MBh, 13, 107
Select a line for its word-by-word analysis.
आयुष्मान् केन भवति स्वल्पायुर् वापि मानवः । (२।१)
āyuṣmān kena bhavati svalpāyur vāpi mānavaḥ |
केन वा लभते कीर्तिं केन वा लभते श्रियम् ॥ (२।२)
kena vā labhate kīrtiṃ kena vā labhate śriyam ||
तपसा ब्रह्मचर्येण जपैर् होमैस्तथौषधैः । (३।१)
tapasā brahmacaryeṇa japair homaistathauṣadhaiḥ |
अत्र ते वर्तयिष्यामि यन्मां त्वम् अनुपृच्छसि । (४।२)
atra te vartayiṣyāmi yanmāṃ tvam anupṛcchasi |
अल्पायुर् येन भवति दीर्घायुर् वापि मानवः ॥ (४।३)
alpāyur yena bhavati dīrghāyur vāpi mānavaḥ ||
येन वा लभते कीर्तिं येन वा लभते श्रियम् । (५।१)
yena vā labhate kīrtiṃ yena vā labhate śriyam |
यथा च वर्तन् पुरुषः श्रेयसा सम्प्रयुज्यते ॥ (५।२)
yathā ca vartan puruṣaḥ śreyasā samprayujyate ||
आचारात् कीर्तिम् आप्नोति पुरुषः प्रेत्य चेह च ॥ (६।२)
ācārāt kīrtim āpnoti puruṣaḥ pretya ceha ca ||
त्रसन्ति यस्माद् भूतानि तथा परिभवन्ति च ॥ (७।२)
trasanti yasmād bhūtāni tathā paribhavanti ca ||
तस्मात् कुर्याद् इहाचारं य इच्छेद् भूतिम् आत्मनः । (८।१)
tasmāt kuryād ihācāraṃ ya icched bhūtim ātmanaḥ |
अप्यदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम् । (१०।१)
apyadṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam |
भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् ॥ (१०।२)
bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam ||
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः । (११।१)
ye nāstikā niṣkriyāśca guruśāstrātilaṅghinaḥ |
विशीला भिन्नमर्यादा नित्यं संकीर्णमैथुनाः । (१२।१)
viśīlā bhinnamaryādā nityaṃ saṃkīrṇamaithunāḥ |
श्रद्दधानो ऽनसूयश्च शतं वर्षाणि जीवति ॥ (१३।२)
śraddadhāno 'nasūyaśca śataṃ varṣāṇi jīvati ||
नित्योच्छिष्टः संकुसुको नेहायुर् विन्दते महत् ॥ (१५।२)
nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat ||
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । (१६।१)
brāhme muhūrte budhyeta dharmārthau cānucintayet |
उत्थायाचम्य तिष्ठेत पूर्वां संध्यां कृताञ्जलिः ॥ (१६।२)
utthāyācamya tiṣṭheta pūrvāṃ saṃdhyāṃ kṛtāñjaliḥ ||
नेक्षेतादित्यम् उद्यन्तं नास्तं यान्तं कदाचन ॥ (१७।२)
nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadācana ||
ऋषयो दीर्घसंध्यत्वाद् दीर्घम् आयुर् अवाप्नुवन् । (१८।१)
ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuvan |
तस्मात् तिष्ठेत् सदा पूर्वां पश्चिमां चैव वाग्यतः ॥ (१८।२)
tasmāt tiṣṭhet sadā pūrvāṃ paścimāṃ caiva vāgyataḥ ||
ये च पूर्वाम् उपासन्ते द्विजाः संध्यां न पश्चिमाम् । (१९।१)
ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām |
सर्वांस्तान् धार्मिको राजा शूद्रकर्माणि कारयेत् ॥ (१९।२)
sarvāṃstān dhārmiko rājā śūdrakarmāṇi kārayet ||
परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् । (२०।१)
paradārā na gantavyāḥ sarvavarṇeṣu karhicit |
प्रसाधनं च केशानाम् अञ्जनं दन्तधावनम् । (२१।१)
prasādhanaṃ ca keśānām añjanaṃ dantadhāvanam |
पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत् कदाचन । (२२।१)
purīṣamūtre nodīkṣennādhitiṣṭhet kadācana |
नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके । (२३।१)
notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike |
उभे मूत्रपुरीषे तु नाप्सु कुर्यात् कदाचन ॥ (२३।२)
ubhe mūtrapurīṣe tu nāpsu kuryāt kadācana ||
प्राङ्मुखो नित्यम् अश्नीयाद् वाग्यतो ऽन्नम् अकुत्सयन् । (२४।१)
prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan |
प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निम् उपस्पृशेत् ॥ (२४।२)
praskandayecca manasā bhuktvā cāgnim upaspṛśet ||
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । (२५।१)
āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ |
धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ॥ (२५।२)
dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ ||
नाधितिष्ठेत् तुषाञ्जातु केशभस्मकपालिकाः । (२६।१)
nādhitiṣṭhet tuṣāñjātu keśabhasmakapālikāḥ |
अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत् ॥ (२६।२)
anyasya cāpyupasthānaṃ dūrataḥ parivarjayet ||
शान्तिहोमांश्च कुर्वीत सावित्राणि च कारयेत् । (२७।१)
śāntihomāṃśca kurvīta sāvitrāṇi ca kārayet |
निषण्णश्चापि खादेत न तु गच्छन् कथंचन ॥ (२७।२)
niṣaṇṇaścāpi khādeta na tu gacchan kathaṃcana ||
मूत्रं न तिष्ठता कार्यं न भस्मनि न गोव्रजे ॥ (२८।१)
mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje ||
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् । (२९।१)
ārdrapādastu bhuñjīta nārdrapādastu saṃviśet |
आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् ॥ (२९।२)
ārdrapādastu bhuñjāno varṣāṇāṃ jīvate śatam ||
अग्निं गां ब्राह्मणं चैव तथास्यायुर् न रिष्यते ॥ (३०।२)
agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate ||
सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः ॥ (३१।२)
sūryācandramasau caiva nakṣatrāṇi ca sarvaśaḥ ||
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । (३२।१)
ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati |
प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ (३२।२)
pratyutthānābhivādābhyāṃ punastān pratipadyate ||
अभिवादयेत वृद्धांश्च आसनं चैव दापयेत् । (३३।१)
abhivādayeta vṛddhāṃśca āsanaṃ caiva dāpayet |
कृताञ्जलिर् उपासीत गच्छन्तं पृष्ठतो ऽन्वियात् ॥ (३३।२)
kṛtāñjalir upāsīta gacchantaṃ pṛṣṭhato 'nviyāt ||
न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् । (३४।१)
na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet |
नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुम् अर्हति । (३४।२)
naikavastreṇa bhoktavyaṃ na nagnaḥ snātum arhati |
स्वप्तव्यं नैव नग्नेन न चोच्छिष्टो ऽपि संविशेत् ॥ (३४।३)
svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet ||
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः । (३५।१)
ucchiṣṭo na spṛśecchīrṣaṃ sarve prāṇāstadāśrayāḥ |
केशग्रहान् प्रहारांश्च शिरस्येतान् विवर्जयेत् ॥ (३५।२)
keśagrahān prahārāṃśca śirasyetān vivarjayet ||
न पाणिभ्याम् उभाभ्यां च कण्डूयेज्जातु वै शिरः । (३६।१)
na pāṇibhyām ubhābhyāṃ ca kaṇḍūyejjātu vai śiraḥ |
न चाभीक्ष्णं शिरः स्नायात् तथास्यायुर् न रिष्यते ॥ (३६।२)
na cābhīkṣṇaṃ śiraḥ snāyāt tathāsyāyur na riṣyate ||
शिरःस्नातश्च तैलेन नाङ्गं किंचिद् उपस्पृशेत् । (३७।१)
śiraḥsnātaśca tailena nāṅgaṃ kiṃcid upaspṛśet |
तिलपिष्टं न चाश्नीयात् तथायुर् विन्दते महत् ॥ (३७।२)
tilapiṣṭaṃ na cāśnīyāt tathāyur vindate mahat ||
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः । (३९।१)
atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ |
आयुर् अस्य निकृन्तामि प्रजाम् अस्याददे तथा ॥ (३९।२)
āyur asya nikṛntāmi prajām asyādade tathā ||
य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति । (४०।१)
ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati |
यश्चानध्यायकाले ऽपि मोहाद् अभ्यस्यति द्विजः । (४०।२)
yaścānadhyāyakāle 'pi mohād abhyasyati dvijaḥ |
तस्माद् युक्तो ऽप्यनध्याये नाधीयीत कदाचन ॥ (४०।३)
tasmād yukto 'pyanadhyāye nādhīyīta kadācana ||
प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजान् । (४१।१)
pratyādityaṃ pratyanilaṃ prati gāṃ ca prati dvijān |
ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः ॥ (४१।२)
ye mehanti ca panthānaṃ te bhavanti gatāyuṣaḥ ||
उभे मूत्रपुरीषे तु दिवा कुर्याद् उदङ्मुखः । (४२।१)
ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ |
दक्षिणाभिमुखो रात्रौ तथास्यायुर् न रिष्यते ॥ (४२।२)
dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate ||
त्रीन् कृशान्नावजानीयाद् दीर्घम् आयुर् जिजीविषुः । (४३।१)
trīn kṛśānnāvajānīyād dīrgham āyur jijīviṣuḥ |
ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः ॥ (४३।२)
brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hyāśīviṣāstrayaḥ ||
दहत्याशीविषः क्रुद्धो यावत् पश्यति चक्षुषा । (४४।१)
dahatyāśīviṣaḥ kruddho yāvat paśyati cakṣuṣā |
क्षत्रियो ऽपि दहेत् क्रुद्धो यावत् स्पृशति तेजसा ॥ (४४।२)
kṣatriyo 'pi dahet kruddho yāvat spṛśati tejasā ||
ब्राह्मणस्तु कुलं हन्याद् ध्यानेनावेक्षितेन च । (४५।१)
brāhmaṇastu kulaṃ hanyād dhyānenāvekṣitena ca |
तस्माद् एतत् त्रयं यत्नाद् उपसेवेत पण्डितः ॥ (४५।२)
tasmād etat trayaṃ yatnād upaseveta paṇḍitaḥ ||
अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर ॥ (४६।२)
anumānyaḥ prasādyaśca guruḥ kruddho yudhiṣṭhira ||
सम्यङ्मिथ्याप्रवृत्ते ऽपि वर्तितव्यं गुराविह । (४७।१)
samyaṅmithyāpravṛtte 'pi vartitavyaṃ gurāviha |
गुरुनिन्दा दहत्यायुर् मनुष्याणां न संशयः ॥ (४७।२)
gurunindā dahatyāyur manuṣyāṇāṃ na saṃśayaḥ ||
उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा ॥ (४८।२)
ucchiṣṭotsarjanaṃ caiva dūre kāryaṃ hitaiṣiṇā ||
नातिकल्पं नातिसायं न च मध्यंदिने स्थिते । (४९।१)
nātikalpaṃ nātisāyaṃ na ca madhyaṃdine sthite |
नाज्ञातैः सह गच्छेत नैको न वृषलैः सह ॥ (४९।२)
nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha ||
पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च । (५०।१)
panthā deyo brāhmaṇāya gobhyo rājabhya eva ca |
वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥ (५०।२)
vṛddhāya bhārataptāya garbhiṇyai durbalāya ca ||
प्रदक्षिणं च कुर्वीत परिज्ञातान् वनस्पतीन् । (५१।१)
pradakṣiṇaṃ ca kurvīta parijñātān vanaspatīn |
चतुष्पथान् प्रकुर्वीत सर्वान् एव प्रदक्षिणान् ॥ (५१।२)
catuṣpathān prakurvīta sarvān eva pradakṣiṇān ||
मध्यंदिने निशाकाले मध्यरात्रे च सर्वदा । (५२।१)
madhyaṃdine niśākāle madhyarātre ca sarvadā |
चतुष्पथान्न सेवेत उभे संध्ये तथैव च ॥ (५२।२)
catuṣpathānna seveta ubhe saṃdhye tathaiva ca ||
उपानहौ च वस्त्रं च धृतम् अन्यैर् न धारयेत् । (५३।१)
upānahau ca vastraṃ ca dhṛtam anyair na dhārayet |
ब्रह्मचारी च नित्यं स्यात् पादं पादेन नाक्रमेत् ॥ (५३।२)
brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet ||
अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः । (५४।१)
amāvāsyāṃ paurṇamāsyāṃ caturdaśyāṃ ca sarvaśaḥ |
अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत् ॥ (५४।२)
aṣṭamyāṃ sarvapakṣāṇāṃ brahmacārī sadā bhavet ||
वृथा मांसं न खादेत पृष्ठमांसं तथैव च । (५५।१)
vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca |
आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् ॥ (५५।२)
ākrośaṃ parivādaṃ ca paiśunyaṃ ca vivarjayet ||
नारुंतुदः स्यान्न नृशंसवादी न हीनतः परम् अभ्याददीत । (५६।१)
nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta |
ययास्य वाचा पर उद्विजेत न तां वदेद् रुशतीं पापलोक्याम् ॥ (५६।२)
yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām ||
वाक्सायका वदनान्निष्पतन्ति यैर् आहतः शोचति रात्र्यहानि । (५७।१)
vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni |
परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत् परेषु ॥ (५७।२)
parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu ||
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ (५८।२)
vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam ||
हीनाङ्गान् अतिरिक्ताङ्गान् विद्याहीनान् वयोधिकान् । (५९।१)
hīnāṅgān atiriktāṅgān vidyāhīnān vayodhikān |
रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् ॥ (५९।२)
rūpadraviṇahīnāṃśca sattvahīnāṃśca nākṣipet ||
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् । (६०।१)
nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam |
द्वेषस्तम्भाभिमानांश्च तैक्ष्ण्यं च परिवर्जयेत् ॥ (६०।२)
dveṣastambhābhimānāṃśca taikṣṇyaṃ ca parivarjayet ||
परस्य दण्डं नोद्यच्छेत् क्रोद्धो नैनं निपातयेत् । (६१।१)
parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet |
अन्यत्र पुत्राच्छिष्याद् वा शिक्षार्थं ताडनं स्मृतम् ॥ (६१।२)
anyatra putrācchiṣyād vā śikṣārthaṃ tāḍanaṃ smṛtam ||
न ब्राह्मणान् परिवदेन्नक्षत्राणि न निर्दिशेत् । (६२।१)
na brāhmaṇān parivadennakṣatrāṇi na nirdiśet |
तिथिं पक्षस्य न ब्रूयात् तथास्यायुर् न रिष्यते ॥ (६२।२)
tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate ||
कृत्वा मूत्रपुरीषे तु रथ्याम् आक्रम्य वा पुनः । (६३।१)
kṛtvā mūtrapurīṣe tu rathyām ākramya vā punaḥ |
पादप्रक्षालनं कुर्यात् स्वाध्याये भोजने तथा ॥ (६३।२)
pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā ||
त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् । (६४।१)
trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan |
अदृष्टम् अद्भिर् निर्णिक्तं यच्च वाचा प्रशस्यते ॥ (६४।२)
adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate ||
संयावं कृसरं मांसं शष्कुली पायसं तथा । (६५।१)
saṃyāvaṃ kṛsaraṃ māṃsaṃ śaṣkulī pāyasaṃ tathā |
आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् ॥ (६५।२)
ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet ||
नित्यम् अग्निं परिचरेद् भिक्षां दद्याच्च नित्यदा । (६६।१)
nityam agniṃ paricared bhikṣāṃ dadyācca nityadā |
वाग्यतो दन्तकाष्ठं च नित्यम् एव समाचरेत् । (६६।२)
vāgyato dantakāṣṭhaṃ ca nityam eva samācaret |
न चाभ्युदितशायी स्यात् प्रायश्चित्ती तथा भवेत् ॥ (६६।३)
na cābhyuditaśāyī syāt prāyaścittī tathā bhavet ||
आचार्यम् अथ वाप्येनं तथायुर् विन्दते महत् ॥ (६७।२)
ācāryam atha vāpyenaṃ tathāyur vindate mahat ||
वर्जयेद् दन्तकाष्ठानि वर्जनीयानि नित्यशः । (६८।१)
varjayed dantakāṣṭhāni varjanīyāni nityaśaḥ |
भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि च वर्जयेत् ॥ (६८।२)
bhakṣayecchāstradṛṣṭāni parvasvapi ca varjayet ||
उदङ्मुखश्च सततं शौचं कुर्यात् समाहितः ॥ (६९।१)
udaṅmukhaśca satataṃ śaucaṃ kuryāt samāhitaḥ ||
अकृत्वा देवतापूजां नान्यं गच्छेत् कदाचन । (७०।१)
akṛtvā devatāpūjāṃ nānyaṃ gacchet kadācana |
अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् ॥ (७०।२)
anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam ||
न चाज्ञातां स्त्रियं गच्छेद् गर्भिणीं वा कदाचन ॥ (७१।२)
na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadācana ||
उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च । (७२।१)
udakśirā na svapeta tathā pratyakśirā na ca |
प्राक्शिरास्तु स्वपेद् विद्वान् अथवा दक्षिणाशिराः ॥ (७२।२)
prākśirāstu svaped vidvān athavā dakṣiṇāśirāḥ ||
नान्तर्धाने न संयुक्ते न च तिर्यक् कदाचन ॥ (७३।२)
nāntardhāne na saṃyukte na ca tiryak kadācana ||
न नग्नः कर्हिचित् स्नायान्न निशायां कदाचन । (७४।१)
na nagnaḥ karhicit snāyānna niśāyāṃ kadācana |
स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः ॥ (७४।२)
snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇaḥ ||
न चानुलिम्पेद् अस्नात्वा स्नात्वा वासो न निर्धुनेत् । (७५।१)
na cānulimped asnātvā snātvā vāso na nirdhunet |
आर्द्र एव तु वासांसि नित्यं सेवेत मानवः । (७५।२)
ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ |
रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः । (७६।१)
raktamālyaṃ na dhāryaṃ syācchuklaṃ dhāryaṃ tu paṇḍitaiḥ |
रक्तं शिरसि धार्यं तु तथा वानेयम् इत्यपि । (७७।१)
raktaṃ śirasi dhāryaṃ tu tathā vāneyam ityapi |
काञ्चनी चैव या माला न सा दुष्यति कर्हिचित् । (७७।२)
kāñcanī caiva yā mālā na sā duṣyati karhicit |
स्नातस्य वर्णकं नित्यम् आर्द्रं दद्याद् विशां पते ॥ (७७।३)
snātasya varṇakaṃ nityam ārdraṃ dadyād viśāṃ pate ||
विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः । (७८।१)
viparyayaṃ na kurvīta vāsaso buddhimānnaraḥ |
तथा नान्यधृतं धार्यं न चापदशम् एव च ॥ (७८।२)
tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca ||
अन्यद् रथ्यासु देवानाम् अर्चायाम् अन्यद् एव हि ॥ (७९।२)
anyad rathyāsu devānām arcāyām anyad eva hi ||
प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च । (८०।१)
priyaṅgucandanābhyāṃ ca bilvena tagareṇa ca |
पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् ॥ (८१।२)
parvakāleṣu sarveṣu brahmacārī sadā bhavet ||
तथा नोद्धृतसाराणि प्रेक्षतां नाप्रदाय च ॥ (८२।२)
tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca ||
न संनिकृष्टो मेधावी नाशुचिर् न च सत्सु च । (८३।१)
na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca |
प्रतिषिद्धान्न धर्मेषु भक्षान् भुञ्जीत पृष्ठतः ॥ (८३।२)
pratiṣiddhānna dharmeṣu bhakṣān bhuñjīta pṛṣṭhataḥ ||
उदुम्बरं न खादेच्च भवार्थी पुरुषोत्तमः ॥ (८४।२)
udumbaraṃ na khādecca bhavārthī puruṣottamaḥ ||
आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत् । (८५।१)
ājaṃ gavyaṃ ca yanmāṃsaṃ māyūraṃ caiva varjayet |
वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत् ॥ (८५।२)
varjayecchuṣkamāṃsaṃ ca tathā paryuṣitaṃ ca yat ||
न पाणौ लवणं विद्वान् प्राश्नीयान्न च रात्रिषु । (८६।१)
na pāṇau lavaṇaṃ vidvān prāśnīyānna ca rātriṣu |
दधिसक्तून्न भुञ्जीत वृथामांसं च वर्जयेत् ॥ (८६।२)
dadhisaktūnna bhuñjīta vṛthāmāṃsaṃ ca varjayet ||
वालेन तु न भुञ्जीत परश्राद्धं तथैव च । (८७।१)
vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca |
सायं प्रातश्च भुञ्जीत नान्तराले समाहितः ॥ (८७।२)
sāyaṃ prātaśca bhuñjīta nāntarāle samāhitaḥ ||
भूमौ सदैव नाश्नीयान्नानासीनो न शब्दवत् ॥ (८८।२)
bhūmau sadaiva nāśnīyānnānāsīno na śabdavat ||
तोयपूर्वं प्रदायान्नम् अतिथिभ्यो विशां पते । (८९।१)
toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate |
पश्चाद् भुञ्जीत मेधावी न चाप्यन्यमना नरः ॥ (८९।२)
paścād bhuñjīta medhāvī na cāpyanyamanā naraḥ ||
समानम् एकपङ्क्त्यां तु भोज्यम् अन्नं नरेश्वर । (९०।१)
samānam ekapaṅktyāṃ tu bhojyam annaṃ nareśvara |
विषं हालाहलं भुङ्क्ते यो ऽप्रदाय सुहृज्जने ॥ (९०।२)
viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane ||
निरस्य शेषम् एतेषां न प्रदेयं तु कस्यचित् ॥ (९१।२)
nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasyacit ||
भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् । (९२।१)
bhuñjāno manujavyāghra naiva śaṅkāṃ samācaret |
दधि चाप्यनुपानं वै न कर्तव्यं भवार्थिना ॥ (९२।२)
dadhi cāpyanupānaṃ vai na kartavyaṃ bhavārthinā ||
पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः । (९४।१)
pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ |
ज्ञातिश्रैष्ठ्यम् अवाप्नोति प्रयोगकुशलो नरः ॥ (९४।२)
jñātiśraiṣṭhyam avāpnoti prayogakuśalo naraḥ ||
अद्भिः प्राणान् समालभ्य नाभिं पाणितलेन च । (९५।१)
adbhiḥ prāṇān samālabhya nābhiṃ pāṇitalena ca |
स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना ॥ (९५।२)
spṛśaṃścaiva pratiṣṭheta na cāpyārdreṇa pāṇinā ||
अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थम् उदाहृतम् । (९६।१)
aṅguṣṭhasyāntarāle ca brāhmaṃ tīrtham udāhṛtam |
कनिष्ठिकायाः पश्चात् तु देवतीर्थम् इहोच्यते ॥ (९६।२)
kaniṣṭhikāyāḥ paścāt tu devatīrtham ihocyate ||
अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत । (९७।१)
aṅguṣṭhasya ca yanmadhyaṃ pradeśinyāśca bhārata |
तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस्तथा ॥ (९७।२)
tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatastathā ||
न मन्युः कश्चिद् उत्पाद्यः पुरुषेण भवार्थिना ॥ (९८।२)
na manyuḥ kaścid utpādyaḥ puruṣeṇa bhavārthinā ||
पतितैस्तु कथां नेच्छेद् दर्शनं चापि वर्जयेत् । (९९।१)
patitaistu kathāṃ necched darśanaṃ cāpi varjayet |
संसर्गं च न गच्छेत तथायुर् विन्दते महत् ॥ (९९।२)
saṃsargaṃ ca na gaccheta tathāyur vindate mahat ||
न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् । (१००।१)
na divā maithunaṃ gacchenna kanyāṃ na ca bandhakīm |
न चास्नातां स्त्रियं गच्छेत् तथायुर् विन्दते महत् ॥ (१००।२)
na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat ||
स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते । (१०१।१)
sve sve tīrthe samācamya kārye samupakalpite |
त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन्नरः ॥ (१०१।२)
triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhavennaraḥ ||
इन्द्रियाणि सकृत् स्पृश्य त्रिर् अभ्युक्ष्य च मानवः । (१०२।१)
indriyāṇi sakṛt spṛśya trir abhyukṣya ca mānavaḥ |
कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा ॥ (१०२।२)
kurvīta pitryaṃ daivaṃ ca vedadṛṣṭena karmaṇā ||
ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव । (१०३।१)
brāhmaṇārthe ca yacchaucaṃ tacca me śṛṇu kaurava |
प्रवृत्तं च हितं चोक्त्वा भोजनाद्यन्तयोस्तथा ॥ (१०३।२)
pravṛttaṃ ca hitaṃ coktvā bhojanādyantayostathā ||
सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् । (१०४।१)
sarvaśauceṣu brāhmeṇa tīrthena samupaspṛśet |
निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर् भवेत् ॥ (१०४।२)
niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet ||
वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेद् अपि । (१०५।१)
vṛddho jñātistathā mitraṃ daridro yo bhaved api |
गृहे वासयितव्यास्ते धन्यम् आयुष्यम् एव च ॥ (१०५।२)
gṛhe vāsayitavyāste dhanyam āyuṣyam eva ca ||
गृहे पारावता धन्याः शुकाश्च सहसारिकाः । (१०६।१)
gṛhe pārāvatā dhanyāḥ śukāśca sahasārikāḥ |
गृहेष्वेते न पापाय तथा वै तैलपायिकाः ॥ (१०६।२)
gṛheṣvete na pāpāya tathā vai tailapāyikāḥ ||
उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा । (१०७।१)
uddīpakāśca gṛdhrāśca kapotā bhramarāstathā |
निविशेयुर् यदा तत्र शान्तिम् एव तदाचरेत् ॥ (१०७।२)
niviśeyur yadā tatra śāntim eva tadācaret ||
अमङ्गल्यानि चैतानि तथाक्रोशो महात्मनाम् । (१०८।१)
amaṅgalyāni caitāni tathākrośo mahātmanām |
महात्मनां च गुह्यानि न वक्तव्यानि कर्हिचित् ॥ (१०८।२)
mahātmanāṃ ca guhyāni na vaktavyāni karhicit ||
अगम्याश्च न गच्छेत राजपत्नीः सखीस्तथा । (१०९।१)
agamyāśca na gaccheta rājapatnīḥ sakhīstathā |
वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर ॥ (१०९।२)
vaidyānāṃ bālavṛddhānāṃ bhṛtyānāṃ ca yudhiṣṭhira ||
बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च । (११०।१)
bandhūnāṃ brāhmaṇānāṃ ca tathā śāraṇikasya ca |
संबन्धिनां च राजेन्द्र तथायुर् विन्दते महत् ॥ (११०।२)
saṃbandhināṃ ca rājendra tathāyur vindate mahat ||
ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम् । (१११।१)
brāhmaṇasthapatibhyāṃ ca nirmitaṃ yanniveśanam |
तद् आवसेत् सदा प्राज्ञो भवार्थी मनुजेश्वर ॥ (१११।२)
tad āvaset sadā prājño bhavārthī manujeśvara ||
संध्यायां न स्वपेद् राजन् विद्यां न च समाचरेत् । (११२।१)
saṃdhyāyāṃ na svaped rājan vidyāṃ na ca samācaret |
न भुञ्जीत च मेधावी तथायुर् विन्दते महत् ॥ (११२।२)
na bhuñjīta ca medhāvī tathāyur vindate mahat ||
नक्तं न कुर्यात् पित्र्याणि भुक्त्वा चैव प्रसाधनम् । (११३।१)
naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam |
पानीयस्य क्रिया नक्तं न कार्या भूतिम् इच्छता ॥ (११३।२)
pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā ||
वर्जनीयाश्च वै नित्यं सक्तवो निशि भारत । (११४।१)
varjanīyāśca vai nityaṃ saktavo niśi bhārata |
सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत् । (११५।१)
sauhityaṃ ca na kartavyaṃ rātrau naiva samācaret |
द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् ॥ (११५।२)
dvijacchedaṃ na kurvīta bhuktvā na ca samācaret ||
महाकुलप्रसूतां च प्रशस्तां लक्षणैस्तथा । (११६।१)
mahākulaprasūtāṃ ca praśastāṃ lakṣaṇaistathā |
वयःस्थां च महाप्राज्ञ कन्याम् आवोढुम् अर्हति ॥ (११६।२)
vayaḥsthāṃ ca mahāprājña kanyām āvoḍhum arhati ||
अपत्यम् उत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा । (११७।१)
apatyam utpādya tataḥ pratiṣṭhāpya kulaṃ tathā |
पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत ॥ (११७।२)
putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata ||
कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते । (११८।१)
kanyā cotpādya dātavyā kulaputrāya dhīmate |
पुत्रा निवेश्याश्च कुलाद् भृत्या लभ्याश्च भारत ॥ (११८।२)
putrā niveśyāśca kulād bhṛtyā labhyāśca bhārata ||
शिरःस्नातो ऽथ कुर्वीत दैवं पित्र्यम् अथापि च । (११९।१)
śiraḥsnāto 'tha kurvīta daivaṃ pitryam athāpi ca |
नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः । (११९।२)
nakṣatre na ca kurvīta yasmiñjāto bhavennaraḥ |
न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत ॥ (११९।३)
na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata ||
दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत् । (१२०।१)
dāruṇeṣu ca sarveṣu pratyahaṃ ca vivarjayet |
ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् ॥ (१२०।२)
jyotiṣe yāni coktāni tāni sarvāṇi varjayet ||
प्राङ्मुखः श्मश्रुकर्माणि कारयेत समाहितः । (१२१।१)
prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ |
उदङ्मुखो वा राजेन्द्र तथायुर् विन्दते महत् ॥ (१२१।२)
udaṅmukho vā rājendra tathāyur vindate mahat ||
परिवादं न च ब्रूयात् परेषाम् आत्मनस्तथा । (१२२।१)
parivādaṃ na ca brūyāt pareṣām ātmanastathā |
परिवादो न धर्माय प्रोच्यते भरतर्षभ ॥ (१२२।२)
parivādo na dharmāya procyate bharatarṣabha ||
वर्जयेद् व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम । (१२३।१)
varjayed vyaṅginīṃ nārīṃ tathā kanyāṃ narottama |
समार्षां व्यङ्गितां चैव मातुः स्वकुलजां तथा ॥ (१२३।२)
samārṣāṃ vyaṅgitāṃ caiva mātuḥ svakulajāṃ tathā ||
वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् । (१२४।१)
vṛddhāṃ pravrajitāṃ caiva tathaiva ca pativratām |
तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत् ॥ (१२४।२)
tathātikṛṣṇavarṇāṃ ca varṇotkṛṣṭāṃ ca varjayet ||
अयोनिं च वियोनिं च न गच्छेत विचक्षणः । (१२५।१)
ayoniṃ ca viyoniṃ ca na gaccheta vicakṣaṇaḥ |
पिङ्गलां कुष्ठिनीं नारीं न त्वम् आवोढुम् अर्हसि ॥ (१२५।२)
piṅgalāṃ kuṣṭhinīṃ nārīṃ na tvam āvoḍhum arhasi ||
अपस्मारिकुले जातां निहीनां चैव वर्जयेत् । (१२६।१)
apasmārikule jātāṃ nihīnāṃ caiva varjayet |
श्वित्रिणां च कुले जातां त्रयाणां मनुजेश्वर ॥ (१२६।२)
śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara ||
लक्षणैर् अन्विता या च प्रशस्ता या च लक्षणैः । (१२७।१)
lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ |
मनोज्ञा दर्शनीया च तां भवान् वोढुम् अर्हति ॥ (१२७।२)
manojñā darśanīyā ca tāṃ bhavān voḍhum arhati ||
महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर । (१२८।१)
mahākule niveṣṭavyaṃ sadṛśe vā yudhiṣṭhira |
अवरा पतिता चैव न ग्राह्या भूतिम् इच्छता ॥ (१२८।२)
avarā patitā caiva na grāhyā bhūtim icchatā ||
अग्नीन् उत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः । (१२९।१)
agnīn utpādya yatnena kriyāḥ suvihitāśca yāḥ |
वेदेषु ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् ॥ (१२९।२)
vedeṣu brāhmaṇaiḥ proktāstāśca sarvāḥ samācaret ||
न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याश्च सर्वशः । (१३०।१)
na cerṣyā strīṣu kartavyā dārā rakṣyāśca sarvaśaḥ |
अनायुष्या भवेद् ईर्ष्या तस्माद् ईर्ष्यां विवर्जयेत् ॥ (१३०।२)
anāyuṣyā bhaved īrṣyā tasmād īrṣyāṃ vivarjayet ||
प्रातर् निशायां च तथा ये चोच्छिष्टाः स्वपन्ति वै ॥ (१३१।२)
prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai ||
पारदार्यम् अनायुष्यं नापितोच्छिष्टता तथा । (१३२।१)
pāradāryam anāyuṣyaṃ nāpitocchiṣṭatā tathā |
यत्नतो वै न कर्तव्यम् अभ्यासश्चैव भारत ॥ (१३२।२)
yatnato vai na kartavyam abhyāsaścaiva bhārata ||
संध्यां न भुञ्जेन्न स्नायान्न पुरीषं समुत्सृजेत् । (१३३।१)
saṃdhyāṃ na bhuñjenna snāyānna purīṣaṃ samutsṛjet |
प्रयतश्च भवेत् तस्यां न च किंचित् समाचरेत् ॥ (१३३।२)
prayataśca bhavet tasyāṃ na ca kiṃcit samācaret ||
ब्राह्मणान् पूजयेच्चापि तथा स्नात्वा नराधिप । (१३४।१)
brāhmaṇān pūjayeccāpi tathā snātvā narādhipa |
देवांश्च प्रणमेत् स्नातो गुरूंश्चाप्यभिवादयेत् ॥ (१३४।२)
devāṃśca praṇamet snāto gurūṃścāpyabhivādayet ||
अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत् तु दर्शकः । (१३५।१)
animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ |
अनिमन्त्रिते ह्यनायुष्यं गमनं तत्र भारत ॥ (१३५।२)
animantrite hyanāyuṣyaṃ gamanaṃ tatra bhārata ||
न चैकेन परिव्राज्यं न गन्तव्यं तथा निशि । (१३६।१)
na caikena parivrājyaṃ na gantavyaṃ tathā niśi |
अनागतायां संध्यायां पश्चिमायां गृहे वसेत् ॥ (१३६।२)
anāgatāyāṃ saṃdhyāyāṃ paścimāyāṃ gṛhe vaset ||
मातुः पितुर् गुरूणां च कार्यम् एवानुशासनम् । (१३७।१)
mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam |
हितं वाप्यहितं वापि न विचार्यं नरर्षभ ॥ (१३७।२)
hitaṃ vāpyahitaṃ vāpi na vicāryaṃ nararṣabha ||
धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप । (१३८।१)
dhanurvede ca vede ca yatnaḥ kāryo narādhipa |
हस्तिपृष्ठे ऽश्वपृष्ठे च रथचर्यासु चैव ह । (१३८।२)
hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha |
यत्नवान् भव राजेन्द्र यत्नवान् सुखम् एधते ॥ (१३८।३)
yatnavān bhava rājendra yatnavān sukham edhate ||
अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च । (१३९।१)
apradhṛṣyaśca śatrūṇāṃ bhṛtyānāṃ svajanasya ca |
प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित् ॥ (१३९।२)
prajāpālanayuktaśca na kṣatiṃ labhate kvacit ||
युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत । (१४०।१)
yuktiśāstraṃ ca te jñeyaṃ śabdaśāstraṃ ca bhārata |
गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप ॥ (१४०।२)
gandharvaśāstraṃ ca kalāḥ parijñeyā narādhipa ||
महात्मनां च चरितं श्रोतव्यं नित्यम् एव ते ॥ (१४१।२)
mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te ||
पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत् । (१४२।१)
patnīṃ rajasvalāṃ caiva nābhigacchenna cāhvayet |
स्नातां चतुर्थे दिवसे रात्रौ गच्छेद् विचक्षणः ॥ (१४२।२)
snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ ||
पञ्चमे दिवसे नारी षष्ठे ऽहनि पुमान् भवेत् । (१४३।१)
pañcame divase nārī ṣaṣṭhe 'hani pumān bhavet |
एतेन विधिना पत्नीम् उपगच्छेत पण्डितः ॥ (१४३।२)
etena vidhinā patnīm upagaccheta paṇḍitaḥ ||
ज्ञातिसंबन्धिमित्राणि पूजनीयानि नित्यशः । (१४४।१)
jñātisaṃbandhimitrāṇi pūjanīyāni nityaśaḥ |
यष्टव्यं च यथाशक्ति यज्ञैर् विविधदक्षिणैः । (१४४।२)
yaṣṭavyaṃ ca yathāśakti yajñair vividhadakṣiṇaiḥ |
अतऊर्ध्वम् अरण्यं च सेवितव्यं नराधिप ॥ (१४४।३)
ataūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa ||
एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः । (१४५।१)
eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ |
शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर ॥ (१४५।२)
śeṣastraividyavṛddhebhyaḥ pratyāhāryo yudhiṣṭhira ||
आचाराद् वर्धते ह्यायुर् आचारो हन्त्यलक्षणम् ॥ (१४६।२)
ācārād vardhate hyāyur ācāro hantyalakṣaṇam ||
आगमानां हि सर्वेषाम् आचारः श्रेष्ठ उच्यते । (१४७।१)
āgamānāṃ hi sarveṣām ācāraḥ śreṣṭha ucyate |
आचारप्रभवो धर्मो धर्माद् आयुर् विवर्धते ॥ (१४७।२)
ācāraprabhavo dharmo dharmād āyur vivardhate ||
एतद् यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं महत् । (१४८।१)
etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat |
अनुकम्पता सर्ववर्णान् ब्रह्मणा समुदाहृतम् ॥ (१४८।२)
anukampatā sarvavarṇān brahmaṇā samudāhṛtam ||
Data courtesy of The Digital Corpus of Sanskrit.