महाभारतMahābhārata

MBh, 13, 23

1704 of 1995 · 105 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

किम् आहुर् भरतश्रेष्ठ पात्रं विप्राः सनातनम् । (१।२)

kim āhur bharataśreṣṭha pātraṃ viprāḥ sanātanam |

1.3१.३

ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्यलिङ्गिनम् ॥ (१।३)

brāhmaṇaṃ liṅginaṃ caiva brāhmaṇaṃ vāpyaliṅginam ||

2.1२.१

भीष्म उवाच । (२।१)

bhīṣma uvāca

2.2२.२

स्ववृत्तिम् अभिपन्नाय लिङ्गिने वेतराय वा । (२।२)

svavṛttim abhipannāya liṅgine vetarāya vā |

2.3२.३

देयम् आहुर् महाराज उभावेतौ तपस्विनौ ॥ (२।३)

deyam āhur mahārāja ubhāvetau tapasvinau ||

3.1३.१

युधिष्ठिर उवाच । (३।१)

yudhiṣṭhira uvāca

3.2३.२

श्रद्धया परया पूतो यः प्रयच्छेद् द्विजातये । (३।२)

śraddhayā parayā pūto yaḥ prayacched dvijātaye |

3.3३.३

हव्यं कव्यं तथा दानं को दोषः स्यात् पितामह ॥ (३।३)

havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syāt pitāmaha ||

4.1४.१

भीष्म उवाच । (४।१)

bhīṣma uvāca

4.2४.२

श्रद्धापूतो नरस्तात दुर्दान्तो ऽपि न संशयः । (४।२)

śraddhāpūto narastāta durdānto 'pi na saṃśayaḥ |

4.3४.३

पूतो भवति सर्वत्र किं पुनस्त्वं महीपते ॥ (४।३)

pūto bhavati sarvatra kiṃ punastvaṃ mahīpate ||

5.1५.१

युधिष्ठिर उवाच । (५।१)

yudhiṣṭhira uvāca

5.2५.२

न ब्राह्मणं परीक्षेत दैवेषु सततं नरः । (५।२)

na brāhmaṇaṃ parīkṣeta daiveṣu satataṃ naraḥ |

5.3५.३

कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः ॥ (५।३)

kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ ||

6.1६.१

भीष्म उवाच । (६।१)

bhīṣma uvāca

6.2६.२

न ब्राह्मणः साधयते हव्यं दैवात् प्रसिध्यति । (६।२)

na brāhmaṇaḥ sādhayate havyaṃ daivāt prasidhyati |

6.3६.३

देवप्रसादाद् इज्यन्ते यजमाना न संशयः ॥ (६।३)

devaprasādād ijyante yajamānā na saṃśayaḥ ||

7.1७.१

ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः । (७।१)

brāhmaṇā bharataśreṣṭha satataṃ brahmavādinaḥ |

7.2७.२

मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान् ॥ (७।२)

mārkaṇḍeyaḥ purā prāha iha lokeṣu buddhimān ||

8.1८.१

युधिष्ठिर उवाच । (८।१)

yudhiṣṭhira uvāca

8.2८.२

अपूर्वो ऽप्यथ वा विद्वान् संबन्धी वाथ यो भवेत् । (८।२)

apūrvo 'pyatha vā vidvān saṃbandhī vātha yo bhavet |

8.3८.३

तपस्वी यज्ञशीलो वा कथं पात्रं भवेत् तु सः ॥ (८।३)

tapasvī yajñaśīlo vā kathaṃ pātraṃ bhavet tu saḥ ||

9.1९.१

भीष्म उवाच । (९।१)

bhīṣma uvāca

9.2९.२

कुलीनः कर्मकृद् वैद्यस्तथा चाप्यानृशंस्यवान् । (९।२)

kulīnaḥ karmakṛd vaidyastathā cāpyānṛśaṃsyavān |

9.3९.३

ह्रीमान् ऋजुः सत्यवादी पात्रं पूर्वे च ते त्रयः ॥ (९।३)

hrīmān ṛjuḥ satyavādī pātraṃ pūrve ca te trayaḥ ||

10.1१०.१

तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम् । (१०।१)

tatredaṃ śṛṇu me pārtha caturṇāṃ tejasāṃ matam |

10.2१०.२

पृथिव्याः काश्यपस्याग्नेर् मार्कण्डेयस्य चैव हि ॥ (१०।२)

pṛthivyāḥ kāśyapasyāgner mārkaṇḍeyasya caiva hi ||

11.1११.१

पृथिव्युवाच । (११।१)

pṛthivyuvāca |

11.2११.२

यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति । (११।२)

yathā mahārṇave kṣiptaḥ kṣipraṃ loṣṭo vinaśyati |

11.3११.३

तथा दुश्चरितं सर्वं त्रय्यावृत्त्या विनश्यति ॥ (११।३)

tathā duścaritaṃ sarvaṃ trayyāvṛttyā vinaśyati ||

12.1१२.१

काश्यप उवाच । (१२।१)

kāśyapa uvāca

12.2१२.२

सर्वे च वेदाः सह षड्भिर् अङ्गैः सांख्यं पुराणं च कुले च जन्म । (१२।२)

sarve ca vedāḥ saha ṣaḍbhir aṅgaiḥ sāṃkhyaṃ purāṇaṃ ca kule ca janma |

12.3१२.३

नैतानि सर्वाणि गतिर् भवन्ति शीलव्यपेतस्य नरस्य राजन् ॥ (१२।३)

naitāni sarvāṇi gatir bhavanti śīlavyapetasya narasya rājan ||

13.1१३.१

अग्निर् उवाच । (१३।१)

agnir uvāca

13.2१३.२

अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परेषाम् । (१३।२)

adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām |

13.3१३.३

ब्रह्मन् स तेनाचरते ब्रह्महत्यां लोकास्तस्य ह्यन्तवन्तो भवन्ति ॥ (१३।३)

brahman sa tenācarate brahmahatyāṃ lokāstasya hyantavanto bhavanti ||

14.1१४.१

मार्कण्डेय उवाच । (१४।१)

mārkaṇḍeya uvāca

14.2१४.२

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । (१४।२)

aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam |

14.3१४.३

नाभिजानामि यद्यस्य सत्यस्यार्धम् अवाप्नुयात् ॥ (१४।३)

nābhijānāmi yadyasya satyasyārdham avāpnuyāt ||

15.1१५.१

भीष्म उवाच । (१५।१)

bhīṣma uvāca

15.2१५.२

इत्युक्त्वा ते जग्मुर् आशु चत्वारो ऽमिततेजसः । (१५।२)

ityuktvā te jagmur āśu catvāro 'mitatejasaḥ |

15.3१५.३

पृथिवी काश्यपो ऽग्निश्च प्रकृष्टायुश्च भार्गवः ॥ (१५।३)

pṛthivī kāśyapo 'gniśca prakṛṣṭāyuśca bhārgavaḥ ||

16.1१६.१

युधिष्ठिर उवाच । (१६।१)

yudhiṣṭhira uvāca

16.2१६.२

यद् इदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः । (१६।२)

yad idaṃ brāhmaṇā loke vratino bhuñjate haviḥ |

16.3१६.३

भुक्तं ब्राह्मणकामाय कथं तत् सुकृतं भवेत् ॥ (१६।३)

bhuktaṃ brāhmaṇakāmāya kathaṃ tat sukṛtaṃ bhavet ||

17.1१७.१

भीष्म उवाच । (१७।१)

bhīṣma uvāca

17.2१७.२

आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः । (१७।२)

ādiṣṭino ye rājendra brāhmaṇā vedapāragāḥ |

17.3१७.३

भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते ॥ (१७।३)

bhuñjate brahmakāmāya vrataluptā bhavanti te ||

18.1१८.१

युधिष्ठिर उवाच । (१८।१)

yudhiṣṭhira uvāca

18.2१८.२

अनेकान्तं बहुद्वारं धर्मम् आहुर् मनीषिणः । (१८।२)

anekāntaṃ bahudvāraṃ dharmam āhur manīṣiṇaḥ |

18.3१८.३

किं निश्चितं भवेत् तत्र तन्मे ब्रूहि पितामह ॥ (१८।३)

kiṃ niścitaṃ bhavet tatra tanme brūhi pitāmaha ||

19.1१९.१

भीष्म उवाच । (१९।१)

bhīṣma uvāca

19.2१९.२

अहिंसा सत्यम् अक्रोध आनृशंस्यं दमस्तथा । (१९।२)

ahiṃsā satyam akrodha ānṛśaṃsyaṃ damastathā |

19.3१९.३

आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥ (१९।३)

ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam ||

20.1२०.१

ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीम् इमाम् । (२०।१)

ye tu dharmaṃ praśaṃsantaścaranti pṛthivīm imām |

20.2२०.२

अनाचरन्तस्तद् धर्मं संकरे निरताः प्रभो ॥ (२०।२)

anācarantastad dharmaṃ saṃkare niratāḥ prabho ||

21.1२१.१

तेभ्यो रत्नं हिरण्यं वा गाम् अश्वान् वा ददाति यः । (२१।१)

tebhyo ratnaṃ hiraṇyaṃ vā gām aśvān vā dadāti yaḥ |

21.2२१.२

दश वर्षाणि विष्ठां स भुङ्क्ते निरयम् आश्रितः ॥ (२१।२)

daśa varṣāṇi viṣṭhāṃ sa bhuṅkte nirayam āśritaḥ ||

22.1२२.१

मेदानां पुल्कसानां च तथैवान्तावसायिनाम् । (२२।१)

medānāṃ pulkasānāṃ ca tathaivāntāvasāyinām |

22.2२२.२

कृतं कर्माकृतं चापि रागमोहेन जल्पताम् ॥ (२२।२)

kṛtaṃ karmākṛtaṃ cāpi rāgamohena jalpatām ||

23.1२३.१

वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे । (२३।१)

vaiśvadevaṃ ca ye mūḍhā viprāya brahmacāriṇe |

23.2२३.२

ददतीह न राजेन्द्र ते लोकान् भुञ्जते ऽशुभान् ॥ (२३।२)

dadatīha na rājendra te lokān bhuñjate 'śubhān ||

24.1२४.१

युधिष्ठिर उवाच । (२४।१)

yudhiṣṭhira uvāca

24.2२४.२

किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम् । (२४।२)

kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam |

24.3२४.३

किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह ॥ (२४।३)

kiṃ ca śreṣṭhatamaṃ śaucaṃ tanme brūhi pitāmaha ||

25.1२५.१

भीष्म उवाच । (२५।१)

bhīṣma uvāca

25.2२५.२

ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् । (२५।२)

brahmacaryaṃ paraṃ tāta madhumāṃsasya varjanam |

25.3२५.३

मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् ॥ (२५।३)

maryādāyāṃ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam ||

26.1२६.१

युधिष्ठिर उवाच । (२६।१)

yudhiṣṭhira uvāca

26.2२६.२

कस्मिन् काले चरेद् धर्मं कस्मिन् काले ऽर्थम् आचरेत् । (२६।२)

kasmin kāle cared dharmaṃ kasmin kāle 'rtham ācaret |

26.3२६.३

कस्मिन् काले सुखी च स्यात् तन्मे ब्रूहि पितामह ॥ (२६।३)

kasmin kāle sukhī ca syāt tanme brūhi pitāmaha ||

27.1२७.१

भीष्म उवाच । (२७।१)

bhīṣma uvāca

27.2२७.२

काल्यम् अर्थं निषेवेत ततो धर्मम् अनन्तरम् । (२७।२)

kālyam arthaṃ niṣeveta tato dharmam anantaram |

27.3२७.३

पश्चात् कामं निषेवेत न च गच्छेत् प्रसङ्गिताम् ॥ (२७।३)

paścāt kāmaṃ niṣeveta na ca gacchet prasaṅgitām ||

28.1२८.१

ब्राह्मणांश्चाभिमन्येत गुरूंश्चाप्यभिपूजयेत् । (२८।१)

brāhmaṇāṃścābhimanyeta gurūṃścāpyabhipūjayet |

28.2२८.२

सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः ॥ (२८।२)

sarvabhūtānulomaśca mṛduśīlaḥ priyaṃvadaḥ ||

29.1२९.१

अधिकारे यद् अनृतं राजगामि च पैशुनम् । (२९।१)

adhikāre yad anṛtaṃ rājagāmi ca paiśunam |

29.2२९.२

गुरोश्चालीककरणं समं तद् ब्रह्महत्यया ॥ (२९।२)

guroścālīkakaraṇaṃ samaṃ tad brahmahatyayā ||

30.1३०.१

प्रहरेन्न नरेन्द्रेषु न गां हन्यात् तथैव च । (३०।१)

praharenna narendreṣu na gāṃ hanyāt tathaiva ca |

30.2३०.२

भ्रूणहत्यासमं चैतद् उभयं यो निषेवते ॥ (३०।२)

bhrūṇahatyāsamaṃ caitad ubhayaṃ yo niṣevate ||

31.1३१.१

नाग्निं परित्यजेज्जातु न च वेदान् परित्यजेत् । (३१।१)

nāgniṃ parityajejjātu na ca vedān parityajet |

31.2३१.२

न च ब्राह्मणम् आक्रोशेत् समं तद् ब्रह्महत्यया ॥ (३१।२)

na ca brāhmaṇam ākrośet samaṃ tad brahmahatyayā ||

32.1३२.१

युधिष्ठिर उवाच । (३२।१)

yudhiṣṭhira uvāca

32.2३२.२

कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् । (३२।२)

kīdṛśāḥ sādhavo viprāḥ kebhyo dattaṃ mahāphalam |

32.3३२.३

कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह ॥ (३२।३)

kīdṛśānāṃ ca bhoktavyaṃ tanme brūhi pitāmaha ||

33.1३३.१

भीष्म उवाच । (३३।१)

bhīṣma uvāca

33.2३३.२

अक्रोधना धर्मपराः सत्यनित्या दमे रताः । (३३।२)

akrodhanā dharmaparāḥ satyanityā dame ratāḥ |

33.3३३.३

तादृशाः साधवो विप्रास् तेभ्यो दत्तं महाफलम् ॥ (३३।३)

tādṛśāḥ sādhavo viprās tebhyo dattaṃ mahāphalam ||

34.1३४.१

अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः । (३४।१)

amāninaḥ sarvasahā dṛṣṭārthā vijitendriyāḥ |

34.2३४.२

सर्वभूतहिता मैत्रास् तेभ्यो दत्तं महाफलम् ॥ (३४।२)

sarvabhūtahitā maitrās tebhyo dattaṃ mahāphalam ||

35.1३५.१

अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः । (३५।१)

alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ |

35.2३५.२

स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् ॥ (३५।२)

svakarmaniratā ye ca tebhyo dattaṃ mahāphalam ||

36.1३६.१

साङ्गांश्च चतुरो वेदान् यो ऽधीयीत द्विजर्षभः । (३६।१)

sāṅgāṃśca caturo vedān yo 'dhīyīta dvijarṣabhaḥ |

36.2३६.२

षड्भ्यो निवृत्तः कर्मभ्यस्तं पात्रम् ऋषयो विदुः ॥ (३६।२)

ṣaḍbhyo nivṛttaḥ karmabhyastaṃ pātram ṛṣayo viduḥ ||

37.1३७.१

ये त्वेवंगुणजातीयास्तेभ्यो दत्तं महाफलम् । (३७।१)

ye tvevaṃguṇajātīyāstebhyo dattaṃ mahāphalam |

37.2३७.२

सहस्रगुणम् आप्नोति गुणार्हाय प्रदायकः ॥ (३७।२)

sahasraguṇam āpnoti guṇārhāya pradāyakaḥ ||

38.1३८.१

प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः । (३८।१)

prajñāśrutābhyāṃ vṛttena śīlena ca samanvitaḥ |

38.2३८.२

तारयेत कुलं कृत्स्नम् एको ऽपीह द्विजर्षभः ॥ (३८।२)

tārayeta kulaṃ kṛtsnam eko 'pīha dvijarṣabhaḥ ||

39.1३९.१

गाम् अश्वं वित्तम् अन्नं वा तद्विधे प्रतिपादयेत् । (३९।१)

gām aśvaṃ vittam annaṃ vā tadvidhe pratipādayet |

39.2३९.२

द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ॥ (३९।२)

dravyāṇi cānyāni tathā pretyabhāve na śocati ||

40.1४०.१

तारयेत कुलं कृत्स्नम् एको ऽपीह द्विजोत्तमः । (४०।१)

tārayeta kulaṃ kṛtsnam eko 'pīha dvijottamaḥ |

40.2४०.२

किम् अङ्ग पुनर् एकं वै तस्मात् पात्रं समाचरेत् ॥ (४०।२)

kim aṅga punar ekaṃ vai tasmāt pātraṃ samācaret ||

41.1४१.१

निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम् । (४१।१)

niśamya ca guṇopetaṃ brāhmaṇaṃ sādhusaṃmatam |

41.2४१.२

दूराद् आनाययेत् कृत्ये सर्वतश्चाभिपूजयेत् ॥ (४१।२)

dūrād ānāyayet kṛtye sarvataścābhipūjayet ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 13, 23

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit