महाभारतMahābhārata

MBh, 3, 95

393 of 1995 · 54 verses

Select a line for its word-by-word analysis.

1.1१.१

लोमश उवाच । (१।१)

lomaśa uvāca

1.2१.२

यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमाम् इति । (१।२)

yadā tvamanyatāgastyo gārhasthye tāṃ kṣamām iti |

1.3१.३

तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् ॥ (१।३)

tadābhigamya provāca vaidarbhaṃ pṛthivīpatim ||

2.1२.१

राजन् निवेशे बुद्धिर् मे वर्तते पुत्रकारणात् । (२।१)

rājan niveśe buddhir me vartate putrakāraṇāt |

2.2२.२

वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे ॥ (२।२)

varaye tvāṃ mahīpāla lopāmudrāṃ prayaccha me ||

3.1३.१

एवम् उक्तः स मुनिना महीपालो विचेतनः । (३।१)

evam uktaḥ sa muninā mahīpālo vicetanaḥ |

3.2३.२

प्रत्याख्यानाय चाशक्तः प्रदातुम् अपि नैच्छत ॥ (३।२)

pratyākhyānāya cāśaktaḥ pradātum api naicchata ||

4.1४.१

ततः स भार्याम् अभ्येत्य प्रोवाच पृथिवीपतिः । (४।१)

tataḥ sa bhāryām abhyetya provāca pṛthivīpatiḥ |

4.2४.२

महर्षिर् वीर्यवान् एष क्रुद्धः शापाग्निना दहेत् ॥ (४।२)

maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet ||

5.1५.१

तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम् । (५।१)

taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim |

5.2५.२

लोपामुद्राभिगम्येदं काले वचनम् अब्रवीत् ॥ (५।२)

lopāmudrābhigamyedaṃ kāle vacanam abravīt ||

6.1६.१

न मत्कृते महीपाल पीडाम् अभ्येतुम् अर्हसि । (६।१)

na matkṛte mahīpāla pīḍām abhyetum arhasi |

6.2६.२

प्रयच्छ माम् अगस्त्याय त्राह्यात्मानं मया पितः ॥ (६।२)

prayaccha mām agastyāya trāhyātmānaṃ mayā pitaḥ ||

7.1७.१

दुहितुर् वचनाद् राजा सो ऽगस्त्याय महात्मने । (७।१)

duhitur vacanād rājā so 'gastyāya mahātmane |

7.2७.२

लोपामुद्रां ततः प्रादाद् विधिपूर्वं विशां पते ॥ (७।२)

lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viśāṃ pate ||

8.1८.१

प्राप्य भार्याम् अगस्त्यस् तु लोपामुद्राम् अभाषत । (८।१)

prāpya bhāryām agastyas tu lopāmudrām abhāṣata |

8.2८.२

महार्हाण्युत्सृजैतानि वासांस्याभरणानि च ॥ (८।२)

mahārhāṇyutsṛjaitāni vāsāṃsyābharaṇāni ca ||

9.1९.१

ततः सा दर्शनीयानि महार्हाणि तनूनि च । (९।१)

tataḥ sā darśanīyāni mahārhāṇi tanūni ca |

9.2९.२

समुत्ससर्ज रम्भोरूर् वसनान्यायतेक्षणा ॥ (९।२)

samutsasarja rambhorūr vasanānyāyatekṣaṇā ||

10.1१०.१

ततश् चीराणि जग्राह वल्कलान्यजिनानि च । (१०।१)

tataś cīrāṇi jagrāha valkalānyajināni ca |

10.2१०.२

समानव्रतचर्या च बभूवायतलोचना ॥ (१०।२)

samānavratacaryā ca babhūvāyatalocanā ||

11.1११.१

गङ्गाद्वारम् अथागम्य भगवान् ऋषिसत्तमः । (११।१)

gaṅgādvāram athāgamya bhagavān ṛṣisattamaḥ |

11.2११.२

उग्रम् आतिष्ठत तपः सह पत्न्यानुकूलया ॥ (११।२)

ugram ātiṣṭhata tapaḥ saha patnyānukūlayā ||

12.1१२.१

सा प्रीत्या बहुमानाच्च पतिं पर्यचरत् तदा । (१२।१)

sā prītyā bahumānācca patiṃ paryacarat tadā |

12.2१२.२

अगस्त्यश्च परां प्रीतिं भार्यायाम् अकरोत् प्रभुः ॥ (१२।२)

agastyaśca parāṃ prītiṃ bhāryāyām akarot prabhuḥ ||

13.1१३.१

ततो बहुतिथे काले लोपामुद्रां विशां पते । (१३।१)

tato bahutithe kāle lopāmudrāṃ viśāṃ pate |

13.2१३.२

तपसा द्योतितां स्नातां ददर्श भगवान् ऋषिः ॥ (१३।२)

tapasā dyotitāṃ snātāṃ dadarśa bhagavān ṛṣiḥ ||

14.1१४.१

स तस्याः परिचारेण शौचेन च दमेन च । (१४।१)

sa tasyāḥ paricāreṇa śaucena ca damena ca |

14.2१४.२

श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् ॥ (१४।२)

śriyā rūpeṇa ca prīto maithunāyājuhāva tām ||

15.1१५.१

ततः सा प्राञ्जलिर् भूत्वा लज्जमानेव भामिनी । (१५।१)

tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī |

15.2१५.२

तदा सप्रणयं वाक्यं भगवन्तम् अथाब्रवीत् ॥ (१५।२)

tadā sapraṇayaṃ vākyaṃ bhagavantam athābravīt ||

16.1१६.१

असंशयं प्रजाहेतोर् भार्यां पतिर् अविन्दत । (१६।१)

asaṃśayaṃ prajāhetor bhāryāṃ patir avindata |

16.2१६.२

या तु त्वयि मम प्रीतिस् ताम् ऋषे कर्तुम् अर्हसि ॥ (१६।२)

yā tu tvayi mama prītis tām ṛṣe kartum arhasi ||

17.1१७.१

यथा पितुर् गृहे विप्र प्रासादे शयनं मम । (१७।१)

yathā pitur gṛhe vipra prāsāde śayanaṃ mama |

17.2१७.२

तथाविधे त्वं शयने माम् उपैतुम् इहार्हसि ॥ (१७।२)

tathāvidhe tvaṃ śayane mām upaitum ihārhasi ||

18.1१८.१

इच्छामि त्वां स्रग्विणं च भूषणैश् च विभूषितम् । (१८।१)

icchāmi tvāṃ sragviṇaṃ ca bhūṣaṇaiś ca vibhūṣitam |

18.2१८.२

उपसर्तुं यथाकामं दिव्याभरणभूषिता ॥ (१८।२)

upasartuṃ yathākāmaṃ divyābharaṇabhūṣitā ||

19.1१९.१

अगस्त्य उवाच । (१९।१)

agastya uvāca

19.2१९.२

न वै धनानि विद्यन्ते लोपामुद्रे तथा मम । (१९।२)

na vai dhanāni vidyante lopāmudre tathā mama |

19.3१९.३

यथाविधानि कल्याणि पितुस् तव सुमध्यमे ॥ (१९।३)

yathāvidhāni kalyāṇi pitus tava sumadhyame ||

20.1२०.१

लोपामुद्रोवाच । (२०।१)

lopāmudrovāca |

20.2२०.२

ईशो ऽसि तपसा सर्वं समाहर्तुम् इहेश्वर । (२०।२)

īśo 'si tapasā sarvaṃ samāhartum iheśvara |

20.3२०.३

क्षणेन जीवलोके यद् वसु किंचन विद्यते ॥ (२०।३)

kṣaṇena jīvaloke yad vasu kiṃcana vidyate ||

21.1२१.१

अगस्त्य उवाच । (२१।१)

agastya uvāca

21.2२१.२

एवम् एतद् यथात्थ त्वं तपोव्ययकरं तु मे । (२१।२)

evam etad yathāttha tvaṃ tapovyayakaraṃ tu me |

21.3२१.३

यथा तु मे न नश्येत तपस् तन् मां प्रचोदय ॥ (२१।३)

yathā tu me na naśyeta tapas tan māṃ pracodaya ||

22.1२२.१

लोपामुद्रोवाच । (२२।१)

lopāmudrovāca |

22.2२२.२

अल्पावशिष्टः कालो ऽयम् ऋतौ मम तपोधन । (२२।२)

alpāvaśiṣṭaḥ kālo 'yam ṛtau mama tapodhana |

22.3२२.३

न चान्यथाहम् इच्छामि त्वाम् उपैतुं कथंचन ॥ (२२।३)

na cānyathāham icchāmi tvām upaituṃ kathaṃcana ||

23.1२३.१

न चापि धर्मम् इच्छामि विलोप्तुं ते तपोधन । (२३।१)

na cāpi dharmam icchāmi viloptuṃ te tapodhana |

23.2२३.२

एतत् तु मे यथाकामं संपादयितुम् अर्हसि ॥ (२३।२)

etat tu me yathākāmaṃ saṃpādayitum arhasi ||

24.1२४.१

अगस्त्य उवाच । (२४।१)

agastya uvāca

24.2२४.२

यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः । (२४।२)

yadyeṣa kāmaḥ subhage tava buddhyā viniścitaḥ |

24.3२४.३

हन्त गच्छाम्यहं भद्रे चर कामम् इह स्थिता ॥ (२४।३)

hanta gacchāmyahaṃ bhadre cara kāmam iha sthitā ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 95

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit