महाभारतMahābhārata

MBh, 5, 174

838 of 1995 · 60 verses

Select a line for its word-by-word analysis.

1.1१.१

भीष्म उवाच । (१।१)

bhīṣma uvāca

1.2१.२

ततस्ते तापसाः सर्वे कार्यवन्तो ऽभवंस्तदा । (१।२)

tataste tāpasāḥ sarve kāryavanto 'bhavaṃstadā |

1.3१.३

तां कन्यां चिन्तयन्तो वै किं कार्यम् इति धर्मिणः ॥ (१।३)

tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇaḥ ||

2.1२.१

केचिद् आहुः पितुर् वेश्म नीयताम् इति तापसाः । (२।१)

kecid āhuḥ pitur veśma nīyatām iti tāpasāḥ |

2.2२.२

केचिद् अस्मदुपालम्भे मतिं चक्रुर् द्विजोत्तमाः ॥ (२।२)

kecid asmadupālambhe matiṃ cakrur dvijottamāḥ ||

3.1३.१

केचिच्छाल्वपतिं गत्वा नियोज्यम् इति मेनिरे । (३।१)

kecicchālvapatiṃ gatvā niyojyam iti menire |

3.2३.२

नेति केचिद् व्यवस्यन्ति प्रत्याख्याता हि तेन सा ॥ (३।२)

neti kecid vyavasyanti pratyākhyātā hi tena sā ||

4.1४.१

एवं गते किं नु शक्यं भद्रे कर्तुं मनीषिभिः । (४।१)

evaṃ gate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ |

4.2४.२

पुनर् ऊचुश्च ते सर्वे तापसाः संशितव्रताः ॥ (४।२)

punar ūcuśca te sarve tāpasāḥ saṃśitavratāḥ ||

5.1५.१

अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः । (५।१)

alaṃ pravrajiteneha bhadre śṛṇu hitaṃ vacaḥ |

5.2५.२

इतो गच्छस्व भद्रं ते पितुर् एव निवेशनम् ॥ (५।२)

ito gacchasva bhadraṃ te pitur eva niveśanam ||

6.1६.१

प्रतिपत्स्यति राजा स पिता ते यद् अनन्तरम् । (६।१)

pratipatsyati rājā sa pitā te yad anantaram |

6.2६.२

तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता । (६।२)

tatra vatsyasi kalyāṇi sukhaṃ sarvaguṇānvitā |

6.3६.३

न च ते ऽन्या गतिर् न्याय्या भवेद् भद्रे यथा पिता ॥ (६।३)

na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā ||

7.1७.१

पतिर् वापि गतिर् नार्याः पिता वा वरवर्णिनि । (७।१)

patir vāpi gatir nāryāḥ pitā vā varavarṇini |

7.2७.२

गतिः पतिः समस्थाया विषमे तु पिता गतिः ॥ (७।२)

gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ ||

8.1८.१

प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः । (८।१)

pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ |

8.2८.२

राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि ॥ (८।२)

rājaputryāḥ prakṛtyā ca kumāryāstava bhāmini ||

9.1९.१

भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि । (९।१)

bhadre doṣā hi vidyante bahavo varavarṇini |

9.2९.२

आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर् गृहे ॥ (९।२)

āśrame vai vasantyāste na bhaveyuḥ pitur gṛhe ||

10.1१०.१

ततस्तु ते ऽब्रुवन् वाक्यं ब्राह्मणास्तां तपस्विनीम् । (१०।१)

tatastu te 'bruvan vākyaṃ brāhmaṇāstāṃ tapasvinīm |

10.2१०.२

त्वाम् इहैकाकिनीं दृष्ट्वा निर्जने गहने वने । (१०।२)

tvām ihaikākinīṃ dṛṣṭvā nirjane gahane vane |

10.3१०.३

प्रार्थयिष्यन्ति राजेन्द्रास्तस्मान्मैवं मनः कृथाः ॥ (१०।३)

prārthayiṣyanti rājendrāstasmānmaivaṃ manaḥ kṛthāḥ ||

11.1११.१

अम्बोवाच । (११।१)

ambovāca |

11.2११.२

न शक्यं काशिनगरीं पुनर् गन्तुं पितुर् गृहान् । (११।२)

na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān |

11.3११.३

अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥ (११।३)

avajñātā bhaviṣyāmi bāndhavānāṃ na saṃśayaḥ ||

12.1१२.१

उषिता ह्यन्यथा बाल्ये पितुर् वेश्मनि तापसाः । (१२।१)

uṣitā hyanyathā bālye pitur veśmani tāpasāḥ |

12.2१२.२

नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम । (१२।२)

nāhaṃ gamiṣye bhadraṃ vastatra yatra pitā mama |

12.3१२.३

तपस्तप्तुम् अभीप्सामि तापसैः परिपालिता ॥ (१२।३)

tapastaptum abhīpsāmi tāpasaiḥ paripālitā ||

13.1१३.१

यथा परे ऽपि मे लोके न स्याद् एवं महात्ययः । (१३।१)

yathā pare 'pi me loke na syād evaṃ mahātyayaḥ |

13.2१३.२

दौर्भाग्यं ब्राह्मणश्रेष्ठास्तस्मात् तप्स्याम्यहं तपः ॥ (१३।२)

daurbhāgyaṃ brāhmaṇaśreṣṭhāstasmāt tapsyāmyahaṃ tapaḥ ||

14.1१४.१

भीष्म उवाच । (१४।१)

bhīṣma uvāca

14.2१४.२

इत्येवं तेषु विप्रेषु चिन्तयत्सु तथा तथा । (१४।२)

ityevaṃ teṣu vipreṣu cintayatsu tathā tathā |

14.3१४.३

राजर्षिस्तद् वनं प्राप्तस्तपस्वी होत्रवाहनः ॥ (१४।३)

rājarṣistad vanaṃ prāptastapasvī hotravāhanaḥ ||

15.1१५.१

ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् । (१५।१)

tataste tāpasāḥ sarve pūjayanti sma taṃ nṛpam |

15.2१५.२

पूजाभिः स्वागताद्याभिर् आसनेनोदकेन च ॥ (१५।२)

pūjābhiḥ svāgatādyābhir āsanenodakena ca ||

16.1१६.१

तस्योपविष्टस्य ततो विश्रान्तस्योपशृण्वतः । (१६।१)

tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ |

16.2१६.२

पुनर् एव कथां चक्रुः कन्यां प्रति वनौकसः ॥ (१६।२)

punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ ||

17.1१७.१

अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत । (१७।१)

ambāyāstāṃ kathāṃ śrutvā kāśirājñaśca bhārata |

17.2१७.२

स वेपमान उत्थाय मातुर् अस्याः पिता तदा । (१७।२)

sa vepamāna utthāya mātur asyāḥ pitā tadā |

17.3१७.३

तां कन्याम् अङ्कम् आरोप्य पर्याश्वासयत प्रभो ॥ (१७।३)

tāṃ kanyām aṅkam āropya paryāśvāsayata prabho ||

18.1१८.१

स ताम् अपृच्छत् कार्त्स्न्येन व्यसनोत्पत्तिम् आदितः । (१८।१)

sa tām apṛcchat kārtsnyena vyasanotpattim āditaḥ |

18.2१८.२

सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ॥ (१८।२)

sā ca tasmai yathāvṛttaṃ vistareṇa nyavedayat ||

19.1१९.१

ततः स राजर्षिर् अभूद् दुःखशोकसमन्वितः । (१९।१)

tataḥ sa rājarṣir abhūd duḥkhaśokasamanvitaḥ |

19.2१९.२

कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः ॥ (१९।२)

kāryaṃ ca pratipede tanmanasā sumahātapāḥ ||

20.1२०.१

अब्रवीद् वेपमानश्च कन्याम् आर्तां सुदुःखितः । (२०।१)

abravīd vepamānaśca kanyām ārtāṃ suduḥkhitaḥ |

20.2२०.२

मा गाः पितृगृहं भद्रे मातुस्ते जनको ह्यहम् ॥ (२०।२)

mā gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham ||

21.1२१.१

दुःखं छेत्स्यामि ते ऽहं वै मयि वर्तस्व पुत्रिके । (२१।१)

duḥkhaṃ chetsyāmi te 'haṃ vai mayi vartasva putrike |

21.2२१.२

पर्याप्तं ते मनः पुत्रि यद् एवं परिशुष्यसि ॥ (२१।२)

paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi ||

22.1२२.१

गच्छ मद्वचनाद् रामं जामदग्न्यं तपस्विनम् । (२२।१)

gaccha madvacanād rāmaṃ jāmadagnyaṃ tapasvinam |

22.2२२.२

रामस्तव महद् दुःखं शोकं चापनयिष्यति । (२२।२)

rāmastava mahad duḥkhaṃ śokaṃ cāpanayiṣyati |

22.3२२.३

हनिष्यति रणे भीष्मं न करिष्यति चेद् वचः ॥ (२२।३)

haniṣyati raṇe bhīṣmaṃ na kariṣyati ced vacaḥ ||

23.1२३.१

तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् । (२३।१)

taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam |

23.2२३.२

प्रतिष्ठापयिता स त्वां समे पथि महातपाः ॥ (२३।२)

pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ ||

24.1२४.१

ततस्तु सस्वरं बाष्पम् उत्सृजन्ती पुनः पुनः । (२४।१)

tatastu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ |

24.2२४.२

अब्रवीत् पितरं मातुः सा तदा होत्रवाहनम् ॥ (२४।२)

abravīt pitaraṃ mātuḥ sā tadā hotravāhanam ||

25.1२५.१

अभिवादयित्वा शिरसा गमिष्ये तव शासनात् । (२५।१)

abhivādayitvā śirasā gamiṣye tava śāsanāt |

25.2२५.२

अपि नामाद्य पश्येयम् आर्यं तं लोकविश्रुतम् ॥ (२५।२)

api nāmādya paśyeyam āryaṃ taṃ lokaviśrutam ||

26.1२६.१

कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः । (२६।१)

kathaṃ ca tīvraṃ duḥkhaṃ me haniṣyati sa bhārgavaḥ |

26.2२६.२

एतद् इच्छाम्यहं श्रोतुम् अथ यास्यामि तत्र वै ॥ (२६।२)

etad icchāmyahaṃ śrotum atha yāsyāmi tatra vai ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 5, 174

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit