MBh, 1, 19
Select a line for its word-by-word analysis.
ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ । (१।२)
tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau |
जग्मतुस्तुरगं द्रष्टुम् उच्चैःश्रवसम् अन्तिकात् ॥ (२।३)
jagmatusturagaṃ draṣṭum uccaiḥśravasam antikāt ||
ददृशाते तदा तत्र समुद्रं निधिम् अम्भसाम् । (३।१)
dadṛśāte tadā tatra samudraṃ nidhim ambhasām |
सत्त्वैश्च बहुसाहस्रैर् नानारूपैः समावृतम् । (४।१)
sattvaiśca bahusāhasrair nānārūpaiḥ samāvṛtam |
भीषणैर् विकृतैर् अन्यैर् घोरैर् जलचरैस्तथा । (४।२)
bhīṣaṇair vikṛtair anyair ghorair jalacaraistathā |
उग्रैर् नित्यम् अनाधृष्यं कूर्मग्राहसमाकुलम् ॥ (४।३)
ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam ||
नागानाम् आलयं रम्यम् उत्तमं सरितां पतिम् ॥ (५।२)
nāgānām ālayaṃ ramyam uttamaṃ saritāṃ patim ||
भयंकरं च सत्त्वानां पयसां निधिम् अर्णवम् ॥ (६।२)
bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam ||
शुभं दिव्यम् अमर्त्यानाम् अमृतस्याकरं परम् । (७।१)
śubhaṃ divyam amartyānām amṛtasyākaraṃ param |
अप्रमेयम् अचिन्त्यं च सुपुण्यजलम् अद्भुतम् ॥ (७।२)
aprameyam acintyaṃ ca supuṇyajalam adbhutam ||
वीचीहस्तैः प्रचलितैर् नृत्यन्तम् इव सर्वशः ॥ (९।२)
vīcīhastaiḥ pracalitair nṛtyantam iva sarvaśaḥ ||
चन्द्रवृद्धिक्षयवशाद् उद्वृत्तोर्मिदुरासदम् । (१०।१)
candravṛddhikṣayavaśād udvṛttormidurāsadam |
ब्रह्मर्षिणा च तपता वर्षाणां शतम् अत्रिणा । (१२।१)
brahmarṣiṇā ca tapatā varṣāṇāṃ śatam atriṇā |
अगाधपारं विस्तीर्णम् अप्रमेयं सरित्पतिम् ॥ (१४।२)
agādhapāraṃ vistīrṇam aprameyaṃ saritpatim ||
महानदीभिर् बह्वीभिः स्पर्धयेव सहस्रशः । (१५।१)
mahānadībhir bahvībhiḥ spardhayeva sahasraśaḥ |
आपूर्यमाणम् अत्यर्थं नृत्यमानम् इवोर्मिभिः ॥ (१५।३)
āpūryamāṇam atyarthaṃ nṛtyamānam ivormibhiḥ ||
गम्भीरं तिमिमकरोग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः । (१६।१)
gambhīraṃ timimakarograsaṃkulaṃ taṃ garjantaṃ jalacararāvaraudranādaiḥ |
विस्तीर्णं ददृशतुर् अम्बरप्रकाशं ते ऽगाधं निधिम् उरुम् अम्भसाम् अनन्तम् ॥ (१६।२)
vistīrṇaṃ dadṛśatur ambaraprakāśaṃ te 'gādhaṃ nidhim urum ambhasām anantam ||
इत्येवं झषमकरोर्मिसंकुलं तं गम्भीरं विकसितम् अम्बरप्रकाशम् । (१७।१)
ityevaṃ jhaṣamakarormisaṃkulaṃ taṃ gambhīraṃ vikasitam ambaraprakāśam |
पातालज्वलनशिखाविदीपितं तं पश्यन्त्यौ द्रुतम् अभिपेततुस्तदानीम् । (१७।२)
pātālajvalanaśikhāvidīpitaṃ taṃ paśyantyau drutam abhipetatustadānīm |
ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम । (१७।४)
tataste paṇitaṃ kṛtvā bhaginyau dvijasattama |
आलोकयन्त्यावक्षोभ्यं समुद्रं निधिम् अम्भसाम् । (१७।७)
ālokayantyāvakṣobhyaṃ samudraṃ nidhim ambhasām |
संयुतं बहुसाहस्रैः सत्त्वैर् नानाविधैर् अपि । (१७।१०)
saṃyutaṃ bahusāhasraiḥ sattvair nānāvidhair api |
घोरैर् घोरम् अनाधृष्यं गम्भीरम् अतिभैरवम् । (१७।११)
ghorair ghoram anādhṛṣyaṃ gambhīram atibhairavam |
नागानाम् आलयं चापि सुरम्यं सरितां पतिम् । (१७।१३)
nāgānām ālayaṃ cāpi suramyaṃ saritāṃ patim |
भयंकराणां सत्त्वानां पयसो निधिम् अव्ययम् । (१७।१५)
bhayaṃkarāṇāṃ sattvānāṃ payaso nidhim avyayam |
शुभं दिव्यम् अमर्त्यानाम् अमृतस्याकरं परम् । (१७।१६)
śubhaṃ divyam amartyānām amṛtasyākaraṃ param |
अप्रमेयम् अचिन्त्यं च सुपुण्यजलसंमितम् । (१७।१७)
aprameyam acintyaṃ ca supuṇyajalasaṃmitam |
महानदीभिर् बह्वीभिस् तत्र तत्र सहस्रशः । (१७।१८)
mahānadībhir bahvībhis tatra tatra sahasraśaḥ |
आपूर्यमाणम् अत्यर्थं नृत्यन्तम् इव चोर्मिभिः ॥ (१७।१९)
āpūryamāṇam atyarthaṃ nṛtyantam iva cormibhiḥ ||
Data courtesy of The Digital Corpus of Sanskrit.