MBh, 14, 87
Select a line for its word-by-word analysis.
तस्मिन् यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः । (१।२)
tasmin yajñe pravṛtte tu vāgmino hetuvādinaḥ |
घटान् पात्रीः कटाहानि कलशान् वर्धमानकान् । (४।१)
ghaṭān pātrīḥ kaṭāhāni kalaśān vardhamānakān |
न हि किंचिद् असौवर्णम् अपश्यंस्तत्र पार्थिवाः ॥ (४।२)
na hi kiṃcid asauvarṇam apaśyaṃstatra pārthivāḥ ||
यूपांश्च शास्त्रपठितान् दारवान् हेमभूषितान् । (५।१)
yūpāṃśca śāstrapaṭhitān dāravān hemabhūṣitān |
सर्वान् एव समानीतांस्तान् अपश्यन्त ते नृपाः ॥ (६।२)
sarvān eva samānītāṃstān apaśyanta te nṛpāḥ ||
गाश्चैव महिषीश्चैव तथा वृद्धाः स्त्रियो ऽपि च । (७।१)
gāścaiva mahiṣīścaiva tathā vṛddhāḥ striyo 'pi ca |
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयम् आगमन् । (९।२)
yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman |
ब्राह्मणानां विशां चैव बहुमृष्टान्नम् ऋद्धिमत् ॥ (९।३)
brāhmaṇānāṃ viśāṃ caiva bahumṛṣṭānnam ṛddhimat ||
पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् । (१०।१)
pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām |
दुन्दुभिर् मेघनिर्घोषो मुहुर् मुहुर् अताड्यत ॥ (१०।२)
dundubhir meghanirghoṣo muhur muhur atāḍyata ||
अन्नस्य बहवो राजन्न् उत्सर्गाः पर्वतोपमाः । (१२।१)
annasya bahavo rājann utsargāḥ parvatopamāḥ |
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ॥ (१२।२)
dadhikulyāśca dadṛśuḥ sarpiṣaśca hradāñjanāḥ ||
राजन्न् अदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ ॥ (१३।२)
rājann adṛśyataikastho rājñastasminmahākratau ||
राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाः । (१५।१)
rājānaḥ sragviṇaścāpi sumṛṣṭamaṇikuṇḍalāḥ |
पर्यवेषन् द्विजाग्र्यांस्ताञ् शतशो ऽथ सहस्रशः ॥ (१५।२)
paryaveṣan dvijāgryāṃstāñ śataśo 'tha sahasraśaḥ ||
तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते ॥ (१६।२)
teṣāṃ nṛpopabhojyāni brāhmaṇebhyo daduḥ sma te ||
Data courtesy of The Digital Corpus of Sanskrit.