महाभारतMahābhārata

MBh, 12, 186

1514 of 1995 · 66 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

आचारस्य विधिं तात प्रोच्यमानं त्वयानघ । (१।२)

ācārasya vidhiṃ tāta procyamānaṃ tvayānagha |

1.3१.३

श्रोतुम् इच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः ॥ (१।३)

śrotum icchāmi dharmajña sarvajño hyasi me mataḥ ||

2.1२.१

भीष्म उवाच । (२।१)

bhīṣma uvāca

2.2२.२

दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः । (२।२)

durācārā durviceṣṭā duṣprajñāḥ priyasāhasāḥ |

2.3२.३

असन्तो ह्यभिविख्याताः सन्तश्चाचारलक्षणाः ॥ (२।३)

asanto hyabhivikhyātāḥ santaścācāralakṣaṇāḥ ||

3.1३.१

पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः । (३।१)

purīṣaṃ yadi vā mūtraṃ ye na kurvanti mānavāḥ |

3.2३.२

राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः ॥ (३।२)

rājamārge gavāṃ madhye dhānyamadhye ca te śubhāḥ ||

4.1४.१

शौचम् आवश्यकं कृत्वा देवतानां च तर्पणम् । (४।१)

śaucam āvaśyakaṃ kṛtvā devatānāṃ ca tarpaṇam |

4.2४.२

धर्मम् आहुर् मनुष्याणाम् उपस्पृश्य नदीं तरेत् ॥ (४।२)

dharmam āhur manuṣyāṇām upaspṛśya nadīṃ taret ||

5.1५.१

सूर्यं सदोपतिष्ठेत न स्वप्याद् भास्करोदये । (५।१)

sūryaṃ sadopatiṣṭheta na svapyād bhāskarodaye |

5.2५.२

सायं प्रातर् जपन् संध्यां तिष्ठेत् पूर्वां तथापराम् ॥ (५।२)

sāyaṃ prātar japan saṃdhyāṃ tiṣṭhet pūrvāṃ tathāparām ||

6.1६.१

पञ्चार्द्रो भोजनं कुर्यात् प्राङ्मुखो मौनम् आस्थितः । (६।१)

pañcārdro bhojanaṃ kuryāt prāṅmukho maunam āsthitaḥ |

6.2६.२

न निन्देद् अन्नभक्ष्यांश्च स्वाद्वस्वादु च भक्षयेत् ॥ (६।२)

na ninded annabhakṣyāṃśca svādvasvādu ca bhakṣayet ||

7.1७.१

नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि । (७।१)

nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi |

7.2७.२

देवर्षिनारदप्रोक्तम् एतद् आचारलक्षणम् ॥ (७।२)

devarṣināradaproktam etad ācāralakṣaṇam ||

8.1८.१

शुचिकामम् अनड्वाहं देवगोष्ठं चतुष्पथम् । (८।१)

śucikāmam anaḍvāhaṃ devagoṣṭhaṃ catuṣpatham |

8.2८.२

ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात् प्रदक्षिणम् ॥ (८।२)

brāhmaṇaṃ dhārmikaṃ caiva nityaṃ kuryāt pradakṣiṇam ||

9.1९.१

अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च । (९।१)

atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca |

9.2९.२

सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते ॥ (९।२)

sāmānyaṃ bhojanaṃ bhṛtyaiḥ puruṣasya praśasyate ||

10.1१०.१

सायं प्रातर् मनुष्याणाम् अशनं देवनिर्मितम् । (१०।१)

sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam |

10.2१०.२

नान्तरा भोजनं दृष्टम् उपवासी तथा भवेत् ॥ (१०।२)

nāntarā bhojanaṃ dṛṣṭam upavāsī tathā bhavet ||

11.1११.१

होमकाले तथा जुह्वन्न् ऋतुकाले तथा व्रजन् । (११।१)

homakāle tathā juhvann ṛtukāle tathā vrajan |

11.2११.२

अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत् ॥ (११।२)

ananyastrījanaḥ prājño brahmacārī tathā bhavet ||

12.1१२.१

अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम् । (१२।१)

amṛtaṃ brāhmaṇocchiṣṭaṃ jananyā hṛdayaṃ kṛtam |

12.2१२.२

उपासीत जनः सत्यं सत्यं सन्त उपासते ॥ (१२।२)

upāsīta janaḥ satyaṃ satyaṃ santa upāsate ||

13.1१३.१

यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् । (१३।१)

yajuṣā saṃskṛtaṃ māṃsaṃ nivṛtto māṃsabhakṣaṇāt |

13.2१३.२

न भक्षयेद् वृथामांसं पृष्ठमांसं च वर्जयेत् ॥ (१३।२)

na bhakṣayed vṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet ||

14.1१४.१

स्वदेशे परदेशे वा अतिथिं नोपवासयेत् । (१४।१)

svadeśe paradeśe vā atithiṃ nopavāsayet |

14.2१४.२

काम्यं कर्मफलं लब्ध्वा गुरूणाम् उपपादयेत् ॥ (१४।२)

kāmyaṃ karmaphalaṃ labdhvā gurūṇām upapādayet ||

15.1१५.१

गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम् । (१५।१)

gurubhya āsanaṃ deyaṃ kartavyaṃ cābhivādanam |

15.2१५.२

गुरून् अभ्यर्च्य युज्यन्ते आयुषा यशसा श्रिया ॥ (१५।२)

gurūn abhyarcya yujyante āyuṣā yaśasā śriyā ||

16.1१६.१

नेक्षेतादित्यम् उद्यन्तं न च नग्नां परस्त्रियम् । (१६।१)

nekṣetādityam udyantaṃ na ca nagnāṃ parastriyam |

16.2१६.२

मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत् ॥ (१६।२)

maithunaṃ samaye dharmyaṃ guhyaṃ caiva samācaret ||

17.1१७.१

तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः । (१७।१)

tīrthānāṃ hṛdayaṃ tīrthaṃ śucīnāṃ hṛdayaṃ śuciḥ |

17.2१७.२

सर्वम् आर्यकृतं शौचं वालसंस्पर्शनानि च ॥ (१७।२)

sarvam āryakṛtaṃ śaucaṃ vālasaṃsparśanāni ca ||

18.1१८.१

दर्शने दर्शने नित्यं सुखप्रश्नम् उदाहरेत् । (१८।१)

darśane darśane nityaṃ sukhapraśnam udāharet |

18.2१८.२

सायं प्रातश्च विप्राणां प्रदिष्टम् अभिवादनम् ॥ (१८।२)

sāyaṃ prātaśca viprāṇāṃ pradiṣṭam abhivādanam ||

19.1१९.१

देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे । (१९।१)

devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe |

19.2१९.२

स्वाध्याये भोजने चैव दक्षिणं पाणिम् उद्धरेत् ॥ (१९।२)

svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet ||

20.1२०.१

पण्यानां शोभनं पण्यं कृषीणां बाद्यते कृषिः । (२०।१)

paṇyānāṃ śobhanaṃ paṇyaṃ kṛṣīṇāṃ bādyate kṛṣiḥ |

20.2२०.२

बहुकारं च सस्यानां वाह्ये वाह्यं तथा गवाम् ॥ (२०।२)

bahukāraṃ ca sasyānāṃ vāhye vāhyaṃ tathā gavām ||

21.1२१.१

सम्पन्नं भोजने नित्यं पानीये तर्पणं तथा । (२१।१)

sampannaṃ bhojane nityaṃ pānīye tarpaṇaṃ tathā |

21.2२१.२

सुशृतं पायसे ब्रूयाद् यवाग्वां कृसरे तथा ॥ (२१।२)

suśṛtaṃ pāyase brūyād yavāgvāṃ kṛsare tathā ||

22.1२२.१

श्मश्रुकर्मणि सम्प्राप्ते क्षुते स्नाने ऽथ भोजने । (२२।१)

śmaśrukarmaṇi samprāpte kṣute snāne 'tha bhojane |

22.2२२.२

व्याधितानां च सर्वेषाम् आयुष्यम् अभिनन्दनम् ॥ (२२।२)

vyādhitānāṃ ca sarveṣām āyuṣyam abhinandanam ||

23.1२३.१

प्रत्यादित्यं न मेहेत न पश्येद् आत्मनः शकृत् । (२३।१)

pratyādityaṃ na meheta na paśyed ātmanaḥ śakṛt |

23.2२३.२

सुतस्त्रिया च शयनं सहभोज्यं च वर्जयेत् ॥ (२३।२)

sutastriyā ca śayanaṃ sahabhojyaṃ ca varjayet ||

24.1२४.१

त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत् । (२४।१)

tvaṃkāraṃ nāmadheyaṃ ca jyeṣṭhānāṃ parivarjayet |

24.2२४.२

अवराणां समानानाम् उभयेषां न दुष्यति ॥ (२४।२)

avarāṇāṃ samānānām ubhayeṣāṃ na duṣyati ||

25.1२५.१

हृदयं पापवृत्तानां पापम् आख्याति वैकृतम् । (२५।१)

hṛdayaṃ pāpavṛttānāṃ pāpam ākhyāti vaikṛtam |

25.2२५.२

ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥ (२५।२)

jñānapūrvaṃ vinaśyanti gūhamānā mahājane ||

26.1२६.१

ज्ञानपूर्वं कृतं पापं छादयन्त्यबहुश्रुताः । (२६।१)

jñānapūrvaṃ kṛtaṃ pāpaṃ chādayantyabahuśrutāḥ |

26.2२६.२

नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः ॥ (२६।२)

nainaṃ manuṣyāḥ paśyanti paśyanti tridivaukasaḥ ||

27.1२७.१

पापेन हि कृतं पापं पापम् एवानुवर्तते । (२७।१)

pāpena hi kṛtaṃ pāpaṃ pāpam evānuvartate |

27.2२७.२

धार्मिकेण कृतो धर्मः कर्तारम् अनुवर्तते ॥ (२७।२)

dhārmikeṇa kṛto dharmaḥ kartāram anuvartate ||

28.1२८.१

पापं कृतं न स्मरतीह मूढो विवर्तमानस्य तद् एति कर्तुः । (२८।१)

pāpaṃ kṛtaṃ na smaratīha mūḍho vivartamānasya tad eti kartuḥ |

28.2२८.२

राहुर् यथा चन्द्रम् उपैति चापि तथाबुधं पापम् उपैति कर्म ॥ (२८।२)

rāhur yathā candram upaiti cāpi tathābudhaṃ pāpam upaiti karma ||

29.1२९.१

आशया संचितं द्रव्यं यत् काले नेह भुज्यते । (२९।१)

āśayā saṃcitaṃ dravyaṃ yat kāle neha bhujyate |

29.2२९.२

तद् बुधा न प्रशंसन्ति मरणं न प्रतीक्षते ॥ (२९।२)

tad budhā na praśaṃsanti maraṇaṃ na pratīkṣate ||

30.1३०.१

मानसं सर्वभूतानां धर्मम् आहुर् मनीषिणः । (३०।१)

mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ |

30.2३०.२

तस्मात् सर्वेषु भूतेषु मनसा शिवम् आचरेत् ॥ (३०।२)

tasmāt sarveṣu bhūteṣu manasā śivam ācaret ||

31.1३१.१

एक एव चरेद् धर्मं नास्ति धर्मे सहायता । (३१।१)

eka eva cared dharmaṃ nāsti dharme sahāyatā |

31.2३१.२

केवलं विधिम् आसाद्य सहायः किं करिष्यति ॥ (३१।२)

kevalaṃ vidhim āsādya sahāyaḥ kiṃ kariṣyati ||

32.1३२.१

देवा योनिर् मनुष्याणां देवानाम् अमृतं दिवि । (३२।१)

devā yonir manuṣyāṇāṃ devānām amṛtaṃ divi |

32.2३२.२

प्रेत्यभावे सुखं धर्माच्छश्वत् तैर् उपभुज्यते ॥ (३२।२)

pretyabhāve sukhaṃ dharmācchaśvat tair upabhujyate ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 186

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit