MBh, 1, 148
Select a line for its word-by-word analysis.
कुतोमूलम् इदं दुःखं ज्ञातुम् इच्छामि तत्त्वतः । (१।२)
kutomūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ |
विदित्वा अपकर्षेयं शक्यं चेद् अपकर्षितुम् ॥ (१।३)
viditvā apakarṣeyaṃ śakyaṃ ced apakarṣitum ||
न तु दुःखम् इदं शक्यं मानुषेण व्यपोहितुम् । (२।३)
na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum |
तथापि तत्त्वम् आख्यास्ये एतद्दुःखस्य संभवम् । (२।४)
tathāpi tattvam ākhyāsye etadduḥkhasya saṃbhavam |
शक्यं वा यदि वाशक्यं शृणु भद्रे यथातथम् ॥ (२।५)
śakyaṃ vā yadi vāśakyaṃ śṛṇu bhadre yathātatham ||
बको नाम स नाम्ना वै दुष्टात्मा राक्षसाधमः । (३।४)
bako nāma sa nāmnā vai duṣṭātmā rākṣasādhamaḥ |
तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् । (५।२)
tatkṛte paracakrācca bhūtebhyaśca na no bhayam |
स्त्रियो बालांश्च वृद्धांश्च यूनश्चापि दुरात्मवान् । (५।६)
striyo bālāṃśca vṛddhāṃśca yūnaścāpi durātmavān |
अत्र मन्त्रैश्च होमैश्च भोजनैश्च स राक्षसः । (५।७)
atra mantraiśca homaiśca bhojanaiśca sa rākṣasaḥ |
मास्मान् कामाद् वधी रक्षो दास्यामस्ते सदा वयम् । (५।११)
māsmān kāmād vadhī rakṣo dāsyāmaste sadā vayam |
सर्पिषा च समायुक्तं व्यञ्जनैश्च विभूषितम् । (५।१४)
sarpiṣā ca samāyuktaṃ vyañjanaiśca vibhūṣitam |
स्रजश्चित्रास्तिलान् पिण्डांल् लाजापूपसुरासवान् । (५।१५)
srajaścitrāstilān piṇḍāṃl lājāpūpasurāsavān |
शृताशृतान् पानकुम्भान् स्थूलमांसं शृताशृतम् । (५।१६)
śṛtāśṛtān pānakumbhān sthūlamāṃsaṃ śṛtāśṛtam |
सर्पिःकुम्भांश्च विविधान् अन्यांश्च विविधान् बहून् । (५।१७)
sarpiḥkumbhāṃśca vividhān anyāṃśca vividhān bahūn |
अद्य सिद्धैः समायुक्तैस्तिलचूर्णैः समाकुलान् । (५।१८)
adya siddhaiḥ samāyuktaistilacūrṇaiḥ samākulān |
कुलात् कुलाच्च पुरुषं बलीवर्दौ च कालकौ । (५।१९)
kulāt kulācca puruṣaṃ balīvardau ca kālakau |
प्राप्स्यसि त्वम् असंक्रुद्धो रक्षोभागं प्रकल्पितम् । (५।२०)
prāpsyasi tvam asaṃkruddho rakṣobhāgaṃ prakalpitam |
तिष्ठेह समये ऽस्माकम् इत्ययाचन्त तं द्विजाः । (५।२१)
tiṣṭheha samaye 'smākam ityayācanta taṃ dvijāḥ |
बाढम् इत्येव तद् रक्षस्तद्वचः प्रत्यगृह्णत । (५।२२)
bāḍham ityeva tad rakṣastadvacaḥ pratyagṛhṇata |
परचक्रान् न बिभ्यंश्च रक्षणं स करोति च । (५।२३)
paracakrān na bibhyaṃśca rakṣaṇaṃ sa karoti ca |
तस्मिन् भागे विनिर्दिष्टे चास्थितः समयं बली ॥ (५।२४)
tasmin bhāge vinirdiṣṭe cāsthitaḥ samayaṃ balī ||
स वारो बहुभिर् वर्षैर् भवत्यसुतरो नरैः ॥ (७।२)
sa vāro bahubhir varṣair bhavatyasutaro naraiḥ ||
तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् । (८।१)
tadvimokṣāya ye cāpi yatante puruṣāḥ kvacit |
सपुत्रदारांस्तान् हत्वा तद् रक्षो भक्षयत्युत ॥ (८।२)
saputradārāṃstān hatvā tad rakṣo bhakṣayatyuta ||
अनामयं जनस्यास्य येन स्याद् अद्य शाश्वतम् ॥ (९।३)
anāmayaṃ janasyāsya yena syād adya śāśvatam ||
विषये नित्यम् उद्विग्नाः कुराजानम् उपाश्रिताः । (१०।२)
viṣaye nityam udvignāḥ kurājānam upāśritāḥ |
ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः । (११।१)
brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ |
गुणैर् एते हि वास्यन्ते कामगाः पक्षिणो यथा ॥ (११।२)
guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā ||
राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् । (१२।१)
rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam |
राजन्यसति लोके ऽस्मिन् कुतो भार्या कुतो धनम् । (१२।२)
rājanyasati loke 'smin kuto bhāryā kuto dhanam |
त्रयस्य संचये चास्य ज्ञातीन् पुत्रांश्च धारयेत् ॥ (१२।३)
trayasya saṃcaye cāsya jñātīn putrāṃśca dhārayet ||
विपरीतं मया चेदं त्रयं सर्वम् उपार्जितम् । (१३।१)
viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam |
त इमाम् आपदं प्राप्य भृशं तप्स्यामहे वयम् ॥ (१३।२)
ta imām āpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam ||
सो ऽयम् अस्मान् अनुप्राप्तो वारः कुलविनाशनः । (१४।१)
so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ |
न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित् । (१५।१)
na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kvacit |
सुहृज्जनं प्रदातुं च न शक्ष्यामि कथंचन । (१५।२)
suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃcana |
गतिं चापि न पश्यामि तस्मान् मोक्षाय रक्षसः ॥ (१५।३)
gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ ||
सो ऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् । (१६।१)
so 'haṃ duḥkhārṇave magno mahatyasutare bhṛśam |
सहैवैतैर् गमिष्यामि बान्धवैर् अद्य राक्षसम् । (१६।२)
sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam |
ततो नः सहितान् क्षुद्रः सर्वान् एवोपभोक्ष्यति । (१६।३)
tato naḥ sahitān kṣudraḥ sarvān evopabhokṣyati |
दुःखमूलम् इदं भद्रे मयोक्तं प्रश्नतो ऽनघे ॥ (१६।४)
duḥkhamūlam idaṃ bhadre mayoktaṃ praśnato 'naghe ||
Data courtesy of The Digital Corpus of Sanskrit.