MBh, 8, 14
Select a line for its word-by-word analysis.
प्रत्यागत्य पुनर् जिष्णुर् अहन् संशप्तकान् बहून् । (१।२)
pratyāgatya punar jiṣṇur ahan saṃśaptakān bahūn |
विचेलुर् बभ्रमुर् नेदुः पेतुर् मम्लुश् च मारिष ॥ (२।२)
vicelur babhramur neduḥ petur mamluś ca māriṣa ||
धुर्यं धुर्यतरान् सूतान् रथांश् च परिसंक्षिपन् । (३।१)
dhuryaṃ dhuryatarān sūtān rathāṃś ca parisaṃkṣipan |
पाणीन् पाणिगतं शस्त्रं बाहून् अपि शिरांसि च ॥ (३।२)
pāṇīn pāṇigataṃ śastraṃ bāhūn api śirāṃsi ca ||
भल्लैः क्षुरैर् अर्धचन्द्रैर् वत्सदन्तैश् च पाण्डवः । (४।१)
bhallaiḥ kṣurair ardhacandrair vatsadantaiś ca pāṇḍavaḥ |
आपतन्त्य् अर्जुनं शूराः शतशो ऽथ सहस्रशः ॥ (५।२)
āpatanty arjunaṃ śūrāḥ śataśo 'tha sahasraśaḥ ||
तेषां तस्य च तद् युद्धम् अभवल् लोमहर्षणम् । (६।१)
teṣāṃ tasya ca tad yuddham abhaval lomaharṣaṇam |
त्रैलोक्यविजये यादृग् दैत्यानां सह वज्रिणा ॥ (६।२)
trailokyavijaye yādṛg daityānāṃ saha vajriṇā ||
तम् अविध्यत् त्रिभिर् बाणैर् दन्दशूकैर् इवाहिभिः । (७।१)
tam avidhyat tribhir bāṇair dandaśūkair ivāhibhiḥ |
उग्रायुधस् ततस् तस्य शिरः कायाद् अपाहरत् ॥ (७।२)
ugrāyudhas tatas tasya śiraḥ kāyād apāharat ||
ते ऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैर् अवीवृषन् । (८।१)
te 'rjunaṃ sarvataḥ kruddhā nānāśastrair avīvṛṣan |
मरुद्भिः प्रेषिता मेघा हिमवन्तम् इवोष्णगे ॥ (८।२)
marudbhiḥ preṣitā meghā himavantam ivoṣṇage ||
अस्त्रैर् अस्त्राणि संवार्य द्विषतां सर्वतो ऽर्जुनः । (९।१)
astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ |
सम्यग् अस्तैः शरैः सर्वान् सहितान् अहनद् बहून् ॥ (९।२)
samyag astaiḥ śaraiḥ sarvān sahitān ahanad bahūn ||
छिन्नत्रिवेणुजङ्घेषान् निहतपार्ष्णिसारथीन् । (१०।१)
chinnatriveṇujaṅgheṣān nihatapārṣṇisārathīn |
संछिन्नरश्मियोक्त्राक्षान् व्यनुकर्षयुगान् रथान् । (१०।२)
saṃchinnaraśmiyoktrākṣān vyanukarṣayugān rathān |
विध्वस्तसर्वसंनाहान् बाणैश् चक्रे ऽर्जुनस् त्वरन् ॥ (१०।३)
vidhvastasarvasaṃnāhān bāṇaiś cakre 'rjunas tvaran ||
ते रथास् तत्र विध्वस्ताः परार्ध्या भान्त्य् अनेकशः । (११।१)
te rathās tatra vidhvastāḥ parārdhyā bhānty anekaśaḥ |
धनिनाम् इव वेश्मानि हतान्य् अग्न्यनिलाम्बुभिः ॥ (११।२)
dhaninām iva veśmāni hatāny agnyanilāmbubhiḥ ||
द्विपाः संभिन्नमर्माणो वज्राशनिसमैः शरैः । (१२।१)
dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ |
पेतुर् गिर्यग्रवेश्मानि वज्रवाताग्निभिर् यथा ॥ (१२।२)
petur giryagraveśmāni vajravātāgnibhir yathā ||
सारोहास् तुरगाः पेतुर् बहवो ऽर्जुनताडिताः । (१३।१)
sārohās turagāḥ petur bahavo 'rjunatāḍitāḥ |
निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः ॥ (१३।२)
nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdṛśaḥ ||
नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना । (१४।१)
narāśvanāgā nārācaiḥ saṃsyūtāḥ savyasācinā |
बभ्रमुश् चस्खलुः पेतुर् नेदुर् मम्लुश् च मारिष ॥ (१४।२)
babhramuś caskhaluḥ petur nedur mamluś ca māriṣa ||
शरैर् निजघ्निवान् पार्थो महेन्द्र इव दानवान् ॥ (१५।२)
śarair nijaghnivān pārtho mahendra iva dānavān ||
सरथाः सध्वजा वीरा हताः पार्थेन शेरते ॥ (१६।२)
sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate ||
विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः । (१७।१)
vijitāḥ puṇyakarmāṇo viśiṣṭābhijanaśrutāḥ |
गताः शरीरैर् वसुधाम् ऊर्जितैः कर्मभिर् दिवम् ॥ (१७।२)
gatāḥ śarīrair vasudhām ūrjitaiḥ karmabhir divam ||
अथार्जुनरथं वीरास् त्वदीयाः समुपाद्रवन् । (१८।१)
athārjunarathaṃ vīrās tvadīyāḥ samupādravan |
उह्यमाना रथाश्वैस् ते पत्तयश् च जिघांसवः । (१९।१)
uhyamānā rathāśvais te pattayaś ca jighāṃsavaḥ |
समभ्यधावन्न् अस्यन्तो विविधं क्षिप्रम् आयुधम् ॥ (१९।२)
samabhyadhāvann asyanto vividhaṃ kṣipram āyudham ||
तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः । (२०।१)
tadāyudhamahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ |
व्यधमन् निशितैर् बाणैः क्षिप्रम् अर्जुनमारुतः ॥ (२०।२)
vyadhaman niśitair bāṇaiḥ kṣipram arjunamārutaḥ ||
साश्वपत्तिद्विपरथं महाशस्त्रौघम् अप्लवम् । (२१।१)
sāśvapattidviparathaṃ mahāśastraugham aplavam |
सहसा संतितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना ॥ (२१।२)
sahasā saṃtitīrṣantaṃ pārthaṃ śastrāstrasetunā ||
अथाब्रवीद् वासुदेवः पार्थं किं क्रीडसे ऽनघ । (२२।१)
athābravīd vāsudevaḥ pārthaṃ kiṃ krīḍase 'nagha |
संशप्तकान् प्रमथ्यैतांस् ततः कर्णवधे त्वर ॥ (२२।२)
saṃśaptakān pramathyaitāṃs tataḥ karṇavadhe tvara ||
तथेत्य् उक्त्वार्जुनः क्षिप्रं शिष्टान् संशप्तकांस् तदा । (२३।१)
tathety uktvārjunaḥ kṣipraṃ śiṣṭān saṃśaptakāṃs tadā |
आक्षिप्य शस्त्रेण बलाद् दैत्यान् इन्द्र इवावधीत् ॥ (२३।२)
ākṣipya śastreṇa balād daityān indra ivāvadhīt ||
आदधत् संदधन् नेषून् दृष्टः कैश्चिद् रणे ऽर्जुनः । (२४।१)
ādadhat saṃdadhan neṣūn dṛṣṭaḥ kaiścid raṇe 'rjunaḥ |
विमुञ्चन् वा शराञ् शीघ्रं दृश्यते स्म हि कैरपि ॥ (२४।२)
vimuñcan vā śarāñ śīghraṃ dṛśyate sma hi kairapi ||
आश्चर्यम् इति गोविन्दो ब्रुवन्न् अश्वान् अचोदयत् । (२५।१)
āścaryam iti govindo bruvann aśvān acodayat |
हंसांसगौरास् ते सेनां हंसाः सर इवाविशन् ॥ (२५।२)
haṃsāṃsagaurās te senāṃ haṃsāḥ sara ivāviśan ||
ततः संग्रामभूमिं तां वर्तमाने जनक्षये । (२६।१)
tataḥ saṃgrāmabhūmiṃ tāṃ vartamāne janakṣaye |
अवेक्षमाणो गोविन्दः सव्यसाचिनम् अब्रवीत् ॥ (२६।२)
avekṣamāṇo govindaḥ savyasācinam abravīt ||
पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् ॥ (२७।२)
pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān ||
पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् । (२८।१)
paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām |
जातरूपमयैः पुङ्खैः शरांश् च नतपर्वणः । (२९।१)
jātarūpamayaiḥ puṅkhaiḥ śarāṃś ca nataparvaṇaḥ |
तैलधौतांश् च नाराचान् निर्मुक्तान् इव पन्नगान् ॥ (२९।२)
tailadhautāṃś ca nārācān nirmuktān iva pannagān ||
हस्तिदन्तत्सरून् खड्गाञ् जातरूपपरिष्कृतान् । (३०।१)
hastidantatsarūn khaḍgāñ jātarūpapariṣkṛtān |
आकीर्णांस् तोमरांश् चापांश् चित्रान् हेमविभूषितान् ॥ (३०।२)
ākīrṇāṃs tomarāṃś cāpāṃś citrān hemavibhūṣitān ||
सुवर्णविकृतान् प्रासाञ् शक्तीः कनकभूषिताः ॥ (३१।२)
suvarṇavikṛtān prāsāñ śaktīḥ kanakabhūṣitāḥ ||
जाम्बूनदमयैः पट्टैर् बद्धाश् च विपुला गदाः । (३२।१)
jāmbūnadamayaiḥ paṭṭair baddhāś ca vipulā gadāḥ |
जातरूपमयीश् चर्ष्टीः पट्टिशान् हेमभूषितान् ॥ (३२।२)
jātarūpamayīś carṣṭīḥ paṭṭiśān hemabhūṣitān ||
दण्डैः कनकचित्रैश् च विप्रविद्धान् परश्वधान् । (३३।१)
daṇḍaiḥ kanakacitraiś ca vipraviddhān paraśvadhān |
शतघ्नीः पश्य चित्राश् च विपुलान् परिघांस् तथा । (३४।१)
śataghnīḥ paśya citrāś ca vipulān parighāṃs tathā |
चक्राणि चापविद्धानि मुद्गरांश् च बहून् रणे ॥ (३४।२)
cakrāṇi cāpaviddhāni mudgarāṃś ca bahūn raṇe ||
नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः । (३५।१)
nānāvidhāni śastrāṇi pragṛhya jayagṛddhinaḥ |
जीवन्त इव लक्ष्यन्ते गतसत्त्वास् तरस्विनः ॥ (३५।२)
jīvanta iva lakṣyante gatasattvās tarasvinaḥ ||
गदाविमथितैर् गात्रैर् मुसलैर् भिन्नमस्तकान् । (३६।१)
gadāvimathitair gātrair musalair bhinnamastakān |
गजवाजिरथक्षुण्णान् पश्य योधान् सहस्रशः ॥ (३६।२)
gajavājirathakṣuṇṇān paśya yodhān sahasraśaḥ ||
निस्त्रिंशैः पट्टिशैः प्रासैर् नखरैर् लगुडैर् अपि ॥ (३७।२)
nistriṃśaiḥ paṭṭiśaiḥ prāsair nakharair laguḍair api ||
शरीरैर् बहुधा भिन्नैः शोणितौघपरिप्लुतैः । (३८।१)
śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ |
बाहुभिश् चन्दनादिग्धैः साङ्गदैः शुभभूषणैः । (३९।१)
bāhubhiś candanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ |
साङ्गुलित्रैर् भुजाग्रैश् च विप्रविद्धैर् अलंकृतैः । (४०।१)
sāṅgulitrair bhujāgraiś ca vipraviddhair alaṃkṛtaiḥ |
हस्तिहस्तोपमैश् छिन्नैर् ऊरुभिश् च तरस्विनाम् ॥ (४०।२)
hastihastopamaiś chinnair ūrubhiś ca tarasvinām ||
निकृत्तैर् वृषभाक्षाणां विराजति वसुंधरा ॥ (४१।२)
nikṛttair vṛṣabhākṣāṇāṃ virājati vasuṃdharā ||
कबन्धैः शोणितादिग्धैश् छिन्नगात्रशिरोधरैः । (४२।१)
kabandhaiḥ śoṇitādigdhaiś chinnagātraśirodharaiḥ |
भूर् भाति भरतश्रेष्ठ शान्तार्चिर्भिर् इवाग्निभिः ॥ (४२।२)
bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ ||
रथान् बहुविधान् भग्नान् हेमकिङ्किणिनः शुभान् । (४३।१)
rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān |
अश्वांश् च बहुधा पश्य शोणितेन परिप्लुतान् ॥ (४३।२)
aśvāṃś ca bahudhā paśya śoṇitena pariplutān ||
योधानां च महाशङ्खान् पाण्डुरांश् च प्रकीर्णकान् । (४४।१)
yodhānāṃ ca mahāśaṅkhān pāṇḍurāṃś ca prakīrṇakān |
निरस्तजिह्वान् मातङ्गाञ् शयानान् पर्वतोपमान् ॥ (४४।२)
nirastajihvān mātaṅgāñ śayānān parvatopamān ||
वैजयन्तीविचित्रांश् च हतांश् च गजयोधिनः । (४५।१)
vaijayantīvicitrāṃś ca hatāṃś ca gajayodhinaḥ |
वारणानां परिस्तोमान् सुयुक्ताम्बरकम्बलान् ॥ (४५।२)
vāraṇānāṃ paristomān suyuktāmbarakambalān ||
विपाटिता विचित्राश् च रूपचित्राः कुथास् तथा । (४६।१)
vipāṭitā vicitrāś ca rūpacitrāḥ kuthās tathā |
भिन्नाश् च बहुधा घण्टाः पतद्भिश् चूर्णिता गजैः ॥ (४६।२)
bhinnāś ca bahudhā ghaṇṭāḥ patadbhiś cūrṇitā gajaiḥ ||
वैडूर्यमणिदण्डांश् च पतितान् अङ्कुशान् भुवि । (४७।१)
vaiḍūryamaṇidaṇḍāṃś ca patitān aṅkuśān bhuvi |
बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः ॥ (४७।२)
baddhāḥ sādidhvajāgreṣu suvarṇavikṛtāḥ kaśāḥ ||
विचित्रान् मणिचित्रांश् च जातरूपपरिष्कृतान् । (४८।१)
vicitrān maṇicitrāṃś ca jātarūpapariṣkṛtān |
अश्वास्तरपरिस्तोमान् राङ्कवान् पतितान् भुवि ॥ (४८।२)
aśvāstaraparistomān rāṅkavān patitān bhuvi ||
चूडामणीन् नरेन्द्राणां विचित्राः काञ्चनस्रजः । (४९।१)
cūḍāmaṇīn narendrāṇāṃ vicitrāḥ kāñcanasrajaḥ |
चन्द्रनक्षत्रभासैश् च वदनैश् चारुकुण्डलैः । (५०।१)
candranakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ |
कॢप्तश्मश्रुभिर् अत्यर्थं वीराणां समलंकृतैः । (५०।२)
kḷptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ |
वदनैः पश्य संछन्नां महीं शोणितकर्दमाम् ॥ (५०।३)
vadanaiḥ paśya saṃchannāṃ mahīṃ śoṇitakardamām ||
सजीवांश् च नरान् पश्य कूजमानान् समन्ततः । (५१।१)
sajīvāṃś ca narān paśya kūjamānān samantataḥ |
उपास्यमानान् बहुभिर् न्यस्तशस्त्रैर् विशां पते ॥ (५१।२)
upāsyamānān bahubhir nyastaśastrair viśāṃ pate ||
ज्ञातिभिः सहितैस् तत्र रोदमानैर् मुहुर् मुहुः । (५२।१)
jñātibhiḥ sahitais tatra rodamānair muhur muhuḥ |
व्युत्क्रान्तान् अपरान् योधांश् छादयित्वा तरस्विनः । (५२।२)
vyutkrāntān aparān yodhāṃś chādayitvā tarasvinaḥ |
पुनर् युद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः ॥ (५२।३)
punar yuddhāya gacchanti jayagṛddhāḥ pramanyavaḥ ||
ज्ञातिभिः पतितैः शूरैर् याच्यमानास् तथोदकम् ॥ (५३।२)
jñātibhiḥ patitaiḥ śūrair yācyamānās tathodakam ||
जलार्थं च गताः केचिन्निष्प्राणा बहवो ऽर्जुन । (५४।१)
jalārthaṃ ca gatāḥ kecinniṣprāṇā bahavo 'rjuna |
संनिवृत्ताश् च ते शूरास् तान् दृष्ट्वैव विचेतसः ॥ (५४।२)
saṃnivṛttāś ca te śūrās tān dṛṣṭvaiva vicetasaḥ ||
जलं दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम् । (५५।१)
jalaṃ dṛṣṭvā pradhāvanti krośamānāḥ parasparam |
जलं पीत्वा मृतान् पश्य पिबतो ऽन्यांश् च भारत ॥ (५५।२)
jalaṃ pītvā mṛtān paśya pibato 'nyāṃś ca bhārata ||
परित्यज्य प्रियान् अन्ये बान्धवान् बान्धवप्रिय । (५६।१)
parityajya priyān anye bāndhavān bāndhavapriya |
व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे ॥ (५६।२)
vyutkrāntāḥ samadṛśyanta tatra tatra mahāraṇe ||
पश्यापरान् नरश्रेष्ठ संदष्टौष्ठपुटान् पुनः । (५७।१)
paśyāparān naraśreṣṭha saṃdaṣṭauṣṭhapuṭān punaḥ |
भ्रुकुटीकुटिलैर् वक्त्रैः प्रेक्षमाणान् समन्ततः ॥ (५७।२)
bhrukuṭīkuṭilair vaktraiḥ prekṣamāṇān samantataḥ ||
एवं तां दर्शयन् कृष्णो युद्धभूमिं किरीटिने । (५९।१)
evaṃ tāṃ darśayan kṛṣṇo yuddhabhūmiṃ kirīṭine |
गच्छन्न् एवाशृणोच्छब्दं दुर्योधनबले महत् ॥ (५९।२)
gacchann evāśṛṇocchabdaṃ duryodhanabale mahat ||
शङ्खदुन्दुभिनिर्घोषान् भेरीपणवमिश्रितान् । (६०।१)
śaṅkhadundubhinirghoṣān bherīpaṇavamiśritān |
रथाश्वगजनादांश् च शस्त्रशब्दांश् च दारुणान् ॥ (६०।२)
rathāśvagajanādāṃś ca śastraśabdāṃś ca dāruṇān ||
प्रविश्य तद् बलं कृष्णस् तुरगैर् वातवेगिभिः । (६१।१)
praviśya tad balaṃ kṛṣṇas turagair vātavegibhiḥ |
पाण्ड्येनाभ्यर्दितां सेनां त्वदीयां वीक्ष्य धिष्ठितः ॥ (६१।२)
pāṇḍyenābhyarditāṃ senāṃ tvadīyāṃ vīkṣya dhiṣṭhitaḥ ||
स हि नानाविधैर् बाणैर् इष्वासप्रवरो युधि । (६२।१)
sa hi nānāvidhair bāṇair iṣvāsapravaro yudhi |
न्यहनद् द्विषतां व्रातान् गतासून् अन्तको यथा ॥ (६२।२)
nyahanad dviṣatāṃ vrātān gatāsūn antako yathā ||
भित्त्वा प्रहरतां श्रेष्ठो विदेहासूंश् चकार सः ॥ (६३।२)
bhittvā praharatāṃ śreṣṭho videhāsūṃś cakāra saḥ ||
शत्रुप्रवीरैर् अस्तानि नानाशस्त्राणि सायकैः । (६४।१)
śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ |
भित्त्वा तान् अहनत् पाण्ड्यः शत्रूञ् शक्र इवासुरान् ॥ (६४।२)
bhittvā tān ahanat pāṇḍyaḥ śatrūñ śakra ivāsurān ||
Data courtesy of The Digital Corpus of Sanskrit.