महाभारतMahābhārata

MBh, 12, 192

1520 of 1995 · 312 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

कालमृत्युयमानां च ब्राह्मणस्य च सत्तम । (१।२)

kālamṛtyuyamānāṃ ca brāhmaṇasya ca sattama |

1.3१.३

विवादो व्याहृतः पूर्वं तद् भवान् वक्तुम् अर्हति ॥ (१।३)

vivādo vyāhṛtaḥ pūrvaṃ tad bhavān vaktum arhati ||

2.1२.१

भीष्म उवाच । (२।१)

bhīṣma uvāca

2.2२.२

अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् । (२।२)

atrāpyudāharantīmam itihāsaṃ purātanam |

2.3२.३

इक्ष्वाकोः सूर्यपुत्रस्य यद् वृत्तं ब्राह्मणस्य च ॥ (२।३)

ikṣvākoḥ sūryaputrasya yad vṛttaṃ brāhmaṇasya ca ||

3.1३.१

कालस्य मृत्योश्च तथा यद् वृत्तं तन्निबोध मे । (३।१)

kālasya mṛtyośca tathā yad vṛttaṃ tannibodha me |

3.2३.२

यथा स तेषां संवादो यस्मिन् स्थाने ऽपि चाभवत् ॥ (३।२)

yathā sa teṣāṃ saṃvādo yasmin sthāne 'pi cābhavat ||

4.1४.१

ब्राह्मणो जापकः कश्चिद् धर्मवृत्तो महायशाः । (४।१)

brāhmaṇo jāpakaḥ kaścid dharmavṛtto mahāyaśāḥ |

4.2४.२

षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः ॥ (४।२)

ṣaḍaṅgavinmahāprājñaḥ paippalādiḥ sa kauśikaḥ ||

5.1५.१

तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च । (५।१)

tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu tathaiva ca |

5.2५.२

वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः ॥ (५।२)

vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ ||

6.1६.१

सो ऽन्त्यं ब्राह्मं तपस्तेपे संहितां संयतो जपन् । (६।१)

so 'ntyaṃ brāhmaṃ tapastepe saṃhitāṃ saṃyato japan |

6.2६.२

तस्य वर्षसहस्रं तु नियमेन तथा गतम् ॥ (६।२)

tasya varṣasahasraṃ tu niyamena tathā gatam ||

7.1७.१

स देव्या दर्शितः साक्षात् प्रीतास्मीति तदा किल । (७।१)

sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila |

7.2७.२

जप्यम् आवर्तयंस्तूष्णीं न च तां किंचिद् अब्रवीत् ॥ (७।२)

japyam āvartayaṃstūṣṇīṃ na ca tāṃ kiṃcid abravīt ||

8.1८.१

तस्यानुकम्पया देवी प्रीता समभवत् तदा । (८।१)

tasyānukampayā devī prītā samabhavat tadā |

8.2८.२

वेदमाता ततस्तस्य तज्जप्यं समपूजयत् ॥ (८।२)

vedamātā tatastasya tajjapyaṃ samapūjayat ||

9.1९.१

समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तथा । (९।१)

samāptajapyastūtthāya śirasā pādayostathā |

9.2९.२

पपात देव्या धर्मात्मा वचनं चेदम् अब्रवीत् ॥ (९।२)

papāta devyā dharmātmā vacanaṃ cedam abravīt ||

10.1१०.१

दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम । (१०।१)

diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama |

10.2१०.२

यदि वापि प्रसन्नासि जप्ये मे रमतां मनः ॥ (१०।२)

yadi vāpi prasannāsi japye me ramatāṃ manaḥ ||

11.1११.१

सावित्र्युवाच । (११।१)

sāvitryuvāca |

11.2११.२

किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते । (११।२)

kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te |

11.3११.३

प्रब्रूहि जपतां श्रेष्ठ सर्वं तत् ते भविष्यति ॥ (११।३)

prabrūhi japatāṃ śreṣṭha sarvaṃ tat te bhaviṣyati ||

12.1१२.१

भीष्म उवाच । (१२।१)

bhīṣma uvāca

12.2१२.२

इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् । (१२।२)

ityuktaḥ sa tadā devyā vipraḥ provāca dharmavit |

12.3१२.३

जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः ॥ (१२।३)

japyaṃ prati mameccheyaṃ vardhatviti punaḥ punaḥ ||

13.1१३.१

मनसश्च समाधिर् मे वर्धेताहर् अहः शुभे । (१३।१)

manasaśca samādhir me vardhetāhar ahaḥ śubhe |

13.2१३.२

तत् तथेति ततो देवी मधुरं प्रत्यभाषत ॥ (१३।२)

tat tatheti tato devī madhuraṃ pratyabhāṣata ||

14.1१४.१

इदं चैवापरं प्राह देवी तत्प्रियकाम्यया । (१४।१)

idaṃ caivāparaṃ prāha devī tatpriyakāmyayā |

14.2१४.२

निरयं नैव यातासि यत्र याता द्विजर्षभाः ॥ (१४।२)

nirayaṃ naiva yātāsi yatra yātā dvijarṣabhāḥ ||

15.1१५.१

यास्यसि ब्रह्मणः स्थानम् अनिमित्तम् अनिन्दितम् । (१५।१)

yāsyasi brahmaṇaḥ sthānam animittam aninditam |

15.2१५.२

साधये भविता चैतद् यत् त्वयाहम् इहार्थिता ॥ (१५।२)

sādhaye bhavitā caitad yat tvayāham ihārthitā ||

16.1१६.१

नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति । (१६।१)

niyato japa caikāgro dharmastvāṃ samupaiṣyati |

16.2१६.२

कालो मृत्युर् यमश्चैव समायास्यन्ति ते ऽन्तिकम् । (१६।२)

kālo mṛtyur yamaścaiva samāyāsyanti te 'ntikam |

16.3१६.३

भविता च विवादो ऽत्र तव तेषां च धर्मतः ॥ (१६।३)

bhavitā ca vivādo 'tra tava teṣāṃ ca dharmataḥ ||

17.1१७.१

एवम् उक्त्वा भगवती जगाम भवनं स्वकम् । (१७।१)

evam uktvā bhagavatī jagāma bhavanaṃ svakam |

17.2१७.२

ब्राह्मणो ऽपि जपन्न् आस्ते दिव्यं वर्षशतं तदा ॥ (१७।२)

brāhmaṇo 'pi japann āste divyaṃ varṣaśataṃ tadā ||

18.1१८.१

समाप्ते नियमे तस्मिन् अथ विप्रस्य धीमतः । (१८।१)

samāpte niyame tasmin atha viprasya dhīmataḥ |

18.2१८.२

साक्षात् प्रीतस्तदा धर्मो दर्शयामास तं द्विजम् ॥ (१८।२)

sākṣāt prītastadā dharmo darśayāmāsa taṃ dvijam ||

19.1१९.१

धर्म उवाच । (१९।१)

dharma uvāca

19.2१९.२

द्विजाते पश्य मां धर्मम् अहं त्वां द्रष्टुम् आगतः । (१९।२)

dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ |

19.3१९.३

जप्यस्य च फलं यत् ते सम्प्राप्तं तच्च मे शृणु ॥ (१९।३)

japyasya ca phalaṃ yat te samprāptaṃ tacca me śṛṇu ||

20.1२०.१

जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः । (२०।१)

jitā lokāstvayā sarve ye divyā ye ca mānuṣāḥ |

20.2२०.२

देवानां निरयान् साधो सर्वान् उत्क्रम्य यास्यसि ॥ (२०।२)

devānāṃ nirayān sādho sarvān utkramya yāsyasi ||

21.1२१.१

प्राणत्यागं कुरु मुने गच्छ लोकान् यथेप्सितान् । (२१।१)

prāṇatyāgaṃ kuru mune gaccha lokān yathepsitān |

21.2२१.२

त्यक्त्वात्मनः शरीरं च ततो लोकान् अवाप्स्यसि ॥ (२१।२)

tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi ||

22.1२२.१

ब्राह्मण उवाच । (२२।१)

brāhmaṇa uvāca

22.2२२.२

कृतं लोकैर् हि मे धर्म गच्छ च त्वं यथासुखम् । (२२।२)

kṛtaṃ lokair hi me dharma gaccha ca tvaṃ yathāsukham |

22.3२२.३

बहुदुःखसुखं देहं नोत्सृजेयम् अहं विभो ॥ (२२।३)

bahuduḥkhasukhaṃ dehaṃ notsṛjeyam ahaṃ vibho ||

23.1२३.१

धर्म उवाच । (२३।१)

dharma uvāca

23.2२३.२

अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुंगव । (२३।२)

avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṃgava |

23.3२३.३

स्वर्ग आरोह्यतां विप्र किं वा ते रोचते ऽनघ ॥ (२३।३)

svarga ārohyatāṃ vipra kiṃ vā te rocate 'nagha ||

24.1२४.१

ब्राह्मण उवाच । (२४।१)

brāhmaṇa uvāca

24.2२४.२

न रोचये स्वर्गवासं विना देहाद् अहं विभो । (२४।२)

na rocaye svargavāsaṃ vinā dehād ahaṃ vibho |

24.3२४.३

गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना ॥ (२४।३)

gaccha dharma na me śraddhā svargaṃ gantuṃ vinātmanā ||

25.1२५.१

धर्म उवाच । (२५।१)

dharma uvāca

25.2२५.२

अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव । (२५।२)

alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava |

25.3२५.३

गच्छ लोकान् अरजसो यत्र गत्वा न शोचसि ॥ (२५।३)

gaccha lokān arajaso yatra gatvā na śocasi ||

26.1२६.१

ब्राह्मण उवाच । (२६।१)

brāhmaṇa uvāca

26.2२६.२

रमे जपन्महाभाग कृतं लोकैः सनातनैः । (२६।२)

rame japanmahābhāga kṛtaṃ lokaiḥ sanātanaiḥ |

26.3२६.३

सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो ॥ (२६।३)

saśarīreṇa gantavyo mayā svargo na vā vibho ||

27.1२७.१

धर्म उवाच । (२७।१)

dharma uvāca

27.2२७.२

यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज । (२७।२)

yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija |

27.3२७.३

एष कालस्तथा मृत्युर् यमश्च त्वाम् उपागताः ॥ (२७।३)

eṣa kālastathā mṛtyur yamaśca tvām upāgatāḥ ||

28.1२८.१

भीष्म उवाच । (२८।१)

bhīṣma uvāca

28.2२८.२

अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो । (२८।२)

atha vaivasvataḥ kālo mṛtyuśca tritayaṃ vibho |

28.3२८.३

ब्राह्मणं तं महाभागम् उपागम्येदम् अब्रुवन् ॥ (२८।३)

brāhmaṇaṃ taṃ mahābhāgam upāgamyedam abruvan ||

29.1२९.१

तपसो ऽस्य सुतप्तस्य तथा सुचरितस्य च । (२९।१)

tapaso 'sya sutaptasya tathā sucaritasya ca |

29.2२९.२

फलप्राप्तिस्तव श्रेष्ठा यमो ऽहं त्वाम् उपब्रुवे ॥ (२९।२)

phalaprāptistava śreṣṭhā yamo 'haṃ tvām upabruve ||

30.1३०.१

यथावद् अस्य जप्यस्य फलं प्राप्तस्त्वम् उत्तमम् । (३०।१)

yathāvad asya japyasya phalaṃ prāptastvam uttamam |

30.2३०.२

कालस्ते स्वर्गम् आरोढुं कालो ऽहं त्वाम् उपागतः ॥ (३०।२)

kālaste svargam āroḍhuṃ kālo 'haṃ tvām upāgataḥ ||

31.1३१.१

मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वयम् आगतम् । (३१।१)

mṛtyuṃ mā viddhi dharmajña rūpiṇaṃ svayam āgatam |

31.2३१.२

कालेन चोदितं विप्र त्वाम् इतो नेतुम् अद्य वै ॥ (३१।२)

kālena coditaṃ vipra tvām ito netum adya vai ||

32.1३२.१

ब्राह्मण उवाच । (३२।१)

brāhmaṇa uvāca

32.2३२.२

स्वागतं सूर्यपुत्राय कालाय च महात्मने । (३२।२)

svāgataṃ sūryaputrāya kālāya ca mahātmane |

32.3३२.३

मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः ॥ (३२।३)

mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ ||

33.1३३.१

भीष्म उवाच । (३३।१)

bhīṣma uvāca

33.2३३.२

अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे । (३३।२)

arghyaṃ pādyaṃ ca dattvā sa tebhyastatra samāgame |

33.3३३.३

अब्रवीत् परमप्रीतः स्वशक्त्या किं करोमि वः ॥ (३३।३)

abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ ||

34.1३४.१

तस्मिन् एवाथ काले तु तीर्थयात्राम् उपागतः । (३४।१)

tasmin evātha kāle tu tīrthayātrām upāgataḥ |

34.2३४.२

इक्ष्वाकुर् अगमत् तत्र समेता यत्र ते विभो ॥ (३४।२)

ikṣvākur agamat tatra sametā yatra te vibho ||

35.1३५.१

सर्वान् एव तु राजर्षिः सम्पूज्याभिप्रणम्य च । (३५।१)

sarvān eva tu rājarṣiḥ sampūjyābhipraṇamya ca |

35.2३५.२

कुशलप्रश्नम् अकरोत् सर्वेषां राजसत्तमः ॥ (३५।२)

kuśalapraśnam akarot sarveṣāṃ rājasattamaḥ ||

36.1३६.१

तस्मै सो ऽथासनं दत्त्वा पाद्यम् अर्घ्यं तथैव च । (३६।१)

tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca |

36.2३६.२

अब्रवीद् ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् ॥ (३६।२)

abravīd brāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam ||

37.1३७.१

स्वागतं ते महाराज ब्रूहि यद् यद् इहेच्छसि । (३७।१)

svāgataṃ te mahārāja brūhi yad yad ihecchasi |

37.2३७.२

स्वशक्त्या किं करोमीह तद् भवान् प्रब्रवीतु मे ॥ (३७।२)

svaśaktyā kiṃ karomīha tad bhavān prabravītu me ||

38.1३८.१

राजोवाच । (३८।१)

rājovāca |

38.2३८.२

राजाहं ब्राह्मणश्च त्वं यदि षट्कर्मसंस्थितः । (३८।२)

rājāhaṃ brāhmaṇaśca tvaṃ yadi ṣaṭkarmasaṃsthitaḥ |

38.3३८.३

ददामि वसु किंचित् ते प्रार्थितं तद् वदस्व मे ॥ (३८।३)

dadāmi vasu kiṃcit te prārthitaṃ tad vadasva me ||

39.1३९.१

ब्राह्मण उवाच । (३९।१)

brāhmaṇa uvāca

39.2३९.२

द्विविधा ब्राह्मणा राजन् धर्मश्च द्विविधः स्मृतः । (३९।२)

dvividhā brāhmaṇā rājan dharmaśca dvividhaḥ smṛtaḥ |

39.3३९.३

प्रवृत्तश्च निवृत्तश्च निवृत्तो ऽस्मि प्रतिग्रहात् ॥ (३९।३)

pravṛttaśca nivṛttaśca nivṛtto 'smi pratigrahāt ||

40.1४०.१

तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप । (४०।१)

tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa |

40.2४०.२

अहं न प्रतिगृह्णामि किम् इष्टं किं ददानि ते । (४०।२)

ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te |

40.3४०.३

ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् ॥ (४०।३)

brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim ||

41.1४१.१

राजोवाच । (४१।१)

rājovāca |

41.2४१.२

क्षत्रियो ऽहं न जानामि देहीति वचनं क्वचित् । (४१।२)

kṣatriyo 'haṃ na jānāmi dehīti vacanaṃ kvacit |

41.3४१.३

प्रयच्छ युद्धम् इत्येवं वादिनः स्मो द्विजोत्तम ॥ (४१।३)

prayaccha yuddham ityevaṃ vādinaḥ smo dvijottama ||

42.1४२.१

ब्राह्मण उवाच । (४२।१)

brāhmaṇa uvāca

42.2४२.२

तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप । (४२।२)

tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa |

42.3४२.३

अन्योन्यस्योत्तरं नास्ति यद् इष्टं तत् समाचर ॥ (४२।३)

anyonyasyottaraṃ nāsti yad iṣṭaṃ tat samācara ||

43.1४३.१

राजोवाच । (४३।१)

rājovāca |

43.2४३.२

स्वशक्त्याहं ददानीति त्वया पूर्वं प्रभाषितम् । (४३।२)

svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāṣitam |

43.3४३.३

याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज ॥ (४३।३)

yāce tvāṃ dīyatāṃ mahyaṃ japyasyāsya phalaṃ dvija ||

44.1४४.१

ब्राह्मण उवाच । (४४।१)

brāhmaṇa uvāca

44.2४४.२

युद्धं मम सदा वाणी याचतीति विकत्थसे । (४४।२)

yuddhaṃ mama sadā vāṇī yācatīti vikatthase |

44.3४४.३

न च युद्धं मया सार्धं किमर्थं याचसे पुनः ॥ (४४।३)

na ca yuddhaṃ mayā sārdhaṃ kimarthaṃ yācase punaḥ ||

45.1४५.१

राजोवाच । (४५।१)

rājovāca |

45.2४५.२

वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः । (४५।२)

vāgvajrā brāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ |

45.3४५.३

वाग्युद्धं तद् इदं तीव्रं मम विप्र त्वया सह ॥ (४५।३)

vāgyuddhaṃ tad idaṃ tīvraṃ mama vipra tvayā saha ||

46.1४६.१

ब्राह्मण उवाच । (४६।१)

brāhmaṇa uvāca

46.2४६.२

सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् । (४६।२)

saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām |

46.3४६.३

ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् ॥ (४६।३)

brūhi dāsyāmi rājendra vibhave sati māciram ||

47.1४७.१

राजोवाच । (४७।१)

rājovāca |

47.2४७.२

यत् तद् वर्षशतं पूर्णं जप्यं वै जपता त्वया । (४७।२)

yat tad varṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā |

47.3४७.३

फलं प्राप्तं तत् प्रयच्छ मम दित्सुर् भवान् यदि ॥ (४७।३)

phalaṃ prāptaṃ tat prayaccha mama ditsur bhavān yadi ||

48.1४८.१

ब्राह्मण उवाच । (४८।१)

brāhmaṇa uvāca

48.2४८.२

परमं गृह्यतां तस्य फलं यज्जपितं मया । (४८।२)

paramaṃ gṛhyatāṃ tasya phalaṃ yajjapitaṃ mayā |

48.3४८.३

अर्धं त्वम् अविचारेण फलं तस्य समाप्नुहि ॥ (४८।३)

ardhaṃ tvam avicāreṇa phalaṃ tasya samāpnuhi ||

49.1४९.१

अथ वा सर्वम् एवेह जप्यकं मामकं फलम् । (४९।१)

atha vā sarvam eveha japyakaṃ māmakaṃ phalam |

49.2४९.२

राजन् प्राप्नुहि कामं त्वं यदि सर्वम् इहेच्छसि ॥ (४९।२)

rājan prāpnuhi kāmaṃ tvaṃ yadi sarvam ihecchasi ||

50.1५०.१

राजोवाच । (५०।१)

rājovāca |

50.2५०.२

कृतं सर्वेण भद्रं ते जप्यं यद् याचितं मया । (५०।२)

kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā |

50.3५०.३

स्वस्ति ते ऽस्तु गमिष्यामि किं च तस्य फलं वद ॥ (५०।३)

svasti te 'stu gamiṣyāmi kiṃ ca tasya phalaṃ vada ||

51.1५१.१

ब्राह्मण उवाच । (५१।१)

brāhmaṇa uvāca

51.2५१.२

फलप्राप्तिं न जानामि दत्तं यज्जपितं मया । (५१।२)

phalaprāptiṃ na jānāmi dattaṃ yajjapitaṃ mayā |

51.3५१.३

अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः ॥ (५१।३)

ayaṃ dharmaśca kālaśca yamo mṛtyuśca sākṣiṇaḥ ||

52.1५२.१

राजोवाच । (५२।१)

rājovāca |

52.2५२.२

अज्ञातम् अस्य धर्मस्य फलं मे किं करिष्यति । (५२।२)

ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati |

52.3५२.३

प्राप्नोतु तत् फलं विप्रो नाहम् इच्छे ससंशयम् ॥ (५२।३)

prāpnotu tat phalaṃ vipro nāham icche sasaṃśayam ||

53.1५३.१

ब्राह्मण उवाच । (५३।१)

brāhmaṇa uvāca

53.2५३.२

नाददे ऽपरवक्तव्यं दत्तं वाचा फलं मया । (५३।२)

nādade 'paravaktavyaṃ dattaṃ vācā phalaṃ mayā |

53.3५३.३

वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि ॥ (५३।३)

vākyaṃ pramāṇaṃ rājarṣe mamāpi tava caiva hi ||

54.1५४.१

नाभिसंधिर् मया जप्ये कृतपूर्वः कथंचन । (५४।१)

nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃcana |

54.2५४.२

जप्यस्य राजशार्दूल कथं ज्ञास्याम्यहं फलम् ॥ (५४।२)

japyasya rājaśārdūla kathaṃ jñāsyāmyahaṃ phalam ||

55.1५५.१

ददस्वेति त्वया चोक्तं ददामीति तथा मया । (५५।१)

dadasveti tvayā coktaṃ dadāmīti tathā mayā |

55.2५५.२

न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव ॥ (५५।२)

na vācaṃ dūṣayiṣyāmi satyaṃ rakṣa sthiro bhava ||

56.1५६.१

अथैवं वदतो मे ऽद्य वचनं न करिष्यसि । (५६।१)

athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi |

56.2५६.२

महान् अधर्मो भविता तव राजन्मृषाकृतः ॥ (५६।२)

mahān adharmo bhavitā tava rājanmṛṣākṛtaḥ ||

57.1५७.१

न युक्तं तु मृषा वाणी त्वया वक्तुम् अरिंदम । (५७।१)

na yuktaṃ tu mṛṣā vāṇī tvayā vaktum ariṃdama |

57.2५७.२

तथा मयाप्यभ्यधिकं मृषा वक्तुं न शक्यते ॥ (५७।२)

tathā mayāpyabhyadhikaṃ mṛṣā vaktuṃ na śakyate ||

58.1५८.१

संश्रुतं च मया पूर्वं ददानीत्यविचारितम् । (५८।१)

saṃśrutaṃ ca mayā pūrvaṃ dadānītyavicāritam |

58.2५८.२

तद् गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् ॥ (५८।२)

tad gṛhṇīṣvāvicāreṇa yadi satye sthito bhavān ||

59.1५९.१

इहागम्य हि मां राजञ् जाप्यं फलम् अयाचिथाः । (५९।१)

ihāgamya hi māṃ rājañ jāpyaṃ phalam ayācithāḥ |

59.2५९.२

तन्मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरो ऽपि च ॥ (५९।२)

tanmannisṛṣṭaṃ gṛhṇīṣva bhava satye sthiro 'pi ca ||

60.1६०.१

नायं लोको ऽस्ति न परो न च पूर्वान् स तारयेत् । (६०।१)

nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet |

60.2६०.२

कुत एवावरान् राजन्मृषावादपरायणः ॥ (६०।२)

kuta evāvarān rājanmṛṣāvādaparāyaṇaḥ ||

61.1६१.१

न यज्ञाध्ययने दानं नियमास्तारयन्ति हि । (६१।१)

na yajñādhyayane dānaṃ niyamāstārayanti hi |

61.2६१.२

तथा सत्यं परे लोके यथा वै पुरुषर्षभ ॥ (६१।२)

tathā satyaṃ pare loke yathā vai puruṣarṣabha ||

62.1६२.१

तपांसि यानि चीर्णानि चरिष्यसि च यत् तपः । (६२।१)

tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ |

62.2६२.२

समाः शतैः सहस्रैश्च तत् सत्यान्न विशिष्यते ॥ (६२।२)

samāḥ śataiḥ sahasraiśca tat satyānna viśiṣyate ||

63.1६३.१

सत्यम् एकाक्षरं ब्रह्म सत्यम् एकाक्षरं तपः । (६३।१)

satyam ekākṣaraṃ brahma satyam ekākṣaraṃ tapaḥ |

63.2६३.२

सत्यम् एकाक्षरो यज्ञः सत्यम् एकाक्षरं श्रुतम् ॥ (६३।२)

satyam ekākṣaro yajñaḥ satyam ekākṣaraṃ śrutam ||

64.1६४.१

सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् । (६४।१)

satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam |

64.2६४.२

सत्याद् धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ॥ (६४।२)

satyād dharmo damaścaiva sarvaṃ satye pratiṣṭhitam ||

65.1६५.१

सत्यं वेदास्तथाङ्गानि सत्यं यज्ञस्तथा विधिः । (६५।१)

satyaṃ vedāstathāṅgāni satyaṃ yajñastathā vidhiḥ |

65.2६५.२

व्रतचर्यास्तथा सत्यम् ॐकारः सत्यम् एव च ॥ (६५।२)

vratacaryāstathā satyam oṃkāraḥ satyam eva ca ||

66.1६६.१

प्राणिनां जननं सत्यं सत्यं संततिर् एव च । (६६।१)

prāṇināṃ jananaṃ satyaṃ satyaṃ saṃtatir eva ca |

66.2६६.२

सत्येन वायुर् अभ्येति सत्येन तपते रविः ॥ (६६।२)

satyena vāyur abhyeti satyena tapate raviḥ ||

67.1६७.१

सत्येन चाग्निर् दहति स्वर्गः सत्ये प्रतिष्ठितः । (६७।१)

satyena cāgnir dahati svargaḥ satye pratiṣṭhitaḥ |

67.2६७.२

सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती ॥ (६७।२)

satyaṃ yajñastapo vedāḥ stobhā mantrāḥ sarasvatī ||

68.1६८.१

तुलाम् आरोपितो धर्मः सत्यं चैवेति नः श्रुतम् । (६८।१)

tulām āropito dharmaḥ satyaṃ caiveti naḥ śrutam |

68.2६८.२

समां कक्षां धारयतो यतः सत्यं ततो ऽधिकम् ॥ (६८।२)

samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato 'dhikam ||

69.1६९.१

यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते । (६९।१)

yato dharmastataḥ satyaṃ sarvaṃ satyena vardhate |

69.2६९.२

किमर्थम् अनृतं कर्म कर्तुं राजंस्त्वम् इच्छसि ॥ (६९।२)

kimartham anṛtaṃ karma kartuṃ rājaṃstvam icchasi ||

70.1७०.१

सत्ये कुरु स्थिरं भावं मा राजन्न् अनृतं कृथाः । (७०।१)

satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ |

70.2७०.२

कस्मात् त्वम् अनृतं वाक्यं देहीति कुरुषे ऽशुभम् ॥ (७०।२)

kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham ||

71.1७१.१

यदि जप्यफलं दत्तं मया नेषिष्यसे नृप । (७१।१)

yadi japyaphalaṃ dattaṃ mayā neṣiṣyase nṛpa |

71.2७१.२

स्वधर्मेभ्यः परिभ्रष्टो लोकान् अनुचरिष्यसि ॥ (७१।२)

svadharmebhyaḥ paribhraṣṭo lokān anucariṣyasi ||

72.1७२.१

संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति । (७२।१)

saṃśrutya yo na ditseta yācitvā yaśca necchati |

72.2७२.२

उभावानृतिकावेतौ न मृषा कर्तुम् अर्हसि ॥ (७२।२)

ubhāvānṛtikāvetau na mṛṣā kartum arhasi ||

73.1७३.१

राजोवाच । (७३।१)

rājovāca |

73.2७३.२

योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज । (७३।२)

yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija |

73.3७३.३

दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् ॥ (७३।३)

dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṃ bhavataḥ katham ||

74.1७४.१

ब्राह्मण उवाच । (७४।१)

brāhmaṇa uvāca

74.2७४.२

न छन्दयामि ते राजन्नापि ते गृहम् आव्रजम् । (७४।२)

na chandayāmi te rājannāpi te gṛham āvrajam |

74.3७४.३

इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् ॥ (७४।३)

ihāgamya tu yācitvā na gṛhṇīṣe punaḥ katham ||

75.1७५.१

धर्म उवाच । (७५।१)

dharma uvāca

75.2७५.२

अविवादो ऽस्तु युवयोर् वित्तं मां धर्मम् आगतम् । (७५।२)

avivādo 'stu yuvayor vittaṃ māṃ dharmam āgatam |

75.3७५.३

द्विजो दानफलैर् युक्तो राजा सत्यफलेन च ॥ (७५।३)

dvijo dānaphalair yukto rājā satyaphalena ca ||

76.1७६.१

स्वर्ग उवाच । (७६।१)

svarga uvāca

76.2७६.२

स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयम् आगतम् । (७६।२)

svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayam āgatam |

76.3७६.३

अविवादो ऽस्तु युवयोर् उभौ तुल्यफलौ युवाम् ॥ (७६।३)

avivādo 'stu yuvayor ubhau tulyaphalau yuvām ||

77.1७७.१

राजोवाच । (७७।१)

rājovāca |

77.2७७.२

कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम् । (७७।२)

kṛtaṃ svargeṇa me kāryaṃ gaccha svarga yathāsukham |

77.3७७.३

विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम् ॥ (७७।३)

vipro yadīcchate dātuṃ pratīcchatu ca me dhanam ||

78.1७८.१

ब्राह्मण उवाच । (७८।१)

brāhmaṇa uvāca

78.2७८.२

बाल्ये यदि स्याद् अज्ञानान्मया हस्तः प्रसारितः । (७८।२)

bālye yadi syād ajñānānmayā hastaḥ prasāritaḥ |

78.3७८.३

निवृत्तिलक्षणं धर्मम् उपासे संहितां जपन् ॥ (७८।३)

nivṛttilakṣaṇaṃ dharmam upāse saṃhitāṃ japan ||

79.1७९.१

निवृत्तं मां चिरं राजन् विप्रं लोभयसे कथम् । (७९।१)

nivṛttaṃ māṃ ciraṃ rājan vipraṃ lobhayase katham |

79.2७९.२

स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप । (७९।२)

svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa |

79.3७९.३

तपःस्वाध्यायशीलो ऽहं निवृत्तश्च प्रतिग्रहात् ॥ (७९।३)

tapaḥsvādhyāyaśīlo 'haṃ nivṛttaśca pratigrahāt ||

80.1८०.१

राजोवाच । (८०।१)

rājovāca |

80.2८०.२

यदि विप्र निसृष्टं ते जप्यस्य फलम् उत्तमम् । (८०।२)

yadi vipra nisṛṣṭaṃ te japyasya phalam uttamam |

80.3८०.३

आवयोर् यत् फलं किंचित् सहितं नौ तद् अस्त्विह ॥ (८०।३)

āvayor yat phalaṃ kiṃcit sahitaṃ nau tad astviha ||

81.1८१.१

द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः । (८१।१)

dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ |

81.2८१.२

यदि धर्मः श्रुतो विप्र सहैव फलम् अस्तु नौ ॥ (८१।२)

yadi dharmaḥ śruto vipra sahaiva phalam astu nau ||

82.1८२.१

मा वा भूत् सहभोज्यं नौ मदीयं फलम् आप्नुहि । (८२।१)

mā vā bhūt sahabhojyaṃ nau madīyaṃ phalam āpnuhi |

82.2८२.२

प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः ॥ (८२।२)

pratīccha matkṛtaṃ dharmaṃ yadi te mayyanugrahaḥ ||

83.1८३.१

भीष्म उवाच । (८३।१)

bhīṣma uvāca

83.2८३.२

ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ । (८३।२)

tato vikṛtaceṣṭau dvau puruṣau samupasthitau |

83.3८३.३

गृहीत्वान्योन्यम् आवेष्ट्य कुचेलावूचतुर् वचः ॥ (८३।३)

gṛhītvānyonyam āveṣṭya kucelāvūcatur vacaḥ ||

84.1८४.१

न मे धारयसीत्येको धारयामीति चापरः । (८४।१)

na me dhārayasītyeko dhārayāmīti cāparaḥ |

84.2८४.२

इहास्ति नौ विवादो ऽयम् अयं राजानुशासकः ॥ (८४।२)

ihāsti nau vivādo 'yam ayaṃ rājānuśāsakaḥ ||

85.1८५.१

सत्यं ब्रवीम्यहम् इदं न मे धारयते भवान् । (८५।१)

satyaṃ bravīmyaham idaṃ na me dhārayate bhavān |

85.2८५.२

अनृतं वदसीह त्वम् ऋणं ते धारयाम्यहम् ॥ (८५।२)

anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmyaham ||

86.1८६.१

तावुभौ भृशसंतप्तौ राजानम् इदम् ऊचतुः । (८६।१)

tāvubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ |

86.2८६.२

परीक्ष्यतां यथा स्याव नावाम् इह विगर्हितौ ॥ (८६।२)

parīkṣyatāṃ yathā syāva nāvām iha vigarhitau ||

87.1८७.१

विरूप उवाच । (८७।१)

virūpa uvāca

87.2८७.२

धारयामि नरव्याघ्र विकृतस्येह गोः फलम् । (८७।२)

dhārayāmi naravyāghra vikṛtasyeha goḥ phalam |

87.3८७.३

ददतश्च न गृह्णाति विकृतो मे महीपते ॥ (८७।३)

dadataśca na gṛhṇāti vikṛto me mahīpate ||

88.1८८.१

विकृत उवाच । (८८।१)

vikṛta uvāca

88.2८८.२

न मे धारयते किंचिद् विरूपो ऽयं नराधिप । (८८।२)

na me dhārayate kiṃcid virūpo 'yaṃ narādhipa |

88.3८८.३

मिथ्या ब्रवीत्ययं हि त्वा मिथ्याभासं नराधिप ॥ (८८।३)

mithyā bravītyayaṃ hi tvā mithyābhāsaṃ narādhipa ||

89.1८९.१

राजोवाच । (८९।१)

rājovāca |

89.2८९.२

विरूप किं धारयते भवान् अस्य वदस्व मे । (८९।२)

virūpa kiṃ dhārayate bhavān asya vadasva me |

89.3८९.३

श्रुत्वा तथा करिष्यामीत्येवं मे धीयते मतिः ॥ (८९।३)

śrutvā tathā kariṣyāmītyevaṃ me dhīyate matiḥ ||

90.1९०.१

विरूप उवाच । (९०।१)

virūpa uvāca

90.2९०.२

शृणुष्वावहितो राजन् यथैतद् धारयाम्यहम् । (९०।२)

śṛṇuṣvāvahito rājan yathaitad dhārayāmyaham |

90.3९०.३

विकृतस्यास्य राजर्षे निखिलेन नरर्षभ ॥ (९०।३)

vikṛtasyāsya rājarṣe nikhilena nararṣabha ||

91.1९१.१

अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ । (९१।१)

anena dharmaprāptyarthaṃ śubhā dattā purānagha |

91.2९१.२

धेनुर् विप्राय राजर्षे तपःस्वाध्यायशीलिने ॥ (९१।२)

dhenur viprāya rājarṣe tapaḥsvādhyāyaśīline ||

92.1९२.१

तस्याश्चायं मया राजन् फलम् अभ्येत्य याचितः । (९२।१)

tasyāścāyaṃ mayā rājan phalam abhyetya yācitaḥ |

92.2९२.२

विकृतेन च मे दत्तं विशुद्धेनान्तरात्मना ॥ (९२।२)

vikṛtena ca me dattaṃ viśuddhenāntarātmanā ||

93.1९३.१

ततो मे सुकृतं कर्म कृतम् आत्मविशुद्धये । (९३।१)

tato me sukṛtaṃ karma kṛtam ātmaviśuddhaye |

93.2९३.२

गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने ॥ (९३।२)

gāvau hi kapile krītvā vatsale bahudohane ||

94.1९४.१

ते चोञ्छवृत्तये राजन्मया समपवर्जिते । (९४।१)

te coñchavṛttaye rājanmayā samapavarjite |

94.2९४.२

यथाविधि यथाश्रद्धं तद् अस्याहं पुनः प्रभो ॥ (९४।२)

yathāvidhi yathāśraddhaṃ tad asyāhaṃ punaḥ prabho ||

95.1९५.१

इहाद्य वै गृहीत्वा तत् प्रयच्छे द्विगुणं फलम् । (९५।१)

ihādya vai gṛhītvā tat prayacche dviguṇaṃ phalam |

95.2९५.२

एकस्याः पुरुषव्याघ्र कः शुद्धः को ऽत्र दोषवान् ॥ (९५।२)

ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko 'tra doṣavān ||

96.1९६.१

एवं विवदमानौ स्वस्त्वाम् इहाभ्यागतौ नृप । (९६।१)

evaṃ vivadamānau svastvām ihābhyāgatau nṛpa |

96.2९६.२

कुरु धर्मम् अधर्मं वा विनये नौ समाधय ॥ (९६।२)

kuru dharmam adharmaṃ vā vinaye nau samādhaya ||

97.1९७.१

यदि नेच्छति मे दानं यथा दत्तम् अनेन वै । (९७।१)

yadi necchati me dānaṃ yathā dattam anena vai |

97.2९७.२

भवान् अत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः ॥ (९७।२)

bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ ||

98.1९८.१

राजोवाच । (९८।१)

rājovāca |

98.2९८.२

दीयमानं न गृह्णासि ऋणं कस्मात् त्वम् अद्य वै । (९८।२)

dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai |

98.3९८.३

यथैव ते ऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम् ॥ (९८।३)

yathaiva te 'bhyanujñātaṃ tathā gṛhṇīṣva māciram ||

99.1९९.१

विकृत उवाच । (९९।१)

vikṛta uvāca

99.2९९.२

दीयताम् इत्यनेनोक्तं ददानीति तथा मया । (९९।२)

dīyatām ityanenoktaṃ dadānīti tathā mayā |

99.3९९.३

नायं मे धारयत्यत्र गम्यतां यत्र वाञ्छति ॥ (९९।३)

nāyaṃ me dhārayatyatra gamyatāṃ yatra vāñchati ||

100.1१००.१

राजोवाच । (१००।१)

rājovāca |

100.2१००.२

ददतो ऽस्य न गृह्णासि विषमं प्रतिभाति मे । (१००।२)

dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me |

100.3१००.३

दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः ॥ (१००।३)

daṇḍyo hi tvaṃ mama mato nāstyatra khalu saṃśayaḥ ||

101.1१०१.१

विकृत उवाच । (१०१।१)

vikṛta uvāca

101.2१०१.२

मयास्य दत्तं राजर्षे गृह्णीयां तत् कथं पुनः । (१०१।२)

mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ |

101.3१०१.३

कामम् अत्रापराधो मे दण्ड्यम् आज्ञापय प्रभो ॥ (१०१।३)

kāmam atrāparādho me daṇḍyam ājñāpaya prabho ||

102.1१०२.१

विरूप उवाच । (१०२।१)

virūpa uvāca

102.2१०२.२

दीयमानं यदि मया नेषिष्यसि कथंचन । (१०२।२)

dīyamānaṃ yadi mayā neṣiṣyasi kathaṃcana |

102.3१०२.३

नियंस्यति त्वा नृपतिर् अयं धर्मानुशासकः ॥ (१०२।३)

niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsakaḥ ||

103.1१०३.१

विकृत उवाच । (१०३।१)

vikṛta uvāca

103.2१०३.२

स्वं मया याचितेनेह दत्तं कथम् इहाद्य तत् । (१०३।२)

svaṃ mayā yāciteneha dattaṃ katham ihādya tat |

103.3१०३.३

गृह्णीयां गच्छतु भवान् अभ्यनुज्ञां ददानि ते ॥ (१०३।३)

gṛhṇīyāṃ gacchatu bhavān abhyanujñāṃ dadāni te ||

104.1१०४.१

ब्राह्मण उवाच । (१०४।१)

brāhmaṇa uvāca

104.2१०४.२

श्रुतम् एतत् त्वया राजन्न् अनयोः कथितं द्वयोः । (१०४।२)

śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ |

104.3१०४.३

प्रतिज्ञातं मया यत् ते तद् गृहाणाविचारितम् ॥ (१०४।३)

pratijñātaṃ mayā yat te tad gṛhāṇāvicāritam ||

105.1१०५.१

राजोवाच । (१०५।१)

rājovāca |

105.2१०५.२

प्रस्तुतं सुमहत् कार्यम् आवयोर् गह्वरं यथा । (१०५।२)

prastutaṃ sumahat kāryam āvayor gahvaraṃ yathā |

105.3१०५.३

जापकस्य दृढीकारः कथम् एतद् भविष्यति ॥ (१०५।३)

jāpakasya dṛḍhīkāraḥ katham etad bhaviṣyati ||

106.1१०६.१

यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम् । (१०६।१)

yadi tāvanna gṛhṇāmi brāhmaṇenāpavarjitam |

106.2१०६.२

कथं न लिप्येयम् अहं दोषेण महताद्य वै ॥ (१०६।२)

kathaṃ na lipyeyam ahaṃ doṣeṇa mahatādya vai ||

107.1१०७.१

भीष्म उवाच । (१०७।१)

bhīṣma uvāca

107.2१०७.२

तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः । (१०७।२)

tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ |

107.3१०७.३

नेदानीं माम् इहासाद्य राजधर्मो भवेन्मृषा ॥ (१०७।३)

nedānīṃ mām ihāsādya rājadharmo bhavenmṛṣā ||

108.1१०८.१

स्वधर्मः परिपाल्यश्च राज्ञाम् एष विनिश्चयः । (१०८।१)

svadharmaḥ paripālyaśca rājñām eṣa viniścayaḥ |

108.2१०८.२

विप्रधर्मश्च सुगुरुर् माम् अनात्मानम् आविशत् ॥ (१०८।२)

vipradharmaśca sugurur mām anātmānam āviśat ||

109.1१०९.१

ब्राह्मण उवाच । (१०९।१)

brāhmaṇa uvāca

109.2१०९.२

गृहाण धारये ऽहं ते याचितं ते श्रुतं मया । (१०९।२)

gṛhāṇa dhāraye 'haṃ te yācitaṃ te śrutaṃ mayā |

109.3१०९.३

न चेद् ग्रहीष्यसे राजञ् शपिष्ये त्वां न संशयः ॥ (१०९।३)

na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ ||

110.1११०.१

राजोवाच । (११०।१)

rājovāca |

110.2११०.२

धिग् राजधर्मं यस्यायं कार्यस्येह विनिश्चयः । (११०।२)

dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ |

110.3११०.३

इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेद् इति ॥ (११०।३)

ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti ||

111.1१११.१

एष पाणिर् अपूर्वं भो निक्षेपार्थं प्रसारितः । (१११।१)

eṣa pāṇir apūrvaṃ bho nikṣepārthaṃ prasāritaḥ |

111.2१११.२

यन्मे धारयसे विप्र तद् इदानीं प्रदीयताम् ॥ (१११।२)

yanme dhārayase vipra tad idānīṃ pradīyatām ||

112.1११२.१

ब्राह्मण उवाच । (११२।१)

brāhmaṇa uvāca

112.2११२.२

संहितां जपता यावान्मया कश्चिद् गुणः कृतः । (११२।२)

saṃhitāṃ japatā yāvānmayā kaścid guṇaḥ kṛtaḥ |

112.3११२.३

तत् सर्वं प्रतिगृह्णीष्व यदि किंचिद् इहास्ति मे ॥ (११२।३)

tat sarvaṃ pratigṛhṇīṣva yadi kiṃcid ihāsti me ||

113.1११३.१

राजोवाच । (११३।१)

rājovāca |

113.2११३.२

जलम् एतन्निपतितं मम पाणौ द्विजोत्तम । (११३।२)

jalam etannipatitaṃ mama pāṇau dvijottama |

113.3११३.३

समम् अस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् ॥ (११३।३)

samam astu sahaivāstu pratigṛhṇātu vai bhavān ||

114.1११४.१

विरूप उवाच । (११४।१)

virūpa uvāca

114.2११४.२

कामक्रोधौ विद्धि नौ त्वम् आवाभ्यां कारितो भवान् । (११४।२)

kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān |

114.3११४.३

समेति च यद् उक्तं ते समा लोकास्तवास्य च ॥ (११४।३)

sameti ca yad uktaṃ te samā lokāstavāsya ca ||

115.1११५.१

नायं धारयते किंचिज्जिज्ञासा त्वत्कृते कृता । (११५।१)

nāyaṃ dhārayate kiṃcijjijñāsā tvatkṛte kṛtā |

115.2११५.२

कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् ॥ (११५।२)

kālo dharmastathā mṛtyuḥ kāmakrodhau tathā yuvām ||

116.1११६.१

सर्वम् अन्योन्यनिकषे निघृष्टं पश्यतस्तव । (११६।१)

sarvam anyonyanikaṣe nighṛṣṭaṃ paśyatastava |

116.2११६.२

गच्छ लोकाञ् जितान् स्वेन कर्मणा यत्र वाञ्छसि ॥ (११६।२)

gaccha lokāñ jitān svena karmaṇā yatra vāñchasi ||

117.1११७.१

भीष्म उवाच । (११७।१)

bhīṣma uvāca

117.2११७.२

जापकानां फलावाप्तिर् मया ते संप्रकीर्तिता । (११७।२)

jāpakānāṃ phalāvāptir mayā te saṃprakīrtitā |

117.3११७.३

गतिः स्थानं च लोकाश्च जापकेन यथा जिताः ॥ (११७।३)

gatiḥ sthānaṃ ca lokāśca jāpakena yathā jitāḥ ||

118.1११८.१

प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् । (११८।१)

prayāti saṃhitādhyāyī brahmāṇaṃ parameṣṭhinam |

118.2११८.२

अथ वाग्निं समायाति सूर्यम् आविशते ऽपि वा ॥ (११८।२)

atha vāgniṃ samāyāti sūryam āviśate 'pi vā ||

119.1११९.१

स तैजसेन भावेन यदि तत्राश्नुते रतिम् । (११९।१)

sa taijasena bhāvena yadi tatrāśnute ratim |

119.2११९.२

गुणांस्तेषां समादत्ते रागेण प्रतिमोहितः ॥ (११९।२)

guṇāṃsteṣāṃ samādatte rāgeṇa pratimohitaḥ ||

120.1१२०.१

एवं सोमे तथा वायौ भूम्याकाशशरीरगः । (१२०।१)

evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ |

120.2१२०.२

सरागस्तत्र वसति गुणांस्तेषां समाचरन् ॥ (१२०।२)

sarāgastatra vasati guṇāṃsteṣāṃ samācaran ||

121.1१२१.१

अथ तत्र विरागी स गच्छति त्वथ संशयम् । (१२१।१)

atha tatra virāgī sa gacchati tvatha saṃśayam |

121.2१२१.२

परम् अव्ययम् इच्छन् स तम् एवाविशते पुनः ॥ (१२१।२)

param avyayam icchan sa tam evāviśate punaḥ ||

122.1१२२.१

अमृताच्चामृतं प्राप्तः शीतीभूतो निरात्मवान् । (१२२।१)

amṛtāccāmṛtaṃ prāptaḥ śītībhūto nirātmavān |

122.2१२२.२

ब्रह्मभूतः स निर्द्वंद्वः सुखी शान्तो निरामयः ॥ (१२२।२)

brahmabhūtaḥ sa nirdvaṃdvaḥ sukhī śānto nirāmayaḥ ||

123.1१२३.१

ब्रह्मस्थानम् अनावर्तम् एकम् अक्षरसंज्ञकम् । (१२३।१)

brahmasthānam anāvartam ekam akṣarasaṃjñakam |

123.2१२३.२

अदुःखम् अजरं शान्तं स्थानं तत् प्रतिपद्यते ॥ (१२३।२)

aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate ||

124.1१२४.१

चतुर्भिर् लक्षणैर् हीनं तथा षड्भिः सषोडशैः । (१२४।१)

caturbhir lakṣaṇair hīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ |

124.2१२४.२

पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते ॥ (१२४।२)

puruṣaṃ samatikramya ākāśaṃ pratipadyate ||

125.1१२५.१

अथवेच्छति रागात्मा सर्वं तद् अधितिष्ठति । (१२५।१)

athavecchati rāgātmā sarvaṃ tad adhitiṣṭhati |

125.2१२५.२

यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते ॥ (१२५।२)

yacca prārthayate tacca manasā pratipadyate ||

126.1१२६.१

अथवा वीक्षते लोकान् सर्वान्निरयसंस्थितान् । (१२६।१)

athavā vīkṣate lokān sarvānnirayasaṃsthitān |

126.2१२६.२

निःस्पृहः सर्वतो मुक्तस्तत्रैव रमते सुखी ॥ (१२६।२)

niḥspṛhaḥ sarvato muktastatraiva ramate sukhī ||

127.1१२७.१

एवम् एषा महाराज जापकस्य गतिर् यथा । (१२७।१)

evam eṣā mahārāja jāpakasya gatir yathā |

127.2१२७.२

एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि ॥ (१२७।२)

etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 192

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit