महाभारतMahābhārata

MBh, 1, 202

202 of 1995 · 55 verses

Select a line for its word-by-word analysis.

1.1१.१

नारद उवाच । (१।१)

nārada uvāca

1.2१.२

उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ । (१।२)

utsave vṛttamātre tu trailokyākāṅkṣiṇāvubhau |

1.3१.३

मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा ॥ (१।३)

mantrayitvā tataḥ senāṃ tāvājñāpayatāṃ tadā ||

2.1२.१

सुहृद्भिर् अभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः । (२।१)

suhṛdbhir abhyanujñātau daityavṛddhaiśca mantribhiḥ |

2.2२.२

कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ॥ (२।२)

kṛtvā prāsthānikaṃ rātrau maghāsu yayatustadā ||

3.1३.१

गदापट्टिशधारिण्या शूलमुद्गरहस्तया । (३।१)

gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā |

3.2३.२

प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया ॥ (३।२)

prasthitau sahadharmiṇyā mahatyā daityasenayā ||

4.1४.१

मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः । (४।१)

maṅgalaiḥ stutibhiścāpi vijayapratisaṃhitaiḥ |

4.2४.२

चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ॥ (४।२)

cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā ||

5.1५.१

तावन्तरिक्षम् उत्पत्य दैत्यौ कामगमावुभौ । (५।१)

tāvantarikṣam utpatya daityau kāmagamāvubhau |

5.2५.२

देवानाम् एव भवनं जग्मतुर् युद्धदुर्मदौ ॥ (५।२)

devānām eva bhavanaṃ jagmatur yuddhadurmadau ||

6.1६.१

तयोर् आगमनं ज्ञात्वा वरदानं च तत् प्रभोः । (६।१)

tayor āgamanaṃ jñātvā varadānaṃ ca tat prabhoḥ |

6.2६.२

हित्वा त्रिविष्टपं जग्मुर् ब्रह्मलोकं ततः सुराः ॥ (६।२)

hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ ||

7.1७.१

ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा । (७।१)

tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā |

7.2७.२

खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ ॥ (७।२)

khecarāṇyapi bhūtāni jigyatustīvravikramau ||

8.1८.१

अन्तर्भूमिगतान् नागाञ् जित्वा तौ च महासुरौ । (८।१)

antarbhūmigatān nāgāñ jitvā tau ca mahāsurau |

8.2८.२

समुद्रवासिनः सर्वान् म्लेच्छजातीन् विजिग्यतुः ॥ (८।२)

samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ ||

9.1९.१

ततः सर्वां महीं जेतुम् आरब्धावुग्रशासनौ । (९।१)

tataḥ sarvāṃ mahīṃ jetum ārabdhāvugraśāsanau |

9.2९.२

सैनिकांश्च समाहूय सुतीक्ष्णां वाचम् ऊचतुः ॥ (९।२)

sainikāṃśca samāhūya sutīkṣṇāṃ vācam ūcatuḥ ||

10.1१०.१

राजर्षयो महायज्ञैर् हव्यकव्यैर् द्विजातयः । (१०।१)

rājarṣayo mahāyajñair havyakavyair dvijātayaḥ |

10.2१०.२

तेजो बलं च देवानां वर्धयन्ति श्रियं तथा ॥ (१०।२)

tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā ||

11.1११.१

तेषाम् एवं प्रवृद्धानां सर्वेषाम् असुरद्विषाम् । (११।१)

teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām |

11.2११.२

सम्भूय सर्वैर् अस्माभिः कार्यः सर्वात्मना वधः ॥ (११।२)

sambhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ ||

12.1१२.१

एवं सर्वान् समादिश्य पूर्वतीरे महोदधेः । (१२।१)

evaṃ sarvān samādiśya pūrvatīre mahodadheḥ |

12.2१२.२

क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् ॥ (१२।२)

krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham ||

13.1१३.१

यज्ञैर् यजन्ते ये केचिद् याजयन्ति च ये द्विजाः । (१३।१)

yajñair yajante ye kecid yājayanti ca ye dvijāḥ |

13.2१३.२

तान् सर्वान् प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा ॥ (१३।२)

tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatustadā ||

14.1१४.१

आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् । (१४।१)

āśrameṣvagnihotrāṇi ṛṣīṇāṃ bhāvitātmanām |

14.2१४.२

गृहीत्वा प्रक्षिपन्त्य् अप्सु विश्रब्धाः सैनिकास्तयोः ॥ (१४।२)

gṛhītvā prakṣipanty apsu viśrabdhāḥ sainikāstayoḥ ||

15.1१५.१

तपोधनैश्च ये शापाः क्रुद्धैर् उक्ता महात्मभिः । (१५।१)

tapodhanaiśca ye śāpāḥ kruddhair uktā mahātmabhiḥ |

15.2१५.२

नाक्रामन्ति तयोस्ते ऽपि वरदानेन जृम्भतोः ॥ (१५।२)

nākrāmanti tayoste 'pi varadānena jṛmbhatoḥ ||

16.1१६.१

नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव । (१६।१)

nākrāmanti yadā śāpā bāṇā muktāḥ śilāsviva |

16.2१६.२

नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः ॥ (१६।२)

niyamāṃstadā parityajya vyadravanta dvijātayaḥ ||

17.1१७.१

पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः । (१७।१)

pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ |

17.2१७.२

तयोर् भयाद् दुद्रुवुस्ते वैनतेयाद् इवोरगाः ॥ (१७।२)

tayor bhayād dudruvuste vainateyād ivoragāḥ ||

18.1१८.१

मथितैर् आश्रमैर् भग्नैर् विकीर्णकलशस्रुवैः । (१८।१)

mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ |

18.2१८.२

शून्यम् आसीज्जगत् सर्वं कालेनेव हतं यथा ॥ (१८।२)

śūnyam āsījjagat sarvaṃ kāleneva hataṃ yathā ||

19.1१९.१

राजर्षिभिर् अदृश्यद्भिर् ऋषिभिश्च महासुरौ । (१९।१)

rājarṣibhir adṛśyadbhir ṛṣibhiśca mahāsurau |

19.2१९.२

उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ॥ (१९।२)

ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau ||

20.1२०.१

प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ । (२०।१)

prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau |

20.2२०.२

संलीनान् अपि दुर्गेषु निन्यतुर् यमसादनम् ॥ (२०।२)

saṃlīnān api durgeṣu ninyatur yamasādanam ||

21.1२१.१

सिंहौ भूत्वा पुनर् व्याघ्रौ पुनश्चान्तर्हितावुभौ । (२१।१)

siṃhau bhūtvā punar vyāghrau punaścāntarhitāvubhau |

21.2२१.२

तैस्तैर् उपायैस्तौ क्रूराव् ऋषीन् दृष्ट्वा निजघ्नतुः ॥ (२१।२)

taistair upāyaistau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ ||

22.1२२.१

निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा । (२२।१)

nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā |

22.2२२.२

उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥ (२२।२)

utsannotsavayajñā ca babhūva vasudhā tadā ||

23.1२३.१

हाहाभूता भयार्ता च निवृत्तविपणापणा । (२३।१)

hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā |

23.2२३.२

निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ॥ (२३।२)

nivṛttadevakāryā ca puṇyodvāhavivarjitā ||

24.1२४.१

निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा । (२४।१)

nivṛttakṛṣigorakṣā vidhvastanagarāśramā |

24.2२४.२

अस्थिकङ्कालसंकीर्णा भूर् बभूवोग्रदर्शना ॥ (२४।२)

asthikaṅkālasaṃkīrṇā bhūr babhūvogradarśanā ||

25.1२५.१

निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् । (२५।१)

nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam |

25.2२५.२

जगत् प्रतिभयाकारं दुष्प्रेक्ष्यम् अभवत् तदा ॥ (२५।२)

jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā ||

26.1२६.१

चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः । (२६।१)

candrādityau grahāstārā nakṣatrāṇi divaukasaḥ |

26.2२६.२

जग्मुर् विषादं तत् कर्म दृष्ट्वा सुन्दोपसुन्दयोः ॥ (२६।२)

jagmur viṣādaṃ tat karma dṛṣṭvā sundopasundayoḥ ||

27.1२७.१

एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा । (२७।१)

evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā |

27.2२७.२

निःसपत्नौ कुरुक्षेत्रे निवेशम् अभिचक्रतुः ॥ (२७।२)

niḥsapatnau kurukṣetre niveśam abhicakratuḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 202

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit