महाभारतMahābhārata

MBh, 2, 5

231 of 1995 · 288 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु । (१।२)

tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu |

1.3१.३

महत्सु चोपविष्टेषु गन्धर्वेषु च भारत । (१।३)

mahatsu copaviṣṭeṣu gandharveṣu ca bhārata |

1.4१.४

वेदोपनिषदां वेत्ता ऋषिः सुरगणार्चितः । (१।४)

vedopaniṣadāṃ vettā ṛṣiḥ suragaṇārcitaḥ |

1.5१.५

इतिहासपुराणज्ञः पुराकल्पविशेषवित् । (१।५)

itihāsapurāṇajñaḥ purākalpaviśeṣavit |

1.6१.६

न्यायविद् धर्मतत्त्वज्ञः षडङ्गविद् अनुत्तमः । (१।६)

nyāyavid dharmatattvajñaḥ ṣaḍaṅgavid anuttamaḥ |

1.7१.७

ऐक्यसंयोगनानात्वसमवायविशारदः । (१।७)

aikyasaṃyoganānātvasamavāyaviśāradaḥ |

1.8१.८

वक्ता प्रगल्भो मेधावी स्मृतिमान्नयवित् कविः । (१।८)

vaktā pragalbho medhāvī smṛtimānnayavit kaviḥ |

1.9१.९

परापरविभागज्ञः प्रमाणकृतनिश्चयः । (१।९)

parāparavibhāgajñaḥ pramāṇakṛtaniścayaḥ |

1.10१.१०

पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् । (१।१०)

pañcāvayavayuktasya vākyasya guṇadoṣavit |

1.11१.११

उत्तरोत्तरवक्ता च वदतो ऽपि बृहस्पतेः । (१।११)

uttarottaravaktā ca vadato 'pi bṛhaspateḥ |

1.12१.१२

धर्मकामार्थमोक्षेषु यथावत् कृतनिश्चयः । (१।१२)

dharmakāmārthamokṣeṣu yathāvat kṛtaniścayaḥ |

1.13१.१३

तथा भुवनकोशस्य सर्वस्यास्य महामतिः । (१।१३)

tathā bhuvanakośasya sarvasyāsya mahāmatiḥ |

1.14१.१४

प्रत्यक्षदर्शी लोकस्य तिर्यग् ऊर्ध्वम् अधस्तथा । (१।१४)

pratyakṣadarśī lokasya tiryag ūrdhvam adhastathā |

1.15१.१५

सांख्ययोगविभागज्ञो निर्विवित्सुः सुरासुरान् । (१।१५)

sāṃkhyayogavibhāgajño nirvivitsuḥ surāsurān |

1.16१.१६

संधिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित् । (१।१६)

saṃdhivigrahatattvajñastvanumānavibhāgavit |

1.17१.१७

षाड्गुण्यविधियुक्तश्च सर्वशास्त्रविशारदः । (१।१७)

ṣāḍguṇyavidhiyuktaśca sarvaśāstraviśāradaḥ |

1.18१.१८

युद्धगान्धर्वसेवी च सर्वत्राप्रतिघस्तथा । (१।१८)

yuddhagāndharvasevī ca sarvatrāpratighastathā |

1.19१.१९

एतैश्चान्यैश्च बहुभिर् युक्तो गुणगणैर् मुनिः ॥ (१।१९)

etaiścānyaiśca bahubhir yukto guṇagaṇair muniḥ ||

2.1२.१

लोकान् अनुचरन् सर्वान् आगमत् तां सभाम् ऋषिः । (२।१)

lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ |

2.2२.२

नारदः सुमहातेजा ऋषिभिः सहितस्तदा ॥ (२।२)

nāradaḥ sumahātejā ṛṣibhiḥ sahitastadā ||

3.1३.१

पारिजातेन राजेन्द्र रैवतेन च धीमता । (३।१)

pārijātena rājendra raivatena ca dhīmatā |

3.2३.२

सुमुखेन च सौम्येन देवर्षिर् अमितद्युतिः । (३।२)

sumukhena ca saumyena devarṣir amitadyutiḥ |

3.3३.३

सभास्थान् पाण्डवान् द्रष्टुं प्रीयमाणो मनोजवः । (३।३)

sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ |

3.4३.४

जयाशीर्भिः स्तुतं विप्रो धर्मराजानम् आर्चयत् ॥ (३।४)

jayāśīrbhiḥ stutaṃ vipro dharmarājānam ārcayat ||

4.1४.१

तम् आगतम् ऋषिं दृष्ट्वा नारदं सर्वधर्मवित् । (४।१)

tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit |

4.2४.२

सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह । (४।२)

sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha |

4.3४.३

अभ्यवादयत प्रीत्या विनयावनतस्तदा ॥ (४।३)

abhyavādayata prītyā vinayāvanatastadā ||

5.1५.१

तदर्हम् आसनं तस्मै सम्प्रदाय यथाविधि । (५।१)

tadarham āsanaṃ tasmai sampradāya yathāvidhi |

5.2५.२

गां चैव मधुपर्कं च सम्प्रदायार्ध्यम् एव च । (५।२)

gāṃ caiva madhuparkaṃ ca sampradāyārdhyam eva ca |

5.3५.३

अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् । (५।३)

arcayāmāsa ratnaiśca sarvakāmaiśca dharmavit |

5.4५.४

तुतोष च यथावच्च पूजां प्राप्य युधिष्ठिरात् ॥ (५।४)

tutoṣa ca yathāvacca pūjāṃ prāpya yudhiṣṭhirāt ||

6.1६.१

सो ऽर्चितः पाण्डवैः सर्वैर् महर्षिर् वेदपारगः । (६।१)

so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ |

6.2६.२

धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् ॥ (६।२)

dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram ||

7.1७.१

नारद उवाच । (७।१)

nārada uvāca

7.2७.२

कच्चिद् अर्थाश्च कल्पन्ते धर्मे च रमते मनः । (७।२)

kaccid arthāśca kalpante dharme ca ramate manaḥ |

7.3७.३

सुखानि चानुभूयन्ते मनश्च न विहन्यते ॥ (७।३)

sukhāni cānubhūyante manaśca na vihanyate ||

8.1८.१

कच्चिद् आचरितां पूर्वैर् नरदेव पितामहैः । (८।१)

kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ |

8.2८.२

वर्तसे वृत्तिम् अक्षीणां धर्मार्थसहितां नृषु ॥ (८।२)

vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu ||

9.1९.१

कच्चिद् अर्थेन वा धर्मं धर्मेणार्थम् अथापि वा । (९।१)

kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā |

9.2९.२

उभौ वा प्रीतिसारेण न कामेन प्रबाधसे ॥ (९।२)

ubhau vā prītisāreṇa na kāmena prabādhase ||

10.1१०.१

कच्चिद् अर्थं च धर्मं च कामं च जयतां वर । (१०।१)

kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara |

10.2१०.२

विभज्य काले कालज्ञ सदा वरद सेवसे ॥ (१०।२)

vibhajya kāle kālajña sadā varada sevase ||

11.1११.१

कच्चिद् राजगुणैः षड्भिः सप्तोपायांस्तथानघ । (११।१)

kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃstathānagha |

11.2११.२

बलाबलं तथा सम्यक् चतुर्दश परीक्षसे ॥ (११।२)

balābalaṃ tathā samyak caturdaśa parīkṣase ||

12.1१२.१

कच्चिद् आत्मानम् अन्वीक्ष्य परांश्च जयतां वर । (१२।१)

kaccid ātmānam anvīkṣya parāṃśca jayatāṃ vara |

12.2१२.२

तथा संधाय कर्माणि अष्टौ भारत सेवसे ॥ (१२।२)

tathā saṃdhāya karmāṇi aṣṭau bhārata sevase ||

13.1१३.१

कच्चित् प्रकृतयः षट् ते न लुप्ता भरतर्षभ । (१३।१)

kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha |

13.2१३.२

आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः ॥ (१३।२)

āḍhyāstathāvyasaninaḥ svanuraktāśca sarvaśaḥ ||

14.1१४.१

कच्चिन्न तर्कैर् दूतैर् वा ये चाप्यपरिशङ्किताः । (१४।१)

kaccinna tarkair dūtair vā ye cāpyapariśaṅkitāḥ |

14.2१४.२

त्वत्तो वा तव वामात्यैर् भिद्यते जातु मन्त्रितम् । (१४।२)

tvatto vā tava vāmātyair bhidyate jātu mantritam |

14.3१४.३

मित्रोदासीनशत्रूणां कच्चिद् वेत्सि चिकीर्षितम् ॥ (१४।३)

mitrodāsīnaśatrūṇāṃ kaccid vetsi cikīrṣitam ||

15.1१५.१

कच्चित् संधिं यथाकालं विग्रहं चोपसेवसे । (१५।१)

kaccit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase |

15.2१५.२

कच्चिद् वृत्तिम् उदासीने मध्यमे चानुवर्तसे ॥ (१५।२)

kaccid vṛttim udāsīne madhyame cānuvartase ||

16.1१६.१

कच्चिद् आत्मसमा बुद्ध्या शुचयो जीवितक्षमाः । (१६।१)

kaccid ātmasamā buddhyā śucayo jīvitakṣamāḥ |

16.2१६.२

कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः ॥ (१६।२)

kulīnāścānuraktāśca kṛtāste vīra mantriṇaḥ ||

17.1१७.१

विजयो मन्त्रमूलो हि राज्ञां भवति भारत । (१७।१)

vijayo mantramūlo hi rājñāṃ bhavati bhārata |

17.2१७.२

सुसंवृतो मन्त्रधनैर् अमात्यैः शास्त्रकोविदैः । (१७।२)

susaṃvṛto mantradhanair amātyaiḥ śāstrakovidaiḥ |

17.3१७.३

राष्ट्रं सुरक्षितं तात शत्रुभिर् न विलुप्यते ॥ (१७।३)

rāṣṭraṃ surakṣitaṃ tāta śatrubhir na vilupyate ||

18.1१८.१

कच्चिन्निद्रावशं नैषि कच्चित् काले विबुध्यसे । (१८।१)

kaccinnidrāvaśaṃ naiṣi kaccit kāle vibudhyase |

18.2१८.२

कच्चिच्चापररात्रेषु चिन्तयस्यर्थम् अर्थवित् ॥ (१८।२)

kacciccāpararātreṣu cintayasyartham arthavit ||

19.1१९.१

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह । (१९।१)

kaccinmantrayase naikaḥ kaccinna bahubhiḥ saha |

19.2१९.२

कच्चित् ते मन्त्रितो मन्त्रो न राष्ट्रम् अनुधावति ॥ (१९।२)

kaccit te mantrito mantro na rāṣṭram anudhāvati ||

20.1२०.१

कच्चिद् अर्थान् विनिश्चित्य लघुमूलान् महोदयान् । (२०।१)

kaccid arthān viniścitya laghumūlān mahodayān |

20.2२०.२

क्षिप्रम् आरभसे कर्तुं न विघ्नयसि तादृशान् ॥ (२०।२)

kṣipram ārabhase kartuṃ na vighnayasi tādṛśān ||

21.1२१.१

कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः । (२१।१)

kaccinna sarve karmāntāḥ parokṣāste viśaṅkitāḥ |

21.2२१.२

परोक्षा वा महाराज मध्यं ह्यत्र प्रशस्यते । (२१।२)

parokṣā vā mahārāja madhyaṃ hyatra praśasyate |

21.3२१.३

आप्तैर् अलुब्धैः क्रमिकैस्ते च कच्चिद् अनुष्ठिताः । (२१।३)

āptair alubdhaiḥ kramikaiste ca kaccid anuṣṭhitāḥ |

21.4२१.४

सर्वे वा पुनर् उत्सृष्टाः संसृष्टं ह्यत्र कारणम् ॥ (२१।४)

sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hyatra kāraṇam ||

22.1२२.१

कच्चिद् राजन् कृतान्येव कृतप्रायाणि वा पुनः । (२२।१)

kaccid rājan kṛtānyeva kṛtaprāyāṇi vā punaḥ |

22.2२२.२

विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् ॥ (२२।२)

viduste vīra karmāṇi nānavāptāni kānicit ||

23.1२३.१

कच्चित् कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः । (२३।१)

kaccit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ |

23.2२३.२

कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः ॥ (२३।२)

kārayanti kumārāṃśca yodhamukhyāṃśca sarvaśaḥ ||

24.1२४.१

कच्चित् सहस्रैर् मूर्खाणाम् एकं क्रीणासि पण्डितम् । (२४।१)

kaccit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam |

24.2२४.२

पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम् ॥ (२४।२)

paṇḍito hyarthakṛcchreṣu kuryānniḥśreyasaṃ param ||

25.1२५.१

कच्चिद् दुर्गाणि सर्वाणि धनधान्यायुधोदकैः । (२५।१)

kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ |

25.2२५.२

यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ (२५।२)

yantraiśca paripūrṇāni tathā śilpidhanurdharaiḥ ||

26.1२६.१

एको ऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः । (२६।१)

eko 'pyamātyo medhāvī śūro dānto vicakṣaṇaḥ |

26.2२६.२

राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ (२६।२)

rājānaṃ rājaputraṃ vā prāpayenmahatīṃ śriyam ||

27.1२७.१

कच्चिद् अष्टादशान्येषु स्वपक्षे दश पञ्च च । (२७।१)

kaccid aṣṭādaśānyeṣu svapakṣe daśa pañca ca |

27.2२७.२

त्रिभिस्त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः ॥ (२७।२)

tribhistribhir avijñātair vetsi tīrthāni cārakaiḥ ||

28.1२८.१

कच्चिद् द्विषाम् अविदितः प्रतियत्तश्च सर्वदा । (२८।१)

kaccid dviṣām aviditaḥ pratiyattaśca sarvadā |

28.2२८.२

नित्ययुक्तो रिपून् सर्वान् वीक्षसे रिपुसूदन ॥ (२८।२)

nityayukto ripūn sarvān vīkṣase ripusūdana ||

29.1२९.१

कच्चिद् विनयसम्पन्नः कुलपुत्रो बहुश्रुतः । (२९।१)

kaccid vinayasampannaḥ kulaputro bahuśrutaḥ |

29.2२९.२

अनसूयुर् अनुप्रष्टा सत्कृतस्ते पुरोहितः ॥ (२९।२)

anasūyur anupraṣṭā satkṛtaste purohitaḥ ||

30.1३०.१

कच्चिद् अग्निषु ते युक्तो विधिज्ञो मतिमान् ऋजुः । (३०।१)

kaccid agniṣu te yukto vidhijño matimān ṛjuḥ |

30.2३०.२

हुतं च होष्यमाणं च काले वेदयते सदा ॥ (३०।२)

hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā ||

31.1३१.१

कच्चिद् अङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः । (३१।१)

kaccid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ |

31.2३१.२

उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव ॥ (३१।२)

utpāteṣu ca sarveṣu daivajñaḥ kuśalastava ||

32.1३२.१

कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः । (३२।१)

kaccinmukhyā mahatsveva madhyameṣu ca madhyamāḥ |

32.2३२.२

जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ॥ (३२।२)

jaghanyāśca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ ||

33.1३३.१

अमात्यान् उपधातीतान् पितृपैतामहाञ् शुचीन् । (३३।१)

amātyān upadhātītān pitṛpaitāmahāñ śucīn |

33.2३३.२

श्रेष्ठाञ् श्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु ॥ (३३।२)

śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu ||

34.1३४.१

कच्चिन्नोग्रेण दण्डेन भृशम् उद्वेजितप्रजाः । (३४।१)

kaccinnogreṇa daṇḍena bhṛśam udvejitaprajāḥ |

34.2३४.२

राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ ॥ (३४।२)

rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha ||

35.1३५.१

कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा । (३५।१)

kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā |

35.2३५.२

उग्रप्रतिग्रहीतारं कामयानम् इव स्त्रियः । (३५।२)

ugrapratigrahītāraṃ kāmayānam iva striyaḥ |

35.3३५.३

कच्चिन्न विद्यते राष्ट्रे तव कीर्तिविनाशकाः ॥ (३५।३)

kaccinna vidyate rāṣṭre tava kīrtivināśakāḥ ||

36.1३६.१

कच्चिद् धृष्टश्च शूरश्च मतिमान् धृतिमाञ् शुचिः । (३६।१)

kaccid dhṛṣṭaśca śūraśca matimān dhṛtimāñ śuciḥ |

36.2३६.२

कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव ॥ (३६।२)

kulīnaścānuraktaśca dakṣaḥ senāpatistava ||

37.1३७.१

कच्चिद् बलस्य ते मुख्याः सर्वे युद्धविशारदाः । (३७।१)

kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ |

37.2३७.२

दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ (३७।२)

dṛṣṭāpadānā vikrāntāstvayā satkṛtya mānitāḥ ||

38.1३८.१

कच्चिद् बलस्य भक्तं च वेतनं च यथोचितम् । (३८।१)

kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam |

38.2३८.२

सम्प्राप्तकालं दातव्यं ददासि न विकर्षसि ॥ (३८।२)

samprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi ||

39.1३९.१

कालातिक्रमणाद्ध्येते भक्तवेतनयोर् भृताः । (३९।१)

kālātikramaṇāddhyete bhaktavetanayor bhṛtāḥ |

39.2३९.२

भर्तुः कुप्यन्ति दौर्गत्यात् सो ऽनर्थः सुमहान् स्मृतः । (३९।२)

bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ |

39.3३९.३

कच्चित् सर्वे महीपालास्त्वदाज्ञा मूर्ध्नि धारिताः । (३९।३)

kaccit sarve mahīpālāstvadājñā mūrdhni dhāritāḥ |

39.4३९.४

कच्चित् सुहृहयाः सर्वे ह्यर्चयन्ति भवत्कृते । (३९।४)

kaccit suhṛhayāḥ sarve hyarcayanti bhavatkṛte |

39.5३९.५

कच्चिद् अन्तपुरा देवा काले संसेवितास्त्वया । (३९।५)

kaccid antapurā devā kāle saṃsevitāstvayā |

39.6३९.६

कच्चिद् राजपुरन्ध्रीभिः प्रसूयन्ते कुलोचिताः । (३९।६)

kaccid rājapurandhrībhiḥ prasūyante kulocitāḥ |

39.7३९.७

कुमारा धार्मिकाः शूरा राजधर्मविशारदाः । (३९।७)

kumārā dhārmikāḥ śūrā rājadharmaviśāradāḥ |

39.8३९.८

कच्चित् तेषां च पुत्राणां विवाहः क्रियते त्वया । (३९।८)

kaccit teṣāṃ ca putrāṇāṃ vivāhaḥ kriyate tvayā |

39.9३९.९

संतानार्थं तु वंशस्य दोषं तस्य महीयसः । (३९।९)

saṃtānārthaṃ tu vaṃśasya doṣaṃ tasya mahīyasaḥ |

39.10३९.१०

कच्चिद् आश्वासि*राजंस्त्वया शरणम् आगतान् । (३९।१०)

kaccid āśvāsi*rājaṃstvayā śaraṇam āgatān |

39.11३९.११

देवादीन् भयसंत्रस्तान् अकार्पण्यधिया भृशम् ॥ (३९।११)

devādīn bhayasaṃtrastān akārpaṇyadhiyā bhṛśam ||

40.1४०.१

कच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः । (४०।१)

kaccit sarve 'nuraktāstvāṃ kulaputrāḥ pradhānataḥ |

40.2४०.२

कच्चित् प्राणांस्तवार्थेषु संत्यजन्ति सदा युधि ॥ (४०।२)

kaccit prāṇāṃstavārtheṣu saṃtyajanti sadā yudhi ||

41.1४१.१

कच्चिन्नैको बहून् अर्थान् सर्वशः सांपरायिकान् । (४१।१)

kaccinnaiko bahūn arthān sarvaśaḥ sāṃparāyikān |

41.2४१.२

अनुशास्सि यथाकामं कामात्मा शासनातिगः ॥ (४१।२)

anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ ||

42.1४२.१

कच्चित् पुरुषकारेण पुरुषः कर्म शोभयन् । (४२।१)

kaccit puruṣakāreṇa puruṣaḥ karma śobhayan |

42.2४२.२

लभते मानम् अधिकं भूयो वा भक्तवेतनम् ॥ (४२।२)

labhate mānam adhikaṃ bhūyo vā bhaktavetanam ||

43.1४३.१

कच्चिद् विद्याविनीतांश्च नराञ् ज्ञानविशारदान् । (४३।१)

kaccid vidyāvinītāṃśca narāñ jñānaviśāradān |

43.2४३.२

यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे ॥ (४३।२)

yathārhaṃ guṇataścaiva dānenābhyavapadyase ||

44.1४४.१

कच्चिद् दारान्मनुष्याणां तवार्थे मृत्युम् एयुषाम् । (४४।१)

kaccid dārānmanuṣyāṇāṃ tavārthe mṛtyum eyuṣām |

44.2४४.२

व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ ॥ (४४।२)

vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha ||

45.1४५.१

कच्चिद् भयाद् उपनतं क्लीबं वा रिपुम् आगतम् । (४५।१)

kaccid bhayād upanataṃ klībaṃ vā ripum āgatam |

45.2४५.२

युद्धे वा विजितं पार्थ पुत्रवत् परिरक्षसि ॥ (४५।२)

yuddhe vā vijitaṃ pārtha putravat parirakṣasi ||

46.1४६.१

कच्चित् त्वम् एव सर्वस्याः पृथिव्याः पृथिवीपते । (४६।१)

kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate |

46.2४६.२

समश्च नाभिशङ्क्यश्च यथा माता यथा पिता ॥ (४६।२)

samaśca nābhiśaṅkyaśca yathā mātā yathā pitā ||

47.1४७.१

कच्चिद् व्यसनिनं शत्रुं निशम्य भरतर्षभ । (४७।१)

kaccid vyasaninaṃ śatruṃ niśamya bharatarṣabha |

47.2४७.२

अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् । (४७।२)

abhiyāsi javenaiva samīkṣya trividhaṃ balam |

47.3४७.३

यात्राम् आरभसे दिष्ट्या प्राप्तकालम् अरिंदम ॥ (४७।३)

yātrām ārabhase diṣṭyā prāptakālam ariṃdama ||

48.1४८.१

पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् । (४८।१)

pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam |

48.2४८.२

बलस्य च महाराज दत्त्वा वेतनम् अग्रतः ॥ (४८।२)

balasya ca mahārāja dattvā vetanam agrataḥ ||

49.1४९.१

कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परंतप । (४९।१)

kaccicca balamukhyebhyaḥ pararāṣṭre paraṃtapa |

49.2४९.२

उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः ॥ (४९।२)

upacchannāni ratnāni prayacchasi yathārhataḥ ||

50.1५०.१

कच्चिद् आत्मानम् एवाग्रे विजित्य विजितेन्द्रियः । (५०।१)

kaccid ātmānam evāgre vijitya vijitendriyaḥ |

50.2५०.२

पराञ् जिगीषसे पार्थ प्रमत्तान् अजितेन्द्रियान् ॥ (५०।२)

parāñ jigīṣase pārtha pramattān ajitendriyān ||

51.1५१.१

कच्चित् ते यास्यतः शत्रून् पूर्वं यान्ति स्वनुष्ठिताः । (५१।१)

kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ |

51.2५१.२

साम दानं च भेदश्च दण्डश्च विधिवद् गुणाः ॥ (५१।२)

sāma dānaṃ ca bhedaśca daṇḍaśca vidhivad guṇāḥ ||

52.1५२.१

कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते । (५२।१)

kaccinmūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate |

52.2५२.२

तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि ॥ (५२।२)

tāṃśca vikramase jetuṃ jitvā ca parirakṣasi ||

53.1५३.१

कच्चिद् अष्टाङ्गसंयुक्ता चतुर्विधबला चमूः । (५३।१)

kaccid aṣṭāṅgasaṃyuktā caturvidhabalā camūḥ |

53.2५३.२

बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी ॥ (५३।२)

balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī ||

54.1५४.१

कच्चिल् लवं च मुष्टिं च परराष्ट्रे परंतप । (५४।१)

kaccil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa |

54.2५४.२

अविहाय महाराज विहंसि समरे रिपून् ॥ (५४।२)

avihāya mahārāja vihaṃsi samare ripūn ||

55.1५५.१

कच्चित् स्वपरराष्ट्रेषु बहवो ऽधिकृतास्तव । (५५।१)

kaccit svapararāṣṭreṣu bahavo 'dhikṛtāstava |

55.2५५.२

अर्थान् समनुतिष्ठन्ति रक्षन्ति च परस्परम् ॥ (५५।२)

arthān samanutiṣṭhanti rakṣanti ca parasparam ||

56.1५६.१

कच्चिद् अभ्यवहार्याणि गात्रसंस्पर्शकानि च । (५६।१)

kaccid abhyavahāryāṇi gātrasaṃsparśakāni ca |

56.2५६.२

घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव ॥ (५६।२)

ghreyāṇi ca mahārāja rakṣantyanumatāstava ||

57.1५७.१

कच्चित् कोशं च कोष्ठं च वाहनं द्वारम् आयुधम् । (५७।१)

kaccit kośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham |

57.2५७.२

आयश्च कृतकल्याणैस्तव भक्तैर् अनुष्ठितः ॥ (५७।२)

āyaśca kṛtakalyāṇaistava bhaktair anuṣṭhitaḥ ||

58.1५८.१

कच्चिद् आभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते । (५८।१)

kaccid ābhyantarebhyaśca bāhyebhyaśca viśāṃ pate |

58.2५८.२

रक्षस्यात्मानम् एवाग्रे तांश्च स्वेभ्यो मिथश्च तान् ॥ (५८।२)

rakṣasyātmānam evāgre tāṃśca svebhyo mithaśca tān ||

59.1५९.१

कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च । (५९।१)

kaccinna pāne dyūte vā krīḍāsu pramadāsu ca |

59.2५९.२

प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव ॥ (५९।२)

pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava ||

60.1६०.१

कच्चिद् आयस्य चार्धेन चतुर्भागेन वा पुनः । (६०।१)

kaccid āyasya cārdhena caturbhāgena vā punaḥ |

60.2६०.२

पादभागैस्त्रिभिर् वापि व्ययः संशोध्यते तव ॥ (६०।२)

pādabhāgaistribhir vāpi vyayaḥ saṃśodhyate tava ||

61.1६१.१

कच्चिज्ज्ञातीन् गुरून् वृद्धान् वणिजः शिल्पिनः श्रितान् । (६१।१)

kaccijjñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān |

61.2६१.२

अभीक्ष्णम् अनुगृह्णासि धनधान्येन दुर्गतान् ॥ (६१।२)

abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān ||

62.1६२.१

कच्चिद् आयव्यये युक्ताः सर्वे गणकलेखकाः । (६२।१)

kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ |

62.2६२.२

अनुतिष्ठन्ति पूर्वाह्णे नित्यम् आयव्ययं तव ॥ (६२।२)

anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava ||

63.1६३.१

कच्चिद् अर्थेषु संप्रौढान् हितकामान् अनुप्रियान् । (६३।१)

kaccid artheṣu saṃprauḍhān hitakāmān anupriyān |

63.2६३.२

नापकर्षसि कर्मभ्यः पूर्वम् अप्राप्य किल्बिषम् ॥ (६३।२)

nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam ||

64.1६४.१

कच्चिद् विदित्वा पुरुषान् उत्तमाधममध्यमान् । (६४।१)

kaccid viditvā puruṣān uttamādhamamadhyamān |

64.2६४.२

त्वं कर्मस्वनुरूपेषु नियोजयसि भारत ॥ (६४।२)

tvaṃ karmasvanurūpeṣu niyojayasi bhārata ||

65.1६५.१

कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशां पते । (६५।१)

kaccinna lubdhāścaurā vā vairiṇo vā viśāṃ pate |

65.2६५.२

अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः ॥ (६५।२)

aprāptavyavahārā vā tava karmasvanuṣṭhitāḥ ||

66.1६६.१

कच्चिन्न लुब्धैश्चौरैर् वा कुमारैः स्त्रीबलेन वा । (६६।१)

kaccinna lubdhaiścaurair vā kumāraiḥ strībalena vā |

66.2६६.२

त्वया वा पीड्यते राष्ट्रं कच्चित् पुष्टाः कृषीवलाः ॥ (६६।२)

tvayā vā pīḍyate rāṣṭraṃ kaccit puṣṭāḥ kṛṣīvalāḥ ||

67.1६७.१

कच्चिद् राष्ट्रे तडागानि पूर्णानि च महान्ति च । (६७।१)

kaccid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca |

67.2६७.२

भागशो विनिविष्टानि न कृषिर् देवमातृका ॥ (६७।२)

bhāgaśo viniviṣṭāni na kṛṣir devamātṛkā ||

68.1६८.१

कच्चिद् बीजं च भक्तं च कर्षकायावसीदते । (६८।१)

kaccid bījaṃ ca bhaktaṃ ca karṣakāyāvasīdate |

68.2६८.२

प्रतिकं च शतं वृद्ध्या ददास्य् ऋणम् अनुग्रहम् । (६८।२)

pratikaṃ ca śataṃ vṛddhyā dadāsy ṛṇam anugraham |

68.3६८.३

कच्चित् ते दयिताः सर्वे कृषिगोरक्षजीविनः ॥ (६८।३)

kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ ||

69.1६९.१

कच्चित् स्वनुष्ठिता तात वार्त्ता ते साधुभिर् जनैः । (६९।१)

kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ |

69.2६९.२

वार्त्तायां संश्रितस्तात लोको ऽयं सुखम् एधते ॥ (६९।२)

vārttāyāṃ saṃśritastāta loko 'yaṃ sukham edhate ||

70.1७०.१

कच्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः । (७०।१)

kaccicchucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ |

70.2७०.२

क्षेमं कुर्वन्ति संहत्य राजञ् जनपदे तव ॥ (७०।२)

kṣemaṃ kurvanti saṃhatya rājañ janapade tava ||

71.1७१.१

कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत् कृताः । (७१।१)

kaccinnagaraguptyarthaṃ grāmā nagaravat kṛtāḥ |

71.2७१.२

ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः ॥ (७१।२)

grāmavacca kṛtā rakṣā te ca sarve tadarpaṇāḥ ||

72.1७२.१

कच्चिद् बलेनानुगताः समानि विषमाणि च । (७२।१)

kaccid balenānugatāḥ samāni viṣamāṇi ca |

72.2७२.२

पुराणचौराः साध्यक्षाश्चरन्ति विषये तव ॥ (७२।२)

purāṇacaurāḥ sādhyakṣāścaranti viṣaye tava ||

73.1७३.१

कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताश्च सुरक्षिताः । (७३।१)

kaccit striyaḥ sāntvayasi kaccit tāśca surakṣitāḥ |

73.2७३.२

कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ (७३।२)

kaccinna śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase ||

74.1७४.१

कच्चिच्चारान्निशि श्रुत्वा तत् कार्यम् अनुचिन्त्य च । (७४।१)

kacciccārānniśi śrutvā tat kāryam anucintya ca |

74.2७४.२

प्रियाण्यनुभवञ् शेषे विदित्वाभ्यन्तरं जनम् ॥ (७४।२)

priyāṇyanubhavañ śeṣe viditvābhyantaraṃ janam ||

75.1७५.१

कच्चिद् द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते । (७५।१)

kaccid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate |

75.2७५.२

संचिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे ॥ (७५।२)

saṃcintayasi dharmārthau yāma utthāya paścime ||

76.1७६.१

कच्चिद् दर्शयसे नित्यं मनुष्यान् समलंकृतान् । (७६।१)

kaccid darśayase nityaṃ manuṣyān samalaṃkṛtān |

76.2७६.२

उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः ॥ (७६।२)

utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ ||

77.1७७.१

कच्चिद् रक्ताम्बरधराः खड्गहस्ताः स्वलंकृताः । (७७।१)

kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ |

77.2७७.२

अभितस्त्वाम् उपासन्ते रक्षणार्थम् अरिंदम ॥ (७७।२)

abhitastvām upāsante rakṣaṇārtham ariṃdama ||

78.1७८.१

कच्चिद् दण्ड्येषु यमवत् पूज्येषु च विशां पते । (७८।१)

kaccid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate |

78.2७८.२

परीक्ष्य वर्तसे सम्यग् अप्रियेषु प्रियेषु च ॥ (७८।२)

parīkṣya vartase samyag apriyeṣu priyeṣu ca ||

79.1७९.१

कच्चिच्छारीरम् आबाधम् औषधैर् नियमेन वा । (७९।१)

kaccicchārīram ābādham auṣadhair niyamena vā |

79.2७९.२

मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि ॥ (७९।२)

mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi ||

80.1८०.१

कच्चिद् वैद्याश्चिकित्सायाम् अष्टाङ्गायां विशारदाः । (८०।१)

kaccid vaidyāścikitsāyām aṣṭāṅgāyāṃ viśāradāḥ |

80.2८०.२

सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा ॥ (८०।२)

suhṛdaścānuraktāśca śarīre te hitāḥ sadā ||

81.1८१.१

कच्चिन्न मानान्मोहाद् वा कामाद् वापि विशां पते । (८१।१)

kaccinna mānānmohād vā kāmād vāpi viśāṃ pate |

81.2८१.२

अर्थिप्रत्यर्थिनः प्राप्तान् अपास्यसि कथंचन ॥ (८१।२)

arthipratyarthinaḥ prāptān apāsyasi kathaṃcana ||

82.1८२.१

कच्चिन्न लोभान्मोहाद् वा विश्रम्भात् प्रणयेन वा । (८२।१)

kaccinna lobhānmohād vā viśrambhāt praṇayena vā |

82.2८२.२

आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च । (८२।२)

āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca |

82.3८२.३

कच्चिद् अर्थेषु संप्रौढान् अर्थकर्मविचक्षणान् । (८२।३)

kaccid artheṣu saṃprauḍhān arthakarmavicakṣaṇān |

82.4८२.४

नापकर्षसि कर्मभ्यो ह्यर्थयुक्ता इतीव हि ॥ (८२।४)

nāpakarṣasi karmabhyo hyarthayuktā itīva hi ||

83.1८३.१

कच्चित् पौरा न सहिता ये च ते राष्ट्रवासिनः । (८३।१)

kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ |

83.2८३.२

त्वया सह विरुध्यन्ते परैः क्रीताः कथंचन ॥ (८३।२)

tvayā saha virudhyante paraiḥ krītāḥ kathaṃcana ||

84.1८४.१

कच्चित् ते दुर्बलः शत्रुर् बलेनोपनिपीडितः । (८४।१)

kaccit te durbalaḥ śatrur balenopanipīḍitaḥ |

84.2८४.२

मन्त्रेण बलवान् कश्चिद् उभाभ्यां वा युधिष्ठिर ॥ (८४।२)

mantreṇa balavān kaścid ubhābhyāṃ vā yudhiṣṭhira ||

85.1८५.१

कच्चित् सर्वे ऽनुरक्तास्त्वां भूमिपालाः प्रधानतः । (८५।१)

kaccit sarve 'nuraktāstvāṃ bhūmipālāḥ pradhānataḥ |

85.2८५.२

कच्चित् प्राणांस्त्वदर्थेषु संत्यजन्ति त्वया हृताः ॥ (८५।२)

kaccit prāṇāṃstvadartheṣu saṃtyajanti tvayā hṛtāḥ ||

86.1८६.१

कच्चित् ते सर्वविद्यासु गुणतो ऽर्चा प्रवर्तते । (८६।१)

kaccit te sarvavidyāsu guṇato 'rcā pravartate |

86.2८६.२

ब्राह्मणानां च साधूनां तव निःश्रेयसे शुभा । (८६।२)

brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā |

86.3८६.३

दक्षिणास्त्वं ददास्येषां नित्यं स्वर्गापवर्गदाः ॥ (८६।३)

dakṣiṇāstvaṃ dadāsyeṣāṃ nityaṃ svargāpavargadāḥ ||

87.1८७.१

कच्चिद् धर्मे त्रयीमूले पूर्वैर् आचरिते जनैः । (८७।१)

kaccid dharme trayīmūle pūrvair ācarite janaiḥ |

87.2८७.२

वर्तमानस्तथा कर्तुं तस्मिन् कर्मणि वर्तसे ॥ (८७।२)

vartamānastathā kartuṃ tasmin karmaṇi vartase ||

88.1८८.१

कच्चित् तव गृहे ऽन्नानि स्वादून्यश्नन्ति वै द्विजाः । (८८।१)

kaccit tava gṛhe 'nnāni svādūnyaśnanti vai dvijāḥ |

88.2८८.२

गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् ॥ (८८।२)

guṇavanti guṇopetāstavādhyakṣaṃ sadakṣiṇam ||

89.1८९.१

कच्चित् क्रतून् एकचित्तो वाजपेयांश्च सर्वशः । (८९।१)

kaccit kratūn ekacitto vājapeyāṃśca sarvaśaḥ |

89.2८९.२

पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुम् आत्मवान् ॥ (८९।२)

puṇḍarīkāṃśca kārtsnyena yatase kartum ātmavān ||

90.1९०.१

कच्चिज्ज्ञातीन् गुरून् वृद्धान् दैवतांस्तापसान् अपि । (९०।१)

kaccijjñātīn gurūn vṛddhān daivatāṃstāpasān api |

90.2९०.२

चैत्यांश्च वृक्षान् कल्याणान् ब्राह्मणांश्च नमस्यसि । (९०।२)

caityāṃśca vṛkṣān kalyāṇān brāhmaṇāṃśca namasyasi |

90.3९०.३

कच्चिच्छोको न मन्युर् वा त्वया प्रोत्पाद्यते ऽनघ । (९०।३)

kaccicchoko na manyur vā tvayā protpādyate 'nagha |

90.4९०.४

अपि मङ्गलहस्तश्च जनः पार्श्वे ऽनुतिष्ठति ॥ (९०।४)

api maṅgalahastaśca janaḥ pārśve 'nutiṣṭhati ||

91.1९१.१

कच्चिद् एषा च ते बुद्धिर् वृत्तिर् एषा च ते ऽनघ । (९१।१)

kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha |

91.2९१.२

आयुष्या च यशस्या च धर्मकामार्थदर्शिनी ॥ (९१।२)

āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī ||

92.1९२.१

एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति । (९२।१)

etayā vartamānasya buddhyā rāṣṭraṃ na sīdati |

92.2९२.२

विजित्य च महीं राजा सो ऽत्यन्तं सुखम् एधते ॥ (९२।२)

vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate ||

93.1९३.१

कच्चिद् आर्यो विशुद्धात्मा क्षारितश्चौरकर्मणि । (९३।१)

kaccid āryo viśuddhātmā kṣāritaścaurakarmaṇi |

93.2९३.२

अदृष्टशास्त्रकुशलैर् न लोभाद् वध्यते शुचिः ॥ (९३।२)

adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ ||

94.1९४.१

पृष्टो गृहीतस्तत्कारी तज्ज्ञैर् दृष्टः सकारणः । (९४।१)

pṛṣṭo gṛhītastatkārī tajjñair dṛṣṭaḥ sakāraṇaḥ |

94.2९४.२

कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ ॥ (९४।२)

kaccinna mucyate steno dravyalobhānnararṣabha ||

95.1९५.१

व्युत्पन्ने कच्चिद् आढ्यस्य दरिद्रस्य च भारत । (९५।१)

vyutpanne kaccid āḍhyasya daridrasya ca bhārata |

95.2९५.२

अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ॥ (९५।२)

arthānna mithyā paśyanti tavāmātyā hṛtā dhanaiḥ ||

96.1९६.१

नास्तिक्यम् अनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । (९६।१)

nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām |

96.2९६.२

अदर्शनं ज्ञानवताम् आलस्यं क्षिप्तचित्तताम् ॥ (९६।२)

adarśanaṃ jñānavatām ālasyaṃ kṣiptacittatām ||

97.1९७.१

एकचिन्तनम् अर्थानाम् अनर्थज्ञैश्च चिन्तनम् । (९७।१)

ekacintanam arthānām anarthajñaiśca cintanam |

97.2९७.२

निश्चितानाम् अनारम्भं मन्त्रस्यापरिरक्षणम् ॥ (९७।२)

niścitānām anārambhaṃ mantrasyāparirakṣaṇam ||

98.1९८.१

मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च । (९८।१)

maṅgalyasyāprayogaṃ ca prasaṅgaṃ viṣayeṣu ca |

98.2९८.२

कच्चित् त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश । (९८।२)

kaccit tvaṃ varjayasyetān rājadoṣāṃścaturdaśa |

98.3९८.३

प्रायशो यैर् विनश्यन्ति कृतमूलापि पार्थिवाः ॥ (९८।३)

prāyaśo yair vinaśyanti kṛtamūlāpi pārthivāḥ ||

99.1९९.१

कच्चित् ते सफला वेदाः कच्चित् ते सफलं धनम् । (९९।१)

kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam |

99.2९९.२

कच्चित् ते सफला दाराः कच्चित् ते सफलं श्रुतम् ॥ (९९।२)

kaccit te saphalā dārāḥ kaccit te saphalaṃ śrutam ||

100.1१००.१

युधिष्ठिर उवाच । (१००।१)

yudhiṣṭhira uvāca

100.2१००.२

कथं वै सफला वेदाः कथं वै सफलं धनम् । (१००।२)

kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam |

100.3१००.३

कथं वै सफला दाराः कथं वै सफलं श्रुतम् । (१००।३)

kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam |

100.4१००.४

इत्येवं भाषितो राज्ञा सर्वशास्त्रार्थतत्त्ववित् । (१००।४)

ityevaṃ bhāṣito rājñā sarvaśāstrārthatattvavit |

100.5१००.५

धर्मराजं महात्मानं पुनर् आह च तत्त्वतः ॥ (१००।५)

dharmarājaṃ mahātmānaṃ punar āha ca tattvataḥ ||

101.1१०१.१

नारद उवाच । (१०१।१)

nārada uvāca

101.2१०१.२

अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । (१०१।२)

agnihotraphalā vedā dattabhuktaphalaṃ dhanam |

101.3१०१.३

रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ (१०१।३)

ratiputraphalā dārāḥ śīlavṛttaphalaṃ śrutam ||

102.1१०२.१

वैशंपायन उवाच । (१०२।१)

vaiśaṃpāyana uvāca

102.2१०२.२

एतद् आख्याय स मुनिर् नारदः सुमहातपाः । (१०२।२)

etad ākhyāya sa munir nāradaḥ sumahātapāḥ |

102.3१०२.३

पप्रच्छानन्तरम् इदं धर्मात्मानं युधिष्ठिरम् ॥ (१०२।३)

papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram ||

103.1१०३.१

नारद उवाच । (१०३।१)

nārada uvāca

103.2१०३.२

कच्चिद् अभ्यागता दूराद् वणिजो लाभकारणात् । (१०३।२)

kaccid abhyāgatā dūrād vaṇijo lābhakāraṇāt |

103.3१०३.३

यथोक्तम् अवहार्यन्ते शुल्कं शुल्कोपजीविभिः ॥ (१०३।३)

yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ ||

104.1१०४.१

कच्चित् ते पुरुषा राजन् पुरे राष्ट्रे च मानिताः । (१०४।१)

kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ |

104.2१०४.२

उपानयन्ति पण्यानि उपधाभिर् अवञ्चिताः ॥ (१०४।२)

upānayanti paṇyāni upadhābhir avañcitāḥ ||

105.1१०५.१

कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः । (१०५।१)

kaccicchṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ |

105.2१०५.२

नित्यम् अर्थविदां तात तथा धर्मानुदर्शिनाम् ॥ (१०५।२)

nityam arthavidāṃ tāta tathā dharmānudarśinām ||

106.1१०६.१

कच्चित् ते कृषितन्त्रेषु गोषु पुष्पफलेषु च । (१०६।१)

kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca |

106.2१०६.२

नियुक्ताः कुशलास्तेषु विभागज्ञाः कुलोचिताः । (१०६।२)

niyuktāḥ kuśalāsteṣu vibhāgajñāḥ kulocitāḥ |

106.3१०६.३

धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी ॥ (१०६।३)

dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī ||

107.1१०७.१

द्रव्योपकरणं कच्चित् सर्वदा सर्वशिल्पिनाम् । (१०७।१)

dravyopakaraṇaṃ kaccit sarvadā sarvaśilpinām |

107.2१०७.२

चातुर्मास्यावरं सम्यङ् नियतं सम्प्रयच्छसि ॥ (१०७।२)

cāturmāsyāvaraṃ samyaṅ niyataṃ samprayacchasi ||

108.1१०८.१

कच्चित् कृतं विजानीषे कर्तारं च प्रशंससि । (१०८।१)

kaccit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi |

108.2१०८.२

सतां मध्ये महाराज सत्करोषि च पूजयन् ॥ (१०८।२)

satāṃ madhye mahārāja satkaroṣi ca pūjayan ||

109.1१०९.१

कच्चित् सूत्राणि सर्वाणि गृह्णासि भरतर्षभ । (१०९।१)

kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha |

109.2१०९.२

हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो ॥ (१०९।२)

hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho ||

110.1११०.१

कच्चिद् अभ्यस्यते शश्वद् गृहे ते भरतर्षभ । (११०।१)

kaccid abhyasyate śaśvad gṛhe te bharatarṣabha |

110.2११०.२

धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम् ॥ (११०।२)

dhanurvedasya sūtraṃ ca yantrasūtraṃ ca nāgaram ||

111.1१११.१

कच्चिद् अस्त्राणि सर्वाणि ब्रह्मदण्डश्च ते ऽनघ । (१११।१)

kaccid astrāṇi sarvāṇi brahmadaṇḍaśca te 'nagha |

111.2१११.२

विषयोगाश्च ते सर्वे विदिताः शत्रुनाशनाः ॥ (१११।२)

viṣayogāśca te sarve viditāḥ śatrunāśanāḥ ||

112.1११२.१

कच्चिद् अग्निभयाच्चैव सर्पव्यालभयात् तथा । (११२।१)

kaccid agnibhayāccaiva sarpavyālabhayāt tathā |

112.2११२.२

रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि ॥ (११२।२)

rogarakṣobhayāccaiva rāṣṭraṃ svaṃ parirakṣasi ||

113.1११३.१

कच्चिद् अन्धांश्च मूकांश्च पङ्गून् व्यङ्गान् अबान्धवान् । (११३।१)

kaccid andhāṃśca mūkāṃśca paṅgūn vyaṅgān abāndhavān |

113.2११३.२

पितेव पासि धर्मज्ञ तथा प्रव्रजितान् अपि । (११३।२)

piteva pāsi dharmajña tathā pravrajitān api |

113.3११३.३

षडनर्था महाराज कच्चित् ते पृष्ठतः कृताः । (११३।३)

ṣaḍanarthā mahārāja kaccit te pṛṣṭhataḥ kṛtāḥ |

113.4११३.४

निद्रालस्यं भयं क्रोधो मार्दवं दीर्घसूत्रता ॥ (११३।४)

nidrālasyaṃ bhayaṃ krodho mārdavaṃ dīrghasūtratā ||

114.1११४.१

वैशंपायन उवाच । (११४।१)

vaiśaṃpāyana uvāca

114.2११४.२

एताः कुरूणाम् ऋषभो महात्मा श्रुत्वा गिरो ब्राह्मणसत्तमस्य । (११४।२)

etāḥ kurūṇām ṛṣabho mahātmā śrutvā giro brāhmaṇasattamasya |

114.3११४.३

प्रणम्य पादावभिवाद्य हृष्टो राजाब्रवीन्नारदं देवरूपम् ॥ (११४।३)

praṇamya pādāvabhivādya hṛṣṭo rājābravīnnāradaṃ devarūpam ||

115.1११५.१

एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मे भूय एवाभिवृद्धा । (११५।१)

evaṃ kariṣyāmi yathā tvayoktaṃ prajñā hi me bhūya evābhivṛddhā |

115.2११५.२

उक्त्वा तथा चैव चकार राजा लेभे महीं सागरमेखलां च ॥ (११५।२)

uktvā tathā caiva cakāra rājā lebhe mahīṃ sāgaramekhalāṃ ca ||

116.1११६.१

नारद उवाच । (११६।१)

nārada uvāca

116.2११६.२

एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे । (११६।२)

evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe |

116.3११६.३

स विहृत्येह सुसुखी शक्रस्यैति सलोकताम् ॥ (११६।३)

sa vihṛtyeha susukhī śakrasyaiti salokatām ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 2, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit