महाभारतMahābhārata

MBh, 13, 63

1744 of 1995 · 77 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

श्रुतं मे भवतो वाक्यम् अन्नदानस्य यो विधिः । (१।२)

śrutaṃ me bhavato vākyam annadānasya yo vidhiḥ |

1.3१.३

नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे ॥ (१।३)

nakṣatrayogasyedānīṃ dānakalpaṃ bravīhi me ||

2.1२.१

भीष्म उवाच । (२।१)

bhīṣma uvāca

2.2२.२

अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् । (२।२)

atrāpyudāharantīmam itihāsaṃ purātanam |

2.3२.३

देवक्याश्चैव संवादं देवर्षेर् नारदस्य च ॥ (२।३)

devakyāścaiva saṃvādaṃ devarṣer nāradasya ca ||

3.1३.१

द्वारकाम् अनुसंप्राप्तं नारदं देवदर्शनम् । (३।१)

dvārakām anusaṃprāptaṃ nāradaṃ devadarśanam |

3.2३.२

पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी ॥ (३।२)

papracchainaṃ tataḥ praśnaṃ devakī dharmadarśinī ||

4.1४.१

तस्याः संपृच्छमानाया देवर्षिर् नारदस्तदा । (४।१)

tasyāḥ saṃpṛcchamānāyā devarṣir nāradastadā |

4.2४.२

आचष्ट विधिवत् सर्वं यत् तच्छृणु विशां पते ॥ (४।२)

ācaṣṭa vidhivat sarvaṃ yat tacchṛṇu viśāṃ pate ||

5.1५.१

नारद उवाच । (५।१)

nārada uvāca

5.2५.२

कृत्तिकासु महाभागे पायसेन ससर्पिषा । (५।२)

kṛttikāsu mahābhāge pāyasena sasarpiṣā |

5.3५.३

संतर्प्य ब्राह्मणान् साधूंल् लोकान् आप्नोत्यनुत्तमान् ॥ (५।३)

saṃtarpya brāhmaṇān sādhūṃl lokān āpnotyanuttamān ||

6.1६.१

रोहिण्यां प्रथितैर् मांसैर् माषैर् अन्नेन सर्पिषा । (६।१)

rohiṇyāṃ prathitair māṃsair māṣair annena sarpiṣā |

6.2६.२

पयो ऽनुपानं दातव्यम् आनृण्यार्थं द्विजातये ॥ (६।२)

payo 'nupānaṃ dātavyam ānṛṇyārthaṃ dvijātaye ||

7.1७.१

दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते । (७।१)

dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate |

7.2७.२

गच्छन्ति मानुषाल् लोकात् स्वर्गलोकम् अनुत्तमम् ॥ (७।२)

gacchanti mānuṣāl lokāt svargalokam anuttamam ||

8.1८.१

आर्द्रायां कृसरं दत्त्वा तैलमिश्रम् उपोषितः । (८।१)

ārdrāyāṃ kṛsaraṃ dattvā tailamiśram upoṣitaḥ |

8.2८.२

नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ॥ (८।२)

narastarati durgāṇi kṣuradhārāṃśca parvatān ||

9.1९.१

अपूपान् पुनर्वसौ दत्त्वा तथैवान्नानि शोभने । (९।१)

apūpān punarvasau dattvā tathaivānnāni śobhane |

9.2९.२

यशस्वी रूपसम्पन्नो बह्वन्ने जायते कुले ॥ (९।२)

yaśasvī rūpasampanno bahvanne jāyate kule ||

10.1१०.१

पुष्ये तु कनकं दत्त्वा कृतं चाकृतम् एव च । (१०।१)

puṣye tu kanakaṃ dattvā kṛtaṃ cākṛtam eva ca |

10.2१०.२

अनालोकेषु लोकेषु सोमवत् स विराजते ॥ (१०।२)

anālokeṣu lokeṣu somavat sa virājate ||

11.1११.१

आश्लेषायां तु यो रूप्यम् ऋषभं वा प्रयच्छति । (११।१)

āśleṣāyāṃ tu yo rūpyam ṛṣabhaṃ vā prayacchati |

11.2११.२

स सर्वभयनिर्मुक्तः शात्रवान् अधितिष्ठति ॥ (११।२)

sa sarvabhayanirmuktaḥ śātravān adhitiṣṭhati ||

12.1१२.१

मघासु तिलपूर्णानि वर्धमानानि मानवः । (१२।१)

maghāsu tilapūrṇāni vardhamānāni mānavaḥ |

12.2१२.२

प्रदाय पुत्रपशुमान् इह प्रेत्य च मोदते ॥ (१२।२)

pradāya putrapaśumān iha pretya ca modate ||

13.1१३.१

फल्गुनीपूर्वसमये ब्राह्मणानाम् उपोषितः । (१३।१)

phalgunīpūrvasamaye brāhmaṇānām upoṣitaḥ |

13.2१३.२

भक्षान् फाणितसंयुक्तान् दत्त्वा सौभाग्यम् ऋच्छति ॥ (१३।२)

bhakṣān phāṇitasaṃyuktān dattvā saubhāgyam ṛcchati ||

14.1१४.१

घृतक्षीरसमायुक्तं विधिवत् षष्टिकौदनम् । (१४।१)

ghṛtakṣīrasamāyuktaṃ vidhivat ṣaṣṭikaudanam |

14.2१४.२

उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥ (१४।२)

uttarāviṣaye dattvā svargaloke mahīyate ||

15.1१५.१

यद् यत् प्रदीयते दानम् उत्तराविषये नरैः । (१५।१)

yad yat pradīyate dānam uttarāviṣaye naraiḥ |

15.2१५.२

महाफलम् अनन्तं च भवतीति विनिश्चयः ॥ (१५।२)

mahāphalam anantaṃ ca bhavatīti viniścayaḥ ||

16.1१६.१

हस्ते हस्तिरथं दत्त्वा चतुर्युक्तम् उपोषितः । (१६।१)

haste hastirathaṃ dattvā caturyuktam upoṣitaḥ |

16.2१६.२

प्राप्नोति परमांल् लोकान् पुण्यकामसमन्वितान् ॥ (१६।२)

prāpnoti paramāṃl lokān puṇyakāmasamanvitān ||

17.1१७.१

चित्रायाम् ऋषभं दत्त्वा पुण्यान् गन्धांश्च भारत । (१७।१)

citrāyām ṛṣabhaṃ dattvā puṇyān gandhāṃśca bhārata |

17.2१७.२

चरत्यप्सरसां लोके रमते नन्दने तथा ॥ (१७।२)

caratyapsarasāṃ loke ramate nandane tathā ||

18.1१८.१

स्वातावथ धनं दत्त्वा यद् इष्टतमम् आत्मनः । (१८।१)

svātāvatha dhanaṃ dattvā yad iṣṭatamam ātmanaḥ |

18.2१८.२

प्राप्नोति लोकान् स शुभान् इह चैव महद् यशः ॥ (१८।२)

prāpnoti lokān sa śubhān iha caiva mahad yaśaḥ ||

19.1१९.१

विशाखायाम् अनड्वाहं धेनुं दत्त्वा च दुग्धदाम् । (१९।१)

viśākhāyām anaḍvāhaṃ dhenuṃ dattvā ca dugdhadām |

19.2१९.२

सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् ॥ (१९।२)

saprāsaṅgaṃ ca śakaṭaṃ sadhānyaṃ vastrasaṃyutam ||

20.1२०.१

पितॄन् देवांश्च प्रीणाति प्रेत्य चानन्त्यम् अश्नुते । (२०।१)

pitṝn devāṃśca prīṇāti pretya cānantyam aśnute |

20.2२०.२

न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ॥ (२०।२)

na ca durgāṇyavāpnoti svargalokaṃ ca gacchati ||

21.1२१.१

दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिम् इष्टां स विन्दति । (२१।१)

dattvā yathoktaṃ viprebhyo vṛttim iṣṭāṃ sa vindati |

21.2२१.२

नरकादींश्च संक्लेशान्नाप्नोतीति विनिश्चयः ॥ (२१।२)

narakādīṃśca saṃkleśānnāpnotīti viniścayaḥ ||

22.1२२.१

अनुराधासु प्रावारं वस्त्रान्तरम् उपोषितः । (२२।१)

anurādhāsu prāvāraṃ vastrāntaram upoṣitaḥ |

22.2२२.२

दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥ (२२।२)

dattvā yugaśataṃ cāpi naraḥ svarge mahīyate ||

23.1२३.१

कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् । (२३।१)

kālaśākaṃ tu viprebhyo dattvā martyaḥ samūlakam |

23.2२३.२

ज्येष्ठायाम् ऋद्धिम् इष्टां वै गतिम् इष्टां च विन्दति ॥ (२३।२)

jyeṣṭhāyām ṛddhim iṣṭāṃ vai gatim iṣṭāṃ ca vindati ||

24.1२४.१

मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः । (२४।१)

mūle mūlaphalaṃ dattvā brāhmaṇebhyaḥ samāhitaḥ |

24.2२४.२

पितॄन् प्रीणयते चापि गतिम् इष्टां च गच्छति ॥ (२४।२)

pitṝn prīṇayate cāpi gatim iṣṭāṃ ca gacchati ||

25.1२५.१

अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः । (२५।१)

atha pūrvāsvaṣāḍhāsu dadhipātrāṇyupoṣitaḥ |

25.2२५.२

कुलवृत्तोपसंपन्ने ब्राह्मणे वेदपारगे । (२५।२)

kulavṛttopasaṃpanne brāhmaṇe vedapārage |

25.3२५.३

प्रदाय जायते प्रेत्य कुले सुबहुगोकुले ॥ (२५।३)

pradāya jāyate pretya kule subahugokule ||

26.1२६.१

उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् । (२६।१)

udamanthaṃ sasarpiṣkaṃ prabhūtamadhuphāṇitam |

26.2२६.२

दत्त्वोत्तरास्वषाढासु सर्वकामान् अवाप्नुयात् ॥ (२६।२)

dattvottarāsvaṣāḍhāsu sarvakāmān avāpnuyāt ||

27.1२७.१

दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम् । (२७।१)

dugdhaṃ tvabhijite yoge dattvā madhughṛtāplutam |

27.2२७.२

धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते ॥ (२७।२)

dharmanityo manīṣibhyaḥ svargaloke mahīyate ||

28.1२८.१

श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितम् एव च । (२८।१)

śravaṇe kambalaṃ dattvā vastrāntaritam eva ca |

28.2२८.२

श्वेतेन याति यानेन सर्वलोकान् असंवृतान् ॥ (२८।२)

śvetena yāti yānena sarvalokān asaṃvṛtān ||

29.1२९.१

गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः । (२९।१)

goprayuktaṃ dhaniṣṭhāsu yānaṃ dattvā samāhitaḥ |

29.2२९.२

वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते ॥ (२९।२)

vastraraśmidharaṃ sadyaḥ pretya rājyaṃ prapadyate ||

30.1३०.१

गन्धाञ् शतभिषग्योगे दत्त्वा सागुरुचन्दनान् । (३०।१)

gandhāñ śatabhiṣagyoge dattvā sāgurucandanān |

30.2३०.२

प्राप्नोत्यप्सरसां लोकान् प्रेत्य गन्धांश्च शाश्वतान् ॥ (३०।२)

prāpnotyapsarasāṃ lokān pretya gandhāṃśca śāśvatān ||

31.1३१.१

पूर्वभाद्रपदायोगे राजमाषान् प्रदाय तु । (३१।१)

pūrvabhādrapadāyoge rājamāṣān pradāya tu |

31.2३१.२

सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ॥ (३१।२)

sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet ||

32.1३२.१

औरभ्रम् उत्तरायोगे यस्तु मांसं प्रयच्छति । (३२।१)

aurabhram uttarāyoge yastu māṃsaṃ prayacchati |

32.2३२.२

स पितॄन् प्रीणयति वै प्रेत्य चानन्त्यम् अश्नुते ॥ (३२।२)

sa pitṝn prīṇayati vai pretya cānantyam aśnute ||

33.1३३.१

कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति । (३३।१)

kāṃsyopadohanāṃ dhenuṃ revatyāṃ yaḥ prayacchati |

33.2३३.२

सा प्रेत्य कामान् आदाय दातारम् उपतिष्ठति ॥ (३३।२)

sā pretya kāmān ādāya dātāram upatiṣṭhati ||

34.1३४.१

रथम् अश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः । (३४।१)

ratham aśvasamāyuktaṃ dattvāśvinyāṃ narottamaḥ |

34.2३४.२

हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले ॥ (३४।२)

hastyaśvarathasampanne varcasvī jāyate kule ||

35.1३५.१

भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै । (३५।१)

bharaṇīṣu dvijātibhyastiladhenuṃ pradāya vai |

35.2३५.२

गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा ॥ (३५।२)

gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśastathā ||

36.1३६.१

भीष्म उवाच । (३६।१)

bhīṣma uvāca

36.2३६.२

इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः । (३६।२)

ityeṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ |

36.3३६.३

देवक्या नारदेनेह सा स्नुषाभ्यो ऽब्रवीद् इदम् ॥ (३६।३)

devakyā nāradeneha sā snuṣābhyo 'bravīd idam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 13, 63

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit