महाभारतMahābhārata

MBh, 1, 105

105 of 1995 · 133 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

रूपसत्त्वगुणोपेता धर्मारामा महाव्रता । (१।२)

rūpasattvaguṇopetā dharmārāmā mahāvratā |

1.3१.३

दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे । (१।३)

duhitā kuntibhojasya kṛte pitrā svayaṃvare |

1.4१.४

तां तु तेजस्विनीं कन्यां रूपयौवनशालिनीम् । (१।४)

tāṃ tu tejasvinīṃ kanyāṃ rūpayauvanaśālinīm |

1.5१.५

नावृण्वन् पार्थिवाः केचिद् अतीव स्त्रीगुणैर् युताम् । (१।५)

nāvṛṇvan pārthivāḥ kecid atīva strīguṇair yutām |

1.6१.६

ततः सा कुन्तिभोजेन राज्ञाहूय नराधिपान् । (१।६)

tataḥ sā kuntibhojena rājñāhūya narādhipān |

1.7१.७

पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम । (१।७)

pitrā svayaṃvare dattā duhitā rājasattama |

1.8१.८

ततः सा रङ्गमध्यस्थं तेषां राज्ञां मनस्विनी । (१।८)

tataḥ sā raṅgamadhyasthaṃ teṣāṃ rājñāṃ manasvinī |

1.9१.९

ददर्श राजशार्दूलं पाण्डुं भरतसत्तमम् ॥ (१।९)

dadarśa rājaśārdūlaṃ pāṇḍuṃ bharatasattamam ||

2.1२.१

सिंहदंष्ट्रं गजस्कन्धम् ऋषभाक्षं महाबलम् । (२।१)

siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam |

2.2२.२

पतिं वव्रे महेष्वासं पाण्डुं कुन्ती यशस्विनी । (२।२)

patiṃ vavre maheṣvāsaṃ pāṇḍuṃ kuntī yaśasvinī |

2.3२.३

आदित्यम् इव सर्वेषां राज्ञां प्रच्छाद्य वै प्रभाः । (२।३)

ādityam iva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ |

2.4२.४

तिष्ठन्तं राजसमितौ पुरंदरम् इवापरम् । (२।४)

tiṣṭhantaṃ rājasamitau puraṃdaram ivāparam |

2.5२.५

तं दृष्ट्वा सानवद्याङ्गी कुन्तिभोजसुता शुभा । (२।५)

taṃ dṛṣṭvā sānavadyāṅgī kuntibhojasutā śubhā |

2.6२.६

पाण्डुं नरवरं रङ्गे हृदयेनाकुलाभवत् । (२।६)

pāṇḍuṃ naravaraṃ raṅge hṛdayenākulābhavat |

2.7२.७

ततः कामपरीताङ्गी सकृत् प्रचलमानसा । (२।७)

tataḥ kāmaparītāṅgī sakṛt pracalamānasā |

2.8२.८

व्रीडमाना स्रजं कुन्ती राज्ञः स्कन्धे समासृजत् । (२।८)

vrīḍamānā srajaṃ kuntī rājñaḥ skandhe samāsṛjat |

2.9२.९

तं निशम्य वृतं पाण्डुं कुन्त्या सर्वे नराधिपाः । (२।९)

taṃ niśamya vṛtaṃ pāṇḍuṃ kuntyā sarve narādhipāḥ |

2.10२.१०

यथागतं समाजग्मुर् गजैर् अश्वै रथैस्तथा । (२।१०)

yathāgataṃ samājagmur gajair aśvai rathaistathā |

2.11२.११

ततस्तस्याः पिता राजन्न् उद्वाहम् अकरोत् प्रभुः । (२।११)

tatastasyāḥ pitā rājann udvāham akarot prabhuḥ |

2.12२.१२

भूमिपालसहस्राणां मध्ये पाण्डुम् अविन्दत ॥ (२।१२)

bhūmipālasahasrāṇāṃ madhye pāṇḍum avindata ||

3.1३.१

स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः । (३।१)

sa tayā kuntibhojasya duhitrā kurunandanaḥ |

3.2३.२

युयुजे ऽमितसौभाग्यः पौलोम्या मघवान् इव ॥ (३।२)

yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva ||

4.1४.१

यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् । (४।१)

yātvā devavratenāpi madrāṇāṃ puṭabhedanam |

4.2४.२

विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ॥ (४।२)

viśrutā triṣu lokeṣu mādrī madrapateḥ sutā ||

5.1५.१

सर्वराजसु विख्याता रूपेणासदृशी भुवि । (५।१)

sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi |

5.2५.२

पाण्डोर् अर्थे परिक्रीता धनेन महता तदा । (५।२)

pāṇḍor arthe parikrītā dhanena mahatā tadā |

5.3५.३

विवाहं कारयामास भीष्मः पाण्डोर् महात्मनः ॥ (५।३)

vivāhaṃ kārayāmāsa bhīṣmaḥ pāṇḍor mahātmanaḥ ||

6.1६.१

सिंहोरस्कं गजस्कन्धम् ऋषभाक्षं मनस्विनम् । (६।१)

siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam |

6.2६.२

पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि ॥ (६।२)

pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi ||

7.1७.१

कृतोद्वाहस्ततः पाण्डुर् बलोत्साहसमन्वितः । (७।१)

kṛtodvāhastataḥ pāṇḍur balotsāhasamanvitaḥ |

7.2७.२

गोप्ता भरतवंशस्य श्रीमान् सर्वास्त्रकोविदः । (७।२)

goptā bharatavaṃśasya śrīmān sarvāstrakovidaḥ |

7.3७.३

जिगीषमाणो वसुधां ययौ शत्रून् अनेकशः । (७।३)

jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśaḥ |

7.4७.४

वैशंपायन उवाच । (७।४)

vaiśaṃpāyana uvāca

7.5७.५

कुन्त्याः पाण्डोश्च राजेन्द्र कुन्तिभोजो महीपतिः । (७।५)

kuntyāḥ pāṇḍośca rājendra kuntibhojo mahīpatiḥ |

7.6७.६

कृत्वोद्वाहं तदा तं तु नानावसुभिर् अर्चितम् । (७।६)

kṛtvodvāhaṃ tadā taṃ tu nānāvasubhir arcitam |

7.7७.७

स्वपुरं प्रेषयामास स राजा कुरुसत्तमम् । (७।७)

svapuraṃ preṣayāmāsa sa rājā kurusattamam |

7.8७.८

ततो बलेन महता नानाध्वजपताकिना । (७।८)

tato balena mahatā nānādhvajapatākinā |

7.9७.९

स्तूयमानः स चाशीभिर् ब्राह्मणैश्च महर्षिभिः । (७।९)

stūyamānaḥ sa cāśībhir brāhmaṇaiśca maharṣibhiḥ |

7.10७.१०

सम्प्राप्य नगरं राजा पाण्डुः कौरवनन्दनः । (७।१०)

samprāpya nagaraṃ rājā pāṇḍuḥ kauravanandanaḥ |

7.11७.११

न्यवेशयत तां भार्यां कुन्तीं स्वभवने प्रभुः । (७।११)

nyaveśayata tāṃ bhāryāṃ kuntīṃ svabhavane prabhuḥ |

7.12७.१२

ततः शांतनवो भीष्मो राज्ञः पाण्डोर् यशस्विनः । (७।१२)

tataḥ śāṃtanavo bhīṣmo rājñaḥ pāṇḍor yaśasvinaḥ |

7.13७.१३

विवाहस्यापरस्यार्थे चकार मतिमान् मतिम् । (७।१३)

vivāhasyāparasyārthe cakāra matimān matim |

7.14७.१४

सो ऽमात्यैः स्थविरैः सार्धं ब्राह्मणैश्च महर्षिभिः । (७।१४)

so 'mātyaiḥ sthaviraiḥ sārdhaṃ brāhmaṇaiśca maharṣibhiḥ |

7.15७.१५

बलेन चतुरङ्गेन ययौ मद्रपतेः पुरम् । (७।१५)

balena caturaṅgena yayau madrapateḥ puram |

7.16७.१६

तम् आगतम् अभिश्रुत्य भीष्मं बाह्लीकपुङ्गवः । (७।१६)

tam āgatam abhiśrutya bhīṣmaṃ bāhlīkapuṅgavaḥ |

7.17७.१७

प्रत्युद्गम्यार्चयित्वा च पुरं प्रावेशयन् नृपः । (७।१७)

pratyudgamyārcayitvā ca puraṃ prāveśayan nṛpaḥ |

7.18७.१८

दत्त्वा तस्यासनं शुभ्रं पाद्यम् अर्घ्यं तथैव च । (७।१८)

dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca |

7.19७.१९

मधुपर्कं च मद्रेशः पप्रच्छागमने ऽर्थिताम् । (७।१९)

madhuparkaṃ ca madreśaḥ papracchāgamane 'rthitām |

7.20७.२०

तं भीष्मः प्रत्युवाचेदं मद्रराजं कुरूद्वहः । (७।२०)

taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ kurūdvahaḥ |

7.21७.२१

आगतं मां विजानीहि वरार्थिनम् अरिंदम । (७।२१)

āgataṃ māṃ vijānīhi varārthinam ariṃdama |

7.22७.२२

श्रूयते भवतः साध्वी स्वसा माद्री यशस्विनी । (७।२२)

śrūyate bhavataḥ sādhvī svasā mādrī yaśasvinī |

7.23७.२३

ताम् अहं वरयिष्यामि पाण्डोर् अर्थे यशस्विनीम् । (७।२३)

tām ahaṃ varayiṣyāmi pāṇḍor arthe yaśasvinīm |

7.24७.२४

युक्तरूपो हि संबन्धे त्वं नो राजन् वयं तव । (७।२४)

yuktarūpo hi saṃbandhe tvaṃ no rājan vayaṃ tava |

7.25७.२५

एतत् संचिन्त्य मद्रेश गृहाणास्मान् यथाविधि । (७।२५)

etat saṃcintya madreśa gṛhāṇāsmān yathāvidhi |

7.26७.२६

तम् एवंवादिनं भीष्मं प्रत्यभाषत मद्रपः । (७।२६)

tam evaṃvādinaṃ bhīṣmaṃ pratyabhāṣata madrapaḥ |

7.27७.२७

न हि मे ऽन्यो वरस्त्वत्तः श्रेयान् इति मतिर् मम । (७।२७)

na hi me 'nyo varastvattaḥ śreyān iti matir mama |

7.28७.२८

पूर्वैः प्रवर्तितं किंचित् कुले ऽस्मिन् नृपसत्तमैः । (७।२८)

pūrvaiḥ pravartitaṃ kiṃcit kule 'smin nṛpasattamaiḥ |

7.29७.२९

साधु वा यदि वासाधु तन् नातिक्रान्तुम् उत्सहे । (७।२९)

sādhu vā yadi vāsādhu tan nātikrāntum utsahe |

7.30७.३०

व्यक्तं तद् भवतश्चापि विदितं नात्र संशयः । (७।३०)

vyaktaṃ tad bhavataścāpi viditaṃ nātra saṃśayaḥ |

7.31७.३१

न च युक्तं तथा वक्तुं भवान् देहीति सत्तम । (७।३१)

na ca yuktaṃ tathā vaktuṃ bhavān dehīti sattama |

7.32७.३२

कुलधर्मः स नो वीर प्रमाणं परमं च तत् । (७।३२)

kuladharmaḥ sa no vīra pramāṇaṃ paramaṃ ca tat |

7.33७.३३

तेन त्वां न ब्रवीम्येतद् असंदिग्धं वचो ऽरिहन् । (७।३३)

tena tvāṃ na bravīmyetad asaṃdigdhaṃ vaco 'rihan |

7.34७.३४

तं भीष्मः प्रत्युवाचेदं मद्रराजं महामतिः । (७।३४)

taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ mahāmatiḥ |

7.35७.३५

धर्म एष परो राजन् स्वयम् उक्तः स्वयंभुवा । (७।३५)

dharma eṣa paro rājan svayam uktaḥ svayaṃbhuvā |

7.36७.३६

नात्र कश्चन दोषो ऽस्ति पूर्वैर् विधिर् अयं कृतः । (७।३६)

nātra kaścana doṣo 'sti pūrvair vidhir ayaṃ kṛtaḥ |

7.37७.३७

विदितेयं च ते शल्य मर्यादा साधुसंमता । (७।३७)

viditeyaṃ ca te śalya maryādā sādhusaṃmatā |

7.38७.३८

इत्युक्त्वा स महातेजाः शातकुम्भं कृताकृतम् । (७।३८)

ityuktvā sa mahātejāḥ śātakumbhaṃ kṛtākṛtam |

7.39७.३९

रत्नानि च विचित्राणि शल्यायादात् सहस्रशः । (७।३९)

ratnāni ca vicitrāṇi śalyāyādāt sahasraśaḥ |

7.40७.४०

गजान् अश्वान् रथांश्चैव वासांस्याभरणानि च । (७।४०)

gajān aśvān rathāṃścaiva vāsāṃsyābharaṇāni ca |

7.41७.४१

मणिमुक्ताप्रवालं च गाङ्गेयो व्यसृजच्छुभम् । (७।४१)

maṇimuktāpravālaṃ ca gāṅgeyo vyasṛjacchubham |

7.42७.४२

तत् प्रगृह्य धनं सर्वं शल्यः संप्रीतमानसः । (७।४२)

tat pragṛhya dhanaṃ sarvaṃ śalyaḥ saṃprītamānasaḥ |

7.43७.४३

ददौ तां समलंकृत्य स्वसारं कौरवर्षभे । (७।४३)

dadau tāṃ samalaṃkṛtya svasāraṃ kauravarṣabhe |

7.44७.४४

स तां माद्रीम् उपादाय भीष्मः सागरगासुतः । (७।४४)

sa tāṃ mādrīm upādāya bhīṣmaḥ sāgaragāsutaḥ |

7.45७.४५

आजगाम पुरं धीमान् प्रविष्टो गजसाह्वयम् । (७।४५)

ājagāma puraṃ dhīmān praviṣṭo gajasāhvayam |

7.46७.४६

तत इष्टे ऽहनि प्राप्ते मुहूर्ते साधुसंमते । (७।४६)

tata iṣṭe 'hani prāpte muhūrte sādhusaṃmate |

7.47७.४७

जग्राह विधिवत् पाणिं माद्र्याः पाण्डुर् नराधिपः । (७।४७)

jagrāha vidhivat pāṇiṃ mādryāḥ pāṇḍur narādhipaḥ |

7.48७.४८

ततो विवाहे निर्वृत्ते स राजा कुरुनन्दनः । (७।४८)

tato vivāhe nirvṛtte sa rājā kurunandanaḥ |

7.49७.४९

स्थापयामास तां भार्यां शुभे वेश्मनि भाविनीम् । (७।४९)

sthāpayāmāsa tāṃ bhāryāṃ śubhe veśmani bhāvinīm |

7.50७.५०

स ताभ्यां व्यचरत् सार्धं भार्याभ्यां राजसत्तमः । (७।५०)

sa tābhyāṃ vyacarat sārdhaṃ bhāryābhyāṃ rājasattamaḥ |

7.51७.५१

कुन्त्या माद्र्या च राजेन्द्रो यथाकामं यथासुखम् । (७।५१)

kuntyā mādryā ca rājendro yathākāmaṃ yathāsukham |

7.52७.५२

ततः स कौरवो राजा विहृत्य त्रिदशा निशाः । (७।५२)

tataḥ sa kauravo rājā vihṛtya tridaśā niśāḥ |

7.53७.५३

जिगीषया महीं पाण्डुर् निश्चक्राम पुरात् प्रभो । (७।५३)

jigīṣayā mahīṃ pāṇḍur niścakrāma purāt prabho |

7.54७.५४

स भीष्मप्रमुखान् वृद्धान् अभिवाद्य प्रणम्य च । (७।५४)

sa bhīṣmapramukhān vṛddhān abhivādya praṇamya ca |

7.55७.५५

धृतराष्ट्रं च कौरव्यं तथान्यान् कुरुसत्तमान् । (७।५५)

dhṛtarāṣṭraṃ ca kauravyaṃ tathānyān kurusattamān |

7.56७.५६

आमन्त्र्य प्रययौ राजा तैश्चैवाभ्यनुमोदितः । (७।५६)

āmantrya prayayau rājā taiścaivābhyanumoditaḥ |

7.57७.५७

मङ्गलाचारयुक्ताभिर् आशीर्भिश्चाभिनन्दितः । (७।५७)

maṅgalācārayuktābhir āśīrbhiścābhinanditaḥ |

7.58७.५८

गजवाजिरथौघेन बलेन महतागमत् । (७।५८)

gajavājirathaughena balena mahatāgamat |

7.59७.५९

स राजा देवराजाभो विजिगीषुर् वसुंधराम् । (७।५९)

sa rājā devarājābho vijigīṣur vasuṃdharām |

7.60७.६०

हृष्टपुष्टबलः प्रायात् पाण्डुः शत्रून् अनेकशः ॥ (७।६०)

hṛṣṭapuṣṭabalaḥ prāyāt pāṇḍuḥ śatrūn anekaśaḥ ||

8.1८.१

पूर्वम् आगस्कृतो गत्वा दशार्णाः समरे जिताः । (८।१)

pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ |

8.2८.२

पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥ (८।२)

pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā ||

9.1९.१

ततः सेनाम् उपादाय पाण्डुर् नानाविधध्वजाम् । (९।१)

tataḥ senām upādāya pāṇḍur nānāvidhadhvajām |

9.2९.२

प्रभूतहस्त्यश्वरथां पदातिगणसंकुलाम् ॥ (९।२)

prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām ||

10.1१०.१

आगस्कृत् सर्ववीराणां वैरी सर्वमहीभृताम् । (१०।१)

āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām |

10.2१०.२

गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ॥ (१०।२)

goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ ||

11.1११.१

ततः कोशं समादाय वाहनानि बलानि च । (११।१)

tataḥ kośaṃ samādāya vāhanāni balāni ca |

11.2११.२

पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥ (११।२)

pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ ||

12.1१२.१

तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ । (१२।१)

tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha |

12.2१२.२

स्वबाहुबलवीर्येण कुरूणाम् अकरोद् यशः ॥ (१२।२)

svabāhubalavīryeṇa kurūṇām akarod yaśaḥ ||

13.1१३.१

तं शरौघमहाज्वालम् अस्त्रार्चिषम् अरिंदमम् । (१३।१)

taṃ śaraughamahājvālam astrārciṣam ariṃdamam |

13.2१३.२

पाण्डुपावकम् आसाद्य व्यदह्यन्त नराधिपाः ॥ (१३।२)

pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ ||

14.1१४.१

ते ससेनाः ससेनेन विध्वंसितबला नृपाः । (१४।१)

te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ |

14.2१४.२

पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ॥ (१४।२)

pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ ||

15.1१५.१

तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः । (१५।१)

tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ |

15.2१५.२

तम् एकं मेनिरे शूरं देवेष्विव पुरंदरम् ॥ (१५।२)

tam ekaṃ menire śūraṃ deveṣviva puraṃdaram ||

16.1१६.१

तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः । (१६।१)

taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ |

16.2१६.२

उपाजग्मुर् धनं गृह्य रत्नानि विविधानि च ॥ (१६।२)

upājagmur dhanaṃ gṛhya ratnāni vividhāni ca ||

17.1१७.१

मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा । (१७।१)

maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā |

17.2१७.२

गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥ (१७।२)

goratnānyaśvaratnāni ratharatnāni kuñjarān ||

18.1१८.१

खरोष्ट्रमहिषांश्चैव यच्च किंचिद् अजाविकम् । (१८।१)

kharoṣṭramahiṣāṃścaiva yacca kiṃcid ajāvikam |

18.2१८.२

तत् सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥ (१८।२)

tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ ||

19.1१९.१

तद् आदाय ययौ पाण्डुः पुनर् मुदितवाहनः । (१९।१)

tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ |

19.2१९.२

हर्षयिष्यन् स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥ (१९।२)

harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam ||

20.1२०.१

शंतनो राजसिंहस्य भरतस्य च धीमतः । (२०।१)

śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ |

20.2२०.२

प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनर् उद्धृतः ॥ (२०।२)

pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ ||

21.1२१.१

ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च । (२१।१)

ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca |

21.2२१.२

ते नागपुरसिंहेन पाण्डुना करदाः कृताः ॥ (२१।२)

te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ ||

22.1२२.१

इत्यभाषन्त राजानो राजामात्याश्च संगताः । (२२।१)

ityabhāṣanta rājāno rājāmātyāśca saṃgatāḥ |

22.2२२.२

अभ्यनन्दन्त वै पाण्डुम् आशीर्वादैः पृथग्विधैः । (२२।२)

abhyanandanta vai pāṇḍum āśīrvādaiḥ pṛthagvidhaiḥ |

22.3२२.३

प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥ (२२।३)

pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha ||

23.1२३.१

प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः । (२३।१)

pratyudyayustaṃ samprāptaṃ sarve bhīṣmapurogamāḥ |

23.2२३.२

ते नदूरम् इवाध्वानं गत्वा नागपुरालयाः । (२३।२)

te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ |

23.3२३.३

आवृतं ददृशुर् लोकं हृष्टा बहुविधैर् जनैः ॥ (२३।३)

āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ ||

24.1२४.१

नानायानसमानीतै रत्नैर् उच्चावचैस्तथा । (२४।१)

nānāyānasamānītai ratnair uccāvacaistathā |

24.2२४.२

हस्त्यश्वरथरत्नैश्च गोभिर् उष्ट्रैर् अथाविकैः । (२४।२)

hastyaśvaratharatnaiśca gobhir uṣṭrair athāvikaiḥ |

24.3२४.३

नान्तं ददृशुर् आसाद्य भीष्मेण सह कौरवाः ॥ (२४।३)

nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ ||

25.1२५.१

सो ऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः । (२५।१)

so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ |

25.2२५.२

यथार्हं मानयामास पौरजानपदान् अपि ॥ (२५।२)

yathārhaṃ mānayāmāsa paurajānapadān api ||

26.1२६.१

प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् । (२६।१)

pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam |

26.2२६.२

पुत्रम् आसाद्य भीष्मस्तु हर्षाद् अश्रूण्यवर्तयत् ॥ (२६।२)

putram āsādya bhīṣmastu harṣād aśrūṇyavartayat ||

27.1२७.१

स तूर्यशतसंघानां भेरीणां च महास्वनैः । (२७।१)

sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ |

27.2२७.२

हर्षयन् सर्वशः पौरान् विवेश गजसाह्वयम् ॥ (२७।२)

harṣayan sarvaśaḥ paurān viveśa gajasāhvayam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 105

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit