य हर्षशोकसमन्विता । (९।४५)
snehāt pituśca putrasya harṣaśokasamanvitā |
निशाम्य रुदतीम् आर्तां दौःषन्तिर् वाक्यम् अब्रवीत् । (९।४६)
niśāmya rudatīm ārtāṃ dauḥṣantir vākyam abravīt |
श्रुत्वा भगवतो वाक्यं किं रोदिषि शकुन्तले । (९।४७)
śrutvā bhagavato vākyaṃ kiṃ rodiṣi śakuntale |
गन्तव्यं काल्य उत्थाय भर्तृप्रीतिस्तवास्ति चेत् । (९।४८)
gantavyaṃ kālya utthāya bhartṛprītistavāsti cet |
एकस्तु कुरुते पापं फलं भुङ्क्ते महाजनः । (९।४९)
ekastu kurute pāpaṃ phalaṃ bhuṅkte mahājanaḥ |
भोक्तारस्तत्र मुच्यन्ते कर्ता दोषेण लिप्यते । (९।५०)
bhoktārastatra mucyante kartā doṣeṇa lipyate |
निःसृतान् कुञ्जरान् नित्यं बाहुभ्यां सम्प्रमथ्य वै । (९।५२)
niḥsṛtān kuñjarān nityaṃ bāhubhyāṃ sampramathya vai |
वनं च लोडयन् नित्यं सिंहव्याघ्रगणैर् युतम् । (९।५३)
vanaṃ ca loḍayan nityaṃ siṃhavyāghragaṇair yutam |
रुषितो भगवांस्तात तस्माद् आवां विवासितौ । (९।५५)
ruṣito bhagavāṃstāta tasmād āvāṃ vivāsitau |
अहं न गच्छे दुःषन्तं नास्मि पुत्रहितैषिणी । (९।५६)
ahaṃ na gacche duḥṣantaṃ nāsmi putrahitaiṣiṇī |
पुनः प्रोवाच भगवान् आनृशंस्याद्धितं वचः । (९।६०)
punaḥ provāca bhagavān ānṛśaṃsyāddhitaṃ vacaḥ |
शकुन्तले शृणुष्वेदं हितं पथ्यं च भामिनि । (९।६१)
śakuntale śṛṇuṣvedaṃ hitaṃ pathyaṃ ca bhāmini |
पतिव्रताभावगुणान् हित्वा साध्यं न किंचन । (९।६२)
pativratābhāvaguṇān hitvā sādhyaṃ na kiṃcana |
पतिव्रतानां देवा वै तुष्टाः सर्ववरप्रदाः । (९।६३)
pativratānāṃ devā vai tuṣṭāḥ sarvavarapradāḥ |
पतिप्रसादात् पुण्यगतिं प्राप्नुवन्ति न चाशुभम् । (९।६५)
patiprasādāt puṇyagatiṃ prāpnuvanti na cāśubham |
तस्माद् गत्वा तु राजानम् आराधय शुचिस्मिते । (९।६६)
tasmād gatvā tu rājānam ārādhaya śucismite |
शकुन्तलां तथोक्त्वा वै शाकुन्तलम् अथाब्रवीत् । (९।६७)
śakuntalāṃ tathoktvā vai śākuntalam athābravīt |
दौहित्रो मम पौत्रस्त्वम् इलिलस्य महात्मनः । (९।६८)
dauhitro mama pautrastvam ililasya mahātmanaḥ |
मनसा भर्तृकामा वै वाग्भिर् उक्त्वा पृथग्विधम् । (९।७०)
manasā bhartṛkāmā vai vāgbhir uktvā pṛthagvidham |
गन्तुं नेच्छति कल्याणी तस्मात् तात वहस्व वै । (९।७१)
gantuṃ necchati kalyāṇī tasmāt tāta vahasva vai |
शक्तस्त्वं प्रतिगन्तुं च मुनिभिः सह पौरव ॥ (९।७२)
śaktastvaṃ pratigantuṃ ca munibhiḥ saha paurava ||
तस्य तद् बलम् आज्ञाय कण्वः शिष्यान् उवाच ह । (१०।१)
tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha |
शकुन्तलाम् इमां शीघ्रं सहपुत्राम् इत आश्रमात् । (१०।२)
śakuntalām imāṃ śīghraṃ sahaputrām ita āśramāt |
भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् ॥ (१०।३)
bhartre prāpayatādyaiva sarvalakṣaṇapūjitām ||
कीर्तिचारित्रधर्मघ्नस्तस्मान् नयत माचिरम् । (११।२)
kīrticāritradharmaghnastasmān nayata māciram |
धर्माभिपूजितं पुत्रं काश्यपेन निशाम्य तु । (११।४)
dharmābhipūjitaṃ putraṃ kāśyapena niśāmya tu |
काश्यपात् प्राप्य चानुज्ञां मुमुदे च शकुन्तला । (११।५)
kāśyapāt prāpya cānujñāṃ mumude ca śakuntalā |
कण्वस्य वचनं श्रुत्वा प्रतिगच्छेति चासकृत् । (११।६)
kaṇvasya vacanaṃ śrutvā pratigaccheti cāsakṛt |
तथेत्युक्त्वा तु कण्वं च मातरं पौरवो ऽब्रवीत् । (११।७)
tathetyuktvā tu kaṇvaṃ ca mātaraṃ pauravo 'bravīt |
किं चिरायसि मातस्त्वं गमिष्यामो नृपालयम् । (११।८)
kiṃ cirāyasi mātastvaṃ gamiṣyāmo nṛpālayam |
एवम् उक्त्वा तु तां देवीं दुःषन्तस्य महात्मनः । (११।९)
evam uktvā tu tāṃ devīṃ duḥṣantasya mahātmanaḥ |
अभिवाद्य मुनेः पादौ गन्तुम् ऐच्छत् स पौरवः । (११।१०)
abhivādya muneḥ pādau gantum aicchat sa pauravaḥ |
शकुन्तला च पितरम् अभिवाद्य कृताञ्जलिः । (११।११)
śakuntalā ca pitaram abhivādya kṛtāñjaliḥ |
प्रदक्षिणीकृत्य तदा पितरं वाक्यम् अब्रवीत् । (११।१२)
pradakṣiṇīkṛtya tadā pitaraṃ vākyam abravīt |
अज्ञानान् मे पिता चेति दुरुक्तं वापि चानृतम् । (११।१३)
ajñānān me pitā ceti duruktaṃ vāpi cānṛtam |
अकार्यं वाप्यनिष्टं वा क्षन्तुम् अर्हति तद् भवान् । (११।१४)
akāryaṃ vāpyaniṣṭaṃ vā kṣantum arhati tad bhavān |
मनुष्यभावात् कण्वो ऽपि मुनिर् अश्रूण्यवर्तयत् । (११।१६)
manuṣyabhāvāt kaṇvo 'pi munir aśrūṇyavartayat |
अब्भक्षान् वायुभक्षांश्च शीर्णपर्णाशनान् मुनीन् । (११।१७)
abbhakṣān vāyubhakṣāṃśca śīrṇaparṇāśanān munīn |
फलमूलाशिनो दान्तान् कृशान् धमनिसंततान् । (११।१८)
phalamūlāśino dāntān kṛśān dhamanisaṃtatān |
व्रतिनो जटिलान् मुण्डान् वल्कलाजिनसंवृतान् । (११।१९)
vratino jaṭilān muṇḍān valkalājinasaṃvṛtān |
समाहूय मुनिः कण्वः कारुण्याद् इदम् अब्रवीत् । (११।२०)
samāhūya muniḥ kaṇvaḥ kāruṇyād idam abravīt |
मया तु लालिता नित्यं मम पुत्री यशस्विनी । (११।२१)
mayā tu lālitā nityaṃ mama putrī yaśasvinī |
वने जाता विवृद्धा च न च जानाति किंचन । (११।२२)
vane jātā vivṛddhā ca na ca jānāti kiṃcana |
आश्रमेण पथा सर्वैर् नीयतां क्षत्रियालयम् । (११।२३)
āśrameṇa pathā sarvair nīyatāṃ kṣatriyālayam |
द्वितीययोजने विप्राः प्रतिष्ठानं प्रतिष्ठितम् । (११।२४)
dvitīyayojane viprāḥ pratiṣṭhānaṃ pratiṣṭhitam |
अध्युवास चिरं कालम् उर्वश्या सहितः पुरा । (११।२६)
adhyuvāsa ciraṃ kālam urvaśyā sahitaḥ purā |
तत्र संगमम् आसाद्य स्नात्वा हुतहुताशनाः । (११।२९)
tatra saṃgamam āsādya snātvā hutahutāśanāḥ |
अन्यथा तु भवेद् विप्रा अध्वनो गमने श्रमः ॥ (११।३१)
anyathā tu bhaved viprā adhvano gamane śramaḥ ||
तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः । (१२।१)
tathetyuktvā tu te sarve prātiṣṭhantāmitaujasaḥ |
शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् ॥ (१२।२)
śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam ||
कन्दराणि नितम्बांश्च राष्ट्राणि नगराणि च । (१३।१०)
kandarāṇi nitambāṃśca rāṣṭrāṇi nagarāṇi ca |
आश्रमाणि च पुण्यानि गत्वा चैव गतश्रमाः । (१३।११)
āśramāṇi ca puṇyāni gatvā caiva gataśramāḥ |
शनैर् मध्याह्नवेलायां प्रतिष्ठानं समाययुः । (१३।१२)
śanair madhyāhnavelāyāṃ pratiṣṭhānaṃ samāyayuḥ |
तां पुरीं पुरुहूतेन ऐलस्यार्थे विनिर्मिताम् । (१३।१३)
tāṃ purīṃ puruhūtena ailasyārthe vinirmitām |
परिघाट्टालकैर् मुख्यैर् उपतल्पशतैर् अपि । (१३।१४)
parighāṭṭālakair mukhyair upatalpaśatair api |
शतघ्नीशतयन्त्रैश्च गुप्ताम् अन्यैर् दुरासदाम् । (१३।१५)
śataghnīśatayantraiśca guptām anyair durāsadām |
हर्म्यप्रासादसंबाधां नानापण्यविभूषिताम् । (१३।१६)
harmyaprāsādasaṃbādhāṃ nānāpaṇyavibhūṣitām |
मण्टपैः ससभै रम्यैः प्रपाभिश्च समावृताम् । (१३।१७)
maṇṭapaiḥ sasabhai ramyaiḥ prapābhiśca samāvṛtām |
द्वारतोरणनिर्यूहैर् मङ्गलैर् उपशोभिताम् । (१३।२०)
dvāratoraṇaniryūhair maṅgalair upaśobhitām |
सर्वपुष्करिणीभिश्च उद्यानैश्च समावृताम् । (१३।२२)
sarvapuṣkariṇībhiśca udyānaiśca samāvṛtām |
वर्णाश्रमैः स्वधर्मस्थैर् नित्योत्सवसमाहितैः । (१३।२३)
varṇāśramaiḥ svadharmasthair nityotsavasamāhitaiḥ |
धनधान्यसमृद्धैश्च संतुष्टै रत्नपूजितैः । (१३।२४)
dhanadhānyasamṛddhaiśca saṃtuṣṭai ratnapūjitaiḥ |
क्रतुयुक्तैश्च विद्वद्भिर् अग्निहोत्रपरैः सदा । (१३।२५)
kratuyuktaiśca vidvadbhir agnihotraparaiḥ sadā |
वर्जिताकार्यकरणैर् दानशीलैर् दयापरैः । (१३।२६)
varjitākāryakaraṇair dānaśīlair dayāparaiḥ |
अधर्मभीरुभिः सर्वैः स्वर्गलोकजिगीषुभिः । (१३।२७)
adharmabhīrubhiḥ sarvaiḥ svargalokajigīṣubhiḥ |
तस्मिन् नगरमध्ये तु राजवेश्मप्रतिष्ठितम् । (१३।२९)
tasmin nagaramadhye tu rājaveśmapratiṣṭhitam |
इन्द्रसद्मप्रतीकाशं सम्पूर्णं वित्तसंचयैः । (१३।३०)
indrasadmapratīkāśaṃ sampūrṇaṃ vittasaṃcayaiḥ |
तस्य मध्ये सभा दिव्या नानारत्नविचित्रिता । (१३।३१)
tasya madhye sabhā divyā nānāratnavicitritā |
तस्यां सभायां राजर्षिः सर्वालंकारभूषितः । (१३।३२)
tasyāṃ sabhāyāṃ rājarṣiḥ sarvālaṃkārabhūṣitaḥ |
ब्राह्मणैः क्षत्रियैश्चापि मन्त्रिभिश्चापि संवृतः । (१३।३३)
brāhmaṇaiḥ kṣatriyaiścāpi mantribhiścāpi saṃvṛtaḥ |
संस्तूयमानो राजेन्द्रः सूतमागधबन्दिभिः । (१३।३४)
saṃstūyamāno rājendraḥ sūtamāgadhabandibhiḥ |
कार्यार्थिभिः समभ्येत्य कृत्वा कार्यं गतेषु सः । (१३।३५)
kāryārthibhiḥ samabhyetya kṛtvā kāryaṃ gateṣu saḥ |
सुखासीनो ऽभवद् राजा तस्मिन् काले महर्षयः । (१३।३६)
sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ |
शकुन्तानां स्वनं श्रुत्वा निमित्तज्ञास्त्वलक्षयन् । (१३।३७)
śakuntānāṃ svanaṃ śrutvā nimittajñāstvalakṣayan |
शकुन्तले निमित्तानि शोभनानि भवन्ति नः । (१३।३८)
śakuntale nimittāni śobhanāni bhavanti naḥ |
कार्यसिद्धिं वदन्त्येते ध्रुवं राज्ञी भविष्यसि । (१३।३९)
kāryasiddhiṃ vadantyete dhruvaṃ rājñī bhaviṣyasi |
अस्मिंस्तु दिवसे पुत्रो युवराजो भविष्यति । (१३।४०)
asmiṃstu divase putro yuvarājo bhaviṣyati |
शकुन्तलां पुरस्कृत्य विविशुस्ते महर्षयः । (१३।४२)
śakuntalāṃ puraskṛtya viviśuste maharṣayaḥ |
प्रविशन्तं नृपसुतं प्रशशंसुश्च प्रेक्षकाः । (१३।४३)
praviśantaṃ nṛpasutaṃ praśaśaṃsuśca prekṣakāḥ |
वर्धमानपुरद्वारं प्रविशन्न् एव पौरवः । (१३।४४)
vardhamānapuradvāraṃ praviśann eva pauravaḥ |
इन्द्रलोकस्थम् आत्मानं मेने हर्षसमन्वितः । (१३।४५)
indralokastham ātmānaṃ mene harṣasamanvitaḥ |
देवतेव जनस्याग्रे भ्राजते श्रीर् इवागता । (१३।४८)
devateva janasyāgre bhrājate śrīr ivāgatā |
इति ब्रुवन्तस्ते सर्वे महर्षीन् इदम् अब्रुवन् । (१३।५०)
iti bruvantaste sarve maharṣīn idam abruvan |
अभिवादयन्तः सहिता महर्षीन् देववर्चसः । (१३।५१)
abhivādayantaḥ sahitā maharṣīn devavarcasaḥ |
अद्य नः सफलं जन्म कृतार्थाश्च ततो वयम् । (१३।५२)
adya naḥ saphalaṃ janma kṛtārthāśca tato vayam |
एवं ये स्म प्रपश्यामो महर्षीन् सूर्यवर्चसः । (१३।५३)
evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ |
इत्युक्त्वा सहिताः केचिद् अन्वगच्छन्त पौरवम् । (१३।५४)
ityuktvā sahitāḥ kecid anvagacchanta pauravam |
हैमवत्याः सुतम् इव कुमारं पुष्करेक्षणम् । (१३।५५)
haimavatyāḥ sutam iva kumāraṃ puṣkarekṣaṇam |
ये केचिद् अब्रुवन् मूढाः शाकुन्तलदिदृक्षवः । (१३।५६)
ye kecid abruvan mūḍhāḥ śākuntaladidṛkṣavaḥ |
कृष्णाजिनेन संछन्नान् द्रष्टुं नेच्छन्ति तापसान् । (१३।५७)
kṛṣṇājinena saṃchannān draṣṭuṃ necchanti tāpasān |
विना संध्यां पिशाचास्ते प्रविशन्ति पुरोत्तमम् । (१३।५९)
vinā saṃdhyāṃ piśācāste praviśanti purottamam |
क्षुत्पिपासार्दितान् दीनान् वल्कलाजिनवाससः । (१३।६०)
kṣutpipāsārditān dīnān valkalājinavāsasaḥ |
त्वगस्थिभूतान् निर्मांसान् धमनीसंततान् अपि । (१३।६१)
tvagasthibhūtān nirmāṃsān dhamanīsaṃtatān api |
पिङ्गलाक्षान् पिङ्गजटान् दीर्घदन्तान् निरूदरान् । (१३।६२)
piṅgalākṣān piṅgajaṭān dīrghadantān nirūdarān |
विशीर्षकान् ऊर्ध्वहस्तान् दृष्ट्वा हास्यन्ति नागराः । (१३।६३)
viśīrṣakān ūrdhvahastān dṛṣṭvā hāsyanti nāgarāḥ |
एवम् उक्तवतां तेषां गिरं श्रुत्वा महर्षयः । (१३।६४)
evam uktavatāṃ teṣāṃ giraṃ śrutvā maharṣayaḥ |
अन्योन्यं ते समाहूय इदं वचनम् अब्रुवन् । (१३।६५)
anyonyaṃ te samāhūya idaṃ vacanam abruvan |
उक्तं भगवता वाक्यं न कृतं सत्यवादिना । (१३।६६)
uktaṃ bhagavatā vākyaṃ na kṛtaṃ satyavādinā |
पुरप्रवेशनं नात्र कर्तव्यम् इति शासनम् । (१३।६७)
purapraveśanaṃ nātra kartavyam iti śāsanam |
किं कारणं प्रवेक्ष्यामो नगरं दुर्जनैर् वृतम् । (१३।६८)
kiṃ kāraṇaṃ pravekṣyāmo nagaraṃ durjanair vṛtam |
त्यक्तसङ्गस्य च मुनेर् नगरे किं प्रयोजनम् । (१३।६९)
tyaktasaṅgasya ca muner nagare kiṃ prayojanam |
तस्माद् गमिष्याम वयं गङ्गायामुनसंगमम् । (१३।७०)
tasmād gamiṣyāma vayaṃ gaṅgāyāmunasaṃgamam |
एवम् उक्त्वा मुनिगणाः प्रतिजग्मुर् यथागतम् । (१३।७१)
evam uktvā munigaṇāḥ pratijagmur yathāgatam |
गतान् मुनिगणान् दृष्ट्वा पुत्रं संगृह्य पाणिना । (१३।७२)
gatān munigaṇān dṛṣṭvā putraṃ saṃgṛhya pāṇinā |
मातापितृभ्यां विरहाद् यथा शोचन्ति दारकाः । (१३।७३)
mātāpitṛbhyāṃ virahād yathā śocanti dārakāḥ |
तथा शोकपरीताङ्गी धृतिम् आलम्ब्य दुःखिता । (१३।७४)
tathā śokaparītāṅgī dhṛtim ālambya duḥkhitā |
अदृष्टपूर्वान् पश्यन् वै राजमार्गेण पौरवः । (१३।७७)
adṛṣṭapūrvān paśyan vai rājamārgeṇa pauravaḥ |
हर्म्यप्रासादचैत्यांश्च सभा दिव्या विचित्रिताः । (१३।७८)
harmyaprāsādacaityāṃśca sabhā divyā vicitritāḥ |
कौतूहलसमाविष्टो दृष्ट्वा विस्मयम् आगतः । (१३।७९)
kautūhalasamāviṣṭo dṛṣṭvā vismayam āgataḥ |
सर्वे ब्रुवन्ति तां दृष्ट्वा पद्महीनाम् इव श्रियम् । (१३।८०)
sarve bruvanti tāṃ dṛṣṭvā padmahīnām iva śriyam |
मुखेन चन्द्रसदृशीं श्रिया पद्मालयासमाम् । (१३।८२)
mukhena candrasadṛśīṃ śriyā padmālayāsamām |
स्मितेन कुन्दसदृशीं पद्मगर्भसमत्वचम् । (१३।८३)
smitena kundasadṛśīṃ padmagarbhasamatvacam |
पद्मपत्रविशालाक्षीं तप्तजाम्बूनदप्रभाम् । (१३।८४)
padmapatraviśālākṣīṃ taptajāmbūnadaprabhām |
करान्तमितमध्यां तां सुकेशीं संहतस्तनीम् । (१३।८५)
karāntamitamadhyāṃ tāṃ sukeśīṃ saṃhatastanīm |
रक्ततुङ्गनखौ पादौ धरण्यां सुप्रतिष्ठितौ । (१३।८७)
raktatuṅganakhau pādau dharaṇyāṃ supratiṣṭhitau |
इति स्म सर्वे ऽमन्यन्त दुःषन्तनगरे जनाः । (१३।८९)
iti sma sarve 'manyanta duḥṣantanagare janāḥ |
पुनः पुनर् अवोचंस्ते शाकुन्तलगुणान् अपि । (१३।९०)
punaḥ punar avocaṃste śākuntalaguṇān api |
सिंहेक्षणः सिंहदंष्ट्रः सिंहस्कन्धो महाभुजः । (१३।९१)
siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ |
सिंहोरस्कः सिंहबलः सिंहविक्रान्तगाम्ययम् । (१३।९२)
siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam |
पृथ्वंसः पृथुवक्षाश्च छत्त्राकारशिरा महान् । (१३।९३)
pṛthvaṃsaḥ pṛthuvakṣāśca chattrākāraśirā mahān |
पाणिपादतले रक्तो रक्तास्यो दुन्दुभिस्वनः । (१३।९४)
pāṇipādatale rakto raktāsyo dundubhisvanaḥ |
राजलक्षणयुक्तश्च राजश्रीश्चास्य दृश्यते । (१३।९५)
rājalakṣaṇayuktaśca rājaśrīścāsya dṛśyate |
दुःषन्तेन समो ह्येष कस्य पुत्रो भविष्यति । (१३।९७)
duḥṣantena samo hyeṣa kasya putro bhaviṣyati |
एवं ब्रुवन्तस्ते सर्वे प्रशशंसुः सहस्रशः । (१३।९८)
evaṃ bruvantaste sarve praśaśaṃsuḥ sahasraśaḥ |
युक्तिवादान् अवोचन्त सर्वाः प्राणभृतः स्त्रियः । (१३।९९)
yuktivādān avocanta sarvāḥ prāṇabhṛtaḥ striyaḥ |
बान्धवा इव सस्नेहा अनुजग्मुः शकुन्तलाम् । (१३।१००)
bāndhavā iva sasnehā anujagmuḥ śakuntalām |
पौराणां तद् वचः श्रुत्वा तूष्णींभूता शकुन्तला । (१३।१०१)
paurāṇāṃ tad vacaḥ śrutvā tūṣṇīṃbhūtā śakuntalā |
वेश्मद्वारं समासाद्य विह्वलन्ती नृपात्मजा । (१३।१०२)
veśmadvāraṃ samāsādya vihvalantī nṛpātmajā |
लज्जया च परीताङ्गी राजन् राजसमक्षतः । (१३।१०४)
lajjayā ca parītāṅgī rājan rājasamakṣataḥ |
अघृणा किं नु वक्ष्यामि दुःषन्तं मम कारणात् । (१३।१०५)
aghṛṇā kiṃ nu vakṣyāmi duḥṣantaṃ mama kāraṇāt |
एवम् उक्त्वा तु कृपणा चिन्तयन्ती शकुन्तला ॥ (१३।१०६)
evam uktvā tu kṛpaṇā cintayantī śakuntalā ||
सिंहासनस्थं राजानं महेन्द्रसदृशद्युतिम् । (१४।४)
siṃhāsanasthaṃ rājānaṃ mahendrasadṛśadyutim |
पूजयित्वा यथान्यायम् अब्रवीत् तं शकुन्तला । (१५।१)
pūjayitvā yathānyāyam abravīt taṃ śakuntalā |
एवम् उक्त्वा सुतं तत्र लज्जानतमुखी स्थिता । (१५।४)
evam uktvā sutaṃ tatra lajjānatamukhī sthitā |
स्तम्भम् आलिङ्ग्य राजानं प्रसीदस्वेत्युवाच सा । (१५।५)
stambham āliṅgya rājānaṃ prasīdasvetyuvāca sā |
शाकुन्तलो ऽपि राजानम् अभिवाद्य कृताञ्जलिः । (१५।६)
śākuntalo 'pi rājānam abhivādya kṛtāñjaliḥ |
दुःषन्तो धर्मबुद्ध्या तु चिन्तयन्न् एव सो ऽब्रवीत् । (१५।८)
duḥṣanto dharmabuddhyā tu cintayann eva so 'bravīt |
किम् आगमनकार्यं ते ब्रूहि त्वं वरवर्णिनि । (१५।९)
kim āgamanakāryaṃ te brūhi tvaṃ varavarṇini |
अयं पुत्रस्त्वया राजन् यौवराज्ये ऽभिषिच्यताम् ॥ (१५।१२)
ayaṃ putrastvayā rājan yauvarājye 'bhiṣicyatām ||
त्वया ह्ययं सुतो राजन् मय्युत्पन्नः सुरोपमः । (१६।१)
tvayā hyayaṃ suto rājan mayyutpannaḥ suropamaḥ |
तस्योपभोगसक्तस्य स्त्रीषु चान्यासु भारत । (१७।४)
tasyopabhogasaktasya strīṣu cānyāsu bhārata |
स धारयन् मनस्येनां सपुत्रां सस्मितां तदा । (१७।६)
sa dhārayan manasyenāṃ saputrāṃ sasmitāṃ tadā |
सो ऽथ श्रुत्वैव तद् वाक्यं तस्या राजा स्मरन्न् अपि । (१८।१)
so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api |
अब्रवीन् न स्मरामीति कस्य त्वं दुष्टतापसि । (१८।२)
abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi |
मैथुनं च वृथा नाहं गच्छेयम् इति मे मतिः । (१८।३)
maithunaṃ ca vṛthā nāhaṃ gaccheyam iti me matiḥ |
धर्मकामार्थसंबन्धं न स्मरामि त्वया सह । (१९।१)
dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha |
गच्छ वा तिष्ठ वा कामं यद् वापीच्छसि तत् कुरु ॥ (१९।२)
gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru ||
विसंज्ञेव च दुःखेन तस्थौ स्थाणुर् इवाचला ॥ (२०।२)
visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā ||
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसंपुटा । (२१।१)
saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā |
कटाक्षैर् निर्दहन्तीव तिर्यग् राजानम् ऐक्षत ॥ (२१।२)
kaṭākṣair nirdahantīva tiryag rājānam aikṣata ||
सा मुहूर्तम् इव ध्यात्वा दुःखामर्षसमन्विता । (२३।१)
sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā |
भर्तारम् अभिसम्प्रेक्ष्य क्रुद्धा वचनम् अब्रवीत् ॥ (२३।२)
bhartāram abhisamprekṣya kruddhā vacanam abravīt ||
जानन्न् अपि महाराज कस्माद् एवं प्रभाषसे । (२४।१)
jānann api mahārāja kasmād evaṃ prabhāṣase |
न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा ॥ (२४।२)
na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtastathā ||
कल्याण बत साक्षी त्वं मात्मानम् अवमन्यथाः ॥ (२५।२)
kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ ||
यो ऽन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते । (२६।१)
yo 'nyathā santam ātmānam anyathā pratipadyate |
एको ऽहम् अस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम् । (२७।१)
eko 'ham asmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam |
यो वेदिता कर्मणः पापकस्य तस्यान्तिके त्वं वृजिनं करोषि । (२७।२)
yo veditā karmaṇaḥ pāpakasya tasyāntike tvaṃ vṛjinaṃ karoṣi |
नित्यं मिथ्याविहीनानां न च दुःखावहो भवेत् ॥ (२७।४)
nityaṃ mithyāvihīnānāṃ na ca duḥkhāvaho bhavet ||
मन्यते पापकं कृत्वा न कश्चिद् वेत्ति माम् इति । (२८।१)
manyate pāpakaṃ kṛtvā na kaścid vetti mām iti |
विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः ॥ (२८।२)
vidanti cainaṃ devāśca svaścaivāntarapūruṣaḥ ||
आदित्यचन्द्रावनिलानलौ च द्यौर् भूमिर् आपो हृदयं यमश्च । (२९।१)
ādityacandrāvanilānalau ca dyaur bhūmir āpo hṛdayaṃ yamaśca |
अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ (२९।२)
ahaśca rātriśca ubhe ca saṃdhye dharmaśca jānāti narasya vṛttam ||
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥ (३०।२)
hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati ||
न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः । (३१।१)
na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ |
तं यमः पापकर्माणं निर्यातयति दुष्कृतम् ॥ (३१।२)
taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam ||
देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् ॥ (३२।२)
devā na tasya śreyāṃso yasyātmāpi na kāraṇam ||
स्वयं प्राप्तेति माम् एवं मावमंस्थाः पतिव्रताम् । (३३।१)
svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām |
अर्घ्यार्हां नार्चयसि मां स्वयं भार्याम् उपस्थिताम् ॥ (३३।२)
arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām ||
किमर्थं मां प्राकृतवद् उपप्रेक्षसि संसदि । (३४।१)
kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi |
न खल्वहम् इदं शून्ये रौमि किं न शृणोषि मे ॥ (३४।२)
na khalvaham idaṃ śūnye raumi kiṃ na śṛṇoṣi me ||
दुःषन्त शतधा मूर्धा ततस्ते ऽद्य फलिष्यति ॥ (३५।२)
duḥṣanta śatadhā mūrdhā tataste 'dya phaliṣyati ||
भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः । (३६।१)
bhāryāṃ patiḥ sampraviśya sa yasmājjāyate punaḥ |
तत् तारयति संतत्या पूर्वप्रेतान् पितामहान् ॥ (३७।२)
tat tārayati saṃtatyā pūrvapretān pitāmahān ||
पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः । (३८।१)
punnāmno narakād yasmāt pitaraṃ trāyate sutaḥ |
तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयम्भुवा । (३८।२)
tasmāt putra iti proktaḥ svayam eva svayambhuvā |
पुत्रेण लोकाञ् जयति पुत्रेणानन्त्यम् अश्नुते । (३८।३)
putreṇa lokāñ jayati putreṇānantyam aśnute |
अथ पुत्रस्य पुत्रेण मोदन्ते प्रपितामहाः ॥ (३८।४)
atha putrasya putreṇa modante prapitāmahāḥ ||
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती । (३९।१)
sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī |
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ (३९।२)
sā bhāryā yā patiprāṇā sā bhāryā yā pativratā ||
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा । (४०।१)
ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā |
भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ॥ (४०।४)
bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ ||
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः । (४१।१)
bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ |
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः । (४१।२)
bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ |
ब्रह्मा सुरासुरगुरुः सो ऽपि शक्तिं पुराकरोत् । (४१।३)
brahmā surāsuraguruḥ so 'pi śaktiṃ purākarot |
प्रकृतिं स्वां प्रविश्याशु ब्रह्माण्डम् अभवत् ततः । (४१।४)
prakṛtiṃ svāṃ praviśyāśu brahmāṇḍam abhavat tataḥ |
भर्तव्या रक्षणीया च भार्या हि पतिना सदा । (४१।५)
bhartavyā rakṣaṇīyā ca bhāryā hi patinā sadā |
धर्मार्थकामसंसिद्धौ भार्या भर्तुः सहायिनी । (४१।६)
dharmārthakāmasaṃsiddhau bhāryā bhartuḥ sahāyinī |
तदा धर्मार्थकामानां त्रयाणाम् अपि संगमः । (४१।८)
tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ |
कथं भार्याम् ऋते धर्मः कथं वा पुरुषः प्रभो । (४१।९)
kathaṃ bhāryām ṛte dharmaḥ kathaṃ vā puruṣaḥ prabho |
प्राप्नोति कामम् अर्थं वाप्यस्यां त्रितयम् आहितम् । (४१।१०)
prāpnoti kāmam arthaṃ vāpyasyāṃ tritayam āhitam |
तथैव भर्तारम् ऋते भार्या धर्मादिसाधने । (४१।११)
tathaiva bhartāram ṛte bhāryā dharmādisādhane |
न समर्था त्रिवर्गो ऽयं दंपत्योः समुपाश्रितः । (४१।१२)
na samarthā trivargo 'yaṃ daṃpatyoḥ samupāśritaḥ |
देवतातिथिभृत्यानाम् अतिथीनां च पूजनम् । (४१।१३)
devatātithibhṛtyānām atithīnāṃ ca pūjanam |
न पुंभिः शक्यते कर्तुम् ऋते भार्यां कथंचन । (४१।१४)
na puṃbhiḥ śakyate kartum ṛte bhāryāṃ kathaṃcana |
प्राप्तो ऽपि चार्थो मनुजैर् आनीतो ऽपि निजं गृहम् । (४१।१५)
prāpto 'pi cārtho manujair ānīto 'pi nijaṃ gṛham |
नाशम् एति विना भार्यां कुभार्यासंग्रहेण वा । (४१।१६)
nāśam eti vinā bhāryāṃ kubhāryāsaṃgraheṇa vā |
कामस्तु नैव तस्यास्ति प्रत्यक्षेणोपदृश्यते ॥ (४१।१७)
kāmastu naiva tasyāsti pratyakṣeṇopadṛśyate ||
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः । (४२।१)
sakhāyaḥ pravivikteṣu bhavantyetāḥ priyaṃvadāḥ |
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥ (४२।२)
pitaro dharmakāryeṣu bhavantyārtasya mātaraḥ ||
कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै । (४३।१)
kāntāreṣvapi viśrāmo narasyādhvanikasya vai |
यः सदारः स विश्वास्यस्तस्माद् दाराः परा गतिः ॥ (४३।२)
yaḥ sadāraḥ sa viśvāsyastasmād dārāḥ parā gatiḥ ||
भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥ (४४।२)
bhāryaivānveti bhartāraṃ satataṃ yā pativratā ||
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते । (४५।१)
prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate |
पूर्वं मृतं च भर्तारं पश्चात् साध्व्यनुगच्छति ॥ (४५।२)
pūrvaṃ mṛtaṃ ca bhartāraṃ paścāt sādhvyanugacchati ||
एतस्मात् कारणाद् राजन् पाणिग्रहणम् इष्यते । (४६।१)
etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate |
यद् आप्नोति पतिर् भार्याम् इह लोके परत्र च । (४६।२)
yad āpnoti patir bhāryām iha loke paratra ca |
पोषणार्थं शरीरस्य पाथेयं स्वर्गतस्य वै ॥ (४६।३)
poṣaṇārthaṃ śarīrasya pātheyaṃ svargatasya vai ||
आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः । (४७।१)
ātmātmanaiva janitaḥ putra ityucyate budhaiḥ |
तस्माद् भार्यां नरः पश्येन् मातृवत् पुत्रमातरम् । (४७।२)
tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram |
अन्तरात्मैव सर्वस्य पुत्रो नामोच्यते सदा । (४७।३)
antarātmaiva sarvasya putro nāmocyate sadā |
पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानि च । (४७।५)
pitṝṇāṃ yāni dṛśyante putrāṇāṃ santi tāni ca |
तेषां शीलगुणाचाराः संपर्काच्च शुभाशुभात् ॥ (४७।६)
teṣāṃ śīlaguṇācārāḥ saṃparkācca śubhāśubhāt ||
भार्यायां जनितं पुत्रम् आदर्शे स्वम् इवाननम् । (४८।१)
bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam |
ह्लादते जनिता प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत् । (४८।२)
hlādate janitā prekṣya svargaṃ prāpyeva puṇyakṛt |
कुलं विनाश्य भर्तॄणां नरकं यान्ति दारुणम् । (४८।४)
kulaṃ vināśya bhartṝṇāṃ narakaṃ yānti dāruṇam |
परेण जनिताः पुत्राः स्वभार्यायां यथेष्टतः । (४८।५)
pareṇa janitāḥ putrāḥ svabhāryāyāṃ yatheṣṭataḥ |
द्विषन्ति प्रतिकुर्वन्ति न ते वचनकारिणः । (४८।७)
dviṣanti pratikurvanti na te vacanakāriṇaḥ |
द्वेष्टि तांश्च पिता चापि स्वबीजे न तथा नृप । (४८।८)
dveṣṭi tāṃśca pitā cāpi svabīje na tathā nṛpa |
न द्वेष्टि पितरं पुत्रो जनितारम् अथापि वा । (४८।९)
na dveṣṭi pitaraṃ putro janitāram athāpi vā |
न द्वेष्टि जनिता पुत्रं तस्माद् आत्मा सुतो भवेत् ॥ (४८।१०)
na dveṣṭi janitā putraṃ tasmād ātmā suto bhavet ||
दह्यमाना मनोदुःखैर् व्याधिभिश्चातुरा नराः । (४९।१)
dahyamānā manoduḥkhair vyādhibhiścāturā narāḥ |
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव । (४९।२)
hlādante sveṣu dāreṣu gharmārtāḥ salileṣviva |
ते ऽपि स्वदारांस्तुष्यन्ति दरिद्रा धनलाभवत् ॥ (४९।४)
te 'pi svadārāṃstuṣyanti daridrā dhanalābhavat ||
सुसंरब्धो ऽपि रामाणां न ब्रूयाद् अप्रियं बुधः । (५०।१)
susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ |
रतिं प्रीतिं च धर्मं च तास्वायत्तम् अवेक्ष्य च । (५०।२)
ratiṃ prītiṃ ca dharmaṃ ca tāsvāyattam avekṣya ca |
आत्मनो ऽर्धम् इति श्रौतं सा रक्षति धनं प्रजा । (५०।३)
ātmano 'rdham iti śrautaṃ sā rakṣati dhanaṃ prajā |
शरीरं लोकयात्रां वै धर्मं स्वर्गम् ऋषीन् पितॄन् ॥ (५०।४)
śarīraṃ lokayātrāṃ vai dharmaṃ svargam ṛṣīn pitṝn ||
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् । (५१।१)
ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam |
ऋषीणाम् अपि का शक्तिः स्रष्टुं रामाम् ऋते प्रजाः । (५१।२)
ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ |
देवानाम् अपि का शक्तिः कर्तुं संभवम् आत्मनः । (५१।३)
devānām api kā śaktiḥ kartuṃ saṃbhavam ātmanaḥ |
पण्डितस्यापि लोकेषु स्त्रीषु सृष्टिः प्रतिष्ठिता । (५१।४)
paṇḍitasyāpi lokeṣu strīṣu sṛṣṭiḥ pratiṣṭhitā |
पितुर् आश्लिष्यते ऽङ्गानि किम् इवास्त्यधिकं ततः ॥ (५२।२)
pitur āśliṣyate 'ṅgāni kim ivāstyadhikaṃ tataḥ ||
स त्वं स्वयम् अनुप्राप्तं साभिलाषम् इमं सुतम् । (५३।१)
sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam |
प्रेक्षमाणं च काक्षेण किमर्थम् अवमन्यसे ॥ (५३।२)
prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase ||
अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः । (५४।१)
aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ |
न भरेथाः कथं नु त्वं धर्मज्ञः सन् स्वम् आत्मजम् । (५४।२)
na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam |
ममाण्डानीति वर्धन्ते कोकिलाण्डानि वायसाः । (५४।३)
mamāṇḍānīti vardhante kokilāṇḍāni vāyasāḥ |
किं पुनस्त्वं न मन्येथाः सर्वज्ञः पुत्रम् ईदृशम् । (५४।४)
kiṃ punastvaṃ na manyethāḥ sarvajñaḥ putram īdṛśam |
शिशोर् आलिङ्गनं तस्माच्चन्दनाद् अधिकं भवेत् ॥ (५४।६)
śiśor āliṅganaṃ tasmāccandanād adhikaṃ bhavet ||
न वाससां न रामाणां नापां स्पर्शस्तथा सुखः । (५५।१)
na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśastathā sukhaḥ |
शिशोर् आलिङ्ग्यमानस्य स्पर्शः सूनोर् यथा सुखः ॥ (५५।२)
śiśor āliṅgyamānasya sparśaḥ sūnor yathā sukhaḥ ||
ब्राह्मणो द्विपदां श्रेष्ठो गौर् वरिष्ठा चतुष्पदाम् । (५६।१)
brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām |
गुरुर् गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥ (५६।२)
gurur garīyasāṃ śreṣṭhaḥ putraḥ sparśavatāṃ varaḥ ||
स्पृशतु त्वां समाश्लिष्य पुत्रो ऽयं प्रियदर्शनः । (५७।१)
spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ |
अपुत्रस्य जगच्छून्यम् अपुत्रस्य गृहेण किम् । (५७।२)
aputrasya jagacchūnyam aputrasya gṛheṇa kim |
नास्ति पुत्रसमः स्नेहो नास्ति पुत्रसमं सुखम् । (५७।४)
nāsti putrasamaḥ sneho nāsti putrasamaṃ sukham |
नास्ति पुत्रसमा प्रीतिः नास्ति पुत्रसमा गतिः । (५७।५)
nāsti putrasamā prītiḥ nāsti putrasamā gatiḥ |
अनृतं वक्ति लोको ऽयं चन्दनं किल शीतलम् । (५७।६)
anṛtaṃ vakti loko 'yaṃ candanaṃ kila śītalam |
पुत्रस्पर्शात् सुखतरः स्पर्शो लोके न विद्यते ॥ (५७।८)
putrasparśāt sukhataraḥ sparśo loke na vidyate ||
त्रिषु वर्षेषु पूर्णेषु प्रजाताहम् अरिंदम । (५८।१)
triṣu varṣeṣu pūrṇeṣu prajātāham ariṃdama |
अद्यायं मन्नियोगात् तु तवाह्वानं प्रतीक्षते । (५८।२)
adyāyaṃ manniyogāt tu tavāhvānaṃ pratīkṣate |
राजसूयादिकान् अन्यान् क्रतून् अमितदक्षिणान् । (५९।२)
rājasūyādikān anyān kratūn amitadakṣiṇān |
इति वाग् अन्तरिक्षे मां सूतके ऽभ्यवदत् पुरा ॥ (५९।३)
iti vāg antarikṣe māṃ sūtake 'bhyavadat purā ||
ननु नामाङ्कम् आरोप्य स्नेहाद् ग्रामान्तरं गताः । (६०।१)
nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ |
मूर्ध्नि पुत्रान् उपाघ्राय प्रतिनन्दन्ति मानवाः ॥ (६०।४)
mūrdhni putrān upāghrāya pratinandanti mānavāḥ ||
वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः । (६१।१)
vedeṣvapi vadantīmaṃ mantravādaṃ dvijātayaḥ |
अङ्गाद् अङ्गात् सम्भवसि हृदयाद् अभिजायसे । (६२।१)
aṅgād aṅgāt sambhavasi hṛdayād abhijāyase |
पोषो हि त्वदधीनो मे संतानम् अपि चाक्षयम् । (६३।१)
poṣo hi tvadadhīno me saṃtānam api cākṣayam |
तस्मात् त्वं जीव मे वत्स सुसुखी शरदां शतम् । (६३।२)
tasmāt tvaṃ jīva me vatsa susukhī śaradāṃ śatam |
एको भूत्वा द्विधा भूत इति वादः प्रदृश्यते ॥ (६३।३)
eko bhūtvā dvidhā bhūta iti vādaḥ pradṛśyate ||
त्वदङ्गेभ्यः प्रसूतो ऽयं पुरुषात् पुरुषो ऽपरः । (६४।१)
tvadaṅgebhyaḥ prasūto 'yaṃ puruṣāt puruṣo 'paraḥ |
सरसीवामल आत्मानं द्वितीयं पश्य मे सुतम् । (६४।२)
sarasīvāmala ātmānaṃ dvitīyaṃ paśya me sutam |
सरसीवामले सोमं प्रेक्षात्मानं त्वम् आत्मनि ॥ (६४।३)
sarasīvāmale somaṃ prekṣātmānaṃ tvam ātmani ||
यथा ह्याहवनीयो ऽग्निर् गार्हपत्यात् प्रणीयते । (६५।१)
yathā hyāhavanīyo 'gnir gārhapatyāt praṇīyate |
तथा त्वत्तः प्रसूतो ऽयं त्वम् एकः सन् द्विधा कृतः ॥ (६५।२)
tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ ||
विश्वाची च घृताची च षड् एवाप्सरसां वराः ॥ (६७।२)
viśvācī ca ghṛtācī ca ṣaḍ evāpsarasāṃ varāḥ ||
तासां मां मेनका नाम ब्रह्मयोनिर् वराप्सराः । (६८।१)
tāsāṃ māṃ menakā nāma brahmayonir varāpsarāḥ |
दिवः सम्प्राप्य जगतीं विश्वामित्राद् अजीजनत् । (६८।२)
divaḥ samprāpya jagatīṃ viśvāmitrād ajījanat |
कुशस्य पुत्रो बलवान् कुशनाभश्च धार्मिकः । (६८।५)
kuśasya putro balavān kuśanābhaśca dhārmikaḥ |
गाधिस्तस्य सुतो राजा विश्वामित्रस्तु गाधिजः । (६८।६)
gādhistasya suto rājā viśvāmitrastu gādhijaḥ |
एवंविधः पिता राजन् माता मे मेनकाप्सराः ॥ (६८।७)
evaṃvidhaḥ pitā rājan mātā me menakāpsarāḥ ||
सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः । (६९।१)
sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ |
पक्षिणः पुण्यवन्तस्ते सहिता धर्मतस्तदा । (६९।३)
pakṣiṇaḥ puṇyavantaste sahitā dharmatastadā |
पक्षैस्तैर् अभिगुप्ता च तस्माद् अस्मि शकुन्तला । (६९।४)
pakṣaistair abhiguptā ca tasmād asmi śakuntalā |
जलार्थम् अग्निहोत्रस्य गतं दृष्ट्वा तु पक्षिणः । (६९।६)
jalārtham agnihotrasya gataṃ dṛṣṭvā tu pakṣiṇaḥ |
न्यासभूताम् इव मुनेः प्रददुर् मां दयावतः । (६९।७)
nyāsabhūtām iva muneḥ pradadur māṃ dayāvataḥ |
कण्वस्त्वालोक्य मां प्रीतो हसन्तीति हविर्भुजः । (६९।८)
kaṇvastvālokya māṃ prīto hasantīti havirbhujaḥ |
सा वै संभाविता राजन्न् अनुक्रोशान् महर्षिणा । (६९।१०)
sā vai saṃbhāvitā rājann anukrośān maharṣiṇā |
तेनैव स्वसुतेवाहं राजन् वै वरवर्णिनी । (६९।११)
tenaiva svasutevāhaṃ rājan vai varavarṇinī |
विश्वामित्रसुता चाहं वर्धिता मुनिना नृप । (६९।१२)
viśvāmitrasutā cāhaṃ vardhitā muninā nṛpa |
यौवने वर्तमानां च दृष्टवान् असि मां नृप । (६९।१३)
yauvane vartamānāṃ ca dṛṣṭavān asi māṃ nṛpa |
धात्रा प्रचोदितां शून्ये पित्रा विरहितां मिथः । (६९।१५)
dhātrā pracoditāṃ śūnye pitrā virahitāṃ mithaḥ |
वाग्भिस्त्वं सूनृताभिर् माम् अपत्यार्थम् अचूचुदः । (६९।१६)
vāgbhistvaṃ sūnṛtābhir mām apatyārtham acūcudaḥ |
अकार्षीस्त्वाश्रमे वासं धर्मकामार्थनिश्चितम् । (६९।१७)
akārṣīstvāśrame vāsaṃ dharmakāmārthaniścitam |
गान्धर्वेण विवाहेन विधिना पाणिम् अग्रहीः । (६९।१८)
gāndharveṇa vivāhena vidhinā pāṇim agrahīḥ |
साहं कुलं च शीलं च सत्यवादित्वम् आत्मनः । (६९।१९)
sāhaṃ kulaṃ ca śīlaṃ ca satyavāditvam ātmanaḥ |
स्वधर्मं च पुरस्कृत्य त्वाम् अद्य शरणं गता । (६९।२०)
svadharmaṃ ca puraskṛtya tvām adya śaraṇaṃ gatā |
तस्मान् नार्हसि संश्रुत्य तथेति वितथं वचः । (६९।२१)
tasmān nārhasi saṃśrutya tatheti vitathaṃ vacaḥ |
स्वधर्मं पृष्ठतः कृत्वा परित्यक्तुम् उपस्थिताम् । (६९।२२)
svadharmaṃ pṛṣṭhataḥ kṛtvā parityaktum upasthitām |
त्वन्नाथां लोकनाथस्त्वं नार्हसि त्वम् अनागसम् ॥ (६९।२३)
tvannāthāṃ lokanāthastvaṃ nārhasi tvam anāgasam ||
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि । (७०।१)
kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavatyasmi janmani |
यद् अहं बान्धवैस्त्यक्ता बाल्ये संप्रति च त्वया । (७०।२)
yad ahaṃ bāndhavaistyaktā bālye saṃprati ca tvayā |
कामं त्वया परित्यक्ता गमिष्याम्यहम् आश्रमम् । (७१।१)
kāmaṃ tvayā parityaktā gamiṣyāmyaham āśramam |
इमं तु बालं संत्यक्तुं नार्हस्यात्मजम् आत्मना ॥ (७१।२)
imaṃ tu bālaṃ saṃtyaktuṃ nārhasyātmajam ātmanā ||
न पुत्रम् अभिजानामि त्वयि जातं शकुन्तले । (७२।२)
na putram abhijānāmi tvayi jātaṃ śakuntale |
असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ॥ (७२।३)
asatyavacanā nāryaḥ kaste śraddhāsyate vacaḥ ||
यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता ॥ (७३।२)
yayā himavataḥ pṛṣṭhe nirmālyeva praveritā ||
विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः । (७४।२)
viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ |
सुषाव सुरनारी मां विश्वामित्राद् यथेष्टतः । (७४।३)
suṣāva suranārī māṃ viśvāmitrād yatheṣṭataḥ |
अहो जानामि ते जन्म कुत्सितं कुलटे जनैः ॥ (७४।४)
aho jānāmi te janma kutsitaṃ kulaṭe janaiḥ ||
मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता । (७५।१)
menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā |
तयोर् अपत्यं कस्मात् त्वं पुंश्चलीवाभिधास्यसि । (७५।२)
tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi |
जनयित्वा त्वम् उत्सृष्टा कोकिलेव परैर् भृता । (७५।४)
janayitvā tvam utsṛṣṭā kokileva parair bhṛtā |
अरिष्टैर् इव दुर्बुद्धिः कण्वो वर्धयिता पिता । (७५।५)
ariṣṭair iva durbuddhiḥ kaṇvo vardhayitā pitā |
अश्रद्धेयम् इदं वाक्यं यत् त्वं जल्पसि तापसि । (७५।६)
aśraddheyam idaṃ vākyaṃ yat tvaṃ jalpasi tāpasi |
ब्रुवन्ती राजसांनिध्ये गम्यतां यत्र चेच्छसि । (७५।७)
bruvantī rājasāṃnidhye gamyatāṃ yatra cecchasi |
यद् इहेच्छसि भोगार्थं तापसि प्रतिगृह्यताम् ॥ (७५।९)
yad ihecchasi bhogārthaṃ tāpasi pratigṛhyatām ||
अश्रद्धेयम् इदं वाक्यं कथयन्ती न लज्जसे । (७६।१)
aśraddheyam idaṃ vākyaṃ kathayantī na lajjase |
क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका । (७७।१)
kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā |
अतिकायश्च पुत्रस्ते बालो ऽपि बलवान् अयम् । (७८।१)
atikāyaśca putraste bālo 'pi balavān ayam |
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे । (७९।१)
sunikṛṣṭā ca yoniste puṃścalī pratibhāsi me |
सर्वम् एतत् परोक्षं मे यत् त्वं वदसि तापसि । (८०।१)
sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi |
सर्वा वामाः स्त्रियो लोके सर्वाः कामपरायणाः । (८०।२)
sarvā vāmāḥ striyo loke sarvāḥ kāmaparāyaṇāḥ |
सर्वाः स्त्रियः परवशाः सर्वाः क्रोधसमाकुलाः । (८०।३)
sarvāḥ striyaḥ paravaśāḥ sarvāḥ krodhasamākulāḥ |
असत्योक्ताः स्त्रियः सर्वा न कण्वं वक्तुम् अर्हसि । (८०।४)
asatyoktāḥ striyaḥ sarvā na kaṇvaṃ vaktum arhasi |
नाहं त्वाम् अभिजानामि यथेष्टं गम्यतां त्वया ॥ (८०।५)
nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā ||
Data courtesy of The Digital Corpus of Sanskrit.