महाभारतMahābhārata

MBh, 12, 292

1620 of 1995 · 102 verses

Select a line for its word-by-word analysis.

1.1१.१

वसिष्ठ उवाच । (१।१)

vasiṣṭha uvāca

1.2१.२

एवम् अप्रतिबुद्धत्वाद् अबुद्धम् अनुवर्तते । (१।२)

evam apratibuddhatvād abuddham anuvartate |

1.3१.३

देहाद् देहसहस्राणि तथा समभिपद्यते ॥ (१।३)

dehād dehasahasrāṇi tathā samabhipadyate ||

2.1२.१

तिर्यग्योनिसहस्रेषु कदाचिद् देवतास्वपि । (२।१)

tiryagyonisahasreṣu kadācid devatāsvapi |

2.2२.२

उपपद्यति संयोगाद् गुणैः सह गुणक्षयात् ॥ (२।२)

upapadyati saṃyogād guṇaiḥ saha guṇakṣayāt ||

3.1३.१

मानुषत्वाद् दिवं याति दिवो मानुष्यम् एव च । (३।१)

mānuṣatvād divaṃ yāti divo mānuṣyam eva ca |

3.2३.२

मानुष्यान्निरयस्थानम् आनन्त्यं प्रतिपद्यते ॥ (३।२)

mānuṣyānnirayasthānam ānantyaṃ pratipadyate ||

4.1४.१

कोशकारो यथात्मानं कीटः समनुरुन्धति । (४।१)

kośakāro yathātmānaṃ kīṭaḥ samanurundhati |

4.2४.२

सूत्रतन्तुगुणैर् नित्यं तथायम् अगुणो गुणैः ॥ (४।२)

sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ ||

5.1५.१

द्वंद्वम् एति च निर्द्वंद्वस्तासु तास्विह योनिषु । (५।१)

dvaṃdvam eti ca nirdvaṃdvastāsu tāsviha yoniṣu |

5.2५.२

शीर्षरोगे ऽक्षिरोगे च दन्तशूले गलग्रहे ॥ (५।२)

śīrṣaroge 'kṣiroge ca dantaśūle galagrahe ||

6.1६.१

जलोदरे ऽर्शसां रोगे ज्वरगण्डविषूचिके । (६।१)

jalodare 'rśasāṃ roge jvaragaṇḍaviṣūcike |

6.2६.२

श्वित्रे कुष्ठे ऽग्निदाहे च सिध्मापस्मारयोर् अपि ॥ (६।२)

śvitre kuṣṭhe 'gnidāhe ca sidhmāpasmārayor api ||

7.1७.१

यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिषु । (७।१)

yāni cānyāni dvaṃdvāni prākṛtāni śarīriṣu |

7.2७.२

उत्पद्यन्ते विचित्राणि तान्येषो ऽप्यभिमन्यते । (७।२)

utpadyante vicitrāṇi tānyeṣo 'pyabhimanyate |

7.3७.३

अभिमन्यत्यभीमानात् तथैव सुकृतान्यपि ॥ (७।३)

abhimanyatyabhīmānāt tathaiva sukṛtānyapi ||

8.1८.१

एकवासाश्च दुर्वासाः शायी नित्यम् अधस्तथा । (८।१)

ekavāsāśca durvāsāḥ śāyī nityam adhastathā |

8.2८.२

मण्डूकशायी च तथा वीरासनगतस्तथा ॥ (८।२)

maṇḍūkaśāyī ca tathā vīrāsanagatastathā ||

9.1९.१

चीरधारणम् आकाशे शयनं स्थानम् एव च । (९।१)

cīradhāraṇam ākāśe śayanaṃ sthānam eva ca |

9.2९.२

इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा ॥ (९।२)

iṣṭakāprastare caiva kaṇṭakaprastare tathā ||

10.1१०.१

भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः । (१०।१)

bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ |

10.2१०.२

वीरस्थानाम्बुपङ्के च शयनं फलकेषु च ॥ (१०।२)

vīrasthānāmbupaṅke ca śayanaṃ phalakeṣu ca ||

11.1११.१

विविधासु च शय्यासु फलगृद्ध्यान्वितो ऽफलः । (११।१)

vividhāsu ca śayyāsu phalagṛddhyānvito 'phalaḥ |

11.2११.२

मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च ॥ (११।२)

muñjamekhalanagnatvaṃ kṣaumakṛṣṇājināni ca ||

12.1१२.१

शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः । (१२।१)

śāṇīvālaparīdhāno vyāghracarmaparicchadaḥ |

12.2१२.२

सिंहचर्मपरीधानः पट्टवासास्तथैव च ॥ (१२।२)

siṃhacarmaparīdhānaḥ paṭṭavāsāstathaiva ca ||

13.1१३.१

कीटकावसनश्चैव चीरवासास्तथैव च । (१३।१)

kīṭakāvasanaścaiva cīravāsāstathaiva ca |

13.2१३.२

वस्त्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान् ॥ (१३।२)

vastrāṇi cānyāni bahūnyabhimanyatyabuddhimān ||

14.1१४.१

भोजनानि विचित्राणि रत्नानि विविधानि च । (१४।१)

bhojanāni vicitrāṇi ratnāni vividhāni ca |

14.2१४.२

एकवस्त्रान्तराशित्वम् एककालिकभोजनम् ॥ (१४।२)

ekavastrāntarāśitvam ekakālikabhojanam ||

15.1१५.१

चतुर्थाष्टमकालश्च षष्ठकालिक एव च । (१५।१)

caturthāṣṭamakālaśca ṣaṣṭhakālika eva ca |

15.2१५.२

षड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः ॥ (१५।२)

ṣaḍrātrabhojanaścaiva tathaivāṣṭāhabhojanaḥ ||

16.1१६.१

सप्तरात्रदशाहारो द्वादशाहार एव च । (१६।१)

saptarātradaśāhāro dvādaśāhāra eva ca |

16.2१६.२

मासोपवासी मूलाशी फलाहारस्तथैव च ॥ (१६।२)

māsopavāsī mūlāśī phalāhārastathaiva ca ||

17.1१७.१

वायुभक्षो ऽम्बुपिण्याकगोमयादन एव च । (१७।१)

vāyubhakṣo 'mbupiṇyākagomayādana eva ca |

17.2१७.२

गोमूत्रभोजनश्चैव शाकपुष्पाद एव च ॥ (१७।२)

gomūtrabhojanaścaiva śākapuṣpāda eva ca ||

18.1१८.१

शैवालभोजनश्चैव तथाचामेन वर्तयन् । (१८।१)

śaivālabhojanaścaiva tathācāmena vartayan |

18.2१८.२

वर्तयञ् शीर्णपर्णैश्च प्रकीर्णफलभोजनः ॥ (१८।२)

vartayañ śīrṇaparṇaiśca prakīrṇaphalabhojanaḥ ||

19.1१९.१

विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया । (१९।१)

vividhāni ca kṛcchrāṇi sevate sukhakāṅkṣayā |

19.2१९.२

चान्द्रायणानि विधिवल् लिङ्गानि विविधानि च ॥ (१९।२)

cāndrāyaṇāni vidhival liṅgāni vividhāni ca ||

20.1२०.१

चातुराश्रम्यपन्थानम् आश्रयत्याश्रमान् अपि । (२०।१)

cāturāśramyapanthānam āśrayatyāśramān api |

20.2२०.२

उपासीनश्च पाषण्डान् गुहाः शैलांस्तथैव च ॥ (२०।२)

upāsīnaśca pāṣaṇḍān guhāḥ śailāṃstathaiva ca ||

21.1२१.१

विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च । (२१।१)

viviktāśca śilāchāyāstathā prasravaṇāni ca |

21.2२१.२

विविधानि च जप्यानि विविधानि व्रतानि च ॥ (२१।२)

vividhāni ca japyāni vividhāni vratāni ca ||

22.1२२.१

नियमान् सुविचित्रांश्च विविधानि तपांसि च । (२२।१)

niyamān suvicitrāṃśca vividhāni tapāṃsi ca |

22.2२२.२

यज्ञांश्च विविधाकारान् विधींश्च विविधांस्तथा ॥ (२२।२)

yajñāṃśca vividhākārān vidhīṃśca vividhāṃstathā ||

23.1२३.१

वणिक्पथं द्विजक्षत्रं वैश्यशूद्रं तथैव च । (२३।१)

vaṇikpathaṃ dvijakṣatraṃ vaiśyaśūdraṃ tathaiva ca |

23.2२३.२

दानं च विविधाकारं दीनान्धकृपणेष्वपि ॥ (२३।२)

dānaṃ ca vividhākāraṃ dīnāndhakṛpaṇeṣvapi ||

24.1२४.१

अभिमन्यत्यसंबोधात् तथैव त्रिविधान् गुणान् । (२४।१)

abhimanyatyasaṃbodhāt tathaiva trividhān guṇān |

24.2२४.२

सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च । (२४।२)

sattvaṃ rajastamaścaiva dharmārthau kāma eva ca |

24.3२४.३

प्रकृत्यात्मानम् एवात्मा एवं प्रविभजत्युत ॥ (२४।३)

prakṛtyātmānam evātmā evaṃ pravibhajatyuta ||

25.1२५.१

स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः । (२५।१)

svadhākāravaṣaṭkārau svāhākāranamaskriyāḥ |

25.2२५.२

याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम् । (२५।२)

yājanādhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham |

25.3२५.३

यजनाध्ययने चैव यच्चान्यद् अपि किंचन ॥ (२५।३)

yajanādhyayane caiva yaccānyad api kiṃcana ||

26.1२६.१

जन्ममृत्युविवादे च तथा विशसने ऽपि च । (२६।१)

janmamṛtyuvivāde ca tathā viśasane 'pi ca |

26.2२६.२

शुभाशुभमयं सर्वम् एतद् आहुः क्रियापथम् ॥ (२६।२)

śubhāśubhamayaṃ sarvam etad āhuḥ kriyāpatham ||

27.1२७.१

प्रकृतिः कुरुते देवी महाप्रलयम् एव च । (२७।१)

prakṛtiḥ kurute devī mahāpralayam eva ca |

27.2२७.२

दिवसान्ते गुणान् एतान् अभ्येत्यैको ऽवतिष्ठति ॥ (२७।२)

divasānte guṇān etān abhyetyaiko 'vatiṣṭhati ||

28.1२८.१

रश्मिजालम् इवादित्यस्तत्कालेन नियच्छति । (२८।१)

raśmijālam ivādityastatkālena niyacchati |

28.2२८.२

एवम् एषो ऽसकृत् सर्वं क्रीडार्थम् अभिमन्यते ॥ (२८।२)

evam eṣo 'sakṛt sarvaṃ krīḍārtham abhimanyate ||

29.1२९.१

आत्मरूपगुणान् एतान् विविधान् हृदयप्रियान् । (२९।१)

ātmarūpaguṇān etān vividhān hṛdayapriyān |

29.2२९.२

एवम् एव विकुर्वाणः सर्गप्रलयकर्मणी ॥ (२९।२)

evam eva vikurvāṇaḥ sargapralayakarmaṇī ||

30.1३०.१

क्रियाक्रिया पथे रक्तस्त्रिगुणस्त्रिगुणातिगः । (३०।१)

kriyākriyā pathe raktastriguṇastriguṇātigaḥ |

30.2३०.२

क्रियाक्रियापथोपेतस्तथा तद् इति मन्यते ॥ (३०।२)

kriyākriyāpathopetastathā tad iti manyate ||

31.1३१.१

एवं द्वंद्वान्यथैतानि वर्तन्ते मम नित्यशः । (३१।१)

evaṃ dvaṃdvānyathaitāni vartante mama nityaśaḥ |

31.2३१.२

ममैवैतानि जायन्ते बाधन्ते तानि माम् इति ॥ (३१।२)

mamaivaitāni jāyante bādhante tāni mām iti ||

32.1३२.१

निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप । (३२।१)

nistartavyānyathaitāni sarvāṇīti narādhipa |

32.2३२.२

मन्यते ऽयं ह्यबुद्धित्वात् तथैव सुकृतान्यपि ॥ (३२।२)

manyate 'yaṃ hyabuddhitvāt tathaiva sukṛtānyapi ||

33.1३३.१

भोक्तव्यानि मयैतानि देवलोकगतेन वै । (३३।१)

bhoktavyāni mayaitāni devalokagatena vai |

33.2३३.२

इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ॥ (३३।२)

ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam ||

34.1३४.१

सुखम् एव च कर्तव्यं सकृत् कृत्वा सुखं मम । (३४।१)

sukham eva ca kartavyaṃ sakṛt kṛtvā sukhaṃ mama |

34.2३४.२

यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति ॥ (३४।२)

yāvadantaṃ ca me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati ||

35.1३५.१

भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम् । (३५।१)

bhaviṣyati ca me duḥkhaṃ kṛtenehāpyanantakam |

35.2३५.२

महद् दुःखं हि मानुष्यं निरये चापि मज्जनम् ॥ (३५।२)

mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam ||

36.1३६.१

निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः । (३६।१)

nirayāccāpi mānuṣyaṃ kālenaiṣyāmyahaṃ punaḥ |

36.2३६.२

मनुष्यत्वाच्च देवत्वं देवत्वात् पौरुषं पुनः । (३६।२)

manuṣyatvācca devatvaṃ devatvāt pauruṣaṃ punaḥ |

36.3३६.३

मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति ॥ (३६।३)

manuṣyatvācca nirayaṃ paryāyeṇopagacchati ||

37.1३७.१

य एवं वेत्ति वै नित्यं निरात्मात्मगुणैर् वृतः । (३७।१)

ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ |

37.2३७.२

तेन देवमनुष्येषु निरये चोपपद्यते ॥ (३७।२)

tena devamanuṣyeṣu niraye copapadyate ||

38.1३८.१

ममत्वेनावृतो नित्यं तत्रैव परिवर्तते । (३८।१)

mamatvenāvṛto nityaṃ tatraiva parivartate |

38.2३८.२

सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु ॥ (३८।२)

sargakoṭisahasrāṇi maraṇāntāsu mūrtiṣu ||

39.1३९.१

य एवं कुरुते कर्म शुभाशुभफलात्मकम् । (३९।१)

ya evaṃ kurute karma śubhāśubhaphalātmakam |

39.2३९.२

स एव फलम् अश्नाति त्रिषु लोकेषु मूर्तिमान् ॥ (३९।२)

sa eva phalam aśnāti triṣu lokeṣu mūrtimān ||

40.1४०.१

प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् । (४०।१)

prakṛtiḥ kurute karma śubhāśubhaphalātmakam |

40.2४०.२

प्रकृतिश्च तद् अश्नाति त्रिषु लोकेषु कामगा ॥ (४०।२)

prakṛtiśca tad aśnāti triṣu lokeṣu kāmagā ||

41.1४१.१

तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च । (४१।१)

tiryagyonau manuṣyatve devaloke tathaiva ca |

41.2४१.२

त्रीणि स्थानानि चैतानि जानीयात् प्राकृतानि ह ॥ (४१।२)

trīṇi sthānāni caitāni jānīyāt prākṛtāni ha ||

42.1४२.१

अलिङ्गां प्रकृतिं त्वाहुर् लिङ्गैर् अनुमिमीमहे । (४२।१)

aliṅgāṃ prakṛtiṃ tvāhur liṅgair anumimīmahe |

42.2४२.२

तथैव पौरुषं लिङ्गम् अनुमानाद्धि पश्यति ॥ (४२।२)

tathaiva pauruṣaṃ liṅgam anumānāddhi paśyati ||

43.1४३.१

स लिङ्गान्तरम् आसाद्य प्राकृतं लिङ्गम् अव्रणम् । (४३।१)

sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam |

43.2४३.२

व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते ॥ (४३।२)

vraṇadvārāṇyadhiṣṭhāya karmāṇyātmani manyate ||

44.1४४.१

श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च । (४४।१)

śrotrādīni tu sarvāṇi pañca karmendriyāṇi ca |

44.2४४.२

वागादीनि प्रवर्तन्ते गुणेष्वेव गुणैः सह । (४४।२)

vāgādīni pravartante guṇeṣveva guṇaiḥ saha |

44.3४४.३

अहम् एतानि वै कुर्वन्ममैतानीन्द्रियाणि च ॥ (४४।३)

aham etāni vai kurvanmamaitānīndriyāṇi ca ||

45.1४५.१

निरिन्द्रियो ऽभिमन्येत व्रणवान् अस्मि निर्व्रणः । (४५।१)

nirindriyo 'bhimanyeta vraṇavān asmi nirvraṇaḥ |

45.2४५.२

अलिङ्गो लिङ्गम् आत्मानम् अकालः कालम् आत्मनः ॥ (४५।२)

aliṅgo liṅgam ātmānam akālaḥ kālam ātmanaḥ ||

46.1४६.१

असत्त्वं सत्त्वम् आत्मानम् अतत्त्वं तत्त्वम् आत्मनः । (४६।१)

asattvaṃ sattvam ātmānam atattvaṃ tattvam ātmanaḥ |

46.2४६.२

अमृत्युर् मृत्युम् आत्मानम् अचरश्चरम् आत्मनः ॥ (४६।२)

amṛtyur mṛtyum ātmānam acaraścaram ātmanaḥ ||

47.1४७.१

अक्षेत्रः क्षेत्रम् आत्मानम् असर्गः सर्गम् आत्मनः । (४७।१)

akṣetraḥ kṣetram ātmānam asargaḥ sargam ātmanaḥ |

47.2४७.२

अतपास्तप आत्मानम् अगतिर् गतिम् आत्मनः ॥ (४७।२)

atapāstapa ātmānam agatir gatim ātmanaḥ ||

48.1४८.१

अभवो भवम् आत्मानम् अभयो भयम् आत्मनः । (४८।१)

abhavo bhavam ātmānam abhayo bhayam ātmanaḥ |

48.2४८.२

अक्षरः क्षरम् आत्मानम् अबुद्धिस्त्वभिमन्यते ॥ (४८।२)

akṣaraḥ kṣaram ātmānam abuddhistvabhimanyate ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 292

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit