महाभारतMahābhārata

MBh, 12, 107

1435 of 1995 · 59 verses

Select a line for its word-by-word analysis.

1.1१.१

राजपुत्र उवाच । (१।१)

rājaputra uvāca

1.2१.२

न निकृत्या न दम्भेन ब्रह्मन्न् इच्छामि जीवितुम् । (१।२)

na nikṛtyā na dambhena brahmann icchāmi jīvitum |

1.3१.३

नाधर्मयुक्तान् इच्छेयम् अर्थान् सुमहतो ऽप्यहम् ॥ (१।३)

nādharmayuktān iccheyam arthān sumahato 'pyaham ||

2.1२.१

पुरस्ताद् एव भगवन्मयैतद् अपवर्जितम् । (२।१)

purastād eva bhagavanmayaitad apavarjitam |

2.2२.२

येन मां नाभिशङ्केत यद् वा कृत्स्नं हितं भवेत् ॥ (२।२)

yena māṃ nābhiśaṅketa yad vā kṛtsnaṃ hitaṃ bhavet ||

3.1३.१

आनृशंस्येन धर्मेण लोके ह्यस्मिञ् जिजीविषुः । (३।१)

ānṛśaṃsyena dharmeṇa loke hyasmiñ jijīviṣuḥ |

3.2३.२

नाहम् एतद् अलं कर्तुं नैतन्मय्युपपद्यते ॥ (३।२)

nāham etad alaṃ kartuṃ naitanmayyupapadyate ||

4.1४.१

मुनिर् उवाच । (४।१)

munir uvāca

4.2४.२

उपपन्नस्त्वम् एतेन यथा क्षत्रिय भाषसे । (४।२)

upapannastvam etena yathā kṣatriya bhāṣase |

4.3४.३

प्रकृत्या ह्युपपन्नो ऽसि बुद्ध्या चाद्भुतदर्शन ॥ (४।३)

prakṛtyā hyupapanno 'si buddhyā cādbhutadarśana ||

5.1५.१

उभयोर् एव वाम् अर्थे यतिष्ये तव तस्य च । (५।१)

ubhayor eva vām arthe yatiṣye tava tasya ca |

5.2५.२

संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम् ॥ (५।२)

saṃśleṣaṃ vā kariṣyāmi śāśvataṃ hyanapāyinam ||

6.1६.१

त्वादृशं हि कुले जातम् अनृशंसं बहुश्रुतम् । (६।१)

tvādṛśaṃ hi kule jātam anṛśaṃsaṃ bahuśrutam |

6.2६.२

अमात्यं को न कुर्वीत राज्यप्रणयकोविदम् ॥ (६।२)

amātyaṃ ko na kurvīta rājyapraṇayakovidam ||

7.1७.१

यस्त्वं प्रव्रजितो राज्याद् व्यसनं चोत्तमं गतः । (७।१)

yastvaṃ pravrajito rājyād vyasanaṃ cottamaṃ gataḥ |

7.2७.२

आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम् ॥ (७।२)

ānṛśaṃsyena vṛttena kṣatriyecchasi jīvitum ||

8.1८.१

आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः । (८।१)

āgantā madgṛhaṃ tāta vaidehaḥ satyasaṃgaraḥ |

8.2८.२

यथाहं तं नियोक्ष्यामि तत् करिष्यत्यसंशयम् ॥ (८।२)

yathāhaṃ taṃ niyokṣyāmi tat kariṣyatyasaṃśayam ||

9.1९.१

भीष्म उवाच । (९।१)

bhīṣma uvāca

9.2९.२

तत आहूय वैदेहं मुनिर् वचनम् अब्रवीत् । (९।२)

tata āhūya vaidehaṃ munir vacanam abravīt |

9.3९.३

अयं राजकुले जातो विदिताभ्यन्तरो मम ॥ (९।३)

ayaṃ rājakule jāto viditābhyantaro mama ||

10.1१०.१

आदर्श इव शुद्धात्मा शारदश्चन्द्रमा इव । (१०।१)

ādarśa iva śuddhātmā śāradaścandramā iva |

10.2१०.२

नास्मिन् पश्यामि वृजिनं सर्वतो मे परीक्षितः ॥ (१०।२)

nāsmin paśyāmi vṛjinaṃ sarvato me parīkṣitaḥ ||

11.1११.१

तेन ते संधिर् एवास्तु विश्वसास्मिन् यथा मयि । (११।१)

tena te saṃdhir evāstu viśvasāsmin yathā mayi |

11.2११.२

न राज्यम् अनमात्येन शक्यं शास्तुम् अमित्रहन् ॥ (११।२)

na rājyam anamātyena śakyaṃ śāstum amitrahan ||

12.1१२.१

अमात्यः शूर एव स्याद् बुद्धिसम्पन्न एव च । (१२।१)

amātyaḥ śūra eva syād buddhisampanna eva ca |

12.2१२.२

ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम् । (१२।२)

tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam |

12.3१२.३

धर्मात्मनां क्वचिल् लोके नान्यास्ति गतिर् ईदृशी ॥ (१२।३)

dharmātmanāṃ kvacil loke nānyāsti gatir īdṛśī ||

13.1१३.१

कृतात्मा राजपुत्रो ऽयं सतां मार्गम् अनुष्ठितः । (१३।१)

kṛtātmā rājaputro 'yaṃ satāṃ mārgam anuṣṭhitaḥ |

13.2१३.२

सुसंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः । (१३।२)

susaṃgṛhītastvevaiṣa tvayā dharmapurogamaḥ |

13.3१३.३

संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान् ॥ (१३।३)

saṃsevyamānaḥ śatrūṃste gṛhṇīyānmahato gaṇān ||

14.1१४.१

यद्ययं प्रतियुध्येत् त्वां स्वकर्म क्षत्रियस्य तत् । (१४।१)

yadyayaṃ pratiyudhyet tvāṃ svakarma kṣatriyasya tat |

14.2१४.२

जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे ॥ (१४।२)

jigīṣamāṇastvāṃ yuddhe pitṛpaitāmahe pade ||

15.1१५.१

त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः । (१५।१)

tvaṃ cāpi pratiyudhyethā vijigīṣuvrate sthitaḥ |

15.2१५.२

अयुद्ध्वैव नियोगान्मे वशे वैदेह ते स्थितः ॥ (१५।२)

ayuddhvaiva niyogānme vaśe vaideha te sthitaḥ ||

16.1१६.१

स त्वं धर्मम् अवेक्षस्व त्यक्त्वाधर्मम् असांप्रतम् । (१६।१)

sa tvaṃ dharmam avekṣasva tyaktvādharmam asāṃpratam |

16.2१६.२

न हि कामान्न च द्रोहात् स्वधर्मं हातुम् अर्हसि ॥ (१६।२)

na hi kāmānna ca drohāt svadharmaṃ hātum arhasi ||

17.1१७.१

नैव नित्यं जयस्तात नैव नित्यं पराजयः । (१७।१)

naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ |

17.2१७.२

तस्माद् भोजयितव्यश्च भोक्तव्यश्च परो जनः ॥ (१७।२)

tasmād bhojayitavyaśca bhoktavyaśca paro janaḥ ||

18.1१८.१

आत्मन्येव हि संदृश्यावुभौ जयपराजयौ । (१८।१)

ātmanyeva hi saṃdṛśyāvubhau jayaparājayau |

18.2१८.२

निःशेषकारिणां तात निःशेषकरणाद् भयम् ॥ (१८।२)

niḥśeṣakāriṇāṃ tāta niḥśeṣakaraṇād bhayam ||

19.1१९.१

इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् । (१९।१)

ityuktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham |

19.2१९.२

अभिपूज्याभिसत्कृत्य पूजार्हम् अनुमान्य च ॥ (१९।२)

abhipūjyābhisatkṛtya pūjārham anumānya ca ||

20.1२०.१

यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद् बहुश्रुतः । (२०।१)

yathā brūyānmahāprājño yathā brūyād bahuśrutaḥ |

20.2२०.२

श्रेयस्कामो यथा ब्रूयाद् उभयोर् यत् क्षमं भवेत् ॥ (२०।२)

śreyaskāmo yathā brūyād ubhayor yat kṣamaṃ bhavet ||

21.1२१.१

तथा वचनम् उक्तो ऽस्मि करिष्यामि च तत् तथा । (२१।१)

tathā vacanam ukto 'smi kariṣyāmi ca tat tathā |

21.2२१.२

एतद्धि परमं श्रेयो न मे ऽत्रास्ति विचारणा ॥ (२१।२)

etaddhi paramaṃ śreyo na me 'trāsti vicāraṇā ||

22.1२२.१

ततः कौशल्यम् आहूय वैदेहो वाक्यम् अब्रवीत् । (२२।१)

tataḥ kauśalyam āhūya vaideho vākyam abravīt |

22.2२२.२

धर्मतो नीतितश्चैव बलेन च जितो मया ॥ (२२।२)

dharmato nītitaścaiva balena ca jito mayā ||

23.1२३.१

सो ऽहं त्वया त्वात्मगुणैर् जितः पार्थिवसत्तम । (२३।१)

so 'haṃ tvayā tvātmaguṇair jitaḥ pārthivasattama |

23.2२३.२

आत्मानम् अनवज्ञाय जितवद् वर्ततां भवान् ॥ (२३।२)

ātmānam anavajñāya jitavad vartatāṃ bhavān ||

24.1२४.१

नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम् । (२४।१)

nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam |

24.2२४.२

नावमन्ये जयामीति जितवद् वर्ततां भवान् ॥ (२४।२)

nāvamanye jayāmīti jitavad vartatāṃ bhavān ||

25.1२५.१

यथावत् पूजितो राजन् गृहं गन्तासि मे गृहात् । (२५।१)

yathāvat pūjito rājan gṛhaṃ gantāsi me gṛhāt |

25.2२५.२

ततः सम्पूज्य तौ विप्रं विश्वस्तौ जग्मतुर् गृहान् ॥ (२५।२)

tataḥ sampūjya tau vipraṃ viśvastau jagmatur gṛhān ||

26.1२६.१

वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहम् अञ्जसा । (२६।१)

vaidehastvatha kausalyaṃ praveśya gṛham añjasā |

26.2२६.२

पाद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत् ॥ (२६।२)

pādyārghyamadhuparkaistaṃ pūjārhaṃ pratyapūjayat ||

27.1२७.१

ददौ दुहितरं चास्मै रत्नानि विविधानि च । (२७।१)

dadau duhitaraṃ cāsmai ratnāni vividhāni ca |

27.2२७.२

एष राज्ञां परो धर्मः सह्यौ जयपराजयौ ॥ (२७।२)

eṣa rājñāṃ paro dharmaḥ sahyau jayaparājayau ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 107

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit