महाभारतMahābhārata

MBh, 12, 308

1636 of 1995 · 389 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम । (१।२)

aparityajya gārhasthyaṃ kururājarṣisattama |

1.3१.३

कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे ॥ (१।३)

kaḥ prāpto vinayaṃ buddhyā mokṣatattvaṃ vadasva me ||

2.1२.१

संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः । (२।१)

saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ |

2.2२.२

परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह ॥ (२।२)

paraṃ mokṣasya yaccāpi tanme brūhi pitāmaha ||

3.1३.१

भीष्म उवाच । (३।१)

bhīṣma uvāca

3.2३.२

अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् । (३।२)

atrāpyudāharantīmam itihāsaṃ purātanam |

3.3३.३

जनकस्य च संवादं सुलभायाश्च भारत ॥ (३।३)

janakasya ca saṃvādaṃ sulabhāyāśca bhārata ||

4.1४.१

संन्यासफलिकः कश्चिद् बभूव नृपतिः पुरा । (४।१)

saṃnyāsaphalikaḥ kaścid babhūva nṛpatiḥ purā |

4.2४.२

मैथिलो जनको नाम धर्मध्वज इति श्रुतः ॥ (४।२)

maithilo janako nāma dharmadhvaja iti śrutaḥ ||

5.1५.१

स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः । (५।१)

sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ |

5.2५.२

इन्द्रियाणि समाधाय शशास वसुधाम् इमाम् ॥ (५।२)

indriyāṇi samādhāya śaśāsa vasudhām imām ||

6.1६.१

तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम् । (६।१)

tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādhuvṛttatām |

6.2६.२

लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वर ॥ (६।२)

lokeṣu spṛhayantyanye puruṣāḥ puruṣeśvara ||

7.1७.१

अथ धर्मयुगे तस्मिन् योगधर्मम् अनुष्ठिता । (७।१)

atha dharmayuge tasmin yogadharmam anuṣṭhitā |

7.2७.२

महीम् अनुचचारैका सुलभा नाम भिक्षुकी ॥ (७।२)

mahīm anucacāraikā sulabhā nāma bhikṣukī ||

8.1८.१

तया जगद् इदं सर्वम् अटन्त्या मिथिलेश्वरः । (८।१)

tayā jagad idaṃ sarvam aṭantyā mithileśvaraḥ |

8.2८.२

तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः ॥ (८।२)

tatra tatra śruto mokṣe kathyamānastridaṇḍibhiḥ ||

9.1९.१

सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया । (९।१)

sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā |

9.2९.२

दर्शने जातसंकल्पा जनकस्य बभूव ह ॥ (९।२)

darśane jātasaṃkalpā janakasya babhūva ha ||

10.1१०.१

ततः सा विप्रहायाथ पूर्वरूपं हि योगतः । (१०।१)

tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ |

10.2१०.२

अबिभ्रद् अनवद्याङ्गी रूपम् अन्यद् अनुत्तमम् ॥ (१०।२)

abibhrad anavadyāṅgī rūpam anyad anuttamam ||

11.1११.१

चक्षुर्निमेषमात्रेण लघ्वस्त्रगतिगामिनी । (११।१)

cakṣurnimeṣamātreṇa laghvastragatigāminī |

11.2११.२

विदेहानां पुरीं सुभ्रूर् जगाम कमलेक्षणा ॥ (११।२)

videhānāṃ purīṃ subhrūr jagāma kamalekṣaṇā ||

12.1१२.१

सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम् । (१२।१)

sā prāpya mithilāṃ ramyāṃ samṛddhajanasaṃkulām |

12.2१२.२

भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम् ॥ (१२।२)

bhaikṣacaryāpadeśena dadarśa mithileśvaram ||

13.1१३.१

राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस्तथा । (१३।१)

rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapustathā |

13.2१३.२

केयं कस्य कुतो वेति बभूवागतविस्मयः ॥ (१३।२)

keyaṃ kasya kuto veti babhūvāgatavismayaḥ ||

14.1१४.१

ततो ऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् । (१४।१)

tato 'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam |

14.2१४.२

पूजितां पादशौचेन वरान्नेनाप्यतर्पयत् ॥ (१४।२)

pūjitāṃ pādaśaucena varānnenāpyatarpayat ||

15.1१५.१

अथ भुक्तवती प्रीता राजानं मन्त्रिभिर् वृतम् । (१५।१)

atha bhuktavatī prītā rājānaṃ mantribhir vṛtam |

15.2१५.२

सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकी ॥ (१५।२)

sarvabhāṣyavidāṃ madhye codayāmāsa bhikṣukī ||

16.1१६.१

सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया । (१६।१)

sulabhā tvasya dharmeṣu mukto neti sasaṃśayā |

16.2१६.२

सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते ॥ (१६।२)

sattvaṃ sattvena yogajñā praviveśa mahīpate ||

17.1१७.१

नेत्राभ्यां नेत्रयोर् अस्य रश्मीन् संयोज्य रश्मिभिः । (१७।१)

netrābhyāṃ netrayor asya raśmīn saṃyojya raśmibhiḥ |

17.2१७.२

सा स्म संचोदयिष्यन्तं योगबन्धैर् बबन्ध ह ॥ (१७।२)

sā sma saṃcodayiṣyantaṃ yogabandhair babandha ha ||

18.1१८.१

जनको ऽप्युत्स्मयन् राजा भावम् अस्या विशेषयन् । (१८।१)

janako 'pyutsmayan rājā bhāvam asyā viśeṣayan |

18.2१८.२

प्रतिजग्राह भावेन भावम् अस्या नृपोत्तमः ॥ (१८।२)

pratijagrāha bhāvena bhāvam asyā nṛpottamaḥ ||

19.1१९.१

तद् एकस्मिन्न् अधिष्ठाने संवादः श्रूयताम् अयम् । (१९।१)

tad ekasminn adhiṣṭhāne saṃvādaḥ śrūyatām ayam |

19.2१९.२

छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डके ॥ (१९।२)

chatrādiṣu vimuktasya muktāyāśca tridaṇḍake ||

20.1२०.१

भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि । (२०।१)

bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi |

20.2२०.२

कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः ॥ (२०।२)

kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ ||

21.1२१.१

श्रुते वयसि जातौ च सद्भावो नाधिगम्यते । (२१।१)

śrute vayasi jātau ca sadbhāvo nādhigamyate |

21.2२१.२

एष्वर्थेषूत्तरं तस्मात् प्रवेद्यं सत्समागमे ॥ (२१।२)

eṣvartheṣūttaraṃ tasmāt pravedyaṃ satsamāgame ||

22.1२२.१

छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः । (२२।१)

chatrādiṣu viśeṣeṣu muktaṃ māṃ viddhi sarvaśaḥ |

22.2२२.२

स त्वां संमन्तुम् इच्छामि मानार्हासि मता हि मे ॥ (२२।२)

sa tvāṃ saṃmantum icchāmi mānārhāsi matā hi me ||

23.1२३.१

यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा । (२३।१)

yasmāccaitanmayā prāptaṃ jñānaṃ vaiśeṣikaṃ purā |

23.2२३.२

यस्य नान्यः प्रवक्तास्ति मोक्षे तम् अपि मे शृणु ॥ (२३।२)

yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu ||

24.1२४.१

पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः । (२४।१)

pārāśaryasagotrasya vṛddhasya sumahātmanaḥ |

24.2२४.२

भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः ॥ (२४।२)

bhikṣoḥ pañcaśikhasyāhaṃ śiṣyaḥ paramasaṃmataḥ ||

25.1२५.१

सांख्यज्ञाने तथा योगे महीपालविधौ तथा । (२५।१)

sāṃkhyajñāne tathā yoge mahīpālavidhau tathā |

25.2२५.२

त्रिविधे मोक्षधर्मे ऽस्मिन् गताध्वा छिन्नसंशयः ॥ (२५।२)

trividhe mokṣadharme 'smin gatādhvā chinnasaṃśayaḥ ||

26.1२६.१

स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन् । (२६।१)

sa yathāśāstradṛṣṭena mārgeṇeha parivrajan |

26.2२६.२

वार्षिकांश्चतुरो मासान् पुरा मयि सुखोषितः ॥ (२६।२)

vārṣikāṃścaturo māsān purā mayi sukhoṣitaḥ ||

27.1२७.१

तेनाहं सांख्यमुख्येन सुदृष्टार्थेन तत्त्वतः । (२७।१)

tenāhaṃ sāṃkhyamukhyena sudṛṣṭārthena tattvataḥ |

27.2२७.२

श्रावितस्त्रिविधं मोक्षं न च राज्याद् विचालितः ॥ (२७।२)

śrāvitastrividhaṃ mokṣaṃ na ca rājyād vicālitaḥ ||

28.1२८.१

सो ऽहं ताम् अखिलां वृत्तिं त्रिविधां मोक्षसंहिताम् । (२८।१)

so 'haṃ tām akhilāṃ vṛttiṃ trividhāṃ mokṣasaṃhitām |

28.2२८.२

मुक्तरागश्चराम्येकः पदे परमके स्थितः ॥ (२८।२)

muktarāgaścarāmyekaḥ pade paramake sthitaḥ ||

29.1२९.१

वैराग्यं पुनर् एतस्य मोक्षस्य परमो विधिः । (२९।१)

vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ |

29.2२९.२

ज्ञानाद् एव च वैराग्यं जायते येन मुच्यते ॥ (२९।२)

jñānād eva ca vairāgyaṃ jāyate yena mucyate ||

30.1३०.१

ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत् । (३०।१)

jñānena kurute yatnaṃ yatnena prāpyate mahat |

30.2३०.२

महद् द्वंद्वप्रमोक्षाय सा सिद्धिर् या वयोऽतिगा ॥ (३०।२)

mahad dvaṃdvapramokṣāya sā siddhir yā vayo'tigā ||

31.1३१.१

सेयं परमिका बुद्धिः प्राप्ता निर्द्वंद्वता मया । (३१।१)

seyaṃ paramikā buddhiḥ prāptā nirdvaṃdvatā mayā |

31.2३१.२

इहैव गतमोहेन चरता मुक्तसङ्गिना ॥ (३१।२)

ihaiva gatamohena caratā muktasaṅginā ||

32.1३२.१

यथा क्षेत्रं मृदूभूतम् अद्भिर् आप्लावितं तथा । (३२।१)

yathā kṣetraṃ mṛdūbhūtam adbhir āplāvitaṃ tathā |

32.2३२.२

जनयत्यङ्कुरं कर्म नृणां तद्वत् पुनर्भवम् ॥ (३२।२)

janayatyaṅkuraṃ karma nṛṇāṃ tadvat punarbhavam ||

33.1३३.१

यथा चोत्तापितं बीजं कपाले यत्र तत्र वा । (३३।१)

yathā cottāpitaṃ bījaṃ kapāle yatra tatra vā |

33.2३३.२

प्राप्याप्यङ्कुरहेतुत्वम् अबीजत्वान्न जायते ॥ (३३।२)

prāpyāpyaṅkurahetutvam abījatvānna jāyate ||

34.1३४.१

तद्वद् भगवता तेन शिखाप्रोक्तेन भिक्षुणा । (३४।१)

tadvad bhagavatā tena śikhāproktena bhikṣuṇā |

34.2३४.२

ज्ञानं कृतम् अबीजं मे विषयेषु न जायते ॥ (३४।२)

jñānaṃ kṛtam abījaṃ me viṣayeṣu na jāyate ||

35.1३५.१

नाभिषजति कस्मिंश्चिन्नानर्थे न परिग्रहे । (३५।१)

nābhiṣajati kasmiṃścinnānarthe na parigrahe |

35.2३५.२

नाभिरज्यति चैतेषु व्यर्थत्वाद् रागदोषयोः ॥ (३५।२)

nābhirajyati caiteṣu vyarthatvād rāgadoṣayoḥ ||

36.1३६.१

यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत् । (३६।१)

yaśca me dakṣiṇaṃ bāhuṃ candanena samukṣayet |

36.2३६.२

सव्यं वास्या च यस् तक्षेत् समावेतावुभौ मम ॥ (३६।२)

savyaṃ vāsyā ca yas takṣet samāvetāvubhau mama ||

37.1३७.१

सुखी सो ऽहम् अवाप्तार्थः समलोष्टाश्मकाञ्चनः । (३७।१)

sukhī so 'ham avāptārthaḥ samaloṣṭāśmakāñcanaḥ |

37.2३७.२

मुक्तसङ्गः स्थितो राज्ये विशिष्टो ऽन्यैस्त्रिदण्डिभिः ॥ (३७।२)

muktasaṅgaḥ sthito rājye viśiṣṭo 'nyaistridaṇḍibhiḥ ||

38.1३८.१

मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर् महर्षिभिः । (३८।१)

mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ |

38.2३८.२

ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम् ॥ (३८।२)

jñānaṃ lokottaraṃ yacca sarvatyāgaśca karmaṇām ||

39.1३९.१

ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः । (३९।१)

jñānaniṣṭhāṃ vadantyeke mokṣaśāstravido janāḥ |

39.2३९.२

कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः ॥ (३९।२)

karmaniṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ ||

40.1४०.१

प्रहायोभयम् अप्येतज्ज्ञानं कर्म च केवलम् । (४०।१)

prahāyobhayam apyetajjñānaṃ karma ca kevalam |

40.2४०.२

तृतीयेयं समाख्याता निष्ठा तेन महात्मना ॥ (४०।२)

tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā ||

41.1४१.१

यमे च नियमे चैव द्वेषे कामे परिग्रहे । (४१।१)

yame ca niyame caiva dveṣe kāme parigrahe |

41.2४१.२

माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः ॥ (४१।२)

māne dambhe tathā snehe sadṛśāste kuṭumbibhiḥ ||

42.1४२.१

त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित् । (४२।१)

tridaṇḍādiṣu yadyasti mokṣo jñānena kenacit |

42.2४२.२

छत्रादिषु कथं न स्यात् तुल्यहेतौ परिग्रहे ॥ (४२।२)

chatrādiṣu kathaṃ na syāt tulyahetau parigrahe ||

43.1४३.१

येन येन हि यस्यार्थः कारणेनेह कस्यचित् । (४३।१)

yena yena hi yasyārthaḥ kāraṇeneha kasyacit |

43.2४३.२

तत् तद् आलम्बते द्रव्यं सर्वः स्वे स्वे परिग्रहे ॥ (४३।२)

tat tad ālambate dravyaṃ sarvaḥ sve sve parigrahe ||

44.1४४.१

दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरम् । (४४।१)

doṣadarśī tu gārhasthye yo vrajatyāśramāntaram |

44.2४४.२

उत्सृजन् परिगृह्णंश्च सो ऽपि सङ्गान्न मुच्यते ॥ (४४।२)

utsṛjan parigṛhṇaṃśca so 'pi saṅgānna mucyate ||

45.1४५.१

आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि । (४५।१)

ādhipatye tathā tulye nigrahānugrahātmani |

45.2४५.२

राजर्षिभिक्षुकाचार्या मुच्यन्ते केन हेतुना ॥ (४५।२)

rājarṣibhikṣukācāryā mucyante kena hetunā ||

46.1४६.१

अथ सत्याधिपत्ये ऽपि ज्ञानेनैवेह केवलम् । (४६।१)

atha satyādhipatye 'pi jñānenaiveha kevalam |

46.2४६.२

मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः ॥ (४६।२)

mucyante kiṃ na mucyante pade paramake sthitāḥ ||

47.1४७.१

काषायधारणं मौण्ड्यं त्रिविष्टब्धः कमण्डलुः । (४७।१)

kāṣāyadhāraṇaṃ mauṇḍyaṃ triviṣṭabdhaḥ kamaṇḍaluḥ |

47.2४७.२

लिङ्गान्यत्यर्थम् एतानि न मोक्षायेति मे मतिः ॥ (४७।२)

liṅgānyatyartham etāni na mokṣāyeti me matiḥ ||

48.1४८.१

यदि सत्यपि लिङ्गे ऽस्मिञ् ज्ञानम् एवात्र कारणम् । (४८।१)

yadi satyapi liṅge 'smiñ jñānam evātra kāraṇam |

48.2४८.२

निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम् ॥ (४८।२)

nirmokṣāyeha duḥkhasya liṅgamātraṃ nirarthakam ||

49.1४९.१

अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः । (४९।१)

atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ |

49.2४९.२

किं तद् एवार्थसामान्यं छत्रादिषु न लक्ष्यते ॥ (४९।२)

kiṃ tad evārthasāmānyaṃ chatrādiṣu na lakṣyate ||

50.1५०.१

आकिंचन्ये न मोक्षो ऽस्ति कैंचन्ये नास्ति बन्धनम् । (५०।१)

ākiṃcanye na mokṣo 'sti kaiṃcanye nāsti bandhanam |

50.2५०.२

कैंचन्ये चेतरे चैव जन्तुर् ज्ञानेन मुच्यते ॥ (५०।२)

kaiṃcanye cetare caiva jantur jñānena mucyate ||

51.1५१.१

तस्माद् धर्मार्थकामेषु तथा राज्यपरिग्रहे । (५१।१)

tasmād dharmārthakāmeṣu tathā rājyaparigrahe |

51.2५१.२

बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम् ॥ (५१।२)

bandhanāyataneṣveṣu viddhyabandhe pade sthitam ||

52.1५२.१

राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः । (५२।१)

rājyaiśvaryamayaḥ pāśaḥ snehāyatanabandhanaḥ |

52.2५२.२

मोक्षाश्मनिशितेनेह छिन्नस्त्यागासिना मया ॥ (५२।२)

mokṣāśmaniśiteneha chinnastyāgāsinā mayā ||

53.1५३.१

सो ऽहम् एवंगतो मुक्तो जातास्थस्त्वयि भिक्षुकि । (५३।१)

so 'ham evaṃgato mukto jātāsthastvayi bhikṣuki |

53.2५३.२

अयथार्थो हि ते वर्णो वक्ष्यामि शृणु तन्मम ॥ (५३।२)

ayathārtho hi te varṇo vakṣyāmi śṛṇu tanmama ||

54.1५४.१

सौकुमार्यं तथा रूपं वपुर् अग्र्यं तथा वयः । (५४।१)

saukumāryaṃ tathā rūpaṃ vapur agryaṃ tathā vayaḥ |

54.2५४.२

तवैतानि समस्तानि नियमश्चेति संशयः ॥ (५४।२)

tavaitāni samastāni niyamaśceti saṃśayaḥ ||

55.1५५.१

यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम् । (५५।१)

yaccāpyananurūpaṃ te liṅgasyāsya viceṣṭitam |

55.2५५.२

मुक्तो ऽयं स्यान्न वेत्यस्माद्धर्षितो मत्परिग्रहः ॥ (५५।२)

mukto 'yaṃ syānna vetyasmāddharṣito matparigrahaḥ ||

56.1५६.१

न च कामसमायुक्ते मुक्ते ऽप्यस्ति त्रिदण्डकम् । (५६।१)

na ca kāmasamāyukte mukte 'pyasti tridaṇḍakam |

56.2५६.२

न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना ॥ (५६।२)

na rakṣyate tvayā cedaṃ na muktasyāsti gopanā ||

57.1५७.१

मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः । (५७।१)

matpakṣasaṃśrayāccāyaṃ śṛṇu yaste vyatikramaḥ |

57.2५७.२

आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम् ॥ (५७।२)

āśrayantyāḥ svabhāvena mama pūrvaparigraham ||

58.1५८.१

प्रवेशस्ते कृतः केन मम राष्ट्रे पुरे तथा । (५८।१)

praveśaste kṛtaḥ kena mama rāṣṭre pure tathā |

58.2५८.२

कस्य वा संनिसर्गात् त्वं प्रविष्टा हृदयं मम ॥ (५८।२)

kasya vā saṃnisargāt tvaṃ praviṣṭā hṛdayaṃ mama ||

59.1५९.१

वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियो ह्यहम् । (५९।१)

varṇapravaramukhyāsi brāhmaṇī kṣatriyo hyaham |

59.2५९.२

नावयोर् एकयोगो ऽस्ति मा कृथा वर्णसंकरम् ॥ (५९।२)

nāvayor ekayogo 'sti mā kṛthā varṇasaṃkaram ||

60.1६०.१

वर्तसे मोक्षधर्मेषु गार्हस्थ्ये त्वहम् आश्रमे । (६०।१)

vartase mokṣadharmeṣu gārhasthye tvaham āśrame |

60.2६०.२

अयं चापि सुकष्टस्ते द्वितीयो ऽऽश्रमसंकरः ॥ (६०।२)

ayaṃ cāpi sukaṣṭaste dvitīyo ''śramasaṃkaraḥ ||

61.1६१.१

सगोत्रां वासगोत्रां वा न वेद त्वां न वेत्थ माम् । (६१।१)

sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām |

61.2६१.२

सगोत्रम् आविशन्त्यास्ते तृतीयो गोत्रसंकरः ॥ (६१।२)

sagotram āviśantyāste tṛtīyo gotrasaṃkaraḥ ||

62.1६२.१

अथ जीवति ते भर्ता प्रोषितो ऽप्यथ वा क्वचित् । (६२।१)

atha jīvati te bhartā proṣito 'pyatha vā kvacit |

62.2६२.२

अगम्या परभार्येति चतुर्थो धर्मसंकरः ॥ (६२।२)

agamyā parabhāryeti caturtho dharmasaṃkaraḥ ||

63.1६३.१

सा त्वम् एतान्यकार्याणि कार्यापेक्षा व्यवस्यसि । (६३।१)

sā tvam etānyakāryāṇi kāryāpekṣā vyavasyasi |

63.2६३.२

अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः ॥ (६३।२)

avijñānena vā yuktā mithyājñānena vā punaḥ ||

64.1६४.१

अथ वापि स्वतन्त्रासि स्वदोषेणेह केनचित् । (६४।१)

atha vāpi svatantrāsi svadoṣeṇeha kenacit |

64.2६४.२

यदि किंचिच्छ्रुतं ते ऽस्ति सर्वं कृतम् अनर्थकम् ॥ (६४।२)

yadi kiṃcicchrutaṃ te 'sti sarvaṃ kṛtam anarthakam ||

65.1६५.१

इदम् अन्यत् तृतीयं ते भावस्पर्शविघातकम् । (६५।१)

idam anyat tṛtīyaṃ te bhāvasparśavighātakam |

65.2६५.२

दुष्टाया लक्ष्यते लिङ्गं प्रवक्तव्यं प्रकाशितम् ॥ (६५।२)

duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam ||

66.1६६.१

न मय्येवाभिसंधिस्ते जयैषिण्या जये कृतः । (६६।१)

na mayyevābhisaṃdhiste jayaiṣiṇyā jaye kṛtaḥ |

66.2६६.२

येयं मत्परिषत् कृत्स्ना जेतुम् इच्छसि ताम् अपि ॥ (६६।२)

yeyaṃ matpariṣat kṛtsnā jetum icchasi tām api ||

67.1६७.१

तथा ह्येवं पुनश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि । (६७।१)

tathā hyevaṃ punaśca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi |

67.2६७.२

मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च ॥ (६७।२)

matpakṣapratighātāya svapakṣodbhāvanāya ca ||

68.1६८.१

सा स्वेनामर्षजेन त्वम् ऋद्धिमोहेन मोहिता । (६८।१)

sā svenāmarṣajena tvam ṛddhimohena mohitā |

68.2६८.२

भूयः सृजसि योगास्त्रं विषामृतम् इवैकधा ॥ (६८।२)

bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā ||

69.1६९.१

इच्छतोर् हि द्वयोर् लाभः स्त्रीपुंसोर् अमृतोपमः । (६९।१)

icchator hi dvayor lābhaḥ strīpuṃsor amṛtopamaḥ |

69.2६९.२

अलाभश्चाप्यरक्तस्य सो ऽत्र दोषो विषोपमः ॥ (६९।२)

alābhaścāpyaraktasya so 'tra doṣo viṣopamaḥ ||

70.1७०.१

मा स्प्राक्षीः सधु जानीष्व स्वशास्त्रम् अनुपालय । (७०।१)

mā sprākṣīḥ sadhu jānīṣva svaśāstram anupālaya |

70.2७०.२

कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम । (७०।२)

kṛteyaṃ hi vijijñāsā mukto neti tvayā mama |

70.3७०.३

एतत् सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितुम् ॥ (७०।३)

etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum ||

71.1७१.१

सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः । (७१।१)

sā yadi tvaṃ svakāryeṇa yadyanyasya mahīpateḥ |

71.2७१.२

तत्त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गूहितुम् ॥ (७१।२)

tattvaṃ satrapraticchannā mayi nārhasi gūhitum ||

72.1७२.१

न राजानं मृषा गच्छेन्न द्विजातिं कथंचन । (७२।१)

na rājānaṃ mṛṣā gacchenna dvijātiṃ kathaṃcana |

72.2७२.२

न स्त्रियं स्त्रीगुणोपेतां हन्युर् ह्येते मृषागताः ॥ (७२।२)

na striyaṃ strīguṇopetāṃ hanyur hyete mṛṣāgatāḥ ||

73.1७३.१

राज्ञां हि बलम् ऐश्वर्यं ब्रह्म ब्रह्मविदां बलम् । (७३।१)

rājñāṃ hi balam aiśvaryaṃ brahma brahmavidāṃ balam |

73.2७३.२

रूपयौवनसौभाग्यं स्त्रीणां बलम् अनुत्तमम् ॥ (७३।२)

rūpayauvanasaubhāgyaṃ strīṇāṃ balam anuttamam ||

74.1७४.१

अत एतैर् बलैर् एते बलिनः स्वार्थम् इच्छता । (७४।१)

ata etair balair ete balinaḥ svārtham icchatā |

74.2७४.२

आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम् ॥ (७४।२)

ārjavenābhigantavyā vināśāya hyanārjavam ||

75.1७५.१

सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिम् आत्मनः । (७५।१)

sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ |

75.2७५.२

कृत्यम् आगमने चैव वक्तुम् अर्हसि तत्त्वतः ॥ (७५।२)

kṛtyam āgamane caiva vaktum arhasi tattvataḥ ||

76.1७६.१

इत्येतैर् असुखैर् वाक्यैर् अयुक्तैर् असमञ्जसैः । (७६।१)

ityetair asukhair vākyair ayuktair asamañjasaiḥ |

76.2७६.२

प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत ॥ (७६।२)

pratyādiṣṭā narendreṇa sulabhā na vyakampata ||

77.1७७.१

उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना । (७७।१)

uktavākye tu nṛpatau sulabhā cārudarśanā |

77.2७७.२

ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम् ॥ (७७।२)

tataścārutaraṃ vākyaṃ pracakrāmātha bhāṣitum ||

78.1७८.१

नवभिर् नवभिश्चैव दोषैर् वाग्बुद्धिदूषणैः । (७८।१)

navabhir navabhiścaiva doṣair vāgbuddhidūṣaṇaiḥ |

78.2७८.२

अपेतम् उपपन्नार्थम् अष्टादशगुणान्वितम् ॥ (७८।२)

apetam upapannārtham aṣṭādaśaguṇānvitam ||

79.1७९.१

सौक्ष्म्यं संख्याक्रमौ चोभौ निर्णयः सप्रयोजनः । (७९।१)

saukṣmyaṃ saṃkhyākramau cobhau nirṇayaḥ saprayojanaḥ |

79.2७९.२

पञ्चैतान्यर्थजातानि वाक्यम् इत्युच्यते नृप ॥ (७९।२)

pañcaitānyarthajātāni vākyam ityucyate nṛpa ||

80.1८०.१

एषाम् एकैकशो ऽर्थानां सौक्ष्म्यादीनां सुलक्षणम् । (८०।१)

eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam |

80.2८०.२

शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः ॥ (८०।२)

śṛṇu saṃsāryamāṇānāṃ padārthaiḥ padavākyataḥ ||

81.1८१.१

ज्ञानं ज्ञेयेषु भिन्नेषु यथाभेदेन वर्तते । (८१।१)

jñānaṃ jñeyeṣu bhinneṣu yathābhedena vartate |

81.2८१.२

तत्रातिशयिनी बुद्धिस्तत् सौक्ष्म्यम् इति वर्तते ॥ (८१।२)

tatrātiśayinī buddhistat saukṣmyam iti vartate ||

82.1८२.१

दोषाणां च गुणानां च प्रमाणं प्रविभागशः । (८२।१)

doṣāṇāṃ ca guṇānāṃ ca pramāṇaṃ pravibhāgaśaḥ |

82.2८२.२

कंचिद् अर्थम् अभिप्रेत्य सा संख्येत्युपधार्यताम् ॥ (८२।२)

kaṃcid artham abhipretya sā saṃkhyetyupadhāryatām ||

83.1८३.१

इदं पूर्वम् इदं पश्चाद् वक्तव्यं यद् विवक्षितम् । (८३।१)

idaṃ pūrvam idaṃ paścād vaktavyaṃ yad vivakṣitam |

83.2८३.२

क्रमयोगं तम् अप्याहुर् वाक्यं वाक्यविदो जनाः ॥ (८३।२)

kramayogaṃ tam apyāhur vākyaṃ vākyavido janāḥ ||

84.1८४.१

धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः । (८४।१)

dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ |

84.2८४.२

इदं तद् इति वाक्यान्ते प्रोच्यते स विनिर्णयः ॥ (८४।२)

idaṃ tad iti vākyānte procyate sa vinirṇayaḥ ||

85.1८५.१

इच्छाद्वेषभवैर् दुःखैः प्रकर्षो यत्र जायते । (८५।१)

icchādveṣabhavair duḥkhaiḥ prakarṣo yatra jāyate |

85.2८५.२

तत्र या नृपते वृत्तिस्तत् प्रयोजनम् इष्यते ॥ (८५।२)

tatra yā nṛpate vṛttistat prayojanam iṣyate ||

86.1८६.१

तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप । (८६।१)

tānyetāni yathoktāni saukṣmyādīni janādhipa |

86.2८६.२

एकार्थसमवेतानि वाक्यं मम निशामय ॥ (८६।२)

ekārthasamavetāni vākyaṃ mama niśāmaya ||

87.1८७.१

उपेतार्थम् अभिन्नार्थं नापवृत्तं न चाधिकम् । (८७।१)

upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam |

87.2८७.२

नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव ॥ (८७।२)

nāślakṣṇaṃ na ca saṃdigdhaṃ vakṣyāmi paramaṃ tava ||

88.1८८.१

न गुर्वक्षरसम्बद्धं पराङ्मुखमुखं न च । (८८।१)

na gurvakṣarasambaddhaṃ parāṅmukhamukhaṃ na ca |

88.2८८.२

नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम् ॥ (८८।२)

nānṛtaṃ na trivargeṇa viruddhaṃ nāpyasaṃskṛtam ||

89.1८९.१

न न्यूनं कष्टशब्दं वा व्युत्क्रमाभिहितं न च । (८९।१)

na nyūnaṃ kaṣṭaśabdaṃ vā vyutkramābhihitaṃ na ca |

89.2८९.२

न शेषं नानुकल्पेन निष्कारणम् अहेतुकम् ॥ (८९।२)

na śeṣaṃ nānukalpena niṣkāraṇam ahetukam ||

90.1९०.१

कामात् क्रोधाद् भयाल् लोभाद् दैन्याद् आनार्यकात् तथा । (९०।१)

kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā |

90.2९०.२

ह्रीतो ऽनुक्रोशतो मानान्न वक्ष्यामि कथंचन ॥ (९०।२)

hrīto 'nukrośato mānānna vakṣyāmi kathaṃcana ||

91.1९१.१

वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप । (९१।१)

vaktā śrotā ca vākyaṃ ca yadā tvavikalaṃ nṛpa |

91.2९१.२

समम् एति विवक्षायां तदा सो ऽर्थः प्रकाशते ॥ (९१।२)

samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate ||

92.1९२.१

वक्तव्ये तु यदा वक्ता श्रोतारम् अवमन्यते । (९२।१)

vaktavye tu yadā vaktā śrotāram avamanyate |

92.2९२.२

स्वार्थम् आह परार्थं वा तदा वाक्यं न रोहति ॥ (९२।२)

svārtham āha parārthaṃ vā tadā vākyaṃ na rohati ||

93.1९३.१

अथ यः स्वार्थम् उत्सृज्य परार्थं प्राह मानवः । (९३।१)

atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ |

93.2९३.२

विशङ्का जायते तस्मिन् वाक्यं तद् अपि दोषवत् ॥ (९३।२)

viśaṅkā jāyate tasmin vākyaṃ tad api doṣavat ||

94.1९४.१

यस्तु वक्ता द्वयोर् अर्थम् अविरुद्धं प्रभाषते । (९४।१)

yastu vaktā dvayor artham aviruddhaṃ prabhāṣate |

94.2९४.२

श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप ॥ (९४।२)

śrotuścaivātmanaścaiva sa vaktā netaro nṛpa ||

95.1९५.१

तद् अर्थवद् इदं वाक्यम् उपेतं वाक्यसंपदा । (९५।१)

tad arthavad idaṃ vākyam upetaṃ vākyasaṃpadā |

95.2९५.२

अविक्षिप्तमना राजन्न् एकाग्रः श्रोतुम् अर्हसि ॥ (९५।२)

avikṣiptamanā rājann ekāgraḥ śrotum arhasi ||

96.1९६.१

कासि कस्य कुतो वेति त्वयाहम् अभिचोदिता । (९६।१)

kāsi kasya kuto veti tvayāham abhicoditā |

96.2९६.२

तत्रोत्तरम् इदं वाक्यं राजन्न् एकमनाः शृणु ॥ (९६।२)

tatrottaram idaṃ vākyaṃ rājann ekamanāḥ śṛṇu ||

97.1९७.१

यथा जतु च काष्ठं च पांसवश्चोदबिन्दुभिः । (९७।१)

yathā jatu ca kāṣṭhaṃ ca pāṃsavaścodabindubhiḥ |

97.2९७.२

सुश्लिष्टानि तथा राजन् प्राणिनाम् इह संभवः ॥ (९७।२)

suśliṣṭāni tathā rājan prāṇinām iha saṃbhavaḥ ||

98.1९८.१

शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च । (९८।१)

śabdaḥ sparśo raso rūpaṃ gandhaḥ pañcendriyāṇi ca |

98.2९८.२

पृथग् आत्मा दशात्मानः संश्लिष्टा जतुकाष्ठवत् ॥ (९८।२)

pṛthag ātmā daśātmānaḥ saṃśliṣṭā jatukāṣṭhavat ||

99.1९९.१

न चैषां चोदना काचिद् अस्तीत्येष विनिश्चयः । (९९।१)

na caiṣāṃ codanā kācid astītyeṣa viniścayaḥ |

99.2९९.२

एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे ॥ (९९।२)

ekaikasyeha vijñānaṃ nāstyātmani tathā pare ||

100.1१००.१

न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते । (१००।१)

na veda cakṣuścakṣuṣṭvaṃ śrotraṃ nātmani vartate |

100.2१००.२

तथैव व्यभिचारेण न वर्तन्ते परस्परम् । (१००।२)

tathaiva vyabhicāreṇa na vartante parasparam |

100.3१००.३

संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः ॥ (१००।३)

saṃśliṣṭā nābhijāyante yathāpa iha pāṃsavaḥ ||

101.1१०१.१

बाह्यान् अन्यान् अपेक्षन्ते गुणांस्तान् अपि मे शृणु । (१०१।१)

bāhyān anyān apekṣante guṇāṃstān api me śṛṇu |

101.2१०१.२

रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः । (१०१।२)

rūpaṃ cakṣuḥ prakāśaśca darśane hetavastrayaḥ |

101.3१०१.३

यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः ॥ (१०१।३)

yathaivātra tathānyeṣu jñānajñeyeṣu hetavaḥ ||

102.1१०२.१

ज्ञानज्ञेयान्तरे तस्मिन् मनो नामापरो गुणः । (१०२।१)

jñānajñeyāntare tasmin mano nāmāparo guṇaḥ |

102.2१०२.२

विचारयति येनायं निश्चये साध्वसाधुनी ॥ (१०२।२)

vicārayati yenāyaṃ niścaye sādhvasādhunī ||

103.1१०३.१

द्वादशस्त्वपरस्तत्र बुद्धिर् नाम गुणः स्मृतः । (१०३।१)

dvādaśastvaparastatra buddhir nāma guṇaḥ smṛtaḥ |

103.2१०३.२

येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति ॥ (१०३।२)

yena saṃśayapūrveṣu boddhavyeṣu vyavasyati ||

104.1१०४.१

अथ द्वादशके तस्मिन् सत्त्वं नामापरो गुणः । (१०४।१)

atha dvādaśake tasmin sattvaṃ nāmāparo guṇaḥ |

104.2१०४.२

महासत्त्वो ऽल्पसत्त्वो वा जन्तुर् येनानुमीयते ॥ (१०४।२)

mahāsattvo 'lpasattvo vā jantur yenānumīyate ||

105.1१०५.१

क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत्र चतुर्दशः । (१०५।१)

kṣetrajña iti cāpyanyo guṇastatra caturdaśaḥ |

105.2१०५.२

ममायम् इति येनायं मन्यते न च मन्यते ॥ (१०५।२)

mamāyam iti yenāyaṃ manyate na ca manyate ||

106.1१०६.१

अथ पञ्चदशो राजन् गुणस्तत्रापरः स्मृतः । (१०६।१)

atha pañcadaśo rājan guṇastatrāparaḥ smṛtaḥ |

106.2१०६.२

पृथक् कलासमूहस्य सामग्र्यं तद् इहोच्यते ॥ (१०६।२)

pṛthak kalāsamūhasya sāmagryaṃ tad ihocyate ||

107.1१०७.१

गुणस्त्वेवापरस्तत्र संघात इति षोडशः । (१०७।१)

guṇastvevāparastatra saṃghāta iti ṣoḍaśaḥ |

107.2१०७.२

आकृतिर् व्यक्तिर् इत्येतौ गुणौ यस्मिन् समाश्रितौ ॥ (१०७।२)

ākṛtir vyaktir ityetau guṇau yasmin samāśritau ||

108.1१०८.१

सुखदुःखे जरामृत्यू लाभालाभौ प्रियाप्रिये । (१०८।१)

sukhaduḥkhe jarāmṛtyū lābhālābhau priyāpriye |

108.2१०८.२

इति चैकोनविंशो ऽयं द्वंद्वयोग इति स्मृतः ॥ (१०८।२)

iti caikonaviṃśo 'yaṃ dvaṃdvayoga iti smṛtaḥ ||

109.1१०९.१

ऊर्ध्वम् एकोनविंशत्याः कालो नामापरो गुणः । (१०९।१)

ūrdhvam ekonaviṃśatyāḥ kālo nāmāparo guṇaḥ |

109.2१०९.२

इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम् ॥ (१०९।२)

itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam ||

110.1११०.१

विंशकश्चैष संघातो महाभूतानि पञ्च च । (११०।१)

viṃśakaścaiṣa saṃghāto mahābhūtāni pañca ca |

110.2११०.२

सदसद्भावयोगौ च गुणावन्यौ प्रकाशकौ ॥ (११०।२)

sadasadbhāvayogau ca guṇāvanyau prakāśakau ||

111.1१११.१

इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः । (१११।१)

ityevaṃ viṃśatiścaiva guṇāḥ sapta ca ye smṛtāḥ |

111.2१११.२

विधिः शुक्रं बलं चेति त्रय एते गुणाः परे ॥ (१११।२)

vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare ||

112.1११२.१

एकविंशश्च दश च कलाः संख्यानतः स्मृताः । (११२।१)

ekaviṃśaśca daśa ca kalāḥ saṃkhyānataḥ smṛtāḥ |

112.2११२.२

समग्रा यत्र वर्तन्ते तच्छरीरम् इति स्मृतम् ॥ (११२।२)

samagrā yatra vartante taccharīram iti smṛtam ||

113.1११३.१

अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिद् इच्छति । (११३।१)

avyaktaṃ prakṛtiṃ tvāsāṃ kalānāṃ kaścid icchati |

113.2११३.२

व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति ॥ (११३।२)

vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati ||

114.1११४.१

अव्यक्तं यदि वा व्यक्तं द्वयीम् अथ चतुष्टयीम् । (११४।१)

avyaktaṃ yadi vā vyaktaṃ dvayīm atha catuṣṭayīm |

114.2११४.२

प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः ॥ (११४।२)

prakṛtiṃ sarvabhūtānāṃ paśyantyadhyātmacintakāḥ ||

115.1११५.१

सेयं प्रकृतिर् अव्यक्ता कलाभिर् व्यक्ततां गता । (११५।१)

seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā |

115.2११५.२

अहं च त्वं च राजेन्द्र ये चाप्यन्ये शरीरिणः ॥ (११५।२)

ahaṃ ca tvaṃ ca rājendra ye cāpyanye śarīriṇaḥ ||

116.1११६.१

बिन्दुन्यासादयो ऽवस्थाः शुक्रशोणितसंभवाः । (११६।१)

bindunyāsādayo 'vasthāḥ śukraśoṇitasaṃbhavāḥ |

116.2११६.२

यासाम् एव निपातेन कललं नाम जायते ॥ (११६।२)

yāsām eva nipātena kalalaṃ nāma jāyate ||

117.1११७.१

कललाद् अर्बुदोत्पत्तिः पेशी चाप्यर्बुदोद्भवा । (११७।१)

kalalād arbudotpattiḥ peśī cāpyarbudodbhavā |

117.2११७.२

पेश्यास्त्वङ्गाभिनिर्वृत्तिर् नखरोमाणि चाङ्गतः ॥ (११७।२)

peśyāstvaṅgābhinirvṛttir nakharomāṇi cāṅgataḥ ||

118.1११८.१

सम्पूर्णे नवमे मासे जन्तोर् जातस्य मैथिल । (११८।१)

sampūrṇe navame māse jantor jātasya maithila |

118.2११८.२

जायते नामरूपत्वं स्त्री पुमान् वेति लिङ्गतः ॥ (११८।२)

jāyate nāmarūpatvaṃ strī pumān veti liṅgataḥ ||

119.1११९.१

जातमात्रं तु तद् रूपं दृष्ट्वा ताम्रनखाङ्गुलि । (११९।१)

jātamātraṃ tu tad rūpaṃ dṛṣṭvā tāmranakhāṅguli |

119.2११९.२

कौमाररूपम् आपन्नं रूपतो नोपलभ्यते ॥ (११९।२)

kaumārarūpam āpannaṃ rūpato nopalabhyate ||

120.1१२०.१

कौमाराद् यौवनं चापि स्थाविर्यं चापि यौवनात् । (१२०।१)

kaumārād yauvanaṃ cāpi sthāviryaṃ cāpi yauvanāt |

120.2१२०.२

अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते ॥ (१२०।२)

anena kramayogena pūrvaṃ pūrvaṃ na labhyate ||

121.1१२१.१

कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे । (१२१।१)

kalānāṃ pṛthagarthānāṃ pratibhedaḥ kṣaṇe kṣaṇe |

121.2१२१.२

वर्तते सर्वभूतेषु सौक्ष्म्यात् तु न विभाव्यते ॥ (१२१।२)

vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate ||

122.1१२२.१

न चैषाम् अप्ययो राजंल्लक्ष्यते प्रभवो न च । (१२२।१)

na caiṣām apyayo rājaṃllakṣyate prabhavo na ca |

122.2१२२.२

अवस्थायाम् अवस्थायां दीपस्येवार्चिषो गतिः ॥ (१२२।२)

avasthāyām avasthāyāṃ dīpasyevārciṣo gatiḥ ||

123.1१२३.१

तस्याप्येवम्प्रभावस्य सदश्वस्येव धावतः । (१२३।१)

tasyāpyevamprabhāvasya sadaśvasyeva dhāvataḥ |

123.2१२३.२

अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः ॥ (१२३।२)

ajasraṃ sarvalokasya kaḥ kuto vā na vā kutaḥ ||

124.1१२४.१

कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः । (१२४।१)

kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ |

124.2१२४.२

संबन्धः को ऽस्ति भूतानां स्वैर् अप्यवयवैर् इह ॥ (१२४।२)

saṃbandhaḥ ko 'sti bhūtānāṃ svair apyavayavair iha ||

125.1१२५.१

यथादित्यान्मणेश्चैव वीरुद्भ्यश्चैव पावकः । (१२५।१)

yathādityānmaṇeścaiva vīrudbhyaścaiva pāvakaḥ |

125.2१२५.२

भवत्येवं समुदयात् कलानाम् अपि जन्तवः ॥ (१२५।२)

bhavatyevaṃ samudayāt kalānām api jantavaḥ ||

126.1१२६.१

आत्मन्येवात्मनात्मानं यथा त्वम् अनुपश्यसि । (१२६।१)

ātmanyevātmanātmānaṃ yathā tvam anupaśyasi |

126.2१२६.२

एवम् एवात्मनात्मानम् अन्यस्मिन् किं न पश्यसि । (१२६।२)

evam evātmanātmānam anyasmin kiṃ na paśyasi |

126.3१२६.३

यद्यात्मनि परस्मिंश्च समताम् अध्यवस्यसि ॥ (१२६।३)

yadyātmani parasmiṃśca samatām adhyavasyasi ||

127.1१२७.१

अथ मां कासि कस्येति किमर्थम् अनुपृच्छसि । (१२७।१)

atha māṃ kāsi kasyeti kimartham anupṛcchasi |

127.2१२७.२

इदं मे स्याद् इदं नेति द्वंद्वैर् मुक्तस्य मैथिल । (१२७।२)

idaṃ me syād idaṃ neti dvaṃdvair muktasya maithila |

127.3१२७.३

कासि कस्य कुतो वेति वचने किं प्रयोजनम् ॥ (१२७।३)

kāsi kasya kuto veti vacane kiṃ prayojanam ||

128.1१२८.१

रिपौ मित्रे ऽथ मध्यस्थे विजये संधिविग्रहे । (१२८।१)

ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe |

128.2१२८.२

कृतवान् यो महीपाल किं तस्मिन्मुक्तलक्षणम् ॥ (१२८।२)

kṛtavān yo mahīpāla kiṃ tasminmuktalakṣaṇam ||

129.1१२९.१

त्रिवर्गे सप्तधा व्यक्तं यो न वेदेह कर्मसु । (१२९।१)

trivarge saptadhā vyaktaṃ yo na vedeha karmasu |

129.2१२९.२

सङ्गवान् यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम् ॥ (१२९।२)

saṅgavān yastrivarge ca kiṃ tasminmuktalakṣaṇam ||

130.1१३०.१

प्रिये चैवाप्रिये चैव दुर्बले बलवत्यपि । (१३०।१)

priye caivāpriye caiva durbale balavatyapi |

130.2१३०.२

यस्य नास्ति समं चक्षुः किं तस्मिन्मुक्तलक्षणम् ॥ (१३०।२)

yasya nāsti samaṃ cakṣuḥ kiṃ tasminmuktalakṣaṇam ||

131.1१३१.१

तदमुक्तस्य ते मोक्षे यो ऽभिमानो भवेन्नृप । (१३१।१)

tadamuktasya te mokṣe yo 'bhimāno bhavennṛpa |

131.2१३१.२

सुहृद्भिः स निवार्यस्ते विचित्तस्येव भेषजैः ॥ (१३१।२)

suhṛdbhiḥ sa nivāryaste vicittasyeva bheṣajaiḥ ||

132.1१३२.१

तानि तान्यनुसंदृश्य सङ्गस्थानान्यरिंदम । (१३२।१)

tāni tānyanusaṃdṛśya saṅgasthānānyariṃdama |

132.2१३२.२

आत्मनात्मनि संपश्येत् किं तस्मिन्मुक्तलक्षणम् ॥ (१३२।२)

ātmanātmani saṃpaśyet kiṃ tasminmuktalakṣaṇam ||

133.1१३३.१

इमान्यन्यानि सूक्ष्माणि मोक्षम् आश्रित्य कानिचित् । (१३३।१)

imānyanyāni sūkṣmāṇi mokṣam āśritya kānicit |

133.2१३३.२

चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु ॥ (१३३।२)

caturaṅgapravṛttāni saṅgasthānāni me śṛṇu ||

134.1१३४.१

य इमां पृथिवीं कृत्स्नाम् एकच्छत्रां प्रशास्ति ह । (१३४।१)

ya imāṃ pṛthivīṃ kṛtsnām ekacchatrāṃ praśāsti ha |

134.2१३४.२

एकम् एव स वै राजा पुरम् अध्यावसत्युत ॥ (१३४।२)

ekam eva sa vai rājā puram adhyāvasatyuta ||

135.1१३५.१

तत्पुरे चैकम् एवास्य गृहं यद् अधितिष्ठति । (१३५।१)

tatpure caikam evāsya gṛhaṃ yad adhitiṣṭhati |

135.2१३५.२

गृहे शयनम् अप्येकं निशायां यत्र लीयते ॥ (१३५।२)

gṛhe śayanam apyekaṃ niśāyāṃ yatra līyate ||

136.1१३६.१

शय्यार्धं तस्य चाप्यत्र स्त्री पूर्वम् अधितिष्ठति । (१३६।१)

śayyārdhaṃ tasya cāpyatra strī pūrvam adhitiṣṭhati |

136.2१३६.२

तद् अनेन प्रसङ्गेन फलेनैवेह युज्यते ॥ (१३६।२)

tad anena prasaṅgena phalenaiveha yujyate ||

137.1१३७.१

एवम् एवोपभोगेषु भोजनाच्छादनेषु च । (१३७।१)

evam evopabhogeṣu bhojanācchādaneṣu ca |

137.2१३७.२

गुणेषु परिमेयेषु निग्रहानुग्रहौ प्रति ॥ (१३७।२)

guṇeṣu parimeyeṣu nigrahānugrahau prati ||

138.1१३८.१

परतन्त्रः सदा राजा स्वल्पे सो ऽपि प्रसज्जते । (१३८।१)

paratantraḥ sadā rājā svalpe so 'pi prasajjate |

138.2१३८.२

संधिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता ॥ (१३८।२)

saṃdhivigrahayoge ca kuto rājñaḥ svatantratā ||

139.1१३९.१

स्त्रीषु क्रीडाविहारेषु नित्यम् अस्यास्वतन्त्रता । (१३९।१)

strīṣu krīḍāvihāreṣu nityam asyāsvatantratā |

139.2१३९.२

मन्त्रे चामात्यसमितौ कुत एव स्वतन्त्रता ॥ (१३९।२)

mantre cāmātyasamitau kuta eva svatantratā ||

140.1१४०.१

यदा त्वाज्ञापयत्यन्यांस्तदास्योक्ता स्वतन्त्रता । (१४०।१)

yadā tvājñāpayatyanyāṃstadāsyoktā svatantratā |

140.2१४०.२

अवशः कार्यते तत्र तस्मिंस्तस्मिन् गुणे स्थितः ॥ (१४०।२)

avaśaḥ kāryate tatra tasmiṃstasmin guṇe sthitaḥ ||

141.1१४१.१

स्वप्तुकामो न लभते स्वप्तुं कार्यार्थिभिर् जनैः । (१४१।१)

svaptukāmo na labhate svaptuṃ kāryārthibhir janaiḥ |

141.2१४१.२

शयने चाप्यनुज्ञातः सुप्त उत्थाप्यते ऽवशः ॥ (१४१।२)

śayane cāpyanujñātaḥ supta utthāpyate 'vaśaḥ ||

142.1१४२.१

स्नाह्यालभ पिब प्राश जुहुध्यग्नीन् यजेति च । (१४२।१)

snāhyālabha piba prāśa juhudhyagnīn yajeti ca |

142.2१४२.२

वदस्व शृणु चापीति विवशः कार्यते परैः ॥ (१४२।२)

vadasva śṛṇu cāpīti vivaśaḥ kāryate paraiḥ ||

143.1१४३.१

अभिगम्याभिगम्यैनं याचन्ते सततं नराः । (१४३।१)

abhigamyābhigamyainaṃ yācante satataṃ narāḥ |

143.2१४३.२

न चाप्युत्सहते दातुं वित्तरक्षी महाजनात् ॥ (१४३।२)

na cāpyutsahate dātuṃ vittarakṣī mahājanāt ||

144.1१४४.१

दाने कोशक्षयो ह्यस्य वैरं चाप्यप्रयच्छतः । (१४४।१)

dāne kośakṣayo hyasya vairaṃ cāpyaprayacchataḥ |

144.2१४४.२

क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः ॥ (१४४।२)

kṣaṇenāsyopavartante doṣā vairāgyakārakāḥ ||

145.1१४५.१

प्राज्ञाञ् शूरांस्तथैवाढ्यान् एकस्थाने ऽपि शङ्कते । (१४५।१)

prājñāñ śūrāṃstathaivāḍhyān ekasthāne 'pi śaṅkate |

145.2१४५.२

भयम् अप्यभये राज्ञो यैश्च नित्यम् उपास्यते ॥ (१४५।२)

bhayam apyabhaye rājño yaiśca nityam upāsyate ||

146.1१४६.१

यदा चैते प्रदुष्यन्ति राजन् ये कीर्तिता मया । (१४६।१)

yadā caite praduṣyanti rājan ye kīrtitā mayā |

146.2१४६.२

तदैवास्य भयं तेभ्यो जायते पश्य यादृशम् ॥ (१४६।२)

tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam ||

147.1१४७.१

सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही । (१४७।१)

sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī |

147.2१४७.२

निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः ॥ (१४७।२)

nigrahānugrahau kurvaṃstulyo janaka rājabhiḥ ||

148.1१४८.१

पुत्रा दारास्तथैवात्मा कोशो मित्राणि संचयः । (१४८।१)

putrā dārāstathaivātmā kośo mitrāṇi saṃcayaḥ |

148.2१४८.२

परैः साधारणा ह्येते तैस्तैर् एवास्य हेतुभिः ॥ (१४८।२)

paraiḥ sādhāraṇā hyete taistair evāsya hetubhiḥ ||

149.1१४९.१

हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः । (१४९।१)

hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ |

149.2१४९.२

लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते ॥ (१४९।२)

lokasādhāraṇeṣveṣu mithyājñānena tapyate ||

150.1१५०.१

अमुक्तो मानसैर् दुःखैर् इच्छाद्वेषप्रियोद्भवैः । (१५०।१)

amukto mānasair duḥkhair icchādveṣapriyodbhavaiḥ |

150.2१५०.२

शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः ॥ (१५०।२)

śirorogādibhī rogaistathaiva vinipātibhiḥ ||

151.1१५१.१

द्वंद्वैस्तैस्तैर् उपहतः सर्वतः परिशङ्कितः । (१५१।१)

dvaṃdvaistaistair upahataḥ sarvataḥ pariśaṅkitaḥ |

151.2१५१.२

बहुप्रत्यर्थिकं राज्यम् उपास्ते गणयन्निशाः ॥ (१५१।२)

bahupratyarthikaṃ rājyam upāste gaṇayanniśāḥ ||

152.1१५२.१

तद् अल्पसुखम् अत्यर्थं बहुदुःखम् असारवत् । (१५२।१)

tad alpasukham atyarthaṃ bahuduḥkham asāravat |

152.2१५२.२

को राज्यम् अभिपद्येत प्राप्य चोपशमं लभेत् ॥ (१५२।२)

ko rājyam abhipadyeta prāpya copaśamaṃ labhet ||

153.1१५३.१

ममेदम् इति यच्चेदं पुरं राष्ट्रं च मन्यसे । (१५३।१)

mamedam iti yaccedaṃ puraṃ rāṣṭraṃ ca manyase |

153.2१५३.२

बलं कोशम् अमात्यांश्च कस्यैतानि न वा नृप ॥ (१५३।२)

balaṃ kośam amātyāṃśca kasyaitāni na vā nṛpa ||

154.1१५४.१

मित्रामात्यं पुरं राष्ट्रं दण्डः कोशो महीपतिः । (१५४।१)

mitrāmātyaṃ puraṃ rāṣṭraṃ daṇḍaḥ kośo mahīpatiḥ |

154.2१५४.२

सप्ताङ्गश्चक्रसंघातो राज्यम् इत्युच्यते नृप ॥ (१५४।२)

saptāṅgaścakrasaṃghāto rājyam ityucyate nṛpa ||

155.1१५५.१

सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः । (१५५।१)

saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ |

155.2१५५.२

अन्योन्यगुणयुक्तस्य कः केन गुणतो ऽधिकः ॥ (१५५।२)

anyonyaguṇayuktasya kaḥ kena guṇato 'dhikaḥ ||

156.1१५६.१

तेषु तेषु हि कालेषु तत् तद् अङ्गं विशिष्यते । (१५६।१)

teṣu teṣu hi kāleṣu tat tad aṅgaṃ viśiṣyate |

156.2१५६.२

येन यत् सिध्यते कार्यं तत् प्राधान्याय कल्पते ॥ (१५६।२)

yena yat sidhyate kāryaṃ tat prādhānyāya kalpate ||

157.1१५७.१

सप्ताङ्गश् चापि संघातस्त्रयश्चान्ये नृपोत्तम । (१५७।१)

saptāṅgaś cāpi saṃghātastrayaścānye nṛpottama |

157.2१५७.२

सम्भूय दशवर्गो ऽयं भुङ्क्ते राज्यं हि राजवत् ॥ (१५७।२)

sambhūya daśavargo 'yaṃ bhuṅkte rājyaṃ hi rājavat ||

158.1१५८.१

यश्च राजा महोत्साहः क्षत्रधर्मरतो भवेत् । (१५८।१)

yaśca rājā mahotsāhaḥ kṣatradharmarato bhavet |

158.2१५८.२

स तुष्येद् दशभागेन ततस्त्वन्यो दशावरैः ॥ (१५८।२)

sa tuṣyed daśabhāgena tatastvanyo daśāvaraiḥ ||

159.1१५९.१

नास्त्यसाधारणो राजा नास्ति राज्यम् अराजकम् । (१५९।१)

nāstyasādhāraṇo rājā nāsti rājyam arājakam |

159.2१५९.२

राज्ये ऽसति कुतो धर्मो धर्मे ऽसति कुतः परम् ॥ (१५९।२)

rājye 'sati kuto dharmo dharme 'sati kutaḥ param ||

160.1१६०.१

यो ऽप्यत्र परमो धर्मः पवित्रं राजराज्ययोः । (१६०।१)

yo 'pyatra paramo dharmaḥ pavitraṃ rājarājyayoḥ |

160.2१६०.२

पृथिवी दक्षिणा यस्य सो ऽश्वमेधो न विद्यते ॥ (१६०।२)

pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate ||

161.1१६१.१

साहम् एतानि कर्माणि राज्यदुःखानि मैथिल । (१६१।१)

sāham etāni karmāṇi rājyaduḥkhāni maithila |

161.2१६१.२

समर्था शतशो वक्तुम् अथ वापि सहस्रशः ॥ (१६१।२)

samarthā śataśo vaktum atha vāpi sahasraśaḥ ||

162.1१६२.१

स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे । (१६२।१)

svadehe nābhiṣaṅgo me kutaḥ paraparigrahe |

162.2१६२.२

न माम् एवंविधां मुक्ताम् ईदृशं वक्तुम् अर्हसि ॥ (१६२।२)

na mām evaṃvidhāṃ muktām īdṛśaṃ vaktum arhasi ||

163.1१६३.१

ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः । (१६३।१)

nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañcaśikhācchrutaḥ |

163.2१६३.२

सोपायः सोपनिषदः सोपासङ्गः सनिश्चयः ॥ (१६३।२)

sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ ||

164.1१६४.१

तस्य ते मुक्तसङ्गस्य पाशान् आक्रम्य तिष्ठतः । (१६४।१)

tasya te muktasaṅgasya pāśān ākramya tiṣṭhataḥ |

164.2१६४.२

छत्रादिषु विशेषेषु कथं सङ्गः पुनर् नृप ॥ (१६४।२)

chatrādiṣu viśeṣeṣu kathaṃ saṅgaḥ punar nṛpa ||

165.1१६५.१

श्रुतं ते न श्रुतं मन्ये मिथ्या वापि श्रुतं श्रुतम् । (१६५।१)

śrutaṃ te na śrutaṃ manye mithyā vāpi śrutaṃ śrutam |

165.2१६५.२

अथवा श्रुतसंकाशं श्रुतम् अन्यच्छ्रुतं त्वया ॥ (१६५।२)

athavā śrutasaṃkāśaṃ śrutam anyacchrutaṃ tvayā ||

166.1१६६.१

अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसि । (१६६।१)

athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi |

166.2१६६.२

अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो मया ॥ (१६६।२)

abhiṣaṅgāvarodhābhyāṃ baddhastvaṃ prākṛto mayā ||

167.1१६७.१

सत्त्वेनानुप्रवेशो हि यो ऽयं त्वयि कृतो मया । (१६७।१)

sattvenānupraveśo hi yo 'yaṃ tvayi kṛto mayā |

167.2१६७.२

किं तवापकृतं तत्र यदि मुक्तो ऽसि सर्वतः ॥ (१६७।२)

kiṃ tavāpakṛtaṃ tatra yadi mukto 'si sarvataḥ ||

168.1१६८.१

नियमो ह्येष धर्मेषु यतीनां शून्यवासिता । (१६८।१)

niyamo hyeṣa dharmeṣu yatīnāṃ śūnyavāsitā |

168.2१६८.२

शून्यम् आवासयन्त्या च मया किं कस्य दूषितम् ॥ (१६८।२)

śūnyam āvāsayantyā ca mayā kiṃ kasya dūṣitam ||

169.1१६९.१

न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ । (१६९।१)

na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha |

169.2१६९.२

न गात्रावयवैर् अन्यैः स्पृशामि त्वा नराधिप ॥ (१६९।२)

na gātrāvayavair anyaiḥ spṛśāmi tvā narādhipa ||

170.1१७०.१

कुले महति जातेन ह्रीमता दीर्घदर्शिना । (१७०।१)

kule mahati jātena hrīmatā dīrghadarśinā |

170.2१७०.२

नैतत् सदसि वक्तव्यं सद् वासद् वा मिथः कृतम् ॥ (१७०।२)

naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam ||

171.1१७१.१

ब्राह्मणा गुरवश्चेमे तथामात्या गुरूत्तमाः । (१७१।१)

brāhmaṇā guravaśceme tathāmātyā gurūttamāḥ |

171.2१७१.२

त्वं चाथ गुरुर् अप्येषाम् एवम् अन्योन्यगौरवम् ॥ (१७१।२)

tvaṃ cātha gurur apyeṣām evam anyonyagauravam ||

172.1१७२.१

तद् एवम् अनुसंदृश्य वाच्यावाच्यं परीक्षता । (१७२।१)

tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā |

172.2१७२.२

स्त्रीपुंसोः समवायो ऽयं त्वया वाच्यो न संसदि ॥ (१७२।२)

strīpuṃsoḥ samavāyo 'yaṃ tvayā vācyo na saṃsadi ||

173.1१७३.१

यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम् । (१७३।१)

yathā puṣkaraparṇasthaṃ jalaṃ tatparṇasaṃsthitam |

173.2१७३.२

तिष्ठत्यस्पृशती तद्वत् त्वयि वत्स्यामि मैथिल ॥ (१७३।२)

tiṣṭhatyaspṛśatī tadvat tvayi vatsyāmi maithila ||

174.1१७४.१

यदि वाप्यस्पृशन्त्या मे स्पर्शं जानासि कंचन । (१७४।१)

yadi vāpyaspṛśantyā me sparśaṃ jānāsi kaṃcana |

174.2१७४.२

ज्ञानं कृतम् अबीजं ते कथं तेनेह भिक्षुणा ॥ (१७४।२)

jñānaṃ kṛtam abījaṃ te kathaṃ teneha bhikṣuṇā ||

175.1१७५.१

स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं नावाप्य दुर्विदम् । (१७५।१)

sa gārhasthyāccyutaśca tvaṃ mokṣaṃ nāvāpya durvidam |

175.2१७५.२

उभयोर् अन्तराले च वर्तसे मोक्षवातिकः ॥ (१७५।२)

ubhayor antarāle ca vartase mokṣavātikaḥ ||

176.1१७६.१

न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः । (१७६।१)

na hi muktasya muktena jñasyaikatvapṛthaktvayoḥ |

176.2१७६.२

भावाभावसमायोगे जायते वर्णसंकरः ॥ (१७६।२)

bhāvābhāvasamāyoge jāyate varṇasaṃkaraḥ ||

177.1१७७.१

वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः । (१७७।१)

varṇāśramapṛthaktve ca dṛṣṭārthasyāpṛthaktvinaḥ |

177.2१७७.२

नान्यद् अन्यद् इति ज्ञात्वा नान्यद् अन्यत् प्रवर्तते ॥ (१७७।२)

nānyad anyad iti jñātvā nānyad anyat pravartate ||

178.1१७८.१

पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिकाः । (१७८।१)

pāṇau kuṇḍaṃ tathā kuṇḍe payaḥ payasi makṣikāḥ |

178.2१७८.२

आश्रिताश्रययोगेन पृथक्त्वेनाश्रया वयम् ॥ (१७८।२)

āśritāśrayayogena pṛthaktvenāśrayā vayam ||

179.1१७९.१

न तु कुण्डे पयोभावः पयश्चापि न मक्षिकाः । (१७९।१)

na tu kuṇḍe payobhāvaḥ payaścāpi na makṣikāḥ |

179.2१७९.२

स्वयम् एवाश्रयन्त्येते भावा न तु पराश्रयम् ॥ (१७९।२)

svayam evāśrayantyete bhāvā na tu parāśrayam ||

180.1१८०.१

पृथक्त्वाद् आश्रमाणां च वर्णान्यत्वे तथैव च । (१८०।१)

pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca |

180.2१८०.२

परस्परपृथक्त्वाच्च कथं ते वर्णसंकरः ॥ (१८०।२)

parasparapṛthaktvācca kathaṃ te varṇasaṃkaraḥ ||

181.1१८१.१

नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा । (१८१।१)

nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā |

181.2१८१.२

तव राजन् सवर्णास्मि शुद्धयोनिर् अविप्लुता ॥ (१८१।२)

tava rājan savarṇāsmi śuddhayonir aviplutā ||

182.1१८२.१

प्रधानो नाम राजर्षिर् व्यक्तं ते श्रोत्रम् आगतः । (१८२।१)

pradhāno nāma rājarṣir vyaktaṃ te śrotram āgataḥ |

182.2१८२.२

कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् ॥ (१८२।२)

kule tasya samutpannāṃ sulabhāṃ nāma viddhi mām ||

183.1१८३.१

द्रोणश्च शतशृङ्गश्च वक्रद्वारश्च पर्वतः । (१८३।१)

droṇaśca śataśṛṅgaśca vakradvāraśca parvataḥ |

183.2१८३.२

मम सत्रेषु पूर्वेषां चिता मघवता सह ॥ (१८३।२)

mama satreṣu pūrveṣāṃ citā maghavatā saha ||

184.1१८४.१

साहं तस्मिन् कुले जाता भर्तर्यसति मद्विधे । (१८४।१)

sāhaṃ tasmin kule jātā bhartaryasati madvidhe |

184.2१८४.२

विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम् ॥ (१८४।२)

vinītā mokṣadharmeṣu carāmyekā munivratam ||

185.1१८५.१

नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी । (१८५।१)

nāsmi satrapraticchannā na parasvābhimāninī |

185.2१८५.२

न धर्मसंकरकरी स्वधर्मे ऽस्मि धृतव्रता ॥ (१८५।२)

na dharmasaṃkarakarī svadharme 'smi dhṛtavratā ||

186.1१८६.१

नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्यप्रवादिनी । (१८६।१)

nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī |

186.2१८६.२

नासमीक्ष्यागता चाहं त्वत्सकाशं जनाधिप ॥ (१८६।२)

nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa ||

187.1१८७.१

मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी । (१८७।१)

mokṣe te bhāvitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī |

187.2१८७.२

तव मोक्षस्य चाप्यस्य जिज्ञासार्थम् इहागता ॥ (१८७।२)

tava mokṣasya cāpyasya jijñāsārtham ihāgatā ||

188.1१८८.१

न वर्गस्था ब्रवीम्येतत् स्वपक्षपरपक्षयोः । (१८८।१)

na vargasthā bravīmyetat svapakṣaparapakṣayoḥ |

188.2१८८.२

मुक्तो न मुच्यते यश्च शान्तो यश्च न शाम्यति ॥ (१८८।२)

mukto na mucyate yaśca śānto yaśca na śāmyati ||

189.1१८९.१

यथा शून्ये पुरागारे भिक्षुर् एकां निशां वसेत् । (१८९।१)

yathā śūnye purāgāre bhikṣur ekāṃ niśāṃ vaset |

189.2१८९.२

तथा हि त्वच्छरीरे ऽस्मिन्न् इमां वत्स्यामि शर्वरीम् ॥ (१८९।२)

tathā hi tvaccharīre 'sminn imāṃ vatsyāmi śarvarīm ||

190.1१९०.१

साहम् आसनदानेन वागातिथ्येन चार्चिता । (१९०।१)

sāham āsanadānena vāgātithyena cārcitā |

190.2१९०.२

सुप्ता सुशरणा प्रीता श्वो गमिष्यामि मैथिल ॥ (१९०।२)

suptā suśaraṇā prītā śvo gamiṣyāmi maithila ||

191.1१९१.१

इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च । (१९१।१)

ityetāni sa vākyāni hetumantyarthavanti ca |

191.2१९१.२

श्रुत्वा नाधिजगौ राजा किंचिद् अन्यद् अतः परम् ॥ (१९१।२)

śrutvā nādhijagau rājā kiṃcid anyad ataḥ param ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 308

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit