महाभारतMahābhārata

MBh, 3, 163

461 of 1995 · 114 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशम्पायन उवाच । (१।१)

vaiśampāyana uvāca

1.2१.२

यथागतं गते शक्रे भ्रातृभिः सह संगतः । (१।२)

yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ |

1.3१.३

कृष्णया चैव बीभत्सुर् धर्मपुत्रम् अपूजयत् ॥ (१।३)

kṛṣṇayā caiva bībhatsur dharmaputram apūjayat ||

2.1२.१

अभिवादयमानं तु मूर्ध्न्युपाघ्राय पाण्डवम् । (२।१)

abhivādayamānaṃ tu mūrdhnyupāghrāya pāṇḍavam |

2.2२.२

हर्षगद्गदया वाचा प्रहृष्टो ऽर्जुनम् अब्रवीत् ॥ (२।२)

harṣagadgadayā vācā prahṛṣṭo 'rjunam abravīt ||

3.1३.१

कथम् अर्जुन कालो ऽयं स्वर्गे व्यतिगतस् तव । (३।१)

katham arjuna kālo 'yaṃ svarge vyatigatas tava |

3.2३.२

कथं चास्त्राण्यवाप्तानि देवराजश् च तोषितः ॥ (३।२)

kathaṃ cāstrāṇyavāptāni devarājaś ca toṣitaḥ ||

4.1४.१

सम्यग् वा ते गृहीतानि कच्चिद् अस्त्राणि भारत । (४।१)

samyag vā te gṛhītāni kaccid astrāṇi bhārata |

4.2४.२

कच्चित् सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात् तव ॥ (४।२)

kaccit surādhipaḥ prīto rudraścāstrāṇyadāt tava ||

5.1५.१

यथा दृष्टश् च ते शक्रो भगवान् वा पिनाकधृक् । (५।१)

yathā dṛṣṭaś ca te śakro bhagavān vā pinākadhṛk |

5.2५.२

यथा चास्त्राण्यवाप्तानि यथा चाराधितश्च ते ॥ (५।२)

yathā cāstrāṇyavāptāni yathā cārādhitaśca te ||

6.1६.१

यथोक्तवांस् त्वां भगवाञ् शतक्रतुर् अरिंदम । (६।१)

yathoktavāṃs tvāṃ bhagavāñ śatakratur ariṃdama |

6.2६.२

कृतप्रियस् त्वयास्मीति तच्च ते किं प्रियं कृतम् । (६।२)

kṛtapriyas tvayāsmīti tacca te kiṃ priyaṃ kṛtam |

6.3६.३

एतद् इच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ॥ (६।३)

etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute ||

7.1७.१

यथा तुष्टो महादेवो देवराजश्च ते ऽनघ । (७।१)

yathā tuṣṭo mahādevo devarājaśca te 'nagha |

7.2७.२

यच्चापि वज्रपाणेस् ते प्रियं कृतम् अरिंदम । (७।२)

yaccāpi vajrapāṇes te priyaṃ kṛtam ariṃdama |

7.3७.३

एतद् आख्याहि मे सर्वम् अखिलेन धनंजय ॥ (७।३)

etad ākhyāhi me sarvam akhilena dhanaṃjaya ||

8.1८.१

अर्जुन उवाच । (८।१)

arjuna uvāca

8.2८.२

शृणु हन्त महाराज विधिना येन दृष्टवान् । (८।२)

śṛṇu hanta mahārāja vidhinā yena dṛṣṭavān |

8.3८.३

शतक्रतुम् अहं देवं भगवन्तं च शंकरम् ॥ (८।३)

śatakratum ahaṃ devaṃ bhagavantaṃ ca śaṃkaram ||

9.1९.१

विद्याम् अधीत्य तां राजंस् त्वयोक्ताम् अरिमर्दन । (९।१)

vidyām adhītya tāṃ rājaṃs tvayoktām arimardana |

9.2९.२

भवता च समादिष्टस् तपसे प्रस्थितो वनम् ॥ (९।२)

bhavatā ca samādiṣṭas tapase prasthito vanam ||

10.1१०.१

भृगुतुङ्गम् अथो गत्वा काम्यकाद् आस्थितस् तपः । (१०।१)

bhṛgutuṅgam atho gatvā kāmyakād āsthitas tapaḥ |

10.2१०.२

एकरात्रोषितः कंचिद् अपश्यं ब्राह्मणं पथि ॥ (१०।२)

ekarātroṣitaḥ kaṃcid apaśyaṃ brāhmaṇaṃ pathi ||

11.1११.१

स माम् अपृच्छत् कौन्तेय क्वासि गन्ता ब्रवीहि मे । (११।१)

sa mām apṛcchat kaunteya kvāsi gantā bravīhi me |

11.2११.२

तस्मा अवितथं सर्वम् अब्रुवं कुरुनन्दन ॥ (११।२)

tasmā avitathaṃ sarvam abruvaṃ kurunandana ||

12.1१२.१

स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम । (१२।१)

sa tathyaṃ mama tacchrutvā brāhmaṇo rājasattama |

12.2१२.२

अपूजयत मां राजन् प्रीतिमांश् चाभवन् मयि ॥ (१२।२)

apūjayata māṃ rājan prītimāṃś cābhavan mayi ||

13.1१३.१

ततो माम् अब्रवीत् प्रीतस् तप आतिष्ठ भारत । (१३।१)

tato mām abravīt prītas tapa ātiṣṭha bhārata |

13.2१३.२

तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम् ॥ (१३।२)

tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam ||

14.1१४.१

ततो ऽहं वचनात् तस्य गिरिम् आरुह्य शैशिरम् । (१४।१)

tato 'haṃ vacanāt tasya girim āruhya śaiśiram |

14.2१४.२

तपो ऽतप्यं महाराज मासं मूलफलाशनः ॥ (१४।२)

tapo 'tapyaṃ mahārāja māsaṃ mūlaphalāśanaḥ ||

15.1१५.१

द्वितीयश्चापि मे मासो जलं भक्षयतो गतः । (१५।१)

dvitīyaścāpi me māso jalaṃ bhakṣayato gataḥ |

15.2१५.२

निराहारस् तृतीये ऽथ मासे पाण्डवनन्दन ॥ (१५।२)

nirāhāras tṛtīye 'tha māse pāṇḍavanandana ||

16.1१६.१

ऊर्ध्वबाहुश् चतुर्थं तु मासम् अस्मि स्थितस् तदा । (१६।१)

ūrdhvabāhuś caturthaṃ tu māsam asmi sthitas tadā |

16.2१६.२

न च मे हीयते प्राणस् तद् अद्भुतम् इवाभवत् ॥ (१६।२)

na ca me hīyate prāṇas tad adbhutam ivābhavat ||

17.1१७.१

चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते । (१७।१)

caturthe samabhikrānte prathame divase gate |

17.2१७.२

वराहसंस्थितं भूतं मत्समीपम् उपागमत् ॥ (१७।२)

varāhasaṃsthitaṃ bhūtaṃ matsamīpam upāgamat ||

18.1१८.१

निघ्नन् प्रोथेन पृथिवीं विलिखंश् चरणैर् अपि । (१८।१)

nighnan prothena pṛthivīṃ vilikhaṃś caraṇair api |

18.2१८.२

संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर् मुहुः ॥ (१८।२)

saṃmārjañjaṭhareṇorvīṃ vivartaṃśca muhur muhuḥ ||

19.1१९.१

अनु तस्यापरं भूतं महत् कैरातसंस्थितम् । (१९।१)

anu tasyāparaṃ bhūtaṃ mahat kairātasaṃsthitam |

19.2१९.२

धनुर्बाणासिमत् प्राप्तं स्त्रीगणानुगतं तदा ॥ (१९।२)

dhanurbāṇāsimat prāptaṃ strīgaṇānugataṃ tadā ||

20.1२०.१

ततो ऽहं धनुर् आदाय तथाक्षय्यौ महेषुधी । (२०।१)

tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī |

20.2२०.२

अताडयं शरेणाथ तद् भूतं लोमहर्षणम् ॥ (२०।२)

atāḍayaṃ śareṇātha tad bhūtaṃ lomaharṣaṇam ||

21.1२१.१

युगपत् तत् किरातश् च विकृष्य बलवद् धनुः । (२१।१)

yugapat tat kirātaś ca vikṛṣya balavad dhanuḥ |

21.2२१.२

अभ्याजघ्ने दृढतरं कम्पयन्न् इव मे मनः ॥ (२१।२)

abhyājaghne dṛḍhataraṃ kampayann iva me manaḥ ||

22.1२२.१

स तु माम् अब्रवीद् राजन् मम पूर्वपरिग्रहः । (२२।१)

sa tu mām abravīd rājan mama pūrvaparigrahaḥ |

22.2२२.२

मृगयाधर्मम् उत्सृज्य किमर्थं ताडितस् त्वया ॥ (२२।२)

mṛgayādharmam utsṛjya kimarthaṃ tāḍitas tvayā ||

23.1२३.१

एष ते निशितैर् बाणैर् दर्पं हन्मि स्थिरो भव । (२३।१)

eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava |

23.2२३.२

स वर्ष्मवान् महाकायस् ततो माम् अभ्यधावत ॥ (२३।२)

sa varṣmavān mahākāyas tato mām abhyadhāvata ||

24.1२४.१

ततो गिरिम् इवात्यर्थम् आवृणोन् मां महाशरैः । (२४।१)

tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ |

24.2२४.२

तं चाहं शरवर्षेण महता समवाकिरम् ॥ (२४।२)

taṃ cāhaṃ śaravarṣeṇa mahatā samavākiram ||

25.1२५.१

ततः शरैर् दीप्तमुखैः पत्त्रितैर् अनुमन्त्रितैः । (२५।१)

tataḥ śarair dīptamukhaiḥ pattritair anumantritaiḥ |

25.2२५.२

प्रत्यविध्यम् अहं तं तु वज्रैर् इव शिलोच्चयम् ॥ (२५।२)

pratyavidhyam ahaṃ taṃ tu vajrair iva śiloccayam ||

26.1२६.१

तस्य तच्छतधा रूपम् अभवच्च सहस्रधा । (२६।१)

tasya tacchatadhā rūpam abhavacca sahasradhā |

26.2२६.२

तानि चास्य शरीराणि शरैर् अहम् अताडयम् ॥ (२६।२)

tāni cāsya śarīrāṇi śarair aham atāḍayam ||

27.1२७.१

पुनस् तानि शरीराणि एकीभूतानि भारत । (२७।१)

punas tāni śarīrāṇi ekībhūtāni bhārata |

27.2२७.२

अदृश्यन्त महाराज तान्यहं व्यधमं पुनः ॥ (२७।२)

adṛśyanta mahārāja tānyahaṃ vyadhamaṃ punaḥ ||

28.1२८.१

अणुर् बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः । (२८।१)

aṇur bṛhacchirā bhūtvā bṛhaccāṇuśirāḥ punaḥ |

28.2२८.२

एकीभूतस् तदा राजन् सो ऽभ्यवर्तत मां युधि ॥ (२८।२)

ekībhūtas tadā rājan so 'bhyavartata māṃ yudhi ||

29.1२९.१

यदाभिभवितुं बाणैर् नैव शक्नोमि तं रणे । (२९।१)

yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe |

29.2२९.२

ततो ऽहम् अस्त्रम् आतिष्ठं वायव्यं भरतर्षभ ॥ (२९।२)

tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha ||

30.1३०.१

न चैनम् अशकं हन्तुं तद् अद्भुतम् इवाभवत् । (३०।१)

na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat |

30.2३०.२

तस्मिन् प्रतिहते चास्त्रे विस्मयो मे महान् अभूत् ॥ (३०।२)

tasmin pratihate cāstre vismayo me mahān abhūt ||

31.1३१.१

भूयश् चैव महाराज सविशेषम् अहं ततः । (३१।१)

bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ |

31.2३१.२

अस्त्रपूगेन महता रणे भूतम् अवाकिरम् ॥ (३१।२)

astrapūgena mahatā raṇe bhūtam avākiram ||

32.1३२.१

स्थूणाकर्णम् अयोजालं शरवर्षं शरोल्बणम् । (३२।१)

sthūṇākarṇam ayojālaṃ śaravarṣaṃ śarolbaṇam |

32.2३२.२

शैलास्त्रम् अश्मवर्षं च समास्थायाहम् अभ्ययाम् । (३२।२)

śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām |

32.3३२.३

जग्रास प्रहसंस् तानि सर्वाण्यस्त्राणि मे ऽनघ ॥ (३२।३)

jagrāsa prahasaṃs tāni sarvāṇyastrāṇi me 'nagha ||

33.1३३.१

तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रम् अहम् आदिशम् । (३३।१)

teṣu sarveṣu śānteṣu brahmāstram aham ādiśam |

33.2३३.२

ततः प्रज्वलितैर् बाणैः सर्वतः सोपचीयत । (३३।२)

tataḥ prajvalitair bāṇaiḥ sarvataḥ sopacīyata |

33.3३३.३

उपचीयमानश्च मया महास्त्रेण व्यवर्धत ॥ (३३।३)

upacīyamānaśca mayā mahāstreṇa vyavardhata ||

34.1३४.१

ततः संतापितो लोको मत्प्रसूतेन तेजसा । (३४।१)

tataḥ saṃtāpito loko matprasūtena tejasā |

34.2३४.२

क्षणेन हि दिशः खं च सर्वतो ऽभिविदीपितम् ॥ (३४।२)

kṣaṇena hi diśaḥ khaṃ ca sarvato 'bhividīpitam ||

35.1३५.१

तद् अप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत् । (३५।१)

tad apyastraṃ mahātejāḥ kṣaṇenaiva vyaśātayat |

35.2३५.२

ब्रह्मास्त्रे तु हते राजन् भयं मां महद् आविशत् ॥ (३५।२)

brahmāstre tu hate rājan bhayaṃ māṃ mahad āviśat ||

36.1३६.१

ततो ऽहं धनुर् आदाय तथाक्षय्यौ महेषुधी । (३६।१)

tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī |

36.2३६.२

सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् ॥ (३६।२)

sahasābhyahanaṃ bhūtaṃ tānyapyastrāṇyabhakṣayat ||

37.1३७.१

हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च । (३७।१)

hateṣvastreṣu sarveṣu bhakṣiteṣvāyudheṣu ca |

37.2३७.२

मम तस्य च भूतस्य बाहुयुद्धम् अवर्तत ॥ (३७।२)

mama tasya ca bhūtasya bāhuyuddham avartata ||

38.1३८.१

व्यायामं मुष्टिभिः कृत्वा तलैर् अपि समाहतौ । (३८।१)

vyāyāmaṃ muṣṭibhiḥ kṛtvā talair api samāhatau |

38.2३८.२

अपातयच्च तद् भूतं निश्चेष्टो ह्यगमं महीम् ॥ (३८।२)

apātayacca tad bhūtaṃ niśceṣṭo hyagamaṃ mahīm ||

39.1३९.१

ततः प्रहस्य तद् भूतं तत्रैवान्तरधीयत । (३९।१)

tataḥ prahasya tad bhūtaṃ tatraivāntaradhīyata |

39.2३९.२

सह स्त्रीभिर् महाराज पश्यतो मे ऽद्भुतोपमम् ॥ (३९।२)

saha strībhir mahārāja paśyato me 'dbhutopamam ||

40.1४०.१

एवं कृत्वा स भगवांस् ततो ऽन्यद् रूपम् आत्मनः । (४०।१)

evaṃ kṛtvā sa bhagavāṃs tato 'nyad rūpam ātmanaḥ |

40.2४०.२

दिव्यम् एव महाराज वसानो ऽद्भुतम् अम्बरम् ॥ (४०।२)

divyam eva mahārāja vasāno 'dbhutam ambaram ||

41.1४१.१

हित्वा किरातरूपं च भगवांस् त्रिदशेश्वरः । (४१।१)

hitvā kirātarūpaṃ ca bhagavāṃs tridaśeśvaraḥ |

41.2४१.२

स्वरूपं दिव्यम् आस्थाय तस्थौ तत्र महेश्वरः ॥ (४१।२)

svarūpaṃ divyam āsthāya tasthau tatra maheśvaraḥ ||

42.1४२.१

अदृश्यत ततः साक्षाद् भगवान् गोवृषध्वजः । (४२।१)

adṛśyata tataḥ sākṣād bhagavān govṛṣadhvajaḥ |

42.2४२.२

उमासहायो हरिदृग् बहुरूपः पिनाकधृक् ॥ (४२।२)

umāsahāyo haridṛg bahurūpaḥ pinākadhṛk ||

43.1४३.१

स माम् अभ्येत्य समरे तथैवाभिमुखं स्थितम् । (४३।१)

sa mām abhyetya samare tathaivābhimukhaṃ sthitam |

43.2४३.२

शूलपाणिर् अथोवाच तुष्टो ऽस्मीति परंतप ॥ (४३।२)

śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa ||

44.1४४.१

ततस् तद् धनुर् आदाय तूणौ चाक्षय्यसायकौ । (४४।१)

tatas tad dhanur ādāya tūṇau cākṣayyasāyakau |

44.2४४.२

प्रादान् ममैव भगवान् वरयस्वेति चाब्रवीत् ॥ (४४।२)

prādān mamaiva bhagavān varayasveti cābravīt ||

45.1४५.१

तुष्टो ऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते । (४५।१)

tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te |

45.2४५.२

यत् ते मनोगतं वीर तद् ब्रूहि वितराम्यहम् । (४५।२)

yat te manogataṃ vīra tad brūhi vitarāmyaham |

45.3४५.३

अमरत्वम् अपाहाय ब्रूहि यत् ते मनोगतम् ॥ (४५।३)

amaratvam apāhāya brūhi yat te manogatam ||

46.1४६.१

ततः प्राञ्जलिर् एवाहम् अस्त्रेषु गतमानसः । (४६।१)

tataḥ prāñjalir evāham astreṣu gatamānasaḥ |

46.2४६.२

प्रणम्य शिरसा शर्वं ततो वचनम् आददे ॥ (४६।२)

praṇamya śirasā śarvaṃ tato vacanam ādade ||

47.1४७.१

भगवान् मे प्रसन्नश्चेद् ईप्सितो ऽयं वरो मम । (४७।१)

bhagavān me prasannaśced īpsito 'yaṃ varo mama |

47.2४७.२

अस्त्राणीच्छाम्य् अहं ज्ञातुं यानि देवेषु कानिचित् । (४७।२)

astrāṇīcchāmy ahaṃ jñātuṃ yāni deveṣu kānicit |

47.3४७.३

ददानीत्येव भगवान् अब्रवीत् त्र्यम्बकश् च माम् ॥ (४७।३)

dadānītyeva bhagavān abravīt tryambakaś ca mām ||

48.1४८.१

रौद्रम् अस्त्रं मदीयं त्वाम् उपस्थास्यति पाण्डव । (४८।१)

raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava |

48.2४८.२

प्रददौ च मम प्रीतः सो ऽस्त्रं पाशुपतं प्रभुः ॥ (४८।२)

pradadau ca mama prītaḥ so 'straṃ pāśupataṃ prabhuḥ ||

49.1४९.१

उवाच च महादेवो दत्त्वा मे ऽस्त्रं सनातनम् । (४९।१)

uvāca ca mahādevo dattvā me 'straṃ sanātanam |

49.2४९.२

न प्रयोज्यं भवेद् एतन् मानुषेषु कथंचन ॥ (४९।२)

na prayojyaṃ bhaved etan mānuṣeṣu kathaṃcana ||

50.1५०.१

पीड्यमानेन बलवत् प्रयोज्यं ते धनंजय । (५०।१)

pīḍyamānena balavat prayojyaṃ te dhanaṃjaya |

50.2५०.२

अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः ॥ (५०।२)

astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ ||

51.1५१.१

तद् अप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् । (५१।१)

tad apratihataṃ divyaṃ sarvāstrapratiṣedhanam |

51.2५१.२

मूर्तिमन् मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ॥ (५१।२)

mūrtiman me sthitaṃ pārśve prasanne govṛṣadhvaje ||

52.1५२.१

उत्सादनम् अमित्राणां परसेनानिकर्तनम् । (५२।१)

utsādanam amitrāṇāṃ parasenānikartanam |

52.2५२.२

दुरासदं दुष्प्रहसं सुरदानवराक्षसैः ॥ (५२।२)

durāsadaṃ duṣprahasaṃ suradānavarākṣasaiḥ ||

53.1५३.१

अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् । (५३।१)

anujñātastvahaṃ tena tatraiva samupāviśam |

53.2५३.२

प्रेक्षतश्चैव मे देवस् तत्रैवान्तरधीयत ॥ (५३।२)

prekṣataścaiva me devas tatraivāntaradhīyata ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 163

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit