MBh, 12, 136
Select a line for its word-by-word analysis.
सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ । (१।२)
sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha |
तद् इच्छामि परां बुद्धिं श्रोतुं भरतसत्तम । (२।१)
tad icchāmi parāṃ buddhiṃ śrotuṃ bharatasattama |
पृच्छामि त्वा कुरुश्रेष्ठ तन्मे व्याख्यातुम् अर्हसि ॥ (३।२)
pṛcchāmi tvā kuruśreṣṭha tanme vyākhyātum arhasi ||
शत्रुभिर् बहुभिर् ग्रस्तो यथा वर्तेत पार्थिवः । (४।१)
śatrubhir bahubhir grasto yathā varteta pārthivaḥ |
एतद् इच्छाम्यहं श्रोतुं सर्वम् एव यथाविधि ॥ (४।२)
etad icchāmyahaṃ śrotuṃ sarvam eva yathāvidhi ||
बहवो ऽप्येकम् उद्धर्तुं यतन्ते पूर्वतापिताः ॥ (५।२)
bahavo 'pyekam uddhartuṃ yatante pūrvatāpitāḥ ||
चेष्टितव्यं कथं चात्र शत्रोर् मित्रस्य चान्तरे ॥ (७।२)
ceṣṭitavyaṃ kathaṃ cātra śatror mitrasya cāntare ||
प्रज्ञातलक्षणे राजन्न् अमित्रे मित्रतां गते । (८।१)
prajñātalakṣaṇe rājann amitre mitratāṃ gate |
कथं नु पुरुषः कुर्यात् किं वा कृत्वा सुखी भवेत् ॥ (८।२)
kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet ||
विग्रहं केन वा कुर्यात् संधिं वा केन योजयेत् । (९।१)
vigrahaṃ kena vā kuryāt saṃdhiṃ vā kena yojayet |
एतद् वै सर्वकृत्यानां परं कृत्यं परंतप । (१०।१)
etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa |
नैतस्य कश्चिद् वक्तास्ति श्रोता चापि सुदुर्लभः ॥ (१०।२)
naitasya kaścid vaktāsti śrotā cāpi sudurlabhaḥ ||
ऋते शांतनवाद् भीष्मात् सत्यसंधाज्जितेन्द्रियात् । (११।१)
ṛte śāṃtanavād bhīṣmāt satyasaṃdhājjitendriyāt |
तद् अन्विष्य महाबाहो सर्वम् एतद् वदस्व मे ॥ (११।२)
tad anviṣya mahābāho sarvam etad vadasva me ||
त्वद्युक्तो ऽयम् अनुप्रश्नो युधिष्ठिर गुणोदयः । (१२।२)
tvadyukto 'yam anupraśno yudhiṣṭhira guṇodayaḥ |
शृणु मे पुत्र कार्त्स्न्येन गुह्यम् आपत्सु भारत ॥ (१२।३)
śṛṇu me putra kārtsnyena guhyam āpatsu bhārata ||
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति । (१३।१)
amitro mitratāṃ yāti mitraṃ cāpi praduṣyati |
सामर्थ्ययोगात् कार्याणां तद्गत्या हि सदा गतिः ॥ (१३।२)
sāmarthyayogāt kāryāṇāṃ tadgatyā hi sadā gatiḥ ||
तस्माद् विश्वसितव्यं च विग्रहं च समाचरेत् । (१४।१)
tasmād viśvasitavyaṃ ca vigrahaṃ ca samācaret |
देशं कालं च विज्ञाय कार्याकार्यविनिश्चये ॥ (१४।२)
deśaṃ kālaṃ ca vijñāya kāryākāryaviniścaye ||
संधातव्यं बुधैर् नित्यं व्यवस्यं च हितार्थिभिः । (१५।१)
saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ |
अमित्रैर् अपि संधेयं प्राणा रक्ष्याश्च भारत ॥ (१५।२)
amitrair api saṃdheyaṃ prāṇā rakṣyāśca bhārata ||
यो ह्यमित्रैर् नरो नित्यं न संदध्याद् अपण्डितः । (१६।१)
yo hyamitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ |
न सो ऽर्थम् आप्नुयात् किंचित् फलान्यपि च भारत ॥ (१६।२)
na so 'rtham āpnuyāt kiṃcit phalānyapi ca bhārata ||
यस्त्वमित्रेण संधत्ते मित्रेण च विरुध्यते । (१७।१)
yastvamitreṇa saṃdhatte mitreṇa ca virudhyate |
अर्थयुक्तिं समालोक्य सुमहद् विन्दते फलम् ॥ (१७।२)
arthayuktiṃ samālokya sumahad vindate phalam ||
मार्जारस्य च संवादं न्यग्रोधे मूषकस्य च ॥ (१८।२)
mārjārasya ca saṃvādaṃ nyagrodhe mūṣakasya ca ||
वने महति कस्मिंश्चिन्न्यग्रोधः सुमहान् अभूत् । (१९।१)
vane mahati kasmiṃścinnyagrodhaḥ sumahān abhūt |
वैरन्त्यम् अभितो जातस्तरुर् व्यालमृगाकुलः ॥ (२०।२)
vairantyam abhito jātastarur vyālamṛgākulaḥ ||
तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम् । (२१।१)
tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam |
शाखाश्च तस्य संश्रित्य वसति स्म सुखं पुरः । (२२।१)
śākhāśca tasya saṃśritya vasati sma sukhaṃ puraḥ |
अयोजयत् तम् उन्माथं नित्यम् अस्तं गते रवौ ॥ (२३।२)
ayojayat tam unmāthaṃ nityam astaṃ gate ravau ||
तत्र स्नायुमयान् पाशान् यथावत् संनिधाय सः । (२४।१)
tatra snāyumayān pāśān yathāvat saṃnidhāya saḥ |
गृहं गत्वा सुखं शेते प्रभाताम् एति शर्वरीम् ॥ (२४।२)
gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm ||
तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः । (२५।१)
tatra sma nityaṃ badhyante naktaṃ bahuvidhā mṛgāḥ |
कदाचित् तत्र मार्जारस्त्वप्रमत्तो ऽप्यबध्यत ॥ (२५।२)
kadācit tatra mārjārastvapramatto 'pyabadhyata ||
तस्मिन् बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि । (२६।१)
tasmin baddhe mahāprājñaḥ śatrau nityātatāyini |
तं कालं पलितो ज्ञात्वा विचचार सुनिर्भयः ॥ (२६।२)
taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ ||
भक्षं विचरमाणेन नचिराद् दृष्टम् आमिषम् ॥ (२७।२)
bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam ||
स तम् उन्माथम् आरुह्य तद् आमिषम् अभक्षयत् । (२८।१)
sa tam unmātham āruhya tad āmiṣam abhakṣayat |
अपश्यद् अपरं घोरम् आत्मनः शत्रुम् आगतम् ॥ (२९।२)
apaśyad aparaṃ ghoram ātmanaḥ śatrum āgatam ||
भक्षार्थं लेलिहद् वक्त्रं भूमावूर्ध्वमुखं स्थितम् ॥ (३१।२)
bhakṣārthaṃ lelihad vaktraṃ bhūmāvūrdhvamukhaṃ sthitam ||
शाखागतम् अरिं चान्यद् अपश्यत् कोटरालयम् । (३२।१)
śākhāgatam ariṃ cānyad apaśyat koṭarālayam |
उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम् ॥ (३२।२)
ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram ||
अथास्यासीद् इयं चिन्ता तत् प्राप्य सुमहद् भयम् ॥ (३३।२)
athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam ||
समन्ताद् भय उत्पन्ने कथं कार्यं हितैषिणा ॥ (३४।२)
samantād bhaya utpanne kathaṃ kāryaṃ hitaiṣiṇā ||
स तथा सर्वतो रुद्धः सर्वत्र समदर्शनः । (३५।१)
sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ |
अभवद् भयसंतप्तश्चक्रे चेमां परां गतिम् ॥ (३५।२)
abhavad bhayasaṃtaptaścakre cemāṃ parāṃ gatim ||
गतं हि सहसा भूमिं नकुलो मां समाप्नुयात् । (३७।१)
gataṃ hi sahasā bhūmiṃ nakulo māṃ samāpnuyāt |
उलूकश्चेह तिष्ठन्तं मार्जारः पाशसंक्षयात् ॥ (३७।२)
ulūkaśceha tiṣṭhantaṃ mārjāraḥ pāśasaṃkṣayāt ||
न त्वेवास्मद्विधः प्राज्ञः संमोहं गन्तुम् अर्हति । (३८।१)
na tvevāsmadvidhaḥ prājñaḥ saṃmohaṃ gantum arhati |
करिष्ये जीविते यत्नं यावद् उच्छ्वासनिग्रहम् ॥ (३८।२)
kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham ||
न हि बुद्ध्यान्विताः प्राज्ञा नीतिशास्त्रविशारदाः । (३९।१)
na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ |
संभ्रमन्त्यापदं प्राप्य महतो ऽर्थान् अवाप्य च ॥ (३९।२)
saṃbhramantyāpadaṃ prāpya mahato 'rthān avāpya ca ||
न त्वन्याम् इह मार्जाराद् गतिं पश्यामि सांप्रतम् । (४०।१)
na tvanyām iha mārjārād gatiṃ paśyāmi sāṃpratam |
विषमस्थो ह्ययं जन्तुः कृत्यं चास्य महन्मया ॥ (४०।२)
viṣamastho hyayaṃ jantuḥ kṛtyaṃ cāsya mahanmayā ||
जीवितार्थी कथं त्वद्य प्रार्थितः शत्रुभिस्त्रिभिः । (४१।१)
jīvitārthī kathaṃ tvadya prārthitaḥ śatrubhistribhiḥ |
तस्माद् इमम् अहं शत्रुं मार्जारं संश्रयामि वै ॥ (४१।२)
tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai ||
क्षत्रविद्यां समाश्रित्य हितम् अस्योपधारये । (४२।१)
kṣatravidyāṃ samāśritya hitam asyopadhāraye |
अयम् अत्यन्तशत्रुर् मे वैषम्यं परमं गतः । (४३।१)
ayam atyantaśatrur me vaiṣamyaṃ paramaṃ gataḥ |
मूढो ग्राहयितुं स्वार्थं संगत्या यदि शक्यते ॥ (४३।२)
mūḍho grāhayituṃ svārthaṃ saṃgatyā yadi śakyate ||
कदाचिद् व्यसनं प्राप्य संधिं कुर्यान्मया सह । (४४।१)
kadācid vyasanaṃ prāpya saṃdhiṃ kuryānmayā saha |
बलिना संनिविष्टस्य शत्रोर् अपि परिग्रहः । (४४।२)
balinā saṃniviṣṭasya śatror api parigrahaḥ |
कार्य इत्याहुर् आचार्या विषमे जीवितार्थिना ॥ (४४।३)
kārya ityāhur ācāryā viṣame jīvitārthinā ||
श्रेयान् हि पण्डितः शत्रुर् न च मित्रम् अपण्डितम् । (४५।१)
śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam |
मम ह्यमित्रे मार्जारे जीवितं सम्प्रतिष्ठितम् ॥ (४५।२)
mama hyamitre mārjāre jīvitaṃ sampratiṣṭhitam ||
हन्तैनं सम्प्रवक्ष्यामि हेतुम् आत्माभिरक्षणे । (४६।१)
hantainaṃ sampravakṣyāmi hetum ātmābhirakṣaṇe |
अपीदानीम् अयं शत्रुः संगत्या पण्डितो भवेत् ॥ (४६।२)
apīdānīm ayaṃ śatruḥ saṃgatyā paṇḍito bhavet ||
ततो ऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित् । (४७।१)
tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit |
सान्त्वपूर्वम् इदं वाक्यं मार्जारं मूषको ऽब्रवीत् ॥ (४७।२)
sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt ||
सौहृदेनाभिभाषे त्वा कच्चिन्मार्जार जीवसि । (४८।१)
sauhṛdenābhibhāṣe tvā kaccinmārjāra jīvasi |
जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ ॥ (४८।२)
jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau ||
न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा । (४९।१)
na te saumya viṣattavyaṃ jīviṣyasi yathā purā |
अहं त्वाम् उद्धरिष्यामि प्राणाञ् जह्यां हि ते कृते ॥ (४९।२)
ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte ||
अस्ति कश्चिद् उपायो ऽत्र पुष्कलः प्रतिभाति माम् । (५०।१)
asti kaścid upāyo 'tra puṣkalaḥ pratibhāti mām |
येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयो यथा मया ॥ (५०।२)
yena śakyastvayā mokṣaḥ prāptuṃ śreyo yathā mayā ||
मया ह्युपायो दृष्टो ऽयं विचार्य मतिम् आत्मनः । (५१।१)
mayā hyupāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ |
आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ ॥ (५१।२)
ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau ||
इदं हि नकुलोलूकं पापबुद्ध्यभितः स्थितम् । (५२।१)
idaṃ hi nakulolūkaṃ pāpabuddhyabhitaḥ sthitam |
न धर्षयति मार्जार तेन मे स्वस्ति सांप्रतम् ॥ (५२।२)
na dharṣayati mārjāra tena me svasti sāṃpratam ||
कूजंश्चपलनेत्रो ऽयं कौशिको मां निरीक्षते । (५३।१)
kūjaṃścapalanetro 'yaṃ kauśiko māṃ nirīkṣate |
नगशाखाग्रहस्तिष्ठंस्तस्याहं भृशम् उद्विजे ॥ (५३।२)
nagaśākhāgrahastiṣṭhaṃstasyāhaṃ bhṛśam udvije ||
सतां साप्तपदं सख्यं सवासो मे ऽसि पण्डितः । (५४।१)
satāṃ sāptapadaṃ sakhyaṃ savāso me 'si paṇḍitaḥ |
सांवास्यकं करिष्यामि नास्ति ते मृत्युतो भयम् ॥ (५४।२)
sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam ||
न हि शक्नोषि मार्जार पाशं छेत्तुं विना मया । (५५।१)
na hi śaknoṣi mārjāra pāśaṃ chettuṃ vinā mayā |
अहं छेत्स्यामि ते पाशं यदि मां त्वं न हिंससि ॥ (५५।२)
ahaṃ chetsyāmi te pāśaṃ yadi māṃ tvaṃ na hiṃsasi ||
त्वम् आश्रितो नगस्याग्रं मूलं त्वहम् उपाश्रितः । (५६।१)
tvam āśrito nagasyāgraṃ mūlaṃ tvaham upāśritaḥ |
चिरोषिताविहावां वै वृक्षे ऽस्मिन् विदितं हि ते ॥ (५६।२)
ciroṣitāvihāvāṃ vai vṛkṣe 'smin viditaṃ hi te ||
यस्मिन् आश्वसते कश्चिद् यश्च नाश्वसते क्वचित् । (५७।१)
yasmin āśvasate kaścid yaśca nāśvasate kvacit |
न तौ धीराः प्रशंसन्ति नित्यम् उद्विग्नचेतसौ ॥ (५७।२)
na tau dhīrāḥ praśaṃsanti nityam udvignacetasau ||
तस्माद् विवर्धतां प्रीतिः सत्या संगतिर् अस्तु नौ । (५८।१)
tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau |
कालातीतम् अपार्थं हि न प्रशंसन्ति पण्डिताः ॥ (५८।२)
kālātītam apārthaṃ hi na praśaṃsanti paṇḍitāḥ ||
अर्थयुक्तिम् इमां तावद् यथाभूतां निशामय । (५९।१)
arthayuktim imāṃ tāvad yathābhūtāṃ niśāmaya |
तव जीवितम् इच्छामि त्वं ममेच्छसि जीवितम् ॥ (५९।२)
tava jīvitam icchāmi tvaṃ mamecchasi jīvitam ||
कश्चित् तरति काष्ठेन सुगम्भीरां महानदीम् । (६०।१)
kaścit tarati kāṣṭhena sugambhīrāṃ mahānadīm |
स तारयति तत् काष्ठं स च काष्ठेन तार्यते ॥ (६०।२)
sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate ||
अहं त्वां तारयिष्यामि त्वं च मां तारयिष्यसि ॥ (६१।२)
ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi ||
एवम् उक्त्वा तु पलितस्तदर्थम् उभयोर् हितम् । (६२।१)
evam uktvā tu palitastadartham ubhayor hitam |
हेतुमद् ग्रहणीयं च कालाकाङ्क्षी व्यपैक्षत ॥ (६२।२)
hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata ||
अथ सुव्याहृतं तस्य श्रुत्वा शत्रुर् विचक्षणः । (६३।१)
atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ |
हेतुमद् ग्रहणीयार्थं मार्जारो वाक्यम् अब्रवीत् ॥ (६३।२)
hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt ||
बुद्धिमान् वाक्यसम्पन्नस्तद् वाक्यम् अनुवर्णयन् । (६४।१)
buddhimān vākyasampannastad vākyam anuvarṇayan |
ताम् अवस्थाम् अवेक्ष्यान्त्यां साम्नैव प्रत्यपूजयत् ॥ (६४।२)
tām avasthām avekṣyāntyāṃ sāmnaiva pratyapūjayat ||
मूषकं मन्दम् उद्वीक्ष्य मार्जारो लोमशो ऽब्रवीत् ॥ (६५।२)
mūṣakaṃ mandam udvīkṣya mārjāro lomaśo 'bravīt ||
नन्दामि सौम्य भद्रं ते यो मां जीवन्तम् इच्छसि । (६६।१)
nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi |
द्वयोर् आपन्नयोः संधिः क्रियतां मा विचारय ॥ (६७।२)
dvayor āpannayoḥ saṃdhiḥ kriyatāṃ mā vicāraya ||
विधत्स्व प्राप्तकालं यत् कार्यं सिध्यतु चावयोः । (६८।१)
vidhatsva prāptakālaṃ yat kāryaṃ sidhyatu cāvayoḥ |
मयि कृच्छ्राद् विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम् ॥ (६८।२)
mayi kṛcchrād vinirmukte na vinaṅkṣyati te kṛtam ||
न्यस्तमानो ऽस्मि भक्तो ऽस्मि शिष्यस्त्वद्धितकृत् तथा । (६९।१)
nyastamāno 'smi bhakto 'smi śiṣyastvaddhitakṛt tathā |
इत्येवम् उक्तः पलितो मार्जारं वशम् आगतम् । (७०।१)
ityevam uktaḥ palito mārjāraṃ vaśam āgatam |
वाक्यं हितम् उवाचेदम् अभिनीतार्थम् अर्थवत् ॥ (७०।२)
vākyaṃ hitam uvācedam abhinītārtham arthavat ||
उदारं यद् भवान् आह नैतच्चित्रं भवद्विधे । (७१।१)
udāraṃ yad bhavān āha naitaccitraṃ bhavadvidhe |
विदितो यस्तु मार्गो मे हितार्थं शृणु तं मम ॥ (७१।२)
vidito yastu mārgo me hitārthaṃ śṛṇu taṃ mama ||
अहं त्वानुप्रवेक्ष्यामि नकुलान्मे महद् भयम् । (७२।१)
ahaṃ tvānupravekṣyāmi nakulānme mahad bhayam |
त्रायस्व मां मा वधीश्च शक्तो ऽस्मि तव मोक्षणे ॥ (७२।२)
trāyasva māṃ mā vadhīśca śakto 'smi tava mokṣaṇe ||
उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम् । (७३।१)
ulūkāccaiva māṃ rakṣa kṣudraḥ prārthayate hi mām |
अहं छेत्स्यामि ते पाशान् सखे सत्येन ते शपे ॥ (७३।२)
ahaṃ chetsyāmi te pāśān sakhe satyena te śape ||
तद् वचः संगतं श्रुत्वा लोमशो युक्तम् अर्थवत् । (७४।१)
tad vacaḥ saṃgataṃ śrutvā lomaśo yuktam arthavat |
हर्षाद् उद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् ॥ (७४।२)
harṣād udvīkṣya palitaṃ svāgatenābhyapūjayat ||
स तं सम्पूज्य पलितं मार्जारः सौहृदे स्थितः । (७५।१)
sa taṃ sampūjya palitaṃ mārjāraḥ sauhṛde sthitaḥ |
सुविचिन्त्याब्रवीद् धीरः प्रीतस्त्वरित एव हि ॥ (७५।२)
suvicintyābravīd dhīraḥ prītastvarita eva hi ||
क्षिप्रम् आगच्छ भद्रं ते त्वं मे प्राणसमः सखा । (७६।१)
kṣipram āgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā |
तव प्राज्ञ प्रसादाद्धि क्षिप्रं प्राप्स्यामि जीवितम् ॥ (७६।२)
tava prājña prasādāddhi kṣipraṃ prāpsyāmi jīvitam ||
यद् यद् एवंगतेनाद्य शक्यं कर्तुं मया तव । (७७।१)
yad yad evaṃgatenādya śakyaṃ kartuṃ mayā tava |
तद् आज्ञापय कर्ताहं संधिर् एवास्तु नौ सखे ॥ (७७।२)
tad ājñāpaya kartāhaṃ saṃdhir evāstu nau sakhe ||
अस्मात् ते संशयान्मुक्तः समित्रगणबान्धवः । (७८।१)
asmāt te saṃśayānmuktaḥ samitragaṇabāndhavaḥ |
सर्वकार्याणि कर्ताहं प्रियाणि च हितानि च ॥ (७८।२)
sarvakāryāṇi kartāhaṃ priyāṇi ca hitāni ca ||
मुक्तश्च व्यसनाद् अस्मात् सौम्याहम् अपि नाम ते । (७९।१)
muktaśca vyasanād asmāt saumyāham api nāma te |
प्रीतिम् उत्पादयेयं च प्रतिकर्तुं च शक्नुयाम् ॥ (७९।२)
prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām ||
ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषकस्तदा । (८०।१)
grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakastadā |
प्रविवेश सुविस्रब्धः सम्यग् अर्थांश्चचार ह ॥ (८०।२)
praviveśa suvisrabdhaḥ samyag arthāṃścacāra ha ||
मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत् ॥ (८१।२)
mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat ||
लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम् । (८२।१)
līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam |
तौ दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर् गृहान् ॥ (८२।२)
tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān ||
चिछेद पाशान्नृपते कालाकाङ्क्षी शनैः शनैः ॥ (८३।२)
cicheda pāśānnṛpate kālākāṅkṣī śanaiḥ śanaiḥ ||
अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषकम् । (८४।१)
atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam |
छिन्दन्तं वै तदा पाशान् अत्वरन्तं त्वरान्वितः ॥ (८४।२)
chindantaṃ vai tadā pāśān atvarantaṃ tvarānvitaḥ ||
किं सौम्य नाभित्वरसे किं कृतार्थो ऽवमन्यसे । (८६।१)
kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase |
छिन्द्धि पाशान् अमित्रघ्न पुरा श्वपच एति सः ॥ (८६।२)
chinddhi pāśān amitraghna purā śvapaca eti saḥ ||
इत्युक्तस्त्वरता तेन मतिमान् पलितो ऽब्रवीत् । (८७।१)
ityuktastvaratā tena matimān palito 'bravīt |
मार्जारम् अकृतप्रज्ञं वश्यम् आत्महितं वचः ॥ (८७।२)
mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ ||
तूष्णीं भव न ते सौम्य त्वरा कार्या न संभ्रमः । (८८।१)
tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ |
अकाले कृत्यम् आरब्धं कर्तुं नार्थाय कल्पते । (८९।१)
akāle kṛtyam ārabdhaṃ kartuṃ nārthāya kalpate |
तद् एव काल आरब्धं महते ऽर्थाय कल्पते ॥ (८९।२)
tad eva kāla ārabdhaṃ mahate 'rthāya kalpate ||
अकालविप्रमुक्तान्मे त्वत्त एव भयं भवेत् । (९०।१)
akālavipramuktānme tvatta eva bhayaṃ bhavet |
तस्मात् कालं प्रतीक्षस्व किम् इति त्वरसे सखे ॥ (९०।२)
tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe ||
यावत् पश्यामि चण्डालम् आयान्तं शस्त्रपाणिनम् । (९१।१)
yāvat paśyāmi caṇḍālam āyāntaṃ śastrapāṇinam |
ततश्छेत्स्यामि ते पाशं प्राप्ते साधारणे भये ॥ (९१।२)
tataśchetsyāmi te pāśaṃ prāpte sādhāraṇe bhaye ||
तस्मिन् काले प्रमुक्तस्त्वं तरुम् एवाधिरोहसि । (९२।१)
tasmin kāle pramuktastvaṃ tarum evādhirohasi |
न हि ते जीविताद् अन्यत् किंचित् कृत्यं भविष्यति ॥ (९२।२)
na hi te jīvitād anyat kiṃcit kṛtyaṃ bhaviṣyati ||
ततो भवत्यतिक्रान्ते त्रस्ते भीते च लोमश । (९३।१)
tato bhavatyatikrānte traste bhīte ca lomaśa |
अहं बिलं प्रवेक्ष्यामि भवाञ् शाखां गमिष्यति ॥ (९३।२)
ahaṃ bilaṃ pravekṣyāmi bhavāñ śākhāṃ gamiṣyati ||
एवम् उक्तस्तु मार्जारो मूषकेणात्मनो हितम् । (९४।१)
evam uktastu mārjāro mūṣakeṇātmano hitam |
वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः ॥ (९४।२)
vacanaṃ vākyatattvajño jīvitārthī mahāmatiḥ ||
अथात्मकृत्यत्वरितः सम्यक् प्रश्रयम् आचरन् । (९५।१)
athātmakṛtyatvaritaḥ samyak praśrayam ācaran |
न ह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः । (९६।१)
na hyevaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ |
यथा त्वं मोक्षितः कृच्छ्रात् त्वरमाणेन वै मया ॥ (९६।२)
yathā tvaṃ mokṣitaḥ kṛcchrāt tvaramāṇena vai mayā ||
यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर् भवेत् ॥ (९७।२)
yatnaṃ kuru mahāprājña yathā svastyāvayor bhavet ||
अथवा पूर्ववैरं त्वं स्मरन् कालं विकर्षसि । (९८।१)
athavā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi |
पश्य दुष्कृतकर्मत्वं व्यक्तम् आयुःक्षयो मम ॥ (९८।२)
paśya duṣkṛtakarmatvaṃ vyaktam āyuḥkṣayo mama ||
यच्च किंचिन्मयाज्ञानात् पुरस्ताद् विप्रियं कृतम् । (९९।१)
yacca kiṃcinmayājñānāt purastād vipriyaṃ kṛtam |
न तन्मनसि कर्तव्यं क्षमये त्वां प्रसीद मे ॥ (९९।२)
na tanmanasi kartavyaṃ kṣamaye tvāṃ prasīda me ||
तम् एवंवादिनं प्राज्ञः शास्त्रविद् बुद्धिसंमतः । (१००।१)
tam evaṃvādinaṃ prājñaḥ śāstravid buddhisaṃmataḥ |
उवाचेदं वचः श्रेष्ठं मार्जारं मूषकस्तदा ॥ (१००।२)
uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakastadā ||
श्रुतं मे तव मार्जार स्वम् अर्थं परिगृह्णतः । (१०१।१)
śrutaṃ me tava mārjāra svam arthaṃ parigṛhṇataḥ |
ममापि त्वं विजानीहि स्वम् अर्थं परिगृह्णतः ॥ (१०१।२)
mamāpi tvaṃ vijānīhi svam arthaṃ parigṛhṇataḥ ||
यन्मित्रं भीतवत् साध्यं यन्मित्रं भयसंहितम् । (१०२।१)
yanmitraṃ bhītavat sādhyaṃ yanmitraṃ bhayasaṃhitam |
सुरक्षितं ततः कार्यं पाणिः सर्पमुखाद् इव ॥ (१०२।२)
surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva ||
कृत्वा बलवता संधिम् आत्मानं यो न रक्षति । (१०३।१)
kṛtvā balavatā saṃdhim ātmānaṃ yo na rakṣati |
अपथ्यम् इव तद् भुक्तं तस्यानर्थाय कल्पते ॥ (१०३।२)
apathyam iva tad bhuktaṃ tasyānarthāya kalpate ||
न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचित् सुहृत् । (१०४।१)
na kaścit kasyacinmitraṃ na kaścit kasyacit suhṛt |
अर्थैर् अर्था निबध्यन्ते गजैर् वनगजा इव ॥ (१०४।२)
arthair arthā nibadhyante gajair vanagajā iva ||
न हि कश्चित् कृते कार्ये कर्तारं समवेक्षते । (१०५।१)
na hi kaścit kṛte kārye kartāraṃ samavekṣate |
तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ (१०५।२)
tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet ||
तस्मिन् काले ऽपि च भवान् दिवाकीर्तिभयान्वितः । (१०६।१)
tasmin kāle 'pi ca bhavān divākīrtibhayānvitaḥ |
छिन्नं तु तन्तुबाहुल्यं तन्तुर् एको ऽवशेषितः । (१०७।१)
chinnaṃ tu tantubāhulyaṃ tantur eko 'vaśeṣitaḥ |
छेत्स्याम्यहं तद् अप्याशु निर्वृतो भव लोमश ॥ (१०७।२)
chetsyāmyahaṃ tad apyāśu nirvṛto bhava lomaśa ||
तयोः संवदतोर् एवं तथैवापन्नयोर् द्वयोः । (१०८।१)
tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ |
क्षयं जगाम सा रात्रिर् लोमशं चाविशद् भयम् ॥ (१०८।२)
kṣayaṃ jagāma sā rātrir lomaśaṃ cāviśad bhayam ||
स्थूलस्फिग् विकचो रूक्षः श्वचक्रपरिवारितः ॥ (१०९।२)
sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ ||
शङ्कुकर्णो महावक्त्रः पलितो घोरदर्शनः । (११०।१)
śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ |
परिघो नाम चण्डालः शस्त्रपाणिर् अदृश्यत ॥ (११०।२)
parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata ||
तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः । (१११।१)
taṃ dṛṣṭvā yamadūtābhaṃ mārjārastrastacetanaḥ |
उवाच पलितं भीतः किम् इदानीं करिष्यसि ॥ (१११।२)
uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi ||
अथ चापि सुसंत्रस्तौ तं दृष्ट्वा घोरदर्शनम् । (११२।१)
atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam |
क्षणेन नकुलोलूकौ नैराश्यं जग्मतुस्तदा ॥ (११२।२)
kṣaṇena nakulolūkau nairāśyaṃ jagmatustadā ||
बलिनौ मतिमन्तौ च संघातं चाप्युपागतौ । (११३।१)
balinau matimantau ca saṃghātaṃ cāpyupāgatau |
अशक्यौ सुनयात् तस्मात् सम्प्रधर्षयितुं बलात् ॥ (११३।२)
aśakyau sunayāt tasmāt sampradharṣayituṃ balāt ||
कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषकौ । (११४।१)
kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau |
उलूकनकुलौ तूर्णं जग्मतुः स्वं स्वम् आलयम् ॥ (११४।२)
ulūkanakulau tūrṇaṃ jagmatuḥ svaṃ svam ālayam ||
ततश्चिछेद तं तन्तुं मार्जारस्य स मूषकः । (११५।१)
tataścicheda taṃ tantuṃ mārjārasya sa mūṣakaḥ |
विप्रमुक्तो ऽथ मार्जारस्तम् एवाभ्यपतद् द्रुमम् ॥ (११५।२)
vipramukto 'tha mārjārastam evābhyapatad drumam ||
स च तस्माद् भयान्मुक्तो मुक्तो घोरेण शत्रुणा । (११६।१)
sa ca tasmād bhayānmukto mukto ghoreṇa śatruṇā |
बिलं विवेश पलितः शाखां भेजे च लोमशः ॥ (११६।२)
bilaṃ viveśa palitaḥ śākhāṃ bheje ca lomaśaḥ ||
उन्माथम् अप्यथादाय चण्डालो वीक्ष्य सर्वशः । (११७।१)
unmātham apyathādāya caṇḍālo vīkṣya sarvaśaḥ |
विहताशः क्षणेनाथ तस्माद् देशाद् अपाक्रमत् । (११७।२)
vihatāśaḥ kṣaṇenātha tasmād deśād apākramat |
ततस्तस्माद् भयान्मुक्तो दुर्लभं प्राप्य जीवितम् । (११८।१)
tatastasmād bhayānmukto durlabhaṃ prāpya jīvitam |
बिलस्थं पादपाग्रस्थः पलितं लोमशो ऽब्रवीत् ॥ (११८।२)
bilasthaṃ pādapāgrasthaḥ palitaṃ lomaśo 'bravīt ||
अकृत्वा संविदं कांचित् सहसाहम् उपप्लुतः । (११९।१)
akṛtvā saṃvidaṃ kāṃcit sahasāham upaplutaḥ |
कृतज्ञं कृतकल्याणं कच्चिन्मां नाभिशङ्कसे ॥ (११९।२)
kṛtajñaṃ kṛtakalyāṇaṃ kaccinmāṃ nābhiśaṅkase ||
गत्वा च मम विश्वासं दत्त्वा च मम जीवितम् । (१२०।१)
gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam |
मित्रोपभोगसमये किं त्वं नैवोपसर्पसि ॥ (१२०।२)
mitropabhogasamaye kiṃ tvaṃ naivopasarpasi ||
कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति । (१२१।१)
kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścānnānutiṣṭhati |
न स मित्राणि लभते कृच्छ्रास्वापत्सु दुर्मतिः ॥ (१२१।२)
na sa mitrāṇi labhate kṛcchrāsvāpatsu durmatiḥ ||
तत् कृतो ऽहं त्वया मित्रं सामर्थ्याद् आत्मनः सखे । (१२२।१)
tat kṛto 'haṃ tvayā mitraṃ sāmarthyād ātmanaḥ sakhe |
स मां मित्रत्वम् आपन्नम् उपभोक्तुं त्वम् अर्हसि ॥ (१२२।२)
sa māṃ mitratvam āpannam upabhoktuṃ tvam arhasi ||
यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः । (१२३।१)
yāni me santi mitrāṇi ye ca me santi bāndhavāḥ |
सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुम् इव प्रियम् ॥ (१२३।२)
sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam ||
अहं च पूजयिष्ये त्वां समित्रगणबान्धवम् । (१२४।१)
ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam |
जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् ॥ (१२४।२)
jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet ||
ईश्वरो मे भवान् अस्तु शरीरस्य गृहस्य च । (१२५।१)
īśvaro me bhavān astu śarīrasya gṛhasya ca |
अर्थानां चैव सर्वेषाम् अनुशास्ता च मे भव ॥ (१२५।२)
arthānāṃ caiva sarveṣām anuśāstā ca me bhava ||
अमात्यो मे भव प्राज्ञ पितेव हि प्रशाधि माम् । (१२६।१)
amātyo me bhava prājña piteva hi praśādhi mām |
न ते ऽस्ति भयम् अस्मत्तो जीवितेनात्मनः शपे ॥ (१२६।२)
na te 'sti bhayam asmatto jīvitenātmanaḥ śape ||
बुद्ध्या त्वम् उशनाः साक्षाद् बले त्वधिकृता वयम् । (१२७।१)
buddhyā tvam uśanāḥ sākṣād bale tvadhikṛtā vayam |
त्वन्मन्त्रबलयुक्तो हि विन्देत जयम् एव ह ॥ (१२७।२)
tvanmantrabalayukto hi vindeta jayam eva ha ||
एवम् उक्तः परं सान्त्वं मार्जारेण स मूषकः । (१२८।१)
evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ |
उवाच परमार्थज्ञः श्लक्ष्णम् आत्महितं वचः ॥ (१२८।२)
uvāca paramārthajñaḥ ślakṣṇam ātmahitaṃ vacaḥ ||
यद् भवान् आह तत् सर्वं मया ते लोमश श्रुतम् । (१२९।१)
yad bhavān āha tat sarvaṃ mayā te lomaśa śrutam |
ममापि तावद् ब्रुवतः शृणु यत् प्रतिभाति माम् ॥ (१२९।२)
mamāpi tāvad bruvataḥ śṛṇu yat pratibhāti mām ||
वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः । (१३०।१)
veditavyāni mitrāṇi boddhavyāścāpi śatravaḥ |
एतत् सुसूक्ष्मं लोके ऽस्मिन् दृश्यते प्राज्ञसंमतम् ॥ (१३०।२)
etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam ||
शत्रुरूपाश्च सुहृदो मित्ररूपाश्च शत्रवः । (१३१।१)
śatrurūpāśca suhṛdo mitrarūpāśca śatravaḥ |
सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः ॥ (१३१।२)
sāntvitāste na budhyante rāgalobhavaśaṃ gatāḥ ||
नास्ति जात्या रिपुर् नाम मित्रं नाम न विद्यते । (१३२।१)
nāsti jātyā ripur nāma mitraṃ nāma na vidyate |
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ (१३२।२)
sāmarthyayogājjāyante mitrāṇi ripavastathā ||
यो यस्मिञ् जीवति स्वार्थं पश्येत् तावत् स जीवति । (१३३।१)
yo yasmiñ jīvati svārthaṃ paśyet tāvat sa jīvati |
स तस्य तावन्मित्रं स्याद् यावन्न स्याद् विपर्ययः ॥ (१३३।२)
sa tasya tāvanmitraṃ syād yāvanna syād viparyayaḥ ||
नास्ति मैत्री स्थिरा नाम न च ध्रुवम् असौहृदम् । (१३४।१)
nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam |
अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस्तथा ॥ (१३४।२)
arthayuktyā hi jāyante mitrāṇi ripavastathā ||
मित्रं च शत्रुताम् एति कस्मिंश्चित् कालपर्यये । (१३५।१)
mitraṃ ca śatrutām eti kasmiṃścit kālaparyaye |
शत्रुश्च मित्रताम् एति स्वार्थो हि बलवत्तरः ॥ (१३५।२)
śatruśca mitratām eti svārtho hi balavattaraḥ ||
यो विश्वसति मित्रेषु न चाश्वसति शत्रुषु । (१३६।१)
yo viśvasati mitreṣu na cāśvasati śatruṣu |
अर्थयुक्तिम् अविज्ञाय चलितं तस्य जीवितम् ॥ (१३६।२)
arthayuktim avijñāya calitaṃ tasya jīvitam ||
अर्थयुक्तिम् अविज्ञाय यः शुभे कुरुते मतिम् । (१३७।१)
arthayuktim avijñāya yaḥ śubhe kurute matim |
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ॥ (१३७।२)
mitre vā yadi vā śatrau tasyāpi calitā matiḥ ||
न विश्वसेद् अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत् । (१३८।१)
na viśvased aviśvaste viśvaste 'pi na viśvaset |
विश्वासाद् भयम् उत्पन्नं मूलान्यपि निकृन्तति ॥ (१३८।२)
viśvāsād bhayam utpannaṃ mūlānyapi nikṛntati ||
अर्थयुक्त्या हि दृश्यन्ते पिता माता सुतास्तथा । (१३९।१)
arthayuktyā hi dṛśyante pitā mātā sutāstathā |
मातुला भागिनेयाश्च तथा संबन्धिबान्धवाः ॥ (१३९।२)
mātulā bhāgineyāśca tathā saṃbandhibāndhavāḥ ||
पुत्रं हि मातापितरौ त्यजतः पतितं प्रियम् । (१४०।१)
putraṃ hi mātāpitarau tyajataḥ patitaṃ priyam |
लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् ॥ (१४०।२)
loko rakṣati cātmānaṃ paśya svārthasya sāratām ||
तं मन्ये निकृतिप्रज्ञं यो मोक्षं प्रत्यनन्तरम् । (१४१।१)
taṃ manye nikṛtiprajñaṃ yo mokṣaṃ pratyanantaram |
कृत्यं मृगयसे कर्तुं सुखोपायम् असंशयम् ॥ (१४१।२)
kṛtyaṃ mṛgayase kartuṃ sukhopāyam asaṃśayam ||
अस्मिन्निलय एव त्वं न्यग्रोधाद् अवतारितः । (१४२।१)
asminnilaya eva tvaṃ nyagrodhād avatāritaḥ |
पूर्वं निविष्टम् उन्माथं चपलत्वान्न बुद्धवान् ॥ (१४२।२)
pūrvaṃ niviṣṭam unmāthaṃ capalatvānna buddhavān ||
आत्मनश्चपलो नास्ति कुतो ऽन्येषां भविष्यति । (१४३।१)
ātmanaścapalo nāsti kuto 'nyeṣāṃ bhaviṣyati |
तस्मात् सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ॥ (१४३।२)
tasmāt sarvāṇi kāryāṇi capalo hantyasaṃśayam ||
ब्रवीति मधुरं कंचित् प्रियो मे ह भवान् इति । (१४४।१)
bravīti madhuraṃ kaṃcit priyo me ha bhavān iti |
तन्मिथ्याकरणं सर्वं विस्तरेणापि मे शृणु ॥ (१४४।२)
tanmithyākaraṇaṃ sarvaṃ vistareṇāpi me śṛṇu ||
कारणात् प्रियताम् एति द्वेष्यो भवति कारणात् । (१४५।१)
kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt |
अर्थार्थी जीवलोको ऽयं न कश्चित् कस्यचित् प्रियः ॥ (१४५।२)
arthārthī jīvaloko 'yaṃ na kaścit kasyacit priyaḥ ||
सख्यं सोदरयोर् भ्रात्रोर् दंपत्योर् वा परस्परम् । (१४६।१)
sakhyaṃ sodarayor bhrātror daṃpatyor vā parasparam |
कस्यचिन्नाभिजानामि प्रीतिं निष्कारणाम् इह ॥ (१४६।२)
kasyacinnābhijānāmi prītiṃ niṣkāraṇām iha ||
यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे । (१४७।१)
yadyapi bhrātaraḥ kruddhā bhāryā vā kāraṇāntare |
स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः ॥ (१४७।२)
svabhāvataste prīyante netaraḥ prīyate janaḥ ||
मन्त्रहोमजपैर् अन्यः कार्यार्थं प्रीयते जनः ॥ (१४८।२)
mantrahomajapair anyaḥ kāryārthaṃ prīyate janaḥ ||
उत्पन्ने कारणे प्रीतिर् नास्ति नौ कारणान्तरे । (१४९।१)
utpanne kāraṇe prītir nāsti nau kāraṇāntare |
प्रध्वस्ते कारणस्थाने सा प्रीतिर् विनिवर्तते ॥ (१४९।२)
pradhvaste kāraṇasthāne sā prītir vinivartate ||
किं नु तत् कारणं मन्ये येनाहं भवतः प्रियः । (१५०।१)
kiṃ nu tat kāraṇaṃ manye yenāhaṃ bhavataḥ priyaḥ |
अन्यत्राभ्यवहारार्थात् तत्रापि च बुधा वयम् ॥ (१५०।२)
anyatrābhyavahārārthāt tatrāpi ca budhā vayam ||
कालो हेतुं विकुरुते स्वार्थस्तम् अनुवर्तते । (१५१।१)
kālo hetuṃ vikurute svārthastam anuvartate |
स्वार्थं प्राज्ञो ऽभिजानाति प्राज्ञं लोको ऽनुवर्तते ॥ (१५१।२)
svārthaṃ prājño 'bhijānāti prājñaṃ loko 'nuvartate ||
न त्वीदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते । (१५२।१)
na tvīdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite |
अकाले ऽविषमस्थस्य स्वार्थहेतुर् अयं तव ॥ (१५२।२)
akāle 'viṣamasthasya svārthahetur ayaṃ tava ||
तस्मान्नाहं चले स्वार्थात् सुस्थितः संधिविग्रहे । (१५३।१)
tasmānnāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe |
अभ्राणाम् इव रूपाणि विकुर्वन्ति क्षणे क्षणे ॥ (१५३।२)
abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe ||
अद्यैव हि रिपुर् भूत्वा पुनर् अद्यैव सौहृदम् । (१५४।१)
adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam |
पुनश्च रिपुर् अद्यैव युक्तीनां पश्य चापलम् ॥ (१५४।२)
punaśca ripur adyaiva yuktīnāṃ paśya cāpalam ||
आसीत् तावत् तु मैत्री नौ यावद्धेतुर् अभूत् पुरा । (१५५।१)
āsīt tāvat tu maitrī nau yāvaddhetur abhūt purā |
त्वं हि मे ऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः । (१५६।१)
tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyānmitratāṃ gataḥ |
तत् कृत्यम् अभिनिर्वृत्तं प्रकृतिः शत्रुतां गता ॥ (१५६।२)
tat kṛtyam abhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā ||
सो ऽहम् एवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः । (१५७।१)
so 'ham evaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ |
प्रविशेयं कथं पाशं त्वत्कृतं तद् वदस्व मे ॥ (१५७।२)
praviśeyaṃ kathaṃ pāśaṃ tvatkṛtaṃ tad vadasva me ||
त्वद्वीर्येण विमुक्तो ऽहं मद्वीर्येण तथा भवान् । (१५८।१)
tvadvīryeṇa vimukto 'haṃ madvīryeṇa tathā bhavān |
अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः ॥ (१५८।२)
anyonyānugrahe vṛtte nāsti bhūyaḥ samāgamaḥ ||
त्वं हि सौम्य कृतार्थो ऽद्य निर्वृत्तार्थास्तथा वयम् । (१५९।१)
tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthāstathā vayam |
न ते ऽस्त्यन्यन्मया कृत्यं किंचिद् अन्यत्र भक्षणात् ॥ (१५९।२)
na te 'styanyanmayā kṛtyaṃ kiṃcid anyatra bhakṣaṇāt ||
अहम् अन्नं भवान् भोक्ता दुर्बलो ऽहं भवान् बली । (१६०।१)
aham annaṃ bhavān bhoktā durbalo 'haṃ bhavān balī |
नावयोर् विद्यते संधिर् नियुक्ते विषमे बले ॥ (१६०।२)
nāvayor vidyate saṃdhir niyukte viṣame bale ||
संमन्ये ऽहं तव प्रज्ञां यन्मोक्षात् प्रत्यनन्तरम् । (१६१।१)
saṃmanye 'haṃ tava prajñāṃ yanmokṣāt pratyanantaram |
भक्ष्यं मृगयसे नूनं सुखोपायम् असंशयम् ॥ (१६१।२)
bhakṣyaṃ mṛgayase nūnaṃ sukhopāyam asaṃśayam ||
भक्ष्यार्थम् एव बद्धस्त्वं स मुक्तः प्रसृतः क्षुधा । (१६२।१)
bhakṣyārtham eva baddhastvaṃ sa muktaḥ prasṛtaḥ kṣudhā |
शास्त्रज्ञम् अभिसंधाय नूनं भक्षयिताद्य माम् ॥ (१६२।२)
śāstrajñam abhisaṃdhāya nūnaṃ bhakṣayitādya mām ||
जानामि क्षुधितं हि त्वाम् आहारसमयश्च ते । (१६३।१)
jānāmi kṣudhitaṃ hi tvām āhārasamayaśca te |
स त्वं माम् अभिसंधाय भक्ष्यं मृगयसे पुनः ॥ (१६३।२)
sa tvaṃ mām abhisaṃdhāya bhakṣyaṃ mṛgayase punaḥ ||
यच्चापि पुत्रदारं स्वं तत् संनिसृजसे मयि । (१६४।१)
yaccāpi putradāraṃ svaṃ tat saṃnisṛjase mayi |
शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम् ॥ (१६४।२)
śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam ||
त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये । (१६५।१)
tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāśca ye |
कस्मान्मां ते न खादेयुर् हृष्टाः प्रणयिनस्त्वयि ॥ (१६५।२)
kasmānmāṃ te na khādeyur hṛṣṭāḥ praṇayinastvayi ||
नाहं त्वया समेष्यामि वृत्तो हेतुः समागमे । (१६६।१)
nāhaṃ tvayā sameṣyāmi vṛtto hetuḥ samāgame |
शिवं ध्यायस्व मे ऽत्रस्थः सुकृतं स्मर्यते यदि ॥ (१६६।२)
śivaṃ dhyāyasva me 'trasthaḥ sukṛtaṃ smaryate yadi ||
शत्रोर् अन्नाद्यभूतः सन् क्लिष्टस्य क्षुधितस्य च । (१६७।१)
śatror annādyabhūtaḥ san kliṣṭasya kṣudhitasya ca |
भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् ॥ (१६७।२)
bhakṣyaṃ mṛgayamāṇasya kaḥ prājño viṣayaṃ vrajet ||
स्वस्ति ते ऽस्तु गमिष्यामि दूराद् अपि तवोद्विजे । (१६८।१)
svasti te 'stu gamiṣyāmi dūrād api tavodvije |
नाहं त्वया समेष्यामि निर्वृतो भव लोमश ॥ (१६८।२)
nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa ||
बलवत्संनिकर्षो हि न कदाचित् प्रशस्यते । (१६९।१)
balavatsaṃnikarṣo hi na kadācit praśasyate |
प्रशान्ताद् अपि मे प्राज्ञ भेतव्यं बलिनः सदा ॥ (१६९।२)
praśāntād api me prājña bhetavyaṃ balinaḥ sadā ||
यदि त्वर्थेन मे कार्यं ब्रूहि किं करवाणि ते । (१७०।१)
yadi tvarthena me kāryaṃ brūhi kiṃ karavāṇi te |
कामं सर्वं प्रदास्यामि न त्वात्मानं कदाचन ॥ (१७०।२)
kāmaṃ sarvaṃ pradāsyāmi na tvātmānaṃ kadācana ||
आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनं तथा । (१७१।१)
ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā |
अपि सर्वस्वम् उत्सृज्य रक्षेद् आत्मानम् आत्मना ॥ (१७१।२)
api sarvasvam utsṛjya rakṣed ātmānam ātmanā ||
ऐश्वर्यधनरत्नानां प्रत्यमित्रे ऽपि तिष्ठताम् । (१७२।१)
aiśvaryadhanaratnānāṃ pratyamitre 'pi tiṣṭhatām |
दृष्टा हि पुनर् आवृत्तिर् जीवताम् इति नः श्रुतम् ॥ (१७२।२)
dṛṣṭā hi punar āvṛttir jīvatām iti naḥ śrutam ||
न त्वात्मनः संप्रदानं धनरत्नवद् इष्यते । (१७३।१)
na tvātmanaḥ saṃpradānaṃ dhanaratnavad iṣyate |
आत्मा तु सर्वतो रक्ष्यो दारैर् अपि धनैर् अपि ॥ (१७३।२)
ātmā tu sarvato rakṣyo dārair api dhanair api ||
आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम् । (१७४।१)
ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām |
शत्रून् सम्यग् विजानन्ति दुर्बला ये बलीयसः । (१७५।१)
śatrūn samyag vijānanti durbalā ye balīyasaḥ |
तेषां न चाल्यते बुद्धिर् आत्मार्थं कृतनिश्चया ॥ (१७५।२)
teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā ||
इत्यभिव्यक्तम् एवासौ पलितेनावभर्त्सितः । (१७६।१)
ityabhivyaktam evāsau palitenāvabhartsitaḥ |
मार्जारो व्रीडितो भूत्वा मूषकं वाक्यम् अब्रवीत् ॥ (१७६।२)
mārjāro vrīḍito bhūtvā mūṣakaṃ vākyam abravīt ||
संमन्ये ऽहं तव प्रज्ञां यस्त्वं मम हिते रतः । (१७७।१)
saṃmanye 'haṃ tava prajñāṃ yastvaṃ mama hite rataḥ |
उक्तवान् अर्थतत्त्वेन मया संभिन्नदर्शनः ॥ (१७७।२)
uktavān arthatattvena mayā saṃbhinnadarśanaḥ ||
न तु माम् अन्यथा साधो त्वं विज्ञातुम् इहार्हसि । (१७८।१)
na tu mām anyathā sādho tvaṃ vijñātum ihārhasi |
प्राणप्रदानजं त्वत्तो मम सौहृदम् आगतम् ॥ (१७८।२)
prāṇapradānajaṃ tvatto mama sauhṛdam āgatam ||
धर्मज्ञो ऽस्मि गुणज्ञो ऽस्मि कृतज्ञो ऽस्मि विशेषतः । (१७९।१)
dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ |
मित्रेषु वत्सलश्चास्मि त्वद्विधेषु विशेषतः ॥ (१७९।२)
mitreṣu vatsalaścāsmi tvadvidheṣu viśeṣataḥ ||
तन्माम् एवंगते साधो न यावयितुम् अर्हसि । (१८०।१)
tanmām evaṃgate sādho na yāvayitum arhasi |
त्वया हि याव्यमानो ऽहं प्राणाञ् जह्यां सबान्धवः ॥ (१८०।२)
tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhavaḥ ||
धिक् शब्दो हि बुधैर् दृष्टो मद्विधेषु मनस्विषु । (१८१।१)
dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu |
मरणं धर्मतत्त्वज्ञ न मां शङ्कितुम् अर्हसि ॥ (१८१।२)
maraṇaṃ dharmatattvajña na māṃ śaṅkitum arhasi ||
मनसा भावगम्भीरं मार्जारं वाक्यम् अब्रवीत् ॥ (१८२।२)
manasā bhāvagambhīraṃ mārjāraṃ vākyam abravīt ||
साधुर् भवाञ् श्रुतार्थो ऽस्मि प्रीयते न च विश्वसे । (१८३।१)
sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase |
संस्तवैर् वा धनौघैर् वा नाहं शक्यः पुनस्त्वया ॥ (१८३।२)
saṃstavair vā dhanaughair vā nāhaṃ śakyaḥ punastvayā ||
न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे । (१८४।१)
na hyamitravaśaṃ yānti prājñā niṣkāraṇaṃ sakhe |
अस्मिन् अर्थे च गाथे द्वे निबोधोशनसा कृते ॥ (१८४।२)
asmin arthe ca gāthe dve nibodhośanasā kṛte ||
शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा । (१८५।१)
śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā |
समाहितश्चरेद् युक्त्या कृतार्थश्च न विश्वसेत् ॥ (१८५।२)
samāhitaścared yuktyā kṛtārthaśca na viśvaset ||
तस्मात् सर्वास्ववस्थासु रक्षेज्जीवितम् आत्मनः । (१८६।१)
tasmāt sarvāsvavasthāsu rakṣejjīvitam ātmanaḥ |
द्रव्याणि संततिश्चैव सर्वं भवति जीवतः ॥ (१८६।२)
dravyāṇi saṃtatiścaiva sarvaṃ bhavati jīvataḥ ||
संक्षेपो नीतिशास्त्राणाम् अविश्वासः परो मतः । (१८७।१)
saṃkṣepo nītiśāstrāṇām aviśvāsaḥ paro mataḥ |
नृषु तस्माद् अविश्वासः पुष्कलं हितम् आत्मनः ॥ (१८७।२)
nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmanaḥ ||
वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर् दुर्बला अपि । (१८८।१)
vadhyante na hyaviśvastāḥ śatrubhir durbalā api |
विश्वस्तास्त्वाशु वध्यन्ते बलवन्तो ऽपि दुर्बलैः ॥ (१८८।२)
viśvastāstvāśu vadhyante balavanto 'pi durbalaiḥ ||
त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा । (१८९।१)
tvadvidhebhyo mayā hyātmā rakṣyo mārjāra sarvadā |
रक्ष त्वम् अपि चात्मानं चण्डालाज्जातिकिल्बिषात् ॥ (१८९।२)
rakṣa tvam api cātmānaṃ caṇḍālājjātikilbiṣāt ||
स तस्य ब्रुवतस्त्वेवं संत्रासाज्जातसाध्वसः । (१९०।१)
sa tasya bruvatastvevaṃ saṃtrāsājjātasādhvasaḥ |
स्वबिलं हि जवेनाशु मार्जारः प्रययौ ततः ॥ (१९०।२)
svabilaṃ hi javenāśu mārjāraḥ prayayau tataḥ ||
ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यम् आत्मनः । (१९१।१)
tataḥ śāstrārthatattvajño buddhisāmarthyam ātmanaḥ |
विश्राव्य पलितः प्राज्ञो बिलम् अन्यज्जगाम ह ॥ (१९१।२)
viśrāvya palitaḥ prājño bilam anyajjagāma ha ||
एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः । (१९२।१)
evaṃ prajñāvatā buddhyā durbalena mahābalāḥ |
अरिणापि समर्थेन संधिं कुर्वीत पण्डितः । (१९३।१)
ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ |
मूषकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात् ॥ (१९३।२)
mūṣakaśca biḍālaśca muktāvanyonyasaṃśrayāt ||
इत्येष क्षत्रधर्मस्य मया मार्गो ऽनुदर्शितः । (१९४।१)
ityeṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ |
अन्योन्यकृतवैरौ तु चक्रतुः प्रीतिम् उत्तमाम् । (१९५।१)
anyonyakṛtavairau tu cakratuḥ prītim uttamām |
अन्योन्यम् अभिसंधातुम् अभूच्चैव तयोर् मतिः ॥ (१९५।२)
anyonyam abhisaṃdhātum abhūccaiva tayor matiḥ ||
तत्र प्राज्ञो ऽभिसंधत्ते सम्यग् बुद्धिबलाश्रयात् । (१९६।१)
tatra prājño 'bhisaṃdhatte samyag buddhibalāśrayāt |
अभिसंधीयते प्राज्ञः प्रमादाद् अपि चाबुधैः ॥ (१९६।२)
abhisaṃdhīyate prājñaḥ pramādād api cābudhaiḥ ||
तस्माद् अभीतवद् भीतो विश्वस्तवद् अविश्वसन् । (१९७।१)
tasmād abhītavad bhīto viśvastavad aviśvasan |
न ह्यप्रमत्तश्चलति चलितो वा विनश्यति ॥ (१९७।२)
na hyapramattaścalati calito vā vinaśyati ||
कालेन रिपुणा संधिः काले मित्रेण विग्रहः । (१९८।१)
kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ |
कार्य इत्येव तत्त्वज्ञाः प्राहुर् नित्यं युधिष्ठिर ॥ (१९८।२)
kārya ityeva tattvajñāḥ prāhur nityaṃ yudhiṣṭhira ||
एवं मत्वा महाराज शास्त्रार्थम् अभिगम्य च । (१९९।१)
evaṃ matvā mahārāja śāstrārtham abhigamya ca |
अभियुक्तो ऽप्रमत्तश्च प्राग् भयाद् भीतवच्चरेत् ॥ (१९९।२)
abhiyukto 'pramattaśca prāg bhayād bhītavaccaret ||
भीतवत् संविधिः कार्यः प्रतिसंधिस्तथैव च । (२००।१)
bhītavat saṃvidhiḥ kāryaḥ pratisaṃdhistathaiva ca |
भयाद् उत्पद्यते बुद्धिर् अप्रमत्ताभियोगजा ॥ (२००।२)
bhayād utpadyate buddhir apramattābhiyogajā ||
न भयं विद्यते राजन् भीतस्यानागते भये । (२०१।१)
na bhayaṃ vidyate rājan bhītasyānāgate bhaye |
अभीतस्य तु विस्रम्भात् सुमहज्जायते भयम् ॥ (२०१।२)
abhītasya tu visrambhāt sumahajjāyate bhayam ||
न भीरुर् इति चात्यन्तं मन्त्रो ऽदेयः कथंचन । (२०२।१)
na bhīrur iti cātyantaṃ mantro 'deyaḥ kathaṃcana |
अविज्ञानाद्धि विज्ञाते गच्छेद् आस्पददर्शिषु ॥ (२०२।२)
avijñānāddhi vijñāte gacched āspadadarśiṣu ||
तस्माद् अभीतवद् भीतो विश्वस्तवद् अविश्वसन् । (२०३।१)
tasmād abhītavad bhīto viśvastavad aviśvasan |
कार्याणां गुरुतां बुद्ध्वा नानृतं किंचिद् आचरेत् ॥ (२०३।२)
kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃcid ācaret ||
एवम् एतन्मया प्रोक्तम् इतिहासं युधिष्ठिर । (२०४।१)
evam etanmayā proktam itihāsaṃ yudhiṣṭhira |
श्रुत्वा त्वं सुहृदां मध्ये यथावत् समुपाचर ॥ (२०४।२)
śrutvā tvaṃ suhṛdāṃ madhye yathāvat samupācara ||
उपलभ्य मतिं चाग्र्याम् अरिमित्रान्तरं तथा । (२०५।१)
upalabhya matiṃ cāgryām arimitrāntaraṃ tathā |
शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा । (२०६।१)
śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā |
समागमं चरेद् युक्त्या कृतार्थो न च विश्वसेत् ॥ (२०६।२)
samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset ||
अविरुद्धां त्रिवर्गेण नीतिम् एतां युधिष्ठिर । (२०७।१)
aviruddhāṃ trivargeṇa nītim etāṃ yudhiṣṭhira |
अभ्युत्तिष्ठ श्रुताद् अस्माद् भूयस्त्वं रञ्जयन् प्रजाः ॥ (२०७।२)
abhyuttiṣṭha śrutād asmād bhūyastvaṃ rañjayan prajāḥ ||
ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव । (२०८।१)
brāhmaṇaiścāpi te sārdhaṃ yātrā bhavatu pāṇḍava |
ब्राह्मणा हि परं श्रेयो दिवि चेह च भारत ॥ (२०८।२)
brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata ||
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो । (२०९।१)
ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho |
पूजिताः शुभकर्माणः पूर्वजित्या नराधिप ॥ (२०९।२)
pūjitāḥ śubhakarmāṇaḥ pūrvajityā narādhipa ||
राज्यं श्रेयः परं राजन् यशः कीर्तिं च लप्स्यसे । (२१०।१)
rājyaṃ śreyaḥ paraṃ rājan yaśaḥ kīrtiṃ ca lapsyase |
कुलस्य संततिं चैव यथान्यायं यथाक्रमम् ॥ (२१०।२)
kulasya saṃtatiṃ caiva yathānyāyaṃ yathākramam ||
द्वयोर् इमं भारत संधिविग्रहं सुभाषितं बुद्धिविशेषकारितम् । (२११।१)
dvayor imaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam |
तथान्ववेक्ष्य क्षितिपेन सर्वदा निषेवितव्यं नृप शत्रुमण्डले ॥ (२११।२)
tathānvavekṣya kṣitipena sarvadā niṣevitavyaṃ nṛpa śatrumaṇḍale ||
Data courtesy of The Digital Corpus of Sanskrit.