महाभारतMahābhārata

MBh, 3, 217

515 of 1995 · 33 verses

Select a line for its word-by-word analysis.

1.1१.१

मार्कण्डेय उवाच । (१।१)

mārkaṇḍeya uvāca

1.2१.२

स्कन्दस्य पार्षदान् घोराञ्शृणुष्वाद्भुतदर्शनान् । (१।२)

skandasya pārṣadān ghorāñśṛṇuṣvādbhutadarśanān |

1.3१.३

वज्रप्रहारात् स्कन्दस्य जज्ञुस् तत्र कुमारकाः । (१।३)

vajraprahārāt skandasya jajñus tatra kumārakāḥ |

1.4१.४

ये हरन्ति शिशूञ्जातान् गर्भस्थांश्चैव दारुणाः ॥ (१।४)

ye haranti śiśūñjātān garbhasthāṃścaiva dāruṇāḥ ||

2.1२.१

वज्रप्रहारात् कन्याश् च जज्ञिरे ऽस्य महाबलाः । (२।१)

vajraprahārāt kanyāś ca jajñire 'sya mahābalāḥ |

2.2२.२

कुमाराश् च विशाखं तं पितृत्वे समकल्पयन् ॥ (२।२)

kumārāś ca viśākhaṃ taṃ pitṛtve samakalpayan ||

3.1३.१

स भूत्वा भगवान् संख्ये रक्षंश् छागमुखस् तदा । (३।१)

sa bhūtvā bhagavān saṃkhye rakṣaṃś chāgamukhas tadā |

3.2३.२

वृतः कन्यागणैः सर्वैर् आत्मनीनैश् च पुत्रकैः ॥ (३।२)

vṛtaḥ kanyāgaṇaiḥ sarvair ātmanīnaiś ca putrakaiḥ ||

4.1४.१

मातॄणां प्रेक्षतीनां च भद्रशाखश् च कौशलः । (४।१)

mātṝṇāṃ prekṣatīnāṃ ca bhadraśākhaś ca kauśalaḥ |

4.2४.२

ततः कुमारपितरं स्कन्दम् आहुर् जना भुवि ॥ (४।२)

tataḥ kumārapitaraṃ skandam āhur janā bhuvi ||

5.1५.१

रुद्रम् अग्निम् उमां स्वाहां प्रदेशेषु महाबलाम् । (५।१)

rudram agnim umāṃ svāhāṃ pradeśeṣu mahābalām |

5.2५.२

यजन्ति पुत्रकामाश् च पुत्रिणश् च सदा जनाः ॥ (५।२)

yajanti putrakāmāś ca putriṇaś ca sadā janāḥ ||

6.1६.१

यास् तास् त्वजनयत् कन्यास् तपो नाम हुताशनः । (६।१)

yās tās tvajanayat kanyās tapo nāma hutāśanaḥ |

6.2६.२

किं करोमीति ताः स्कन्दं सम्प्राप्ताः समभाषत ॥ (६।२)

kiṃ karomīti tāḥ skandaṃ samprāptāḥ samabhāṣata ||

7.1७.१

मातर ऊचुः । (७।१)

mātara ūcuḥ |

7.2७.२

भवेम सर्वलोकस्य वयं मातर उत्तमाः । (७।२)

bhavema sarvalokasya vayaṃ mātara uttamāḥ |

7.3७.३

प्रसादात् तव पूज्याश् च प्रियम् एतत् कुरुष्व नः ॥ (७।३)

prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ ||

8.1८.१

मार्कण्डेय उवाच । (८।१)

mārkaṇḍeya uvāca

8.2८.२

सो ऽब्रवीद् बाढम् इत्येवं भविष्यध्वं पृथग्विधाः । (८।२)

so 'bravīd bāḍham ityevaṃ bhaviṣyadhvaṃ pṛthagvidhāḥ |

8.3८.३

अशिवाश् च शिवाश् चैव पुनः पुनर् उदारधीः ॥ (८।३)

aśivāś ca śivāś caiva punaḥ punar udāradhīḥ ||

9.1९.१

ततः संकल्प्य पुत्रत्वे स्कन्दं मातृगणो ऽगमत् । (९।१)

tataḥ saṃkalpya putratve skandaṃ mātṛgaṇo 'gamat |

9.2९.२

काकी च हलिमा चैव रुद्राथ बृहली तथा । (९।२)

kākī ca halimā caiva rudrātha bṛhalī tathā |

9.3९.३

आर्या पलाला वै मित्रा सप्तैताः शिशुमातरः ॥ (९।३)

āryā palālā vai mitrā saptaitāḥ śiśumātaraḥ ||

10.1१०.१

एतासां वीर्यसम्पन्नः शिशुर् नामातिदारुणः । (१०।१)

etāsāṃ vīryasampannaḥ śiśur nāmātidāruṇaḥ |

10.2१०.२

स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः ॥ (१०।२)

skandaprasādajaḥ putro lohitākṣo bhayaṃkaraḥ ||

11.1११.१

एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः । (११।१)

eṣa vīrāṣṭakaḥ proktaḥ skandamātṛgaṇodbhavaḥ |

11.2११.२

छागवक्त्रेण सहितो नवकः परिकीर्त्यते ॥ (११।२)

chāgavaktreṇa sahito navakaḥ parikīrtyate ||

12.1१२.१

षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत् । (१२।१)

ṣaṣṭhaṃ chāgamayaṃ vaktraṃ skandasyaiveti viddhi tat |

12.2१२.२

षट्शिरो ऽभ्यन्तरं राजन् नित्यं मातृगणार्चितम् ॥ (१२।२)

ṣaṭśiro 'bhyantaraṃ rājan nityaṃ mātṛgaṇārcitam ||

13.1१३.१

षण्णां तु प्रवरं तस्य शीर्षाणाम् इह शब्द्यते । (१३।१)

ṣaṇṇāṃ tu pravaraṃ tasya śīrṣāṇām iha śabdyate |

13.2१३.२

शक्तिं येनासृजद् दिव्यां भद्रशाख इति स्म ह ॥ (१३।२)

śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha ||

14.1१४.१

इत्येतद् विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् । (१४।१)

ityetad vividhākāraṃ vṛttaṃ śuklasya pañcamīm |

14.2१४.२

तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप ॥ (१४।२)

tatra yuddhaṃ mahāghoraṃ vṛttaṃ ṣaṣṭhyāṃ janādhipa ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 217

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit