MBh, 2, 4
Select a line for its word-by-word analysis.
तां तु कृत्वा सभां श्रेष्ठां मयश्चार्जुनम् अब्रवीत् । (१।१)
tāṃ tu kṛtvā sabhāṃ śreṣṭhāṃ mayaścārjunam abravīt |
भूतानां च महावीर्यो ध्वजाग्रे किंकरो गणः । (१।२)
bhūtānāṃ ca mahāvīryo dhvajāgre kiṃkaro gaṇaḥ |
ध्वजोत्कटं ह्यनवमं युद्धे द्रक्ष्यसि विष्ठितम् । (१।९)
dhvajotkaṭaṃ hyanavamaṃ yuddhe drakṣyasi viṣṭhitam |
इत्युक्त्वालिङ्ग्य बीभत्सुं विसृष्टः प्रययौ मयः । (१।१०)
ityuktvāliṅgya bībhatsuṃ visṛṣṭaḥ prayayau mayaḥ |
एषा सभा सव्यसाचिन् ध्वजो ऽग्र्यस्ते भविष्यति ॥ (१।११)
eṣā sabhā savyasācin dhvajo 'gryaste bhaviṣyati ||
ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः । (२।२)
tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ |
घृतपायसेन मधुना भक्ष्यैर् मूलफलैस्तथा । (३।१)
ghṛtapāyasena madhunā bhakṣyair mūlaphalaistathā |
अहतैश्चैव वासोभिर् माल्यैर् उच्चावचैर् अपि ॥ (३।२)
ahataiścaiva vāsobhir mālyair uccāvacair api ||
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः । (४।१)
dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ |
वादित्रैर् विविधैर् गीतैर् गन्धैर् उच्चावचैर् अपि । (५।१)
vāditrair vividhair gītair gandhair uccāvacair api |
भक्ष्यैर् मूलैः फलैश्चैव मांसैर् वाराहहारिणैः । (५।२)
bhakṣyair mūlaiḥ phalaiścaiva māṃsair vārāhahāriṇaiḥ |
मांसप्रकारैर् विविधैः खाद्यैश्चापि तथा नृप । (५।४)
māṃsaprakārair vividhaiḥ khādyaiścāpi tathā nṛpa |
चोष्यैश्च विविधै राजन् पेयैश्च बहुविस्तरैः । (५।५)
coṣyaiśca vividhai rājan peyaiśca bahuvistaraiḥ |
तर्पयामास विप्रेन्द्रान्नानादिग्भ्यः समागतान् ॥ (५।७)
tarpayāmāsa viprendrānnānādigbhyaḥ samāgatān ||
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा । (६।१)
tatra mallā naṭā jhallāḥ sūtā vaitālikāstathā |
उपतस्थुर् महात्मानं सप्तरात्रं युधिष्ठिरम् ॥ (६।२)
upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram ||
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः । (७।१)
tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ |
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ॥ (७।२)
tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi ||
आत्रेयः कण्वजठरौ मौद्गल्यो हस्तिकाश्यपौ ॥ (९।३)
ātreyaḥ kaṇvajaṭharau maudgalyo hastikāśyapau ||
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः । (१०।१)
bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ |
सुमन्तुर् जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ॥ (१०।२)
sumantur jaiminiḥ pailo vyāsaśiṣyāstathā vayam ||
तित्तिरिर् याज्ञवल्क्यश्च ससुतो लोमहर्षणः । (११।१)
tittirir yājñavalkyaśca sasuto lomaharṣaṇaḥ |
सत्याषाढश्च दुर्वासा भारद्वाजस्तथैव च । (११।२)
satyāṣāḍhaśca durvāsā bhāradvājastathaiva ca |
शुनःशेफो वसिष्ठश्च कण्डुर् उद्दालकस्तथा । (११।३)
śunaḥśepho vasiṣṭhaśca kaṇḍur uddālakastathā |
अप्सुहोम्यश्च धौम्यश्च आणीमाण्डव्यकौशिकौ ॥ (११।६)
apsuhomyaśca dhaumyaśca āṇīmāṇḍavyakauśikau ||
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकौ ॥ (१२।२)
mauñjāyano vāyubhakṣaḥ pārāśaryaśca sārikau ||
पर्वतश्च महाभागो मार्कण्डेयस्तथा मुनिः । (१४।१)
parvataśca mahābhāgo mārkaṇḍeyastathā muniḥ |
पवित्रपाणिः सावर्णिर् भालुकिर् गालवस्तथा ॥ (१४।२)
pavitrapāṇiḥ sāvarṇir bhālukir gālavastathā ||
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः । (१५।१)
jaṅghābandhuśca raibhyaśca kopavegaśravā bhṛguḥ |
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः ॥ (१५।२)
haribabhruśca kauṇḍinyo babhrumālī sanātanaḥ ||
कक्षीवान् औशिजश्चैव नाचिकेतो ऽथ गौतमः । (१६।१)
kakṣīvān auśijaścaiva nāciketo 'tha gautamaḥ |
पैङ्गो वराहः शुनकः शाण्डिल्यश्च महातपाः । (१६।२)
paiṅgo varāhaḥ śunakaḥ śāṇḍilyaśca mahātapāḥ |
शार्ङ्गरस्तैलकुप्यश्च पर्णवल्कस्तथैव च ॥ (१६।४)
śārṅgarastailakupyaśca parṇavalkastathaiva ca ||
मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः । (१७।१)
munayo dharmasahitā dhṛtātmāno jitendriyāḥ |
कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयो ऽमलाः ॥ (१८।२)
kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ ||
तथैव क्षत्रियश्रेष्ठा धर्मराजम् उपासते । (१९।१)
tathaiva kṣatriyaśreṣṭhā dharmarājam upāsate |
श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर् विवर्धनः ॥ (१९।२)
śrīmānmahātmā dharmātmā muñjaketur vivardhanaḥ ||
संग्रामजिद् दुर्मुखश्च उग्रसेनश्च वीर्यवान् । (२०।१)
saṃgrāmajid durmukhaśca ugrasenaśca vīryavān |
बलपौरुषसम्पन्नान् कृतास्त्रान् अमितौजसः । (२१।२)
balapauruṣasampannān kṛtāstrān amitaujasaḥ |
जटासुरो मद्रकान्तश्च राजा कुन्तिः कुणिन्दश्च किरातराजः । (२२।१)
jaṭāsuro madrakāntaśca rājā kuntiḥ kuṇindaśca kirātarājaḥ |
तथाङ्गवङ्गौ सह पुण्ड्रकेण पाण्ड्योड्रराजौ सह चान्ध्रकेण । (२२।२)
tathāṅgavaṅgau saha puṇḍrakeṇa pāṇḍyoḍrarājau saha cāndhrakeṇa |
जटासुरो मद्रकश्च राजा कुन्तिः पुलिन्दकः । (२२।३)
jaṭāsuro madrakaśca rājā kuntiḥ pulindakaḥ |
पाण्ड्यश्च राजा सुमहान् अन्ध्रकेण महात्मना । (२२।५)
pāṇḍyaśca rājā sumahān andhrakeṇa mahātmanā |
अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः ॥ (२२।६)
aṅgo vaṅgaḥ sumitraśca śaibyaścāmitrakarśanaḥ ||
पाञ्चालश्च विराटश्च द्रुमशल्यः पृथुश्रवाः । (२३।२)
pāñcālaśca virāṭaśca drumaśalyaḥ pṛthuśravāḥ |
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च मागधः । (२४।१)
śrutāyudhaśca kāliṅgo jayatsenaśca māgadhaḥ |
सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः ॥ (२५।२)
sudharmā cāniruddhaśca śrutāyuśca mahābalaḥ ||
अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः । (२६।१)
anūparājo durdharṣaḥ kṣemajicca sudakṣiṇaḥ |
पान्त्यान्ध्रराजौ सहितादं [॥। औ२ ज़ेइछेन्झ्] न महात्मनाम् ॥ (२६।३)
pāntyāndhrarājau sahitādaṃ na mahātmanām ||
वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः । (२७।१)
vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ |
अक्रूरः कृतवर्मा च सात्यकिश्च शिनेः सुतः । (२८।१)
akrūraḥ kṛtavarmā ca sātyakiśca śineḥ sutaḥ |
भीष्मको ऽथाहृतिश्चैव द्युमत्सेनश्च वीर्यवान् । (२८।२)
bhīṣmako 'thāhṛtiścaiva dyumatsenaśca vīryavān |
केतुमान् वसुमांश्चैव कृतास्त्रश्च महाबलः । (२८।४)
ketumān vasumāṃścaiva kṛtāstraśca mahābalaḥ |
एते चान्ये च बहवः क्षत्रिया मुख्यसंमताः । (२८।५)
ete cānye ca bahavaḥ kṣatriyā mukhyasaṃmatāḥ |
उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम् ॥ (२८।६)
upāsate sabhāyāṃ sma kuntīputraṃ yudhiṣṭhiram ||
अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः । (२९।१)
arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ |
तत्रैव शिक्षिता राजन् कुमारा वृष्णिनन्दनाः । (३०।१)
tatraiva śikṣitā rājan kumārā vṛṣṇinandanāḥ |
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः । (३०।२)
raukmiṇeyaśca sāmbaśca yuyudhānaśca sātyakiḥ |
सुधर्मा चानिरुद्धश्च शैब्यश्च नरपुंगवः ॥ (३०।३)
sudharmā cāniruddhaśca śaibyaśca narapuṃgavaḥ ||
धनंजयसखा चात्र नित्यम् आस्ते स्म तुम्बुरुः । (३१।३)
dhanaṃjayasakhā cātra nityam āste sma tumburuḥ |
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा । (३२।१)
citrasenaḥ sahāmātyo gandharvāpsarasastathā |
तस्यां सभायाम् आस्ते स्म बहुभिः परिवारितः । (३२।२)
tasyāṃ sabhāyām āste sma bahubhiḥ parivāritaḥ |
प्रमाणे ऽथ लयस्थाने किंनराः कृतनिश्रमाः । (३३।१)
pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ |
संचोदितास्तुम्बुरुणा गन्धर्वाः सहिता जगुः ॥ (३३।२)
saṃcoditāstumburuṇā gandharvāḥ sahitā jaguḥ ||
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः । (३४।१)
gāyanti divyatānaiste yathānyāyaṃ manasvinaḥ |
देवतांश्च मुनींश्चैव पार्थिवांश्चैव तोषयन् । (३४।२)
devatāṃśca munīṃścaiva pārthivāṃścaiva toṣayan |
गायन्ति च प्रनृत्यन्ति उर्वश्याद्यप्सरोगणैः ॥ (३४।६)
gāyanti ca pranṛtyanti urvaśyādyapsarogaṇaiḥ ||
तस्यां सभायाम् आसीनाः सुव्रताः सत्यसंगराः । (३५।१)
tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ |
दिवीव देवा ब्रह्माणं युधिष्ठिरम् उपासते ॥ (३५।२)
divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate ||
Data courtesy of The Digital Corpus of Sanskrit.