MBh, 1, 63
Select a line for its word-by-word analysis.
शकुन्तलायाश्चोत्पत्तिं श्रोतुम् इच्छामि तत्त्वतः । (१।३)
śakuntalāyāścotpattiṃ śrotum icchāmi tattvataḥ |
तं वै पुरुषसिंहस्य भगवन् विस्तरं त्वहम् । (१।५)
taṃ vai puruṣasiṃhasya bhagavan vistaraṃ tvaham |
श्रोतुम् इच्छामि तत्त्वज्ञ सर्वं मतिमतां वर ॥ (१।६)
śrotum icchāmi tattvajña sarvaṃ matimatāṃ vara ||
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः । (४।१)
siṃhanādaiśca yodhānāṃ śaṅkhadundubhinisvanaiḥ |
हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः । (५।१)
heṣitasvanamiśraiśca kṣveḍitāsphoṭitasvanaiḥ |
आसीत् किलकिलाशब्दस्तस्मिन् गच्छति पार्थिवे ॥ (५।२)
āsīt kilakilāśabdastasmin gacchati pārthive ||
ददृशुस्तं स्त्रियस्तत्र शूरम् आत्मयशस्करम् ॥ (६।२)
dadṛśustaṃ striyastatra śūram ātmayaśaskaram ||
पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे ॥ (७।३)
paśyantaḥ strīgaṇāstatra śastrapāṇiṃ sma menire ||
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ॥ (८।२)
yasya bāhubalaṃ prāpya na bhavantyasuhṛdgaṇāḥ ||
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् । (९।१)
iti vāco bruvantyastāḥ striyaḥ premṇā narādhipam |
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ॥ (९।२)
tuṣṭuvuḥ puṣpavṛṣṭīśca sasṛjustasya mūrdhani ||
तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः । (१०।१)
tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ |
द्विजक्षत्रियविट्शूद्रा निर्यान्तम् अनुजग्मिरे । (१०।४)
dvijakṣatriyaviṭśūdrā niryāntam anujagmire |
ददृशुर् वर्धमानास्ते आशीर्भिश्च जयेन च ॥ (१०।५)
dadṛśur vardhamānāste āśīrbhiśca jayena ca ||
न्यवर्तन्त ततः पश्चाद् अनुज्ञाता नृपेण ह ॥ (११।२)
nyavartanta tataḥ paścād anujñātā nṛpeṇa ha ||
स गच्छन् ददृशे धीमान् नन्दनप्रतिमं वनम् । (१३।१)
sa gacchan dadṛśe dhīmān nandanapratimaṃ vanam |
विषमं पर्वतप्रस्थैर् अश्मभिश्च समावृतम् । (१४।१)
viṣamaṃ parvataprasthair aśmabhiśca samāvṛtam |
मृगसंघैर् वृतं घोरैर् अन्यैश्चापि वनेचरैः ॥ (१४।३)
mṛgasaṃghair vṛtaṃ ghorair anyaiścāpi vanecaraiḥ ||
लोडयामास दुःषन्तः सूदयन् विविधान् मृगान् ॥ (१५।२)
loḍayāmāsa duḥṣantaḥ sūdayan vividhān mṛgān ||
बाणगोचरसम्प्राप्तांस्तत्र व्याघ्रगणान् बहून् । (१६।१)
bāṇagocarasamprāptāṃstatra vyāghragaṇān bahūn |
दूरस्थान् सायकैः कांश्चिद् अभिनत् स नरर्षभः । (१७।१)
dūrasthān sāyakaiḥ kāṃścid abhinat sa nararṣabhaḥ |
अभ्याशम् आगतांश्चान्यान् खड्गेन निरकृन्तत ॥ (१७।२)
abhyāśam āgatāṃścānyān khaḍgena nirakṛntata ||
कांश्चिद् एणान् स निर्जघ्ने शक्त्या शक्तिमतां वरः । (१८।१)
kāṃścid eṇān sa nirjaghne śaktyā śaktimatāṃ varaḥ |
चचार स विनिघ्नन् वै वन्यांस्तत्र मृगद्विजान् ॥ (१९।२)
cacāra sa vinighnan vai vanyāṃstatra mṛgadvijān ||
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः । (२०।१)
rājñā cādbhutavīryeṇa yodhaiśca samarapriyaiḥ |
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ॥ (२१।२)
mṛgayūthānyathautsukyācchabdaṃ cakrustatastataḥ ||
शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः । (२२।१)
śuṣkāṃ cāpi nadīṃ gatvā jalanairāśyakarśitāḥ |
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ॥ (२२।२)
vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ ||
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि । (२३।१)
kṣutpipāsāparītāśca śrāntāśca patitā bhuvi |
केचित् तत्र नरव्याघ्रैर् अभक्ष्यन्त बुभुक्षितैः ॥ (२३।२)
kecit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ ||
केचिद् अग्निम् अथोत्पाद्य समिध्य च वनेचराः । (२४।१)
kecid agnim athotpādya samidhya ca vanecarāḥ |
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत् तदा ॥ (२४।२)
bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā ||
तत्र केचिद् गजा मत्ता बलिनः शस्त्रविक्षताः । (२५।१)
tatra kecid gajā mattā balinaḥ śastravikṣatāḥ |
संकोच्याग्रकरान् भीताः प्रद्रवन्ति स्म वेगिताः ॥ (२५।२)
saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ ||
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु । (२६।१)
śakṛnmūtraṃ sṛjantaśca kṣarantaḥ śoṇitaṃ bahu |
वन्या गजवरास्तत्र ममृदुर् मनुजान् बहून् ॥ (२६।२)
vanyā gajavarāstatra mamṛdur manujān bahūn ||
Data courtesy of The Digital Corpus of Sanskrit.