MBh, 8, 16
Select a line for its word-by-word analysis.
पाण्ड्ये हते किम् अकरोद् अर्जुनो युधि संजय । (१।२)
pāṇḍye hate kim akarod arjuno yudhi saṃjaya |
समाप्तविद्यो बलवान् युक्तो वीरश् च पाण्डवः । (२।१)
samāptavidyo balavān yukto vīraś ca pāṇḍavaḥ |
तस्मान् महद् भयं तीव्रम् अमित्रघ्नाद् धनंजयात् । (३।१)
tasmān mahad bhayaṃ tīvram amitraghnād dhanaṃjayāt |
स यत् तत्राकरोत् पार्थस् तन् ममाचक्ष्व संजय ॥ (३।२)
sa yat tatrākarot pārthas tan mamācakṣva saṃjaya ||
हते पाण्ड्ये ऽर्जुनं कृष्णस् त्वरन्न् आह वचो हितम् । (४।२)
hate pāṇḍye 'rjunaṃ kṛṣṇas tvarann āha vaco hitam |
पश्यातिमान्यं राजानम् अपयातांश् च पाण्डवान् ॥ (४।३)
paśyātimānyaṃ rājānam apayātāṃś ca pāṇḍavān ||
अश्वत्थाम्नश् च संकल्पाद्धताः कर्णेन सृञ्जयाः । (५।१)
aśvatthāmnaś ca saṃkalpāddhatāḥ karṇena sṛñjayāḥ |
एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर् घोरं महद् भयम् । (६।१)
etacchrutvā ca dṛṣṭvā ca bhrātur ghoraṃ mahad bhayam |
वाहयाश्वान् हृषीकेश क्षिप्रम् इत्य् आह पाण्डवः ॥ (६।२)
vāhayāśvān hṛṣīkeśa kṣipram ity āha pāṇḍavaḥ ||
दारुणश् च पुनस् तत्र प्रादुरासीत् समागमः ॥ (७।२)
dāruṇaś ca punas tatra prādurāsīt samāgamaḥ ||
गदाः प्रासान् असीन् कुन्तान् भिण्डिपालान् महाङ्कुशान् । (१०।१)
gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān |
प्रगृह्य क्षिप्रम् आपेतुः परस्परजिगीषया ॥ (१०।२)
pragṛhya kṣipram āpetuḥ parasparajigīṣayā ||
बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् । (११।१)
bāṇajyātalaśabdena dyāṃ diśaḥ pradiśo viyat |
पृथिवीं नेमिघोषेण नादयन्तो ऽभ्ययुः परान् ॥ (११।२)
pṛthivīṃ nemighoṣeṇa nādayanto 'bhyayuḥ parān ||
तेन शब्देन महता संहृष्टाश् चक्रुर् आहवम् । (१२।१)
tena śabdena mahatā saṃhṛṣṭāś cakrur āhavam |
वीरा वीरैर् महाघोरं कलहान्तं तितीर्षवः ॥ (१२।२)
vīrā vīrair mahāghoraṃ kalahāntaṃ titīrṣavaḥ ||
ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम् । (१३।१)
jyātalatradhanuḥśabdāḥ kuñjarāṇāṃ ca bṛṃhitam |
ताडितानां च पततां निनादः सुमहान् अभूत् ॥ (१३।२)
tāḍitānāṃ ca patatāṃ ninādaḥ sumahān abhūt ||
बाणशब्दांश् च विविधाञ् शूराणाम् अभिगर्जताम् । (१४।१)
bāṇaśabdāṃś ca vividhāñ śūrāṇām abhigarjatām |
श्रुत्वा शब्दं भृशं त्रेसुर् जघ्नुर् मम्लुश् च भारत ॥ (१४।२)
śrutvā śabdaṃ bhṛśaṃ tresur jaghnur mamluś ca bhārata ||
तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम् । (१५।१)
teṣāṃ nānadyatāṃ caiva śastravṛṣṭiṃ ca muñcatām |
बहून् आधिरथिः कर्णः प्रममाथ रणेषुभिः ॥ (१५।२)
bahūn ādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ ||
पञ्च पाञ्चालवीराणां रथान् दश च पञ्च च । (१६।१)
pañca pāñcālavīrāṇāṃ rathān daśa ca pañca ca |
साश्वसूतध्वजान् कर्णः शरैर् निन्ये यमक्षयम् ॥ (१६।२)
sāśvasūtadhvajān karṇaḥ śarair ninye yamakṣayam ||
योधमुख्या महावीर्याः पाण्डूनां कर्णम् आहवे । (१७।१)
yodhamukhyā mahāvīryāḥ pāṇḍūnāṃ karṇam āhave |
शीघ्रास्त्रा दिवम् आवृत्य परिवव्रुः समन्ततः ॥ (१७।२)
śīghrāstrā divam āvṛtya parivavruḥ samantataḥ ||
ततः कर्णो द्विषत्सेनां शरवर्षैर् विलोडयन् । (१८।१)
tataḥ karṇo dviṣatsenāṃ śaravarṣair viloḍayan |
विजगाहे ऽण्डजापूर्णां पद्मिनीम् इव यूथपः ॥ (१८।२)
vijagāhe 'ṇḍajāpūrṇāṃ padminīm iva yūthapaḥ ||
द्विषन्मध्यम् अवस्कन्द्य राधेयो धनुर् उत्तमम् । (१९।१)
dviṣanmadhyam avaskandya rādheyo dhanur uttamam |
विधुन्वानः शितैर् बाणैः शिरांस्य् उन्मथ्य पातयत् ॥ (१९।२)
vidhunvānaḥ śitair bāṇaiḥ śirāṃsy unmathya pātayat ||
चर्मवर्माणि संछिन्द्य निर्वापम् इव देहिनाम् । (२०।१)
carmavarmāṇi saṃchindya nirvāpam iva dehinām |
विषेहुर् नास्य संपर्कं द्वितीयस्य पतत्रिणः ॥ (२०।२)
viṣehur nāsya saṃparkaṃ dvitīyasya patatriṇaḥ ||
वर्मदेहासुमथनैर् धनुषः प्रच्युतैः शरैः । (२१।१)
varmadehāsumathanair dhanuṣaḥ pracyutaiḥ śaraiḥ |
मौर्व्या तलत्रैर् न्यवधीत् कशया वाजिनो यथा ॥ (२१।२)
maurvyā talatrair nyavadhīt kaśayā vājino yathā ||
ततः पाञ्चालपुत्राश् च द्रौपदेयाश् च मारिष । (२३।१)
tataḥ pāñcālaputrāś ca draupadeyāś ca māriṣa |
यमौ च युयुधानश् च सहिताः कर्णम् अभ्ययुः ॥ (२३।२)
yamau ca yuyudhānaś ca sahitāḥ karṇam abhyayuḥ ||
व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः । (२४।१)
vyāyacchamānāḥ subhṛśaṃ kurupāṇḍavasṛñjayāḥ |
प्रियान् असून् रणे त्यक्त्वा योधा जग्मुः परस्परम् ॥ (२४।२)
priyān asūn raṇe tyaktvā yodhā jagmuḥ parasparam ||
गदाभिर् मुसलैश् चान्ये परिघैश् च महारथाः ॥ (२५।२)
gadābhir musalaiś cānye parighaiś ca mahārathāḥ ||
समभ्यधावन्त भृशं देवा दण्डैर् इवोद्यतैः । (२६।१)
samabhyadhāvanta bhṛśaṃ devā daṇḍair ivodyataiḥ |
नदन्तश् चाह्वयन्तश् च प्रवल्गन्तश् च मारिष ॥ (२६।२)
nadantaś cāhvayantaś ca pravalgantaś ca māriṣa ||
ततो निजघ्नुर् अन्योन्यं पेतुश् चाहवताडिताः । (२७।१)
tato nijaghnur anyonyaṃ petuś cāhavatāḍitāḥ |
वमन्तो रुधिरं गात्रैर् विमस्तिष्केक्षणा युधि ॥ (२७।२)
vamanto rudhiraṃ gātrair vimastiṣkekṣaṇā yudhi ||
दन्तपूर्णैः सरुधिरैर् वक्त्रैर् दाडिमसंनिभैः । (२८।१)
dantapūrṇaiḥ sarudhirair vaktrair dāḍimasaṃnibhaiḥ |
जीवन्त इव चाप्य् एते तस्थुः शस्त्रोपबृंहिताः ॥ (२८।२)
jīvanta iva cāpy ete tasthuḥ śastropabṛṃhitāḥ ||
परस्परं चाप्य् अपरे पट्टिशैर् असिभिस् तथा । (२९।१)
parasparaṃ cāpy apare paṭṭiśair asibhis tathā |
शक्तिभिर् भिण्डिपालैश् च नखरप्रासतोमरैः ॥ (२९।२)
śaktibhir bhiṇḍipālaiś ca nakharaprāsatomaraiḥ ||
ततक्षुश् चिछिदुश् चान्ये बिभिदुश् चिक्षिपुस् तथा । (३०।१)
tatakṣuś cichiduś cānye bibhiduś cikṣipus tathā |
संचकर्तुश् च जघ्नुश् च क्रुद्धा निर्बिभिदुश् च ह ॥ (३०।२)
saṃcakartuś ca jaghnuś ca kruddhā nirbibhiduś ca ha ||
पेतुर् अन्योन्यनिहता व्यसवो रुधिरोक्षिताः । (३१।१)
petur anyonyanihatā vyasavo rudhirokṣitāḥ |
क्षरन्तः स्वरसं रक्तं प्रकृताश् चन्दना इव ॥ (३१।२)
kṣarantaḥ svarasaṃ raktaṃ prakṛtāś candanā iva ||
रथै रथा विनिहता हस्तिनश् चापि हस्तिभिः । (३२।१)
rathai rathā vinihatā hastinaś cāpi hastibhiḥ |
नरा नरवरैः पेतुर् अश्वाश् चाश्वैः सहस्रशः ॥ (३२।२)
narā naravaraiḥ petur aśvāś cāśvaiḥ sahasraśaḥ ||
ध्वजाः शिरांसि छत्राणि द्विपहस्ता नृणां भुजाः । (३३।१)
dhvajāḥ śirāṃsi chatrāṇi dvipahastā nṛṇāṃ bhujāḥ |
क्षुरैर् भल्लार्धचन्द्रैश् च छिन्नाः शस्त्राणि तत्यजुः ॥ (३३।२)
kṣurair bhallārdhacandraiś ca chinnāḥ śastrāṇi tatyajuḥ ||
नरांश् च नागांश् च रथान् हयान् ममृदुर् आहवे । (३४।१)
narāṃś ca nāgāṃś ca rathān hayān mamṛdur āhave |
अश्वारोहैर् हताः शूराश् छिन्नहस्ताश् च दन्तिनः ॥ (३४।२)
aśvārohair hatāḥ śūrāś chinnahastāś ca dantinaḥ ||
सपताका ध्वजाः पेतुर् विशीर्णा इव पर्वताः । (३५।१)
sapatākā dhvajāḥ petur viśīrṇā iva parvatāḥ |
पत्तिभिश् च समाप्लुत्य द्विरदाः स्यन्दनास् तथा ॥ (३५।२)
pattibhiś ca samāplutya dviradāḥ syandanās tathā ||
प्रहता हन्यमानाश् च पतिताश् चैव सर्वशः । (३६।१)
prahatā hanyamānāś ca patitāś caiva sarvaśaḥ |
अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर् हताः । (३६।२)
aśvārohāḥ samāsādya tvaritāḥ pattibhir hatāḥ |
सादिभिः पत्तिसंघाश् च निहता युधि शेरते ॥ (३६।३)
sādibhiḥ pattisaṃghāś ca nihatā yudhi śerate ||
रूपाण्य् अत्यर्थकाम्यानि द्विरदाश्वनृणां नृप । (३८।१)
rūpāṇy atyarthakāmyāni dviradāśvanṛṇāṃ nṛpa |
समुन्नानीव वस्त्राणि प्रापुर् दुर्दर्शतां परम् ॥ (३८।२)
samunnānīva vastrāṇi prāpur durdarśatāṃ param ||
Data courtesy of The Digital Corpus of Sanskrit.