महाभारतMahābhārata

MBh, 1, 218

218 of 1995 · 111 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् । (१।२)

tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat |

1.3१.३

शरवर्षेण बीभत्सुर् उत्तमास्त्राणि दर्शयन् ॥ (१।३)

śaravarṣeṇa bībhatsur uttamāstrāṇi darśayan ||

2.1२.१

शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः । (२।१)

śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ |

2.2२.२

छादयामास तद् वर्षम् अपकृष्य ततो वनात् ॥ (२।२)

chādayāmāsa tad varṣam apakṛṣya tato vanāt ||

3.1३.१

न च स्म किंचिच् छक्नोति भूतं निश्चरितुं ततः । (३।१)

na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ |

3.2३.२

तद् दृष्ट्वा वारितं तोयं नाराचैः सव्यसाचिना । (३।२)

tad dṛṣṭvā vāritaṃ toyaṃ nārācaiḥ savyasācinā |

3.3३.३

आश्चर्यम् अगमन् देवा मुनयश्च दिवि स्थिताः । (३।३)

āścaryam agaman devā munayaśca divi sthitāḥ |

3.4३.४

संछाद्यमाने खगमैर् अस्यता सव्यसाचिना ॥ (३।४)

saṃchādyamāne khagamair asyatā savyasācinā ||

4.1४.१

तक्षकस्तु न तत्रासीत् सर्पराजो महाबलः । (४।१)

takṣakastu na tatrāsīt sarparājo mahābalaḥ |

4.2४.२

दह्यमाने वने तस्मिन् कुरुक्षेत्रे ऽभवत् तदा ॥ (४।२)

dahyamāne vane tasmin kurukṣetre 'bhavat tadā ||

5.1५.१

अश्वसेनस्तु तत्रासीत् तक्षकस्य सुतो बली । (५।१)

aśvasenastu tatrāsīt takṣakasya suto balī |

5.2५.२

स यत्नम् अकरोत् तीव्रं मोक्षार्थं हव्यवाहनात् ॥ (५।२)

sa yatnam akarot tīvraṃ mokṣārthaṃ havyavāhanāt ||

6.1६.१

न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः । (६।१)

na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ |

6.2६.२

मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥ (६।२)

mokṣayāmāsa taṃ mātā nigīrya bhujagātmajā ||

7.1७.१

तस्य पूर्वं शिरो ग्रस्तं पुच्छम् अस्य निगीर्यते । (७।१)

tasya pūrvaṃ śiro grastaṃ puccham asya nigīryate |

7.2७.२

ऊर्ध्वम् आचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ॥ (७।२)

ūrdhvam ācakrame sā tu pannagī putragṛddhinī ||

8.1८.१

तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः । (८।१)

tasyāstīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ |

8.2८.२

शिरश्चिछेद गच्छन्त्यास्ताम् अपश्यत् सुरेश्वरः ॥ (८।२)

śiraścicheda gacchantyāstām apaśyat sureśvaraḥ ||

9.1९.१

तं मुमोचयिषुर् वज्री वातवर्षेण पाण्डवम् । (९।१)

taṃ mumocayiṣur vajrī vātavarṣeṇa pāṇḍavam |

9.2९.२

मोहयामास तत्कालम् अश्वसेनस्त्वमुच्यत ॥ (९।२)

mohayāmāsa tatkālam aśvasenastvamucyata ||

10.1१०.१

तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः । (१०।१)

tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ |

10.2१०.२

द्विधा त्रिधा च चिछेद खगतान् एव भारत ॥ (१०।२)

dvidhā tridhā ca cicheda khagatān eva bhārata ||

11.1११.१

शशाप तं च संक्रुद्धो बीभत्सुर् जिह्मगामिनम् । (११।१)

śaśāpa taṃ ca saṃkruddho bībhatsur jihmagāminam |

11.2११.२

पावको वासुदेवश्च अप्रतिष्ठो भवेद् इति ॥ (११।२)

pāvako vāsudevaśca apratiṣṭho bhaved iti ||

12.1१२.१

ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः । (१२।१)

tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ |

12.2१२.२

योधयामास संक्रुद्धो वञ्चनां ताम् अनुस्मरन् ॥ (१२।२)

yodhayāmāsa saṃkruddho vañcanāṃ tām anusmaran ||

13.1१३.१

देवराड् अपि तं दृष्ट्वा संरब्धम् इव फल्गुनम् । (१३।१)

devarāḍ api taṃ dṛṣṭvā saṃrabdham iva phalgunam |

13.2१३.२

स्वम् अस्त्रम् असृजद् दीप्तं यत् ततानाखिलं नभः । (१३।२)

svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ |

13.3१३.३

सुभद्रजवम् आदीप्तं तदा वायुं विसर्ज ह ॥ (१३।३)

subhadrajavam ādīptaṃ tadā vāyuṃ visarja ha ||

14.1१४.१

ततो वायुर् महाघोषः क्षोभयन् सर्वसागरान् । (१४।१)

tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān |

14.2१४.२

वियत्स्थो ऽजनयन् मेघाञ् जलधारामुच आकुलान् । (१४।२)

viyatstho 'janayan meghāñ jaladhārāmuca ākulān |

14.3१४.३

ततो ऽशनिमुचो घोरांस्तडित्स्तनितनिःस्वनान् ॥ (१४।३)

tato 'śanimuco ghorāṃstaḍitstanitaniḥsvanān ||

15.1१५.१

तद्विघातार्थम् असृजद् अर्जुनो ऽप्यस्त्रम् उत्तमम् । (१५।१)

tadvighātārtham asṛjad arjuno 'pyastram uttamam |

15.2१५.२

वायव्यम् एवाभिमन्त्र्य प्रतिपत्तिविशारदः ॥ (१५।२)

vāyavyam evābhimantrya pratipattiviśāradaḥ ||

16.1१६.१

तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् । (१६।१)

tenendrāśanimeghānāṃ vīryaujastadvināśitam |

16.2१६.२

जलधाराश्च ताः शोषं जग्मुर् नेशुश्च विद्युतः ॥ (१६।२)

jaladhārāśca tāḥ śoṣaṃ jagmur neśuśca vidyutaḥ ||

17.1१७.१

क्षणेन चाभवद् व्योम संप्रशान्तरजस्तमः । (१७।१)

kṣaṇena cābhavad vyoma saṃpraśāntarajastamaḥ |

17.2१७.२

सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ॥ (१७।२)

sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam ||

18.1१८.१

निष्प्रतीकारहृष्टश्च हुतभुग् विविधाकृतिः । (१८।१)

niṣpratīkārahṛṣṭaśca hutabhug vividhākṛtiḥ |

18.2१८.२

सिच्यमानो वसौघैस्तैः प्राणिनां देहनिःसृतैः । (१८।२)

sicyamāno vasaughaistaiḥ prāṇināṃ dehaniḥsṛtaiḥ |

18.3१८.३

प्रजज्वालातुलार्चिष्मान् स्वनादैः पूरयञ् जगत् ॥ (१८।३)

prajajvālātulārciṣmān svanādaiḥ pūrayañ jagat ||

19.1१९.१

कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावम् अहंकृताः । (१९।१)

kṛṣṇābhyāṃ rakṣitaṃ dṛṣṭvā taṃ ca dāvam ahaṃkṛtāḥ |

19.2१९.२

समुत्पेतुर् अथाकाशं सुपर्णाद्याः पतत्रिणः ॥ (१९।२)

samutpetur athākāśaṃ suparṇādyāḥ patatriṇaḥ ||

20.1२०.१

गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा । (२०।१)

garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhaistathā |

20.2२०.२

प्रहर्तुकामाः संपेतुर् आकाशात् कृष्णपाण्डवौ ॥ (२०।२)

prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau ||

21.1२१.१

तथैवोरगसंघाताः पाण्डवस्य समीपतः । (२१।१)

tathaivoragasaṃghātāḥ pāṇḍavasya samīpataḥ |

21.2२१.२

उत्सृजन्तो विषं घोरं निश्चेरुर् ज्वलिताननाः । (२१।२)

utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ |

21.3२१.३

तांश्चार्कसदृशैर् अस्त्रैः परपक्षसमाश्रितान् ॥ (२१।३)

tāṃścārkasadṛśair astraiḥ parapakṣasamāśritān ||

22.1२२.१

तांश्चकर्त शरैः पार्थः सरोषान् दृश्य खेचरान् । (२२।१)

tāṃścakarta śaraiḥ pārthaḥ saroṣān dṛśya khecarān |

22.2२२.२

विवशाश्चापतन् दीप्तं देहाभावाय पावकम् ॥ (२२।२)

vivaśāścāpatan dīptaṃ dehābhāvāya pāvakam ||

23.1२३.१

ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः । (२३।१)

tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ |

23.2२३.२

उत्पेतुर् नादम् अतुलम् उत्सृजन्तो रणार्थिणः ॥ (२३।२)

utpetur nādam atulam utsṛjanto raṇārthiṇaḥ ||

24.1२४.१

अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः । (२४।१)

ayaḥkaṇapacakrāśmabhuśuṇḍyudyatabāhavaḥ |

24.2२४.२

कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्छितौजसः ॥ (२४।२)

kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrchitaujasaḥ ||

25.1२५.१

तेषाम् अभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् । (२५।१)

teṣām abhivyāharatāṃ śastravarṣaṃ ca muñcatām |

25.2२५.२

प्रममाथोत्तमाङ्गानि बीभत्सुर् निशितैः शरैः ॥ (२५।२)

pramamāthottamāṅgāni bībhatsur niśitaiḥ śaraiḥ ||

26.1२६.१

कृष्णश्च सुमहातेजाश् चक्रेणारिनिहा तदा । (२६।१)

kṛṣṇaśca sumahātejāś cakreṇārinihā tadā |

26.2२६.२

दैत्यदानवसंघानां चकार कदनं महत् ॥ (२६।२)

daityadānavasaṃghānāṃ cakāra kadanaṃ mahat ||

27.1२७.१

अथापरे शरैर् विद्धाश्चक्रवेगेरितास्तदा । (२७।१)

athāpare śarair viddhāścakravegeritāstadā |

27.2२७.२

वेलाम् इव समासाद्य व्यातिष्ठन्त महौजसः । (२७।२)

velām iva samāsādya vyātiṣṭhanta mahaujasaḥ |

27.3२७.३

शेरते रुधिरक्लिन्ना इन्द्रगोपकसंनिभाः ॥ (२७।३)

śerate rudhiraklinnā indragopakasaṃnibhāḥ ||

28.1२८.१

ततः शक्रो ऽभिसंक्रुद्धस्त्रिदशानां महेश्वरः । (२८।१)

tataḥ śakro 'bhisaṃkruddhastridaśānāṃ maheśvaraḥ |

28.2२८.२

पाण्डुरं गजम् आस्थाय तावुभौ समभिद्रवत् ॥ (२८।२)

pāṇḍuraṃ gajam āsthāya tāvubhau samabhidravat ||

29.1२९.१

अशनिं गृह्य तरसा वज्रम् अस्त्रम् अवासृजत् । (२९।१)

aśaniṃ gṛhya tarasā vajram astram avāsṛjat |

29.2२९.२

हतावेताविति प्राह सुरान् असुरसूदनः ॥ (२९।२)

hatāvetāviti prāha surān asurasūdanaḥ ||

30.1३०.१

ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् । (३०।१)

tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim |

30.2३०.२

जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा ॥ (३०।२)

jagṛhuḥ sarvaśastrāṇi svāni svāni surāstadā ||

31.1३१.१

कालदण्डं यमो राजा शिबिकां च धनेश्वरः । (३१।१)

kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ |

31.2३१.२

पाशं च वरुणस्तत्र विचक्रं च तथा शिवः । (३१।२)

pāśaṃ ca varuṇastatra vicakraṃ ca tathā śivaḥ |

31.3३१.३

स्कन्दः शक्तिं समादाय तस्थौ मेरुर् इवाचलः । (३१।३)

skandaḥ śaktiṃ samādāya tasthau merur ivācalaḥ |

31.4३१.४

शक्तिं खड्गं यातुराजः समीरो ऽङ्कुशम् एव च ॥ (३१।४)

śaktiṃ khaḍgaṃ yāturājaḥ samīro 'ṅkuśam eva ca ||

32.1३२.१

ओषधीर् दीप्यमानाश्च जगृहाते ऽश्विनावपि । (३२।१)

oṣadhīr dīpyamānāśca jagṛhāte 'śvināvapi |

32.2३२.२

जगृहे च धनुर् धाता मुसलं च जयस्तथा ॥ (३२।२)

jagṛhe ca dhanur dhātā musalaṃ ca jayastathā ||

33.1३३.१

पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः । (३३।१)

parvataṃ cāpi jagrāha kruddhastvaṣṭā mahābalaḥ |

33.2३३.२

अंशस्तु शक्तिं जग्राह मृत्युर् देवः परश्वधम् ॥ (३३।२)

aṃśastu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham ||

34.1३४.१

प्रगृह्य परिघं घोरं विचचारार्यमा अपि । (३४।१)

pragṛhya parighaṃ ghoraṃ vicacārāryamā api |

34.2३४.२

मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत ॥ (३४।२)

mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata ||

35.1३५.१

पूषा भगश्च संक्रुद्धः सविता च विशां पते । (३५।१)

pūṣā bhagaśca saṃkruddhaḥ savitā ca viśāṃ pate |

35.2३५.२

आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः ॥ (३५।२)

āttakārmukanistriṃśāḥ kṛṣṇapārthāvabhidrutāḥ ||

36.1३६.१

रुद्राश्च वसवश्चैव मरुतश्च महाबलाः । (३६।१)

rudrāśca vasavaścaiva marutaśca mahābalāḥ |

36.2३६.२

विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ॥ (३६।२)

viśvedevāstathā sādhyā dīpyamānāḥ svatejasā ||

37.1३७.१

एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ । (३७।१)

ete cānye ca bahavo devāstau puruṣottamau |

37.2३७.२

कृष्णपार्थौ जिघांसन्तः प्रतीयुर् विविधायुधाः ॥ (३७।२)

kṛṣṇapārthau jighāṃsantaḥ pratīyur vividhāyudhāḥ ||

38.1३८.१

तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे । (३८।१)

tatrādbhutānyadṛśyanta nimittāni mahāhave |

38.2३८.२

युगान्तसमरूपाणि भूतोत्सादाय भारत ॥ (३८।२)

yugāntasamarūpāṇi bhūtotsādāya bhārata ||

39.1३९.१

तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ । (३९।१)

tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau |

39.2३९.२

अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ॥ (३९।२)

abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau ||

40.1४०.१

आगतांश्चैव तान् दृष्ट्वा देवान् एकैकशस्ततः । (४०।१)

āgatāṃścaiva tān dṛṣṭvā devān ekaikaśastataḥ |

40.2४०.२

न्यवारयेतां संक्रुद्धौ बाणैर् वज्रोपमैस्तदा ॥ (४०।२)

nyavārayetāṃ saṃkruddhau bāṇair vajropamaistadā ||

41.1४१.१

असकृद् भग्नसंकल्पाः सुराश्च बहुशः कृताः । (४१।१)

asakṛd bhagnasaṃkalpāḥ surāśca bahuśaḥ kṛtāḥ |

41.2४१.२

भयाद् रणं परित्यज्य शक्रम् एवाभिशिश्रियुः ॥ (४१।२)

bhayād raṇaṃ parityajya śakram evābhiśiśriyuḥ ||

42.1४२.१

दृष्ट्वा निवारितान् देवान् माधवेनार्जुनेन च । (४२।१)

dṛṣṭvā nivāritān devān mādhavenārjunena ca |

42.2४२.२

आश्चर्यम् अगमंस्तत्र मुनयो दिवि विष्ठिताः ॥ (४२।२)

āścaryam agamaṃstatra munayo divi viṣṭhitāḥ ||

43.1४३.१

शक्रश्चापि तयोर् वीर्यम् उपलभ्यासकृद् रणे । (४३।१)

śakraścāpi tayor vīryam upalabhyāsakṛd raṇe |

43.2४३.२

बभूव परमप्रीतो भूयश्चैतावयोधयत् ॥ (४३।२)

babhūva paramaprīto bhūyaścaitāvayodhayat ||

44.1४४.१

ततो ऽश्मवर्षं सुमहद् व्यसृजत् पाकशासनः । (४४।१)

tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ |

44.2४४.२

भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः । (४४।२)

bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ |

44.3४४.३

तच्छरैर् अर्जुनो वर्षं प्रतिजघ्ने ऽत्यमर्षणः ॥ (४४।३)

taccharair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ ||

45.1४५.१

विफलं क्रियमाणं तत् सम्प्रेक्ष्य च शतक्रतुः । (४५।१)

viphalaṃ kriyamāṇaṃ tat samprekṣya ca śatakratuḥ |

45.2४५.२

भूयः संवर्धयामास तद् वर्षं देवराड् अथ ॥ (४५।२)

bhūyaḥ saṃvardhayāmāsa tad varṣaṃ devarāḍ atha ||

46.1४६.१

सो ऽश्मवर्षं महावेगैर् इषुभिः पाकशासनिः । (४६।१)

so 'śmavarṣaṃ mahāvegair iṣubhiḥ pākaśāsaniḥ |

46.2४६.२

विलयं गमयामास हर्षयन् पितरं तदा ॥ (४६।२)

vilayaṃ gamayāmāsa harṣayan pitaraṃ tadā ||

47.1४७.१

समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् । (४७।१)

samutpāṭya tu pāṇibhyāṃ mandarācchikharaṃ mahat |

47.2४७.२

सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥ (४७।२)

sadrumaṃ vyasṛjacchakro jighāṃsuḥ pāṇḍunandanam ||

48.1४८.१

ततो ऽर्जुनो वेगवद्भिर् ज्वलिताग्रैर् अजिह्मगैः । (४८।१)

tato 'rjuno vegavadbhir jvalitāgrair ajihmagaiḥ |

48.2४८.२

बाणैर् विध्वंसयामास गिरेः शृङ्गं सहस्रधा ॥ (४८।२)

bāṇair vidhvaṃsayāmāsa gireḥ śṛṅgaṃ sahasradhā ||

49.1४९.१

गिरेर् विशीर्यमाणस्य तस्य रूपं तदा बभौ । (४९।१)

girer viśīryamāṇasya tasya rūpaṃ tadā babhau |

49.2४९.२

सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः ॥ (४९।२)

sārkacandragrahasyeva nabhasaḥ praviśīryataḥ ||

50.1५०.१

तेनावाक्पतता दावे शैलेन महता भृशम् । (५०।१)

tenāvākpatatā dāve śailena mahatā bhṛśam |

50.2५०.२

भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः ॥ (५०।२)

bhūya eva hatāstatra prāṇinaḥ khāṇḍavālayāḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 218

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit