महाभारतMahābhārata

MBh, 12, 289

1617 of 1995 · 130 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

सांख्ये योगे च मे तात विशेषं वक्तुम् अर्हसि । (१।२)

sāṃkhye yoge ca me tāta viśeṣaṃ vaktum arhasi |

1.3१.३

तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम ॥ (१।३)

tava sarvajña sarvaṃ hi viditaṃ kurusattama ||

2.1२.१

भीष्म उवाच । (२।१)

bhīṣma uvāca

2.2२.२

सांख्याः सांख्यं प्रशंसन्ति योगा योगं द्विजातयः । (२।२)

sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti yogā yogaṃ dvijātayaḥ |

2.3२.३

वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय वै ॥ (२।३)

vadanti kāraṇaiḥ śraiṣṭhyaṃ svapakṣodbhāvanāya vai ||

3.1३.१

अनीश्वरः कथं मुच्येद् इत्येवं शत्रुकर्शन । (३।१)

anīśvaraḥ kathaṃ mucyed ityevaṃ śatrukarśana |

3.2३.२

वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ् मनीषिणः ॥ (३।२)

vadanti kāraṇaiḥ śraiṣṭhyaṃ yogāḥ samyaṅ manīṣiṇaḥ ||

4.1४.१

वदन्ति कारणं चेदं सांख्याः सम्यग् द्विजातयः । (४।१)

vadanti kāraṇaṃ cedaṃ sāṃkhyāḥ samyag dvijātayaḥ |

4.2४.२

विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ (४।२)

vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ ||

5.1५.१

ऊर्ध्वं स देहात् सुव्यक्तं विमुच्येद् इति नान्यथा । (५।१)

ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā |

5.2५.२

एतद् आहुर् महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् ॥ (५।२)

etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam ||

6.1६.१

स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् । (६।१)

svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam |

6.2६.२

शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः ॥ (६।२)

śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ ||

7.1७.१

प्रत्यक्षहेतवो योगाः सांख्याः शास्त्रविनिश्चयाः । (७।१)

pratyakṣahetavo yogāḥ sāṃkhyāḥ śāstraviniścayāḥ |

7.2७.२

उभे चैते मते तत्त्वे मम तात युधिष्ठिर ॥ (७।२)

ubhe caite mate tattve mama tāta yudhiṣṭhira ||

8.1८.१

उभे चैते मते ज्ञाने नृपते शिष्टसंमते । (८।१)

ubhe caite mate jñāne nṛpate śiṣṭasaṃmate |

8.2८.२

अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ (८।२)

anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim ||

9.1९.१

तुल्यं शौचं तयोर् युक्तं दया भूतेषु चानघ । (९।१)

tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānagha |

9.2९.२

व्रतानां धारणं तुल्यं दर्शनं न समं तयोः ॥ (९।२)

vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ na samaṃ tayoḥ ||

10.1१०.१

युधिष्ठिर उवाच । (१०।१)

yudhiṣṭhira uvāca

10.2१०.२

यदि तुल्यं व्रतं शौचं दया चात्र पितामह । (१०।२)

yadi tulyaṃ vrataṃ śaucaṃ dayā cātra pitāmaha |

10.3१०.३

तुल्यं न दर्शनं कस्मात् तन्मे ब्रूहि पितामह ॥ (१०।३)

tulyaṃ na darśanaṃ kasmāt tanme brūhi pitāmaha ||

11.1११.१

भीष्म उवाच । (११।१)

bhīṣma uvāca

11.2११.२

रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् । (११।२)

rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam |

11.3११.३

योगाच्छित्त्वादितो दोषान् पञ्चैतान् प्राप्नुवन्ति तत् ॥ (११।३)

yogācchittvādito doṣān pañcaitān prāpnuvanti tat ||

12.1१२.१

यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर् जलम् । (१२।१)

yathā cānimiṣāḥ sthūlā jālaṃ chittvā punar jalam |

12.2१२.२

प्राप्नुवन्ति तथा योगास्तत् पदं वीतकल्मषाः ॥ (१२।२)

prāpnuvanti tathā yogāstat padaṃ vītakalmaṣāḥ ||

13.1१३.१

तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः । (१३।१)

tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ |

13.2१३.२

प्राप्नुयुर् विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ (१३।२)

prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ ||

14.1१४.१

लोभजानि तथा राजन् बन्धनानि बलान्विताः । (१४।१)

lobhajāni tathā rājan bandhanāni balānvitāḥ |

14.2१४.२

छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः शिवम् ॥ (१४।२)

chittvā yogāḥ paraṃ mārgaṃ gacchanti vimalāḥ śivam ||

15.1१५.१

अबलाश्च मृगा राजन् वागुरासु तथापरे । (१५।१)

abalāśca mṛgā rājan vāgurāsu tathāpare |

15.2१५.२

विनश्यन्ति न संदेहस्तद्वद् योगबलाद् ऋते ॥ (१५।२)

vinaśyanti na saṃdehastadvad yogabalād ṛte ||

16.1१६.१

बलहीनाश्च कौन्तेय यथा जालगता झषाः । (१६।१)

balahīnāśca kaunteya yathā jālagatā jhaṣāḥ |

16.2१६.२

अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्बलाः ॥ (१६।२)

antaṃ gacchanti rājendra tathā yogāḥ sudurbalāḥ ||

17.1१७.१

यथा च शकुनाः सूक्ष्माः प्राप्य जालम् अरिंदम । (१७।१)

yathā ca śakunāḥ sūkṣmāḥ prāpya jālam ariṃdama |

17.2१७.२

तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः ॥ (१७।२)

tatra saktā vipadyante mucyante ca balānvitāḥ ||

18.1१८.१

कर्मजैर् बन्धनैर् बद्धास्तद्वद् योगाः परंतप । (१८।१)

karmajair bandhanair baddhāstadvad yogāḥ paraṃtapa |

18.2१८.२

अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः ॥ (१८।२)

abalā vai vinaśyanti mucyante ca balānvitāḥ ||

19.1१९.१

अल्पकश्च यथा राजन् वह्निः शाम्यति दुर्बलः । (१९।१)

alpakaśca yathā rājan vahniḥ śāmyati durbalaḥ |

19.2१९.२

आक्रान्त इन्धनैः स्थूलैस्तद्वद् योगो ऽबलः प्रभो ॥ (१९।२)

ākrānta indhanaiḥ sthūlaistadvad yogo 'balaḥ prabho ||

20.1२०.१

स एव च यदा राजन् वह्निर् जातबलः पुनः । (२०।१)

sa eva ca yadā rājan vahnir jātabalaḥ punaḥ |

20.2२०.२

समीरणयुतः कृत्स्नां दहेत् क्षिप्रं महीम् अपि ॥ (२०।२)

samīraṇayutaḥ kṛtsnāṃ dahet kṣipraṃ mahīm api ||

21.1२१.१

तद्वज्जातबलो योगी दीप्ततेजा महाबलः । (२१।१)

tadvajjātabalo yogī dīptatejā mahābalaḥ |

21.2२१.२

अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ॥ (२१।२)

antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayejjagat ||

22.1२२.१

दुर्बलश्च यथा राजन् स्रोतसा ह्रियते नरः । (२२।१)

durbalaśca yathā rājan srotasā hriyate naraḥ |

22.2२२.२

बलहीनस्तथा योगो विषयैर् ह्रियते ऽवशः ॥ (२२।२)

balahīnastathā yogo viṣayair hriyate 'vaśaḥ ||

23.1२३.१

तद् एव च यथा स्रोतो विष्टम्भयति वारणः । (२३।१)

tad eva ca yathā sroto viṣṭambhayati vāraṇaḥ |

23.2२३.२

तद्वद् योगबलं लब्ध्वा व्यूहते विषयान् बहून् ॥ (२३।२)

tadvad yogabalaṃ labdhvā vyūhate viṣayān bahūn ||

24.1२४.१

विशन्ति चावशाः पार्थ योगा योगबलान्विताः । (२४।१)

viśanti cāvaśāḥ pārtha yogā yogabalānvitāḥ |

24.2२४.२

प्रजापतीन् ऋषीन् देवान्महाभूतानि चेश्वराः ॥ (२४।२)

prajāpatīn ṛṣīn devānmahābhūtāni ceśvarāḥ ||

25.1२५.१

न यमो नान्तकः क्रुद्धो न मृत्युर् भीमविक्रमः । (२५।१)

na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ |

25.2२५.२

ईशते नृपते सर्वे योगस्यामिततेजसः ॥ (२५।२)

īśate nṛpate sarve yogasyāmitatejasaḥ ||

26.1२६.१

आत्मनां च सहस्राणि बहूनि भरतर्षभ । (२६।१)

ātmanāṃ ca sahasrāṇi bahūni bharatarṣabha |

26.2२६.२

योगः कुर्याद् बलं प्राप्य तैश्च सर्वैर् महीं चरेत् ॥ (२६।२)

yogaḥ kuryād balaṃ prāpya taiśca sarvair mahīṃ caret ||

27.1२७.१

प्राप्नुयाद् विषयांश्चैव पुनश्चोग्रं तपश्चरेत् । (२७।१)

prāpnuyād viṣayāṃścaiva punaścograṃ tapaścaret |

27.2२७.२

संक्षिपेच्च पुनः पार्थ सूर्यस्तेजोगुणान् इव ॥ (२७।२)

saṃkṣipecca punaḥ pārtha sūryastejoguṇān iva ||

28.1२८.१

बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव । (२८।१)

balasthasya hi yogasya bandhaneśasya pārthiva |

28.2२८.२

विमोक्षप्रभविष्णुत्वम् उपपन्नम् असंशयम् ॥ (२८।२)

vimokṣaprabhaviṣṇutvam upapannam asaṃśayam ||

29.1२९.१

बलानि योगे प्रोक्तानि मयैतानि विशां पते । (२९।१)

balāni yoge proktāni mayaitāni viśāṃ pate |

29.2२९.२

निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव ॥ (२९।२)

nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punastava ||

30.1३०.१

आत्मनश्च समाधाने धारणां प्रति चाभिभो । (३०।१)

ātmanaśca samādhāne dhāraṇāṃ prati cābhibho |

30.2३०.२

निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ ॥ (३०।२)

nidarśanāni sūkṣmāṇi śṛṇu me bharatarṣabha ||

31.1३१.१

अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः । (३१।१)

apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ |

31.2३१.२

युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥ (३१।२)

yuktaḥ samyak tathā yogī mokṣaṃ prāpnotyasaṃśayam ||

32.1३२.१

स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम् । (३२।१)

snehapūrṇe yathā pātre mana ādhāya niścalam |

32.2३२.२

पुरुषो यत्त आरोहेत् सोपानं युक्तमानसः ॥ (३२।२)

puruṣo yatta ārohet sopānaṃ yuktamānasaḥ ||

33.1३३.१

युक्त्वा तथायम् आत्मानं योगः पार्थिव निश्चलम् । (३३।१)

yuktvā tathāyam ātmānaṃ yogaḥ pārthiva niścalam |

33.2३३.२

करोत्यमलम् आत्मानं भास्करोपमदर्शनम् ॥ (३३।२)

karotyamalam ātmānaṃ bhāskaropamadarśanam ||

34.1३४.१

यथा च नावं कौन्तेय कर्णधारः समाहितः । (३४।१)

yathā ca nāvaṃ kaunteya karṇadhāraḥ samāhitaḥ |

34.2३४.२

महार्णवगतां शीघ्रं नयेत् पार्थिव पत्तनम् ॥ (३४।२)

mahārṇavagatāṃ śīghraṃ nayet pārthiva pattanam ||

35.1३५.१

तद्वद् आत्मसमाधानं युक्त्वा योगेन तत्त्ववित् । (३५।१)

tadvad ātmasamādhānaṃ yuktvā yogena tattvavit |

35.2३५.२

दुर्गमं स्थानम् आप्नोति हित्वा देहम् इमं नृप ॥ (३५।२)

durgamaṃ sthānam āpnoti hitvā deham imaṃ nṛpa ||

36.1३६.१

सारथिश्च यथा युक्त्वा सदश्वान् सुसमाहितः । (३६।१)

sārathiśca yathā yuktvā sadaśvān susamāhitaḥ |

36.2३६.२

देशम् इष्टं नयत्याशु धन्विनं पुरुषर्षभ ॥ (३६।२)

deśam iṣṭaṃ nayatyāśu dhanvinaṃ puruṣarṣabha ||

37.1३७.१

तथैव नृपते योगी धारणासु समाहितः । (३७।१)

tathaiva nṛpate yogī dhāraṇāsu samāhitaḥ |

37.2३७.२

प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः ॥ (३७।२)

prāpnotyāśu paraṃ sthānaṃ lakṣaṃ mukta ivāśugaḥ ||

38.1३८.१

आवेश्यात्मनि चात्मानं योगी तिष्ठति यो ऽचलः । (३८।१)

āveśyātmani cātmānaṃ yogī tiṣṭhati yo 'calaḥ |

38.2३८.२

पापं हन्तेव मीनानां पदम् आप्नोति सो ऽजरम् ॥ (३८।२)

pāpaṃ hanteva mīnānāṃ padam āpnoti so 'jaram ||

39.1३९.१

नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः । (३९।१)

nābhyāṃ kaṇṭhe ca śīrṣe ca hṛdi vakṣasi pārśvayoḥ |

39.2३९.२

दर्शने स्पर्शने चापि घ्राणे चामितविक्रम ॥ (३९।२)

darśane sparśane cāpi ghrāṇe cāmitavikrama ||

40.1४०.१

स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः । (४०।१)

sthāneṣveteṣu yo yogī mahāvratasamāhitaḥ |

40.2४०.२

आत्मना सूक्ष्मम् आत्मानं युङ्क्ते सम्यग् विशां पते ॥ (४०।२)

ātmanā sūkṣmam ātmānaṃ yuṅkte samyag viśāṃ pate ||

41.1४१.१

स शीघ्रम् अमलप्रज्ञः कर्म दग्ध्वा शुभाशुभम् । (४१।१)

sa śīghram amalaprajñaḥ karma dagdhvā śubhāśubham |

41.2४१.२

उत्तमं योगम् आस्थाय यदीच्छति विमुच्यते ॥ (४१।२)

uttamaṃ yogam āsthāya yadīcchati vimucyate ||

42.1४२.१

युधिष्ठिर उवाच । (४२।१)

yudhiṣṭhira uvāca

42.2४२.२

आहारान् कीदृशान् कृत्वा कानि जित्वा च भारत । (४२।२)

āhārān kīdṛśān kṛtvā kāni jitvā ca bhārata |

42.3४२.३

योगी बलम् अवाप्नोति तद् भवान् वक्तुम् अर्हति ॥ (४२।३)

yogī balam avāpnoti tad bhavān vaktum arhati ||

43.1४३.१

भीष्म उवाच । (४३।१)

bhīṣma uvāca

43.2४३.२

कणानां भक्षणे युक्तः पिण्याकस्य च भक्षणे । (४३।२)

kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bhakṣaṇe |

43.3४३.३

स्नेहानां वर्जने युक्तो योगी बलम् अवाप्नुयात् ॥ (४३।३)

snehānāṃ varjane yukto yogī balam avāpnuyāt ||

44.1४४.१

भुञ्जानो यावकं रूक्षं दीर्घकालम् अरिंदम । (४४।१)

bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālam ariṃdama |

44.2४४.२

एकारामो विशुद्धात्मा योगी बलम् अवाप्नुयात् ॥ (४४।२)

ekārāmo viśuddhātmā yogī balam avāpnuyāt ||

45.1४५.१

पक्षान्मासान् ऋतूंश्चित्रान् संचरंश्च गुहास्तथा । (४५।१)

pakṣānmāsān ṛtūṃścitrān saṃcaraṃśca guhāstathā |

45.2४५.२

अपः पीत्वा पयोमिश्रा योगी बलम् अवाप्नुयात् ॥ (४५।२)

apaḥ pītvā payomiśrā yogī balam avāpnuyāt ||

46.1४६.१

अखण्डम् अपि वा मासं सततं मनुजेश्वर । (४६।१)

akhaṇḍam api vā māsaṃ satataṃ manujeśvara |

46.2४६.२

उपोष्य सम्यक् शुद्धात्मा योगी बलम् अवाप्नुयात् ॥ (४६।२)

upoṣya samyak śuddhātmā yogī balam avāpnuyāt ||

47.1४७.१

कामं जित्वा तथा क्रोधं शीतोष्णे वर्षम् एव च । (४७।१)

kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca |

47.2४७.२

भयं निद्रां तथा श्वासं पौरुषं विषयांस्तथा ॥ (४७।२)

bhayaṃ nidrāṃ tathā śvāsaṃ pauruṣaṃ viṣayāṃstathā ||

48.1४८.१

अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव । (४८।१)

aratiṃ durjayāṃ caiva ghorāṃ tṛṣṇāṃ ca pārthiva |

48.2४८.२

स्पर्शान् सर्वांस्तथा तन्द्रीं दुर्जयां नृपसत्तम ॥ (४८।२)

sparśān sarvāṃstathā tandrīṃ durjayāṃ nṛpasattama ||

49.1४९.१

दीपयन्ति महात्मानः सूक्ष्मम् आत्मानम् आत्मना । (४९।१)

dīpayanti mahātmānaḥ sūkṣmam ātmānam ātmanā |

49.2४९.२

वीतरागा महाप्राज्ञा ध्यानाध्ययनसंपदा ॥ (४९।२)

vītarāgā mahāprājñā dhyānādhyayanasaṃpadā ||

50.1५०.१

दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् । (५०।१)

durgastveṣa mataḥ panthā brāhmaṇānāṃ vipaścitām |

50.2५०.२

न कश्चिद् व्रजति ह्यस्मिन् क्षेमेण भरतर्षभ ॥ (५०।२)

na kaścid vrajati hyasmin kṣemeṇa bharatarṣabha ||

51.1५१.१

यथा कश्चिद् वनं घोरं बहुसर्पसरीसृपम् । (५१।१)

yathā kaścid vanaṃ ghoraṃ bahusarpasarīsṛpam |

51.2५१.२

श्वभ्रवत् तोयहीनं च दुर्गमं बहुकण्टकम् ॥ (५१।२)

śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam ||

52.1५२.१

अभक्तम् अटवीप्रायं दावदग्धमहीरुहम् । (५२।१)

abhaktam aṭavīprāyaṃ dāvadagdhamahīruham |

52.2५२.२

पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद् युवा ॥ (५२।२)

panthānaṃ taskarākīrṇaṃ kṣemeṇābhipated yuvā ||

53.1५३.१

योगमार्गं तथासाद्य यः कश्चिद् भजते द्विजः । (५३।१)

yogamārgaṃ tathāsādya yaḥ kaścid bhajate dvijaḥ |

53.2५३.२

क्षेमेणोपरमेन्मार्गाद् बहुदोषो हि स स्मृतः ॥ (५३।२)

kṣemeṇoparamenmārgād bahudoṣo hi sa smṛtaḥ ||

54.1५४.१

सुस्थेयं क्षुरधारासु निशितासु महीपते । (५४।१)

sustheyaṃ kṣuradhārāsu niśitāsu mahīpate |

54.2५४.२

धारणासु तु योगस्य दुःस्थेयम् अकृतात्मभिः ॥ (५४।२)

dhāraṇāsu tu yogasya duḥstheyam akṛtātmabhiḥ ||

55.1५५.१

विपन्ना धारणास्तात नयन्ति नशुभां गतिम् । (५५।१)

vipannā dhāraṇāstāta nayanti naśubhāṃ gatim |

55.2५५.२

नेतृहीना यथा नावः पुरुषान् अर्णवे नृप ॥ (५५।२)

netṛhīnā yathā nāvaḥ puruṣān arṇave nṛpa ||

56.1५६.१

यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि । (५६।१)

yastu tiṣṭhati kaunteya dhāraṇāsu yathāvidhi |

56.2५६.२

मरणं जन्म दुःखं च सुखं च स विमुञ्चति ॥ (५६।२)

maraṇaṃ janma duḥkhaṃ ca sukhaṃ ca sa vimuñcati ||

57.1५७.१

नानाशास्त्रेषु निष्पन्नं योगेष्विदम् उदाहृतम् । (५७।१)

nānāśāstreṣu niṣpannaṃ yogeṣvidam udāhṛtam |

57.2५७.२

परं योगं तु यत् कृत्स्नं निश्चितं तद् द्विजातिषु ॥ (५७।२)

paraṃ yogaṃ tu yat kṛtsnaṃ niścitaṃ tad dvijātiṣu ||

58.1५८.१

परं हि तद् ब्रह्म महन्महात्मन् ब्रह्माणम् ईशं वरदं च विष्णुम् । (५८।१)

paraṃ hi tad brahma mahanmahātman brahmāṇam īśaṃ varadaṃ ca viṣṇum |

58.2५८.२

भवं च धर्मं च षडाननं च षड् ब्रह्मपुत्रांश्च महानुभावान् ॥ (५८।२)

bhavaṃ ca dharmaṃ ca ṣaḍānanaṃ ca ṣaḍ brahmaputrāṃśca mahānubhāvān ||

59.1५९.१

तमश्च कष्टं सुमहद् रजश्च सत्त्वं च शुद्धं प्रकृतिं परां च । (५९।१)

tamaśca kaṣṭaṃ sumahad rajaśca sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca |

59.2५९.२

सिद्धिं च देवीं वरुणस्य पत्नीं तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥ (५९।२)

siddhiṃ ca devīṃ varuṇasya patnīṃ tejaśca kṛtsnaṃ sumahacca dhairyam ||

60.1६०.१

ताराधिपं वै विमलं सतारं विश्वांश्च देवान् उरगान् पितॄंश्च । (६०।१)

tārādhipaṃ vai vimalaṃ satāraṃ viśvāṃśca devān uragān pitṝṃśca |

60.2६०.२

शैलांश्च कृत्स्नान् उदधींश्च घोरान् नदीश्च सर्वाः सवनान् घनांश्च ॥ (६०।२)

śailāṃśca kṛtsnān udadhīṃśca ghorān nadīśca sarvāḥ savanān ghanāṃśca ||

61.1६१.१

नागान्नगान् यक्षगणान् दिशश्च गन्धर्वसंघान् पुरुषान् स्त्रियश्च । (६१।१)

nāgānnagān yakṣagaṇān diśaśca gandharvasaṃghān puruṣān striyaśca |

61.2६१.२

परस्परं प्राप्य महान्महात्मा विशेत योगी नचिराद् विमुक्तः ॥ (६१।२)

parasparaṃ prāpya mahānmahātmā viśeta yogī nacirād vimuktaḥ ||

62.1६२.१

कथा च येयं नृपते प्रसक्ता देवे महावीर्यमतौ शुभेयम् । (६२।१)

kathā ca yeyaṃ nṛpate prasaktā deve mahāvīryamatau śubheyam |

62.2६२.२

योगान् स सर्वान् अभिभूय मर्त्यान् नारायणात्मा कुरुते महात्मा ॥ (६२।२)

yogān sa sarvān abhibhūya martyān nārāyaṇātmā kurute mahātmā ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 289

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit