महाभारतMahābhārata

MBh, 3, 204

502 of 1995 · 65 verses

Select a line for its word-by-word analysis.

1.1१.१

मार्कण्डेय उवाच । (१।१)

mārkaṇḍeya uvāca

1.2१.२

एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर । (१।२)

evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira |

1.3१.३

दृढं प्रीतमना विप्रो धर्मव्याधम् उवाच ह ॥ (१।३)

dṛḍhaṃ prītamanā vipro dharmavyādham uvāca ha ||

2.1२.१

न्याययुक्तम् इदं सर्वं भवता परिकीर्तितम् । (२।१)

nyāyayuktam idaṃ sarvaṃ bhavatā parikīrtitam |

2.2२.२

न ते ऽस्त्यविदितं किंचिद् धर्मेष्विह हि दृश्यते ॥ (२।२)

na te 'styaviditaṃ kiṃcid dharmeṣviha hi dṛśyate ||

3.1३.१

व्याध उवाच । (३।१)

vyādha uvāca

3.2३.२

प्रत्यक्षं मम यो धर्मस् तं पश्य द्विजसत्तम । (३।२)

pratyakṣaṃ mama yo dharmas taṃ paśya dvijasattama |

3.3३.३

येन सिद्धिर् इयं प्राप्ता मया ब्राह्मणपुंगव ॥ (३।३)

yena siddhir iyaṃ prāptā mayā brāhmaṇapuṃgava ||

4.1४.१

उत्तिष्ठ भगवन् क्षिप्रं प्रविश्याभ्यन्तरं गृहम् । (४।१)

uttiṣṭha bhagavan kṣipraṃ praviśyābhyantaraṃ gṛham |

4.2४.२

द्रष्टुम् अर्हसि धर्मज्ञ मातरं पितरं च मे ॥ (४।२)

draṣṭum arhasi dharmajña mātaraṃ pitaraṃ ca me ||

5.1५.१

मार्कण्डेय उवाच । (५।१)

mārkaṇḍeya uvāca

5.2५.२

इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् । (५।२)

ityuktaḥ sa praviśyātha dadarśa paramārcitam |

5.3५.३

सौधं हृद्यं चतुःशालम् अतीव च मनोहरम् ॥ (५।३)

saudhaṃ hṛdyaṃ catuḥśālam atīva ca manoharam ||

6.1६.१

देवतागृहसंकाशं दैवतैश् च सुपूजितम् । (६।१)

devatāgṛhasaṃkāśaṃ daivataiś ca supūjitam |

6.2६.२

शयनासनसम्बाधं गन्धैश् च परमैर् युतम् ॥ (६।२)

śayanāsanasambādhaṃ gandhaiś ca paramair yutam ||

7.1७.१

तत्र शुक्लाम्बरधरौ पितराव् अस्य पूजितौ । (७।१)

tatra śuklāmbaradharau pitarāv asya pūjitau |

7.2७.२

कृताहारौ सुतुष्टौ तावुपविष्टौ वरासने । (७।२)

kṛtāhārau sutuṣṭau tāvupaviṣṭau varāsane |

7.3७.३

धर्मव्याधस् तु तौ दृष्ट्वा पादेषु शिरसापतत् ॥ (७।३)

dharmavyādhas tu tau dṛṣṭvā pādeṣu śirasāpatat ||

8.1८.१

वृद्धावूचतुः । (८।१)

vṛddhāvūcatuḥ |

8.2८.२

उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस् त्वाम् अभिरक्षतु । (८।२)

uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu |

8.3८.३

प्रीतौ स्वस् तव शौचेन दीर्घम् आयुर् अवाप्नुहि । (८।३)

prītau svas tava śaucena dīrgham āyur avāpnuhi |

8.4८.४

सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ ॥ (८।४)

satputreṇa tvayā putra nityakālaṃ supūjitau ||

9.1९.१

न ते ऽन्यद् दैवतं किंचिद् दैवतेष्वपि वर्तते । (९।१)

na te 'nyad daivataṃ kiṃcid daivateṣvapi vartate |

9.2९.२

प्रयतत्वाद् द्विजातीनां दमेनासि समन्वितः ॥ (९।२)

prayatatvād dvijātīnāṃ damenāsi samanvitaḥ ||

10.1१०.१

पितुः पितामहा ये च तथैव प्रपितामहाः । (१०।१)

pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ |

10.2१०.२

प्रीतास् ते सततं पुत्र दमेनावां च पूजया ॥ (१०।२)

prītās te satataṃ putra damenāvāṃ ca pūjayā ||

11.1११.१

मनसा कर्मणा वाचा शुश्रूषा नैव हीयते । (११।१)

manasā karmaṇā vācā śuśrūṣā naiva hīyate |

11.2११.२

न चान्या वितथा बुद्धिर् दृश्यते साम्प्रतं तव ॥ (११।२)

na cānyā vitathā buddhir dṛśyate sāmprataṃ tava ||

12.1१२.१

जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ । (१२।१)

jāmadagnyena rāmeṇa yathā vṛddhau supūjitau |

12.2१२.२

तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक ॥ (१२।२)

tathā tvayā kṛtaṃ sarvaṃ tadviśiṣṭaṃ ca putraka ||

13.1१३.१

मार्कण्डेय उवाच । (१३।१)

mārkaṇḍeya uvāca

13.2१३.२

ततस् तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् । (१३।२)

tatas taṃ brāhmaṇaṃ tābhyāṃ dharmavyādho nyavedayat |

13.3१३.३

तौ स्वागतेन तं विप्रम् अर्चयामासतुस् तदा ॥ (१३।३)

tau svāgatena taṃ vipram arcayāmāsatus tadā ||

14.1१४.१

प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौ । (१४।१)

pratigṛhya ca tāṃ pūjāṃ dvijaḥ papraccha tāvubhau |

14.2१४.२

सपुत्राभ्यां सभृत्याभ्यां कच्चिद् वां कुशलं गृहे । (१४।२)

saputrābhyāṃ sabhṛtyābhyāṃ kaccid vāṃ kuśalaṃ gṛhe |

14.3१४.३

अनामयं च वां कच्चित् सदैवेह शरीरयोः ॥ (१४।३)

anāmayaṃ ca vāṃ kaccit sadaiveha śarīrayoḥ ||

15.1१५.१

वृद्धावूचतुः । (१५।१)

vṛddhāvūcatuḥ |

15.2१५.२

कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः । (१५।२)

kuśalaṃ no gṛhe vipra bhṛtyavarge ca sarvaśaḥ |

15.3१५.३

कच्चित् त्वम् अप्यविघ्नेन सम्प्राप्तो भगवन्न् इह ॥ (१५।३)

kaccit tvam apyavighnena samprāpto bhagavann iha ||

16.1१६.१

मार्कण्डेय उवाच । (१६।१)

mārkaṇḍeya uvāca

16.2१६.२

बाढम् इत्येव तौ विप्रः प्रत्युवाच मुदान्वितः । (१६।२)

bāḍham ityeva tau vipraḥ pratyuvāca mudānvitaḥ |

16.3१६.३

धर्मव्याधस् तु तं विप्रम् अर्थवद् वाक्यम् अब्रवीत् ॥ (१६।३)

dharmavyādhas tu taṃ vipram arthavad vākyam abravīt ||

17.1१७.१

पिता माता च भगवन्न् एतौ मे दैवतं परम् । (१७।१)

pitā mātā ca bhagavann etau me daivataṃ param |

17.2१७.२

यद् दैवतेभ्यः कर्तव्यं तद् एताभ्यां करोम्यहम् ॥ (१७।२)

yad daivatebhyaḥ kartavyaṃ tad etābhyāṃ karomyaham ||

18.1१८.१

त्रयस्त्रिंशद् यथा देवाः सर्वे शक्रपुरोगमाः । (१८।१)

trayastriṃśad yathā devāḥ sarve śakrapurogamāḥ |

18.2१८.२

संपूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम ॥ (१८।२)

saṃpūjyāḥ sarvalokasya tathā vṛddhāvimau mama ||

19.1१९.१

उपहारान् आहरन्तो देवतानां यथा द्विजाः । (१९।१)

upahārān āharanto devatānāṃ yathā dvijāḥ |

19.2१९.२

कुर्वते तद्वद् एताभ्यां करोम्यहम् अतन्द्रितः ॥ (१९।२)

kurvate tadvad etābhyāṃ karomyaham atandritaḥ ||

20.1२०.१

एतौ मे परमं ब्रह्मन् पिता माता च दैवतम् । (२०।१)

etau me paramaṃ brahman pitā mātā ca daivatam |

20.2२०.२

एतौ पुष्पैः फलै रत्नैस् तोषयामि सदा द्विज ॥ (२०।२)

etau puṣpaiḥ phalai ratnais toṣayāmi sadā dvija ||

21.1२१.१

एतावेवाग्नयो मह्यं यान् वदन्ति मनीषिणः । (२१।१)

etāvevāgnayo mahyaṃ yān vadanti manīṣiṇaḥ |

21.2२१.२

यज्ञा वेदाश् च चत्वारः सर्वम् एतौ मम द्विज ॥ (२१।२)

yajñā vedāś ca catvāraḥ sarvam etau mama dvija ||

22.1२२.१

एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः । (२२।१)

etadarthaṃ mama prāṇā bhāryā putrāḥ suhṛjjanāḥ |

22.2२२.२

सपुत्रदारः शुश्रूषां नित्यम् एव करोम्यहम् ॥ (२२।२)

saputradāraḥ śuśrūṣāṃ nityam eva karomyaham ||

23.1२३.१

स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये । (२३।१)

svayaṃ ca snāpayāmyetau tathā pādau pradhāvaye |

23.2२३.२

आहारं सम्प्रयच्छामि स्वयं च द्विजसत्तम ॥ (२३।२)

āhāraṃ samprayacchāmi svayaṃ ca dvijasattama ||

24.1२४.१

अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन् । (२४।१)

anukūlāḥ kathā vacmi vipriyaṃ parivarjayan |

24.2२४.२

अधर्मेणापि संयुक्तं प्रियम् आभ्यां करोम्यहम् ॥ (२४।२)

adharmeṇāpi saṃyuktaṃ priyam ābhyāṃ karomyaham ||

25.1२५.१

धर्मम् एव गुरुं ज्ञात्वा करोमि द्विजसत्तम । (२५।१)

dharmam eva guruṃ jñātvā karomi dvijasattama |

25.2२५.२

अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् ॥ (२५।२)

atandritaḥ sadā vipra śuśrūṣāṃ vai karomyaham ||

26.1२६.१

पञ्चैव गुरवो ब्रह्मन् पुरुषस्य बुभूषतः । (२६।१)

pañcaiva guravo brahman puruṣasya bubhūṣataḥ |

26.2२६.२

पिता माताग्निर् आत्मा च गुरुश् च द्विजसत्तम ॥ (२६।२)

pitā mātāgnir ātmā ca guruś ca dvijasattama ||

27.1२७.१

एतेषु यस् तु वर्तेत सम्यग् एव द्विजोत्तम । (२७।१)

eteṣu yas tu varteta samyag eva dvijottama |

27.2२७.२

भवेयुर् अग्नयस् तस्य परिचीर्णास् तु नित्यशः । (२७।२)

bhaveyur agnayas tasya paricīrṇās tu nityaśaḥ |

27.3२७.३

गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः ॥ (२७।३)

gārhasthye vartamānasya dharma eṣa sanātanaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 204

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit