MBh, 3, 55
Select a line for its word-by-word analysis.
अथाब्रवीत् कलिं शक्रः सम्प्रेक्ष्य बलवृत्रहा । (२।१)
athābravīt kaliṃ śakraḥ samprekṣya balavṛtrahā |
ततो ऽब्रवीत् कलिः शक्रं दमयन्त्याः स्वयंवरम् । (३।१)
tato 'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram |
तम् अब्रवीत् प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः । (४।१)
tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ |
देवान् आमन्त्र्य तान् सर्वान् उवाचेदं वचस् तदा ॥ (५।२)
devān āmantrya tān sarvān uvācedaṃ vacas tadā ||
देवानां मानुषं मध्ये यत् सा पतिम् अविन्दत । (६।१)
devānāṃ mānuṣaṃ madhye yat sā patim avindata |
ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् ॥ (६।२)
nanu tasyā bhavennyāyyaṃ vipulaṃ daṇḍadhāraṇam ||
एवम् उक्ते तु कलिना प्रत्यूचुस् ते दिवौकसः । (७।१)
evam ukte tu kalinā pratyūcus te divaukasaḥ |
यस्मिन् सत्यं धृतिर् दानं तपः शौचं दमः शमः । (९।१)
yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ |
आत्मानं स शपेन्मूढो हन्याच्चात्मानम् आत्मना । (१०।१)
ātmānaṃ sa śapenmūḍho hanyāccātmānam ātmanā |
कृच्छ्रे स नरके मज्जेद् अगाधे विपुले ऽप्लवे । (११।१)
kṛcchre sa narake majjed agādhe vipule 'plave |
एवम् उक्त्वा कलिं देवा द्वापरं च दिवं ययुः ॥ (११।२)
evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ ||
ततो गतेषु देवेषु कलिर् द्वापरम् अब्रवीत् । (१२।१)
tato gateṣu deveṣu kalir dvāparam abravīt |
संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर ॥ (१२।२)
saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara ||
भ्रंशयिष्यामि तं राज्यान् न भैम्या सह रंस्यते । (१३।१)
bhraṃśayiṣyāmi taṃ rājyān na bhaimyā saha raṃsyate |
त्वम् अप्यक्षान् समाविश्य कर्तुं साहाय्यम् अर्हसि ॥ (१३।२)
tvam apyakṣān samāviśya kartuṃ sāhāyyam arhasi ||
Data courtesy of The Digital Corpus of Sanskrit.