MBh, 3, 84
Select a line for its word-by-word analysis.
पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ॥ (१।३)
pitāmahasamaṃ dhaumyaṃ prāha rājā yudhiṣṭhiraḥ ||
मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः । (२।१)
mayā sa puruṣavyāghro jiṣṇuḥ satyaparākramaḥ |
कृती च भृशम् अप्यस्त्रे वासुदेव इव प्रभुः ॥ (३।२)
kṛtī ca bhṛśam apyastre vāsudeva iva prabhuḥ ||
अहं ह्येतावुभौ ब्रह्मन् कृष्णावरिनिघातिनौ । (४।१)
ahaṃ hyetāvubhau brahman kṛṣṇāvarinighātinau |
अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् । (४।२)
abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān |
शक्तो ऽयम् इत्यतो मत्वा मया संप्रेषितो ऽर्जुनः । (६।१)
śakto 'yam ityato matvā mayā saṃpreṣito 'rjunaḥ |
द्रष्टुम् अस्त्राणि चादातुम् इन्द्राद् इति विवासितः ॥ (६।३)
draṣṭum astrāṇi cādātum indrād iti vivāsitaḥ ||
भीष्मद्रोणावतिरथौ कृपो द्रौणिश् च दुर्जयः । (७।१)
bhīṣmadroṇāvatirathau kṛpo drauṇiś ca durjayaḥ |
सर्वे वेदविदः शूराः सर्वे ऽस्त्रकुशलास् तथा ॥ (७।३)
sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā ||
स च दिव्यास्त्रवित् कर्णः सूतपुत्रो महारथः ॥ (८।२)
sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ ||
रजोधूमो ऽस्त्रसंतापो धार्तराष्ट्रानिलोद्धतः ॥ (९।२)
rajodhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ ||
मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ॥ (१०।२)
mama sainyamayaṃ kakṣaṃ pradhakṣyati na saṃśayaḥ ||
तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान् । (११।१)
taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān |
श्वेतवाजिबलाकाभृद् गाण्डीवेन्द्रायुधोज्ज्वलः ॥ (११।२)
śvetavājibalākābhṛd gāṇḍīvendrāyudhojjvalaḥ ||
उदीर्णो ऽर्जुनमेघो ऽयं शमयिष्यति संयुगे ॥ (१२।२)
udīrṇo 'rjunamegho 'yaṃ śamayiṣyati saṃyuge ||
स साक्षाद् एव सर्वाणि शक्रात् परपुरंजयः । (१३।१)
sa sākṣād eva sarvāṇi śakrāt parapuraṃjayaḥ |
दिव्यान्यस्त्राणि बीभत्सुस् तत्त्वतः प्रतिपत्स्यते ॥ (१३।२)
divyānyastrāṇi bībhatsus tattvataḥ pratipatsyate ||
अलं स तेषां सर्वेषाम् इति मे धीयते मतिः । (१४।१)
alaṃ sa teṣāṃ sarveṣām iti me dhīyate matiḥ |
नास्ति त्वतिक्रिया तस्य रणे ऽरीणां प्रतिक्रिया ॥ (१४।२)
nāsti tvatikriyā tasya raṇe 'rīṇāṃ pratikriyā ||
तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम् । (१५।१)
taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam |
द्रष्टारो न हि बीभत्सुर् भारम् उद्यम्य सीदति ॥ (१५।२)
draṣṭāro na hi bībhatsur bhāram udyamya sīdati ||
वयं तु तम् ऋते वीरं वने ऽस्मिन् द्विपदां वर । (१६।१)
vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara |
भवान् अन्यद् वनं साधु बह्वन्नं फलवच्छुचि । (१७।१)
bhavān anyad vanaṃ sādhu bahvannaṃ phalavacchuci |
यत्र कंचिद् वयं कालं वसन्तः सत्यविक्रमम् । (१८।१)
yatra kaṃcid vayaṃ kālaṃ vasantaḥ satyavikramam |
प्रतीक्षामो ऽर्जुनं वीरं वर्षकामा इवाम्बुदम् ॥ (१८।२)
pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam ||
विविधान् आश्रमान् कांश्चिद् द्विजातिभ्यः परिश्रुतान् । (१९।१)
vividhān āśramān kāṃścid dvijātibhyaḥ pariśrutān |
सरांसि सरितश् चैव रमणीयांश्च पर्वतान् ॥ (१९।२)
sarāṃsi saritaś caiva ramaṇīyāṃśca parvatān ||
आचक्ष्व न हि नो ब्रह्मन् रोचते तम् ऋते ऽर्जुनम् । (२०।१)
ācakṣva na hi no brahman rocate tam ṛte 'rjunam |
वने ऽस्मिन् काम्यके वासो गच्छामो ऽन्यां दिशं प्रति ॥ (२०।२)
vane 'smin kāmyake vāso gacchāmo 'nyāṃ diśaṃ prati ||
Data courtesy of The Digital Corpus of Sanskrit.