MBh, 1, 18
Select a line for its word-by-word analysis.
एतत् ते सर्वम् आख्यातम् अमृतं मथितं यथा । (१।२)
etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā |
यत्र सो ऽश्वः समुत्पन्नः श्रीमान् अतुलविक्रमः ॥ (१।३)
yatra so 'śvaḥ samutpannaḥ śrīmān atulavikramaḥ ||
यं निशाम्य तदा कद्रूर् विनताम् इदम् अब्रवीत् । (२।१)
yaṃ niśāmya tadā kadrūr vinatām idam abravīt |
उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् ॥ (२।२)
uccaiḥśravā nu kiṃvarṇo bhadre jānīhi māciram ||
श्वेत एवाश्वराजो ऽयं किं वा त्वं मन्यसे शुभे । (३।२)
śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe |
ब्रूहि वर्णं त्वम् अप्यस्य ततो ऽत्र विपणावहे ॥ (३।३)
brūhi varṇaṃ tvam apyasya tato 'tra vipaṇāvahe ||
जग्मतुः स्वगृहान् एव श्वो द्रक्ष्याव इति स्म ह ॥ (५।३)
jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha ||
ततः पुत्रसहस्रं तु कद्रूर् जिह्मं चिकीर्षती । (६।१)
tataḥ putrasahasraṃ tu kadrūr jihmaṃ cikīrṣatī |
आविशध्वं हयं क्षिप्रं दासी न स्याम् अहं यथा । (७।१)
āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā |
तद् वाक्यं नान्वपद्यन्त ताञ् शशाप भुजंगमान् ॥ (७।२)
tad vākyaṃ nānvapadyanta tāñ śaśāpa bhujaṃgamān ||
अतिक्रूरं समुद्दिष्टं कद्र्वा दैवाद् अतीव हि ॥ (९।२)
atikrūraṃ samuddiṣṭaṃ kadrvā daivād atīva hi ||
सार्धं देवगणैः सर्वैर् वाचं ताम् अन्वमोदत । (१०।१)
sārdhaṃ devagaṇaiḥ sarvair vācaṃ tām anvamodata |
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ॥ (१०।२)
bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā ||
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै । (११।२)
teṣāṃ tīkṣṇaviṣatvāddhi prajānāṃ ca hitāya vai |
युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम् । (११।३)
yuktaṃ mātrā kṛtaṃ teṣāṃ parapīḍopasarpiṇām |
अन्येषाम् अपि सत्त्वानां नित्यं दोषपरास्तु ये । (११।४)
anyeṣām api sattvānāṃ nityaṃ doṣaparāstu ye |
तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते । (११।५)
teṣāṃ prāṇāntiko daṇḍo daivena vinipātyate |
एवं सम्भाष्य देवस्तु पूज्य कद्रूं च तां तदा । (११।६)
evaṃ sambhāṣya devastu pūjya kadrūṃ ca tāṃ tadā |
यद् एते दन्दशूकाश्च सर्पा जातास्त्वयानघ । (११।८)
yad ete dandaśūkāśca sarpā jātāstvayānagha |
तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन । (११।१०)
tatra manyustvayā tāta na kartavyaḥ kathaṃcana |
दृष्टं पुरातनं ह्येतद् यज्ञे सर्पविनाशनम् । (११।११)
dṛṣṭaṃ purātanaṃ hyetad yajñe sarpavināśanam |
इत्युक्त्वा सृष्टिकृद् देवस्तं प्रसाद्य प्रजापतिम् । (११।१२)
ityuktvā sṛṣṭikṛd devastaṃ prasādya prajāpatim |
प्रादाद् विषहणीं विद्यां काश्यपाय महात्मने । (११।१३)
prādād viṣahaṇīṃ vidyāṃ kāśyapāya mahātmane |
एवं शप्तेषु नागेषु कद्र्वा च द्विजसत्तम । (११।१४)
evaṃ śapteṣu nāgeṣu kadrvā ca dvijasattama |
उद्विग्नः शापतस्तस्याः कद्रूं कर्कोटको ऽब्रवीत् । (११।१५)
udvignaḥ śāpatastasyāḥ kadrūṃ karkoṭako 'bravīt |
आविश्य वाजिनं मुख्यं वालो भूत्वाञ्जनप्रभः । (११।१७)
āviśya vājinaṃ mukhyaṃ vālo bhūtvāñjanaprabhaḥ |
दर्शयिष्यामि तत्राहम् आत्मानं कामम् आश्वस । (११।१८)
darśayiṣyāmi tatrāham ātmānaṃ kāmam āśvasa |
एवम् अस्त्विति तं पुत्रं प्रत्युवाच यशस्विनी ॥ (११।१९)
evam astviti taṃ putraṃ pratyuvāca yaśasvinī ||
Data courtesy of The Digital Corpus of Sanskrit.