MBh, 13, 137
Select a line for its word-by-word analysis.
कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप । (१।२)
kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa |
सहस्रभुजभृच्छ्रीमान् कार्तवीर्यो ऽभवत् प्रभुः । (३।१)
sahasrabhujabhṛcchrīmān kārtavīryo 'bhavat prabhuḥ |
स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे । (५।१)
svavittaṃ tena dattaṃ tu dattātreyāya kāraṇe |
क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतम् एव च ॥ (५।२)
kṣatradharmaṃ puraskṛtya vinayaṃ śrutam eva ca ||
न्यमन्त्रयत संहृष्टः स द्विजश्च वरैस्त्रिभिः ॥ (६।२)
nyamantrayata saṃhṛṣṭaḥ sa dvijaśca varaistribhiḥ ||
सहस्रबाहुर् भूयां वै चमूमध्ये गृहे ऽन्यथा ॥ (७।२)
sahasrabāhur bhūyāṃ vai camūmadhye gṛhe 'nyathā ||
तां च धर्मेण सम्प्राप्य पालयेयम् अतन्द्रितः ॥ (८।३)
tāṃ ca dharmeṇa samprāpya pālayeyam atandritaḥ ||
चतुर्थं तु वरं याचे त्वाम् अहं द्विजसत्तम । (९।१)
caturthaṃ tu varaṃ yāce tvām ahaṃ dvijasattama |
अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम् ॥ (९।३)
anuśāsantu māṃ santo mithyāvṛttaṃ tadāśrayam ||
इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् । (१०।१)
ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam |
अब्रवीद् वीर्यसंमोहात् को न्वस्ति सदृशो मया । (११।२)
abravīd vīryasaṃmohāt ko nvasti sadṛśo mayā |
वीर्यधैर्ययशःशौचैर् विक्रमेणौजसापि वा ॥ (११।३)
vīryadhairyayaśaḥśaucair vikrameṇaujasāpi vā ||
तद्वाक्यान्ते चान्तरिक्षे वाग् उवाचाशरीरिणी । (१२।१)
tadvākyānte cāntarikṣe vāg uvācāśarīriṇī |
न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद् वरम् । (१२।२)
na tvaṃ mūḍha vijānīṣe brāhmaṇaṃ kṣatriyād varam |
सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः ॥ (१२।३)
sahito brāhmaṇeneha kṣatriyo rakṣati prajāḥ ||
कुर्यां भूतानि तुष्टो ऽहं क्रुद्धो नाशं तथा नये । (१३।२)
kuryāṃ bhūtāni tuṣṭo 'haṃ kruddho nāśaṃ tathā naye |
कर्मणा मनसा वाचा न मत्तो ऽस्ति वरो द्विजः ॥ (१३।३)
karmaṇā manasā vācā na matto 'sti varo dvijaḥ ||
पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः । (१४।१)
pūrvo brahmottaro vādo dvitīyaḥ kṣatriyottaraḥ |
त्वयोक्तौ यौ तु तौ हेतू विशेषस्त्वत्र दृश्यते ॥ (१४।२)
tvayoktau yau tu tau hetū viśeṣastvatra dṛśyate ||
ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् । (१५।१)
brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam |
श्रितान् ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान् भुवि ॥ (१५।२)
śritān brahmopadhā viprāḥ khādanti kṣatriyān bhuvi ||
क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् । (१६।१)
kṣatriyeṣvāśrito dharmaḥ prajānāṃ paripālanam |
क्षत्राद् वृत्तिर् ब्राह्मणानां तैः कथं ब्राह्मणो वरः ॥ (१६।२)
kṣatrād vṛttir brāhmaṇānāṃ taiḥ kathaṃ brāhmaṇo varaḥ ||
सर्वभूतप्रधानांस्तान् भैक्षवृत्तीन् अहं सदा । (१७।१)
sarvabhūtapradhānāṃstān bhaikṣavṛttīn ahaṃ sadā |
आत्मसंभावितान् विप्रान् स्थापयाम्यात्मनो वशे ॥ (१७।२)
ātmasaṃbhāvitān viprān sthāpayāmyātmano vaśe ||
कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि । (१८।१)
kathitaṃ hyanayā satyaṃ gāyatryā kanyayā divi |
विजेष्याम्यवशान् सर्वान् ब्राह्मणांश्चर्मवाससः ॥ (१८।२)
vijeṣyāmyavaśān sarvān brāhmaṇāṃścarmavāsasaḥ ||
न च मां च्यावयेद् राष्ट्रात् त्रिषु लोकेषु कश्चन । (१९।१)
na ca māṃ cyāvayed rāṣṭrāt triṣu lokeṣu kaścana |
देवो वा मानुषो वापि तस्माज्ज्येष्ठो द्विजाद् अहम् ॥ (१९।२)
devo vā mānuṣo vāpi tasmājjyeṣṭho dvijād aham ||
अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् । (२०।१)
adya brahmottaraṃ lokaṃ kariṣye kṣatriyottaram |
न हि मे संयुगे कश्चित् सोढुम् उत्सहते बलम् ॥ (२०।२)
na hi me saṃyuge kaścit soḍhum utsahate balam ||
अर्जुनस्य वचः श्रुत्वा वित्रस्ताभून्निशाचरी । (२१।१)
arjunasya vacaḥ śrutvā vitrastābhūnniśācarī |
त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु । (२२।१)
tyajainaṃ kaluṣaṃ bhāvaṃ brāhmaṇebhyo namaskuru |
एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत् ॥ (२२।२)
eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet ||
अथवा त्वां महीपाल शमयिष्यन्ति वै द्विजाः । (२३।१)
athavā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ |
निरसिष्यन्ति वा राष्ट्राद्धतोत्साहं महाबलाः ॥ (२३।२)
nirasiṣyanti vā rāṣṭrāddhatotsāhaṃ mahābalāḥ ||
तं राजा कस्त्वम् इत्याह ततस्तं प्राह मारुतः । (२४।१)
taṃ rājā kastvam ityāha tatastaṃ prāha mārutaḥ |
वायुर् वै देवदूतो ऽस्मि हितं त्वां प्रब्रवीम्यहम् ॥ (२४।२)
vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmyaham ||
अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः । (२५।२)
aho tvayādya vipreṣu bhaktirāgaḥ pradarśitaḥ |
यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम् ॥ (२५।३)
yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam ||
वायोर् वा सदृशं किंचिद् ब्रूहि त्वं ब्राह्मणोत्तमम् । (२६।१)
vāyor vā sadṛśaṃ kiṃcid brūhi tvaṃ brāhmaṇottamam |
अपां वै सदृशं ब्रूहि सूर्यस्य नभसो ऽपि वा ॥ (२६।२)
apāṃ vai sadṛśaṃ brūhi sūryasya nabhaso 'pi vā ||
Data courtesy of The Digital Corpus of Sanskrit.