महाभारतMahābhārata

MBh, 3, 111

409 of 1995 · 50 verses

Select a line for its word-by-word analysis.

1.1१.१

लोमश उवाच । (१।१)

lomaśa uvāca

1.2१.२

सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये । (१।२)

sā tu nāvyāśramaṃ cakre rājakāryārthasiddhaye |

1.3१.३

संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत ॥ (१।३)

saṃdeśāccaiva nṛpateḥ svabuddhyā caiva bhārata ||

2.1२.१

नानापुष्पफलैर् वृक्षैः कृत्रिमैर् उपशोभितम् । (२।१)

nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam |

2.2२.२

नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः ॥ (२।२)

nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ ||

3.1३.१

अतीव रमणीयं तद् अतीव च मनोहरम् । (३।१)

atīva ramaṇīyaṃ tad atīva ca manoharam |

3.2३.२

चक्रे नाव्याश्रमं रम्यम् अद्भुतोपमदर्शनम् ॥ (३।२)

cakre nāvyāśramaṃ ramyam adbhutopamadarśanam ||

4.1४.१

ततो निबध्य तां नावम् अदूरे काश्यपाश्रमात् । (४।१)

tato nibadhya tāṃ nāvam adūre kāśyapāśramāt |

4.2४.२

चारयामास पुरुषैर् विहारं तस्य वै मुनेः ॥ (४।२)

cārayāmāsa puruṣair vihāraṃ tasya vai muneḥ ||

5.1५.१

ततो दुहितरं वेश्या समाधायेतिकृत्यताम् । (५।१)

tato duhitaraṃ veśyā samādhāyetikṛtyatām |

5.2५.२

दृष्ट्वान्तरं काश्यपस्य प्राहिणोद् बुद्धिसंमताम् ॥ (५।२)

dṛṣṭvāntaraṃ kāśyapasya prāhiṇod buddhisaṃmatām ||

6.1६.१

सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ । (६।१)

sā tatra gatvā kuśalā taponityasya saṃnidhau |

6.2६.२

आश्रमं तं समासाद्य ददर्श तम् ऋषेः सुतम् ॥ (६।२)

āśramaṃ taṃ samāsādya dadarśa tam ṛṣeḥ sutam ||

7.1७.१

वेश्योवाच । (७।१)

veśyovāca |

7.2७.२

कच्चिन् मुने कुशलं तापसानां कच्चिच्च वो मूलफलं प्रभूतम् । (७।२)

kaccin mune kuśalaṃ tāpasānāṃ kaccicca vo mūlaphalaṃ prabhūtam |

7.3७.३

कच्चिद् भवान् रमते चाश्रमे ऽस्मिंस् त्वां वै द्रष्टुं साम्प्रतम् आगतो ऽस्मि ॥ (७।३)

kaccid bhavān ramate cāśrame 'smiṃs tvāṃ vai draṣṭuṃ sāmpratam āgato 'smi ||

8.1८.१

कच्चित् तपो वर्धते तापसानां पिता च ते कच्चिद् अहीनतेजाः । (८।१)

kaccit tapo vardhate tāpasānāṃ pitā ca te kaccid ahīnatejāḥ |

8.2८.२

कच्चित् त्वया प्रीयते चैव विप्र कच्चित् स्वाध्यायः क्रियते ऋश्यशृङ्ग ॥ (८।२)

kaccit tvayā prīyate caiva vipra kaccit svādhyāyaḥ kriyate ṛśyaśṛṅga ||

9.1९.१

ऋश्यशृङ्ग उवाच । (९।१)

ṛśyaśṛṅga uvāca

9.2९.२

ऋद्धो भवाञ्ज्योतिर् इव प्रकाशते मन्ये चाहं त्वाम् अभिवादनीयम् । (९।२)

ṛddho bhavāñjyotir iva prakāśate manye cāhaṃ tvām abhivādanīyam |

9.3९.३

पाद्यं वै ते सम्प्रदास्यामि कामाद् यथाधर्मं फलमूलानि चैव ॥ (९।३)

pādyaṃ vai te sampradāsyāmi kāmād yathādharmaṃ phalamūlāni caiva ||

10.1१०.१

कौश्यां बृस्याम् आस्स्व यथोपजोषं कृष्णाजिनेनावृतायां सुखायाम् । (१०।१)

kauśyāṃ bṛsyām āssva yathopajoṣaṃ kṛṣṇājinenāvṛtāyāṃ sukhāyām |

10.2१०.२

क्व चाश्रमस् तव किं नाम चेदं व्रतं ब्रह्मंश्चरसि हि देववत् त्वम् ॥ (१०।२)

kva cāśramas tava kiṃ nāma cedaṃ vrataṃ brahmaṃścarasi hi devavat tvam ||

11.1११.१

वेश्योवाच । (११।१)

veśyovāca |

11.2११.२

ममाश्रमः काश्यपपुत्र रम्यस् त्रियोजनं शैलम् इमं परेण । (११।२)

mamāśramaḥ kāśyapaputra ramyas triyojanaṃ śailam imaṃ pareṇa |

11.3११.३

तत्र स्वधर्मो ऽनभिवादनं नो न चोदकं पाद्यम् उपस्पृशामः ॥ (११।३)

tatra svadharmo 'nabhivādanaṃ no na codakaṃ pādyam upaspṛśāmaḥ ||

12.1१२.१

ऋश्यशृङ्ग उवाच । (१२।१)

ṛśyaśṛṅga uvāca

12.2१२.२

फलानि पक्वानि ददानि ते ऽहं भल्लातकान्यामलकानि चैव । (१२।२)

phalāni pakvāni dadāni te 'haṃ bhallātakānyāmalakāni caiva |

12.3१२.३

परूषकानीङ्गुदधन्वनानि प्रियालानां कामकारं कुरुष्व ॥ (१२।३)

parūṣakānīṅgudadhanvanāni priyālānāṃ kāmakāraṃ kuruṣva ||

13.1१३.१

लोमश उवाच । (१३।१)

lomaśa uvāca

13.2१३.२

सा तानि सर्वाणि विसर्जयित्वा भक्षान् महार्हान् प्रददौ ततो ऽस्मै । (१३।२)

sā tāni sarvāṇi visarjayitvā bhakṣān mahārhān pradadau tato 'smai |

13.3१३.३

तान्यृश्यशृङ्गस्य महारसानि भृशं सुरूपाणि रुचिं ददुर् हि ॥ (१३।३)

tānyṛśyaśṛṅgasya mahārasāni bhṛśaṃ surūpāṇi ruciṃ dadur hi ||

14.1१४.१

ददौ च माल्यानि सुगन्धवन्ति चित्राणि वासांसि च भानुमन्ति । (१४।१)

dadau ca mālyāni sugandhavanti citrāṇi vāsāṃsi ca bhānumanti |

14.2१४.२

पानानि चाग्र्याणि ततो मुमोद चिक्रीड चैव प्रजहास चैव ॥ (१४।२)

pānāni cāgryāṇi tato mumoda cikrīḍa caiva prajahāsa caiva ||

15.1१५.१

सा कन्दुकेनारमतास्य मूले विभज्यमाना फलिता लतेव । (१५।१)

sā kandukenāramatāsya mūle vibhajyamānā phalitā lateva |

15.2१५.२

गात्रैश्च गात्राणि निषेवमाणा समाश्लिषच्चासकृद् ऋश्यशृङ्गम् ॥ (१५।२)

gātraiśca gātrāṇi niṣevamāṇā samāśliṣaccāsakṛd ṛśyaśṛṅgam ||

16.1१६.१

सर्जान् अशोकांस् तिलकांश्च वृक्षान् प्रपुष्पितान् अवनाम्यावभज्य । (१६।१)

sarjān aśokāṃs tilakāṃśca vṛkṣān prapuṣpitān avanāmyāvabhajya |

16.2१६.२

विलज्जमानेव मदाभिभूता प्रलोभयामास सुतं महर्षेः ॥ (१६।२)

vilajjamāneva madābhibhūtā pralobhayāmāsa sutaṃ maharṣeḥ ||

17.1१७.१

अथर्श्यशृङ्गं विकृतं समीक्ष्य पुनः पुनः पीड्य च कायम् अस्य । (१७।१)

atharśyaśṛṅgaṃ vikṛtaṃ samīkṣya punaḥ punaḥ pīḍya ca kāyam asya |

17.2१७.२

अवेक्षमाणा शनकैर् जगाम कृत्वाग्निहोत्रस्य तदापदेशम् ॥ (१७।२)

avekṣamāṇā śanakair jagāma kṛtvāgnihotrasya tadāpadeśam ||

18.1१८.१

तस्यां गतायां मदनेन मत्तो विचेतनश् चाभवद् ऋश्यशृङ्गः । (१८।१)

tasyāṃ gatāyāṃ madanena matto vicetanaś cābhavad ṛśyaśṛṅgaḥ |

18.2१८.२

ताम् एव भावेन गतेन शून्यो विनिःश्वसन्न् आर्तरूपो बभूव ॥ (१८।२)

tām eva bhāvena gatena śūnyo viniḥśvasann ārtarūpo babhūva ||

19.1१९.१

ततो मुहूर्ताद्धरिपिङ्गलाक्षः प्रवेष्टितो रोमभिर् आ नखाग्रात् । (१९।१)

tato muhūrtāddharipiṅgalākṣaḥ praveṣṭito romabhir ā nakhāgrāt |

19.2१९.२

स्वाध्यायवान् वृत्तसमाधियुक्तो विभाण्डकः काश्यपः प्रादुरासीत् ॥ (१९।२)

svādhyāyavān vṛttasamādhiyukto vibhāṇḍakaḥ kāśyapaḥ prādurāsīt ||

20.1२०.१

सो ऽपश्यद् आसीनम् उपेत्य पुत्रं ध्यायन्तम् एकं विपरीतचित्तम् । (२०।१)

so 'paśyad āsīnam upetya putraṃ dhyāyantam ekaṃ viparītacittam |

20.2२०.२

विनिःश्वसन्तं मुहुर् ऊर्ध्वदृष्टिं विभाण्डकः पुत्रम् उवाच दीनम् ॥ (२०।२)

viniḥśvasantaṃ muhur ūrdhvadṛṣṭiṃ vibhāṇḍakaḥ putram uvāca dīnam ||

21.1२१.१

न कल्प्यन्ते समिधः किं नु तात कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य । (२१।१)

na kalpyante samidhaḥ kiṃ nu tāta kacciddhutaṃ cāgnihotraṃ tvayādya |

21.2२१.२

सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः कच्चित् सवत्सा च कृता त्वयाद्य ॥ (२१।२)

sunirṇiktaṃ sruksruvaṃ homadhenuḥ kaccit savatsā ca kṛtā tvayādya ||

22.1२२.१

न वै यथापूर्वम् इवासि पुत्र चिन्तापरश्चासि विचेतनश् च । (२२।१)

na vai yathāpūrvam ivāsi putra cintāparaścāsi vicetanaś ca |

22.2२२.२

दीनो ऽतिमात्रं त्वम् इहाद्य किं नु पृच्छामि त्वां क इहाद्यागतो ऽभूत् ॥ (२२।२)

dīno 'timātraṃ tvam ihādya kiṃ nu pṛcchāmi tvāṃ ka ihādyāgato 'bhūt ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 111

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit