महाभारतMahābhārata

MBh, 10, 1

1284 of 1995 · 139 verses

Select a line for its word-by-word analysis.

1.1१.१

संजय उवाच । (१।१)

saṃjaya uvāca

1.2१.२

ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः । (१।२)

tataste sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ |

1.3१.३

उपास्तमयवेलायां शिबिराभ्याशम् आगताः ॥ (१।३)

upāstamayavelāyāṃ śibirābhyāśam āgatāḥ ||

2.1२.१

विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा । (२।१)

vimucya vāhāṃstvaritā bhītāḥ samabhavaṃstadā |

2.2२.२

गहनं देशम् आसाद्य प्रच्छन्ना न्यविशन्त ते ॥ (२।२)

gahanaṃ deśam āsādya pracchannā nyaviśanta te ||

3.1३.१

सेनानिवेशम् अभितो नातिदूरम् अवस्थिताः । (३।१)

senāniveśam abhito nātidūram avasthitāḥ |

3.2३.२

निकृत्ता निशितैः शस्त्रैः समन्तात् क्षतविक्षताः ॥ (३।२)

nikṛttā niśitaiḥ śastraiḥ samantāt kṣatavikṣatāḥ ||

4.1४.१

दीर्घम् उष्णं च निःश्वस्य पाण्डवान् अन्वचिन्तयन् । (४।१)

dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan |

4.2४.२

श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ॥ (४।२)

śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇām ||

5.1५.१

अनुसारभयाद् भीताः प्राङ्मुखाः प्राद्रवन् पुनः । (५।१)

anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ |

5.2५.२

ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः ॥ (५।२)

te muhūrtaṃ tato gatvā śrāntavāhāḥ pipāsitāḥ ||

6.1६.१

नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः । (६।१)

nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ |

6.2६.२

राज्ञो वधेन संतप्ता मुहूर्तं समवस्थिताः ॥ (६।२)

rājño vadhena saṃtaptā muhūrtaṃ samavasthitāḥ ||

7.1७.१

धृतराष्ट्र उवाच । (७।१)

dhṛtarāṣṭra uvāca

7.2७.२

अश्रद्धेयम् इदं कर्म कृतं भीमेन संजय । (७।२)

aśraddheyam idaṃ karma kṛtaṃ bhīmena saṃjaya |

7.3७.३

यत् स नागायुतप्राणः पुत्रो मम निपातितः ॥ (७।३)

yat sa nāgāyutaprāṇaḥ putro mama nipātitaḥ ||

8.1८.१

अवध्यः सर्वभूतानां वज्रसंहननो युवा । (८।१)

avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā |

8.2८.२

पाण्डवैः समरे पुत्रो निहतो मम संजय ॥ (८।२)

pāṇḍavaiḥ samare putro nihato mama saṃjaya ||

9.1९.१

न दिष्टम् अभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः । (९।१)

na diṣṭam abhyatikrāntuṃ śakyaṃ gāvalgaṇe naraiḥ |

9.2९.२

यत् समेत्य रणे पार्थैः पुत्रो मम निपातितः ॥ (९।२)

yat sametya raṇe pārthaiḥ putro mama nipātitaḥ ||

10.1१०.१

अद्रिसारमयं नूनं हृदयं मम संजय । (१०।१)

adrisāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya |

10.2१०.२

हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा ॥ (१०।२)

hataṃ putraśataṃ śrutvā yanna dīrṇaṃ sahasradhā ||

11.1११.१

कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति । (११।१)

kathaṃ hi vṛddhamithunaṃ hataputraṃ bhaviṣyati |

11.2११.२

न ह्यहं पाण्डवेयस्य विषये वस्तुम् उत्सहे ॥ (११।२)

na hyahaṃ pāṇḍaveyasya viṣaye vastum utsahe ||

12.1१२.१

कथं राज्ञः पिता भूत्वा स्वयं राजा च संजय । (१२।१)

kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya |

12.2१२.२

प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् ॥ (१२।२)

preṣyabhūtaḥ pravarteyaṃ pāṇḍaveyasya śāsanāt ||

13.1१३.१

आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च संजय । (१३।१)

ājñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya |

13.2१३.२

कथम् अद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत् ॥ (१३।२)

katham adya bhaviṣyāmi preṣyabhūto durantakṛt ||

14.1१४.१

कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि संजय । (१४।१)

kathaṃ bhīmasya vākyāni śrotuṃ śakṣyāmi saṃjaya |

14.2१४.२

येन पुत्रशतं पूर्णम् एकेन निहतं मम ॥ (१४।२)

yena putraśataṃ pūrṇam ekena nihataṃ mama ||

15.1१५.१

कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः । (१५।१)

kṛtaṃ satyaṃ vacastasya vidurasya mahātmanaḥ |

15.2१५.२

अकुर्वता वचस्तेन मम पुत्रेण संजय ॥ (१५।२)

akurvatā vacastena mama putreṇa saṃjaya ||

16.1१६.१

अधर्मेण हते तात पुत्रे दुर्योधने मम । (१६।१)

adharmeṇa hate tāta putre duryodhane mama |

16.2१६.२

कृतवर्मा कृपो द्रौणिः किम् अकुर्वत संजय ॥ (१६।२)

kṛtavarmā kṛpo drauṇiḥ kim akurvata saṃjaya ||

17.1१७.१

संजय उवाच । (१७।१)

saṃjaya uvāca

17.2१७.२

गत्वा तु तावका राजन्नातिदूरम् अवस्थिताः । (१७।२)

gatvā tu tāvakā rājannātidūram avasthitāḥ |

17.3१७.३

अपश्यन्त वनं घोरं नानाद्रुमलताकुलम् ॥ (१७।३)

apaśyanta vanaṃ ghoraṃ nānādrumalatākulam ||

18.1१८.१

ते मुहूर्तं तु विश्रम्य लब्धतोयैर् हयोत्तमैः । (१८।१)

te muhūrtaṃ tu viśramya labdhatoyair hayottamaiḥ |

18.2१८.२

सूर्यास्तमयवेलायाम् आसेदुः सुमहद् वनम् ॥ (१८।२)

sūryāstamayavelāyām āseduḥ sumahad vanam ||

19.1१९.१

नानामृगगणैर् जुष्टं नानापक्षिसमाकुलम् । (१९।१)

nānāmṛgagaṇair juṣṭaṃ nānāpakṣisamākulam |

19.2१९.२

नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् ॥ (१९।२)

nānādrumalatācchannaṃ nānāvyālaniṣevitam ||

20.1२०.१

नानातोयसमाकीर्णं तडागैर् उपशोभितम् । (२०।१)

nānātoyasamākīrṇaṃ taḍāgair upaśobhitam |

20.2२०.२

पद्मिनीशतसंछन्नं नीलोत्पलसमायुतम् ॥ (२०।२)

padminīśatasaṃchannaṃ nīlotpalasamāyutam ||

21.1२१.१

प्रविश्य तद् वनं घोरं वीक्षमाणाः समन्ततः । (२१।१)

praviśya tad vanaṃ ghoraṃ vīkṣamāṇāḥ samantataḥ |

21.2२१.२

शाखासहस्रसंछन्नं न्यग्रोधं ददृशुस्ततः ॥ (२१।२)

śākhāsahasrasaṃchannaṃ nyagrodhaṃ dadṛśustataḥ ||

22.1२२.१

उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः । (२२।१)

upetya tu tadā rājannyagrodhaṃ te mahārathāḥ |

22.2२२.२

ददृशुर् द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ॥ (२२।२)

dadṛśur dvipadāṃ śreṣṭhāḥ śreṣṭhaṃ taṃ vai vanaspatim ||

23.1२३.१

ते ऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः । (२३।१)

te 'vatīrya rathebhyastu vipramucya ca vājinaḥ |

23.2२३.२

उपस्पृश्य यथान्यायं संध्याम् अन्वासत प्रभो ॥ (२३।२)

upaspṛśya yathānyāyaṃ saṃdhyām anvāsata prabho ||

24.1२४.१

ततो ऽस्तं पर्वतश्रेष्ठम् अनुप्राप्ते दिवाकरे । (२४।१)

tato 'staṃ parvataśreṣṭham anuprāpte divākare |

24.2२४.२

सर्वस्य जगतो धात्री शर्वरी समपद्यत ॥ (२४।२)

sarvasya jagato dhātrī śarvarī samapadyata ||

25.1२५.१

ग्रहनक्षत्रताराभिः प्रकीर्णाभिर् अलंकृतम् । (२५।१)

grahanakṣatratārābhiḥ prakīrṇābhir alaṃkṛtam |

25.2२५.२

नभो ऽंशुकम् इवाभाति प्रेक्षणीयं समन्ततः ॥ (२५।२)

nabho 'ṃśukam ivābhāti prekṣaṇīyaṃ samantataḥ ||

26.1२६.१

ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः । (२६।१)

īṣaccāpi pravalganti ye sattvā rātricāriṇaḥ |

26.2२६.२

दिवाचराश्च ये सत्त्वास्ते निद्रावशम् आगताः ॥ (२६।२)

divācarāśca ye sattvāste nidrāvaśam āgatāḥ ||

27.1२७.१

रात्रिंचराणां सत्त्वानां निनादो ऽभूत् सुदारुणः । (२७।१)

rātriṃcarāṇāṃ sattvānāṃ ninādo 'bhūt sudāruṇaḥ |

27.2२७.२

क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ॥ (२७।२)

kravyādāśca pramuditā ghorā prāptā ca śarvarī ||

28.1२८.१

तस्मिन् रात्रिमुखे घोरे दुःखशोकसमन्विताः । (२८।१)

tasmin rātrimukhe ghore duḥkhaśokasamanvitāḥ |

28.2२८.२

कृतवर्मा कृपो द्रौणिर् उपोपविविशुः समम् ॥ (२८।२)

kṛtavarmā kṛpo drauṇir upopaviviśuḥ samam ||

29.1२९.१

तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः । (२९।१)

tatropaviṣṭāḥ śocanto nyagrodhasya samantataḥ |

29.2२९.२

तम् एवार्थम् अतिक्रान्तं कुरुपाण्डवयोः क्षयम् ॥ (२९।२)

tam evārtham atikrāntaṃ kurupāṇḍavayoḥ kṣayam ||

30.1३०.१

निद्रया च परीताङ्गा निषेदुर् धरणीतले । (३०।१)

nidrayā ca parītāṅgā niṣedur dharaṇītale |

30.2३०.२

श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ॥ (३०।२)

śrameṇa sudṛḍhaṃ yuktā vikṣatā vividhaiḥ śaraiḥ ||

31.1३१.१

ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ । (३१।१)

tato nidrāvaśaṃ prāptau kṛpabhojau mahārathau |

31.2३१.२

सुखोचितावदुःखार्हौ निषण्णौ धरणीतले । (३१।२)

sukhocitāvaduḥkhārhau niṣaṇṇau dharaṇītale |

31.3३१.३

तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ ॥ (३१।३)

tau tu suptau mahārāja śramaśokasamanvitau ||

32.1३२.१

क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत । (३२।१)

krodhāmarṣavaśaṃ prāpto droṇaputrastu bhārata |

32.2३२.२

नैव स्म स जगामाथ निद्रां सर्प इव श्वसन् ॥ (३२।२)

naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan ||

33.1३३.१

न लेभे स तु निद्रां वै दह्यमानो ऽतिमन्युना । (३३।१)

na lebhe sa tu nidrāṃ vai dahyamāno 'timanyunā |

33.2३३.२

वीक्षांचक्रे महाबाहुस्तद् वनं घोरदर्शनम् ॥ (३३।२)

vīkṣāṃcakre mahābāhustad vanaṃ ghoradarśanam ||

34.1३४.१

वीक्षमाणो वनोद्देशं नानासत्त्वैर् निषेवितम् । (३४।१)

vīkṣamāṇo vanoddeśaṃ nānāsattvair niṣevitam |

34.2३४.२

अपश्यत महाबाहुर् न्यग्रोधं वायसायुतम् ॥ (३४।२)

apaśyata mahābāhur nyagrodhaṃ vāyasāyutam ||

35.1३५.१

तत्र काकसहस्राणि तां निशां पर्यणामयन् । (३५।१)

tatra kākasahasrāṇi tāṃ niśāṃ paryaṇāmayan |

35.2३५.२

सुखं स्वपन्तः कौरव्य पृथक् पृथग् अपाश्रयाः ॥ (३५।२)

sukhaṃ svapantaḥ kauravya pṛthak pṛthag apāśrayāḥ ||

36.1३६.१

सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः । (३६।१)

supteṣu teṣu kākeṣu visrabdheṣu samantataḥ |

36.2३६.२

सो ऽपश्यत् सहसायान्तम् उलूकं घोरदर्शनम् ॥ (३६।२)

so 'paśyat sahasāyāntam ulūkaṃ ghoradarśanam ||

37.1३७.१

महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् । (३७।१)

mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam |

37.2३७.२

सुदीर्घघोणानखरं सुपर्णम् इव वेगिनम् ॥ (३७।२)

sudīrghaghoṇānakharaṃ suparṇam iva veginam ||

38.1३८.१

सो ऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः । (३८।१)

so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ |

38.2३८.२

न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत ॥ (३८।२)

nyagrodhasya tataḥ śākhāṃ prārthayāmāsa bhārata ||

39.1३९.१

संनिपत्य तु शाखायां न्यग्रोधस्य विहंगमः । (३९।१)

saṃnipatya tu śākhāyāṃ nyagrodhasya vihaṃgamaḥ |

39.2३९.२

सुप्ताञ् जघान सुबहून् वायसान् वायसान्तकः ॥ (३९।२)

suptāñ jaghāna subahūn vāyasān vāyasāntakaḥ ||

40.1४०.१

केषांचिद् अछिनत् पक्षाञ् शिरांसि च चकर्त ह । (४०।१)

keṣāṃcid achinat pakṣāñ śirāṃsi ca cakarta ha |

40.2४०.२

चरणांश्चैव केषांचिद् बभञ्ज चरणायुधः ॥ (४०।२)

caraṇāṃścaiva keṣāṃcid babhañja caraṇāyudhaḥ ||

41.1४१.१

क्षणेनाहन् स बलवान् ये ऽस्य दृष्टिपथे स्थिताः । (४१।१)

kṣaṇenāhan sa balavān ye 'sya dṛṣṭipathe sthitāḥ |

41.2४१.२

तेषां शरीरावयवैः शरीरैश्च विशां पते । (४१।२)

teṣāṃ śarīrāvayavaiḥ śarīraiśca viśāṃ pate |

41.3४१.३

न्यग्रोधमण्डलं सर्वं संछन्नं सर्वतो ऽभवत् ॥ (४१।३)

nyagrodhamaṇḍalaṃ sarvaṃ saṃchannaṃ sarvato 'bhavat ||

42.1४२.१

तांस्तु हत्वा ततः काकान् कौशिको मुदितो ऽभवत् । (४२।१)

tāṃstu hatvā tataḥ kākān kauśiko mudito 'bhavat |

42.2४२.२

प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ॥ (४२।२)

pratikṛtya yathākāmaṃ śatrūṇāṃ śatrusūdanaḥ ||

43.1४३.१

तद् दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि । (४३।१)

tad dṛṣṭvā sopadhaṃ karma kauśikena kṛtaṃ niśi |

43.2४३.२

तद्भावकृतसंकल्पो द्रौणिर् एको व्यचिन्तयत् ॥ (४३।२)

tadbhāvakṛtasaṃkalpo drauṇir eko vyacintayat ||

44.1४४.१

उपदेशः कृतो ऽनेन पक्षिणा मम संयुगे । (४४।१)

upadeśaḥ kṛto 'nena pakṣiṇā mama saṃyuge |

44.2४४.२

शत्रूणां क्षपणे युक्तः प्राप्तकालश्च मे मतः ॥ (४४।२)

śatrūṇāṃ kṣapaṇe yuktaḥ prāptakālaśca me mataḥ ||

45.1४५.१

नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः । (४५।१)

nādya śakyā mayā hantuṃ pāṇḍavā jitakāśinaḥ |

45.2४५.२

बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः । (४५।२)

balavantaḥ kṛtotsāhā labdhalakṣāḥ prahāriṇaḥ |

45.3४५.३

राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया ॥ (४५।३)

rājñaḥ sakāśe teṣāṃ ca pratijñāto vadho mayā ||

46.1४६.१

पतंगाग्निसमां वृत्तिम् आस्थायात्मविनाशिनीम् । (४६।१)

pataṃgāgnisamāṃ vṛttim āsthāyātmavināśinīm |

46.2४६.२

न्यायतो युध्यमानस्य प्राणत्यागो न संशयः । (४६।२)

nyāyato yudhyamānasya prāṇatyāgo na saṃśayaḥ |

46.3४६.३

छद्मना तु भवेत् सिद्धिः शत्रूणां च क्षयो महान् ॥ (४६।३)

chadmanā tu bhavet siddhiḥ śatrūṇāṃ ca kṣayo mahān ||

47.1४७.१

तत्र संशयिताद् अर्थाद् यो ऽर्थो निःसंशयो भवेत् । (४७।१)

tatra saṃśayitād arthād yo 'rtho niḥsaṃśayo bhavet |

47.2४७.२

तं जना बहु मन्यन्ते ये ऽर्थशास्त्रविशारदाः ॥ (४७।२)

taṃ janā bahu manyante ye 'rthaśāstraviśāradāḥ ||

48.1४८.१

यच्चाप्यत्र भवेद् वाच्यं गर्हितं लोकनिन्दितम् । (४८।१)

yaccāpyatra bhaved vācyaṃ garhitaṃ lokaninditam |

48.2४८.२

कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता ॥ (४८।२)

kartavyaṃ tanmanuṣyeṇa kṣatradharmeṇa vartatā ||

49.1४९.१

निन्दितानि च सर्वाणि कुत्सितानि पदे पदे । (४९।१)

ninditāni ca sarvāṇi kutsitāni pade pade |

49.2४९.२

सोपधानि कृतान्येव पाण्डवैर् अकृतात्मभिः ॥ (४९।२)

sopadhāni kṛtānyeva pāṇḍavair akṛtātmabhiḥ ||

50.1५०.१

अस्मिन्न् अर्थे पुरा गीतौ श्रूयेते धर्मचिन्तकैः । (५०।१)

asminn arthe purā gītau śrūyete dharmacintakaiḥ |

50.2५०.२

श्लोकौ न्यायम् अवेक्षद्भिस्तत्त्वार्थं तत्त्वदर्शिभिः ॥ (५०।२)

ślokau nyāyam avekṣadbhistattvārthaṃ tattvadarśibhiḥ ||

51.1५१.१

परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः । (५१।१)

pariśrānte vidīrṇe ca bhuñjāne cāpi śatrubhiḥ |

51.2५१.२

प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर् बलम् ॥ (५१।२)

prasthāne ca praveśe ca prahartavyaṃ ripor balam ||

52.1५२.१

निद्रार्तम् अर्धरात्रे च तथा नष्टप्रणायकम् । (५२।१)

nidrārtam ardharātre ca tathā naṣṭapraṇāyakam |

52.2५२.२

भिन्नयोधं बलं यच्च द्विधा युक्तं च यद् भवेत् ॥ (५२।२)

bhinnayodhaṃ balaṃ yacca dvidhā yuktaṃ ca yad bhavet ||

53.1५३.१

इत्येवं निश्चयं चक्रे सुप्तानां युधि मारणे । (५३।१)

ityevaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe |

53.2५३.२

पाण्डूनां सह पाञ्चालैर् द्रोणपुत्रः प्रतापवान् ॥ (५३।२)

pāṇḍūnāṃ saha pāñcālair droṇaputraḥ pratāpavān ||

54.1५४.१

स क्रूरां मतिम् आस्थाय विनिश्चित्य मुहुर् मुहुः । (५४।१)

sa krūrāṃ matim āsthāya viniścitya muhur muhuḥ |

54.2५४.२

सुप्तौ प्राबोधयत् तौ तु मातुलं भोजम् एव च ॥ (५४।२)

suptau prābodhayat tau tu mātulaṃ bhojam eva ca ||

55.1५५.१

नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिया वृतः । (५५।१)

nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ |

55.2५५.२

स मुहूर्तम् इव ध्यात्वा बाष्पविह्वलम् अब्रवीत् ॥ (५५।२)

sa muhūrtam iva dhyātvā bāṣpavihvalam abravīt ||

56.1५६.१

हतो दुर्योधनो राजा एकवीरो महाबलः । (५६।१)

hato duryodhano rājā ekavīro mahābalaḥ |

56.2५६.२

यस्यार्थे वैरम् अस्माभिर् आसक्तं पाण्डवैः सह ॥ (५६।२)

yasyārthe vairam asmābhir āsaktaṃ pāṇḍavaiḥ saha ||

57.1५७.१

एकाकी बहुभिः क्षुद्रैर् आहवे शुद्धविक्रमः । (५७।१)

ekākī bahubhiḥ kṣudrair āhave śuddhavikramaḥ |

57.2५७.२

पातितो भीमसेनेन एकादशचमूपतिः ॥ (५७।२)

pātito bhīmasenena ekādaśacamūpatiḥ ||

58.1५८.१

वृकोदरेण क्षुद्रेण सुनृशंसम् इदं कृतम् । (५८।१)

vṛkodareṇa kṣudreṇa sunṛśaṃsam idaṃ kṛtam |

58.2५८.२

मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता ॥ (५८।२)

mūrdhābhiṣiktasya śiraḥ pādena parimṛdnatā ||

59.1५९.१

विनर्दन्ति स्म पाञ्चालाः क्ष्वेडन्ति च हसन्ति च । (५९।१)

vinardanti sma pāñcālāḥ kṣveḍanti ca hasanti ca |

59.2५९.२

धमन्ति शङ्खाञ् शतशो हृष्टा घ्नन्ति च दुन्दुभीन् ॥ (५९।२)

dhamanti śaṅkhāñ śataśo hṛṣṭā ghnanti ca dundubhīn ||

60.1६०.१

वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिस्वनैः । (६०।१)

vāditraghoṣastumulo vimiśraḥ śaṅkhanisvanaiḥ |

60.2६०.२

अनिलेनेरितो घोरो दिशः पूरयतीव हि ॥ (६०।२)

anilenerito ghoro diśaḥ pūrayatīva hi ||

61.1६१.१

अश्वानां हेषमाणानां गजानां चैव बृंहताम् । (६१।१)

aśvānāṃ heṣamāṇānāṃ gajānāṃ caiva bṛṃhatām |

61.2६१.२

सिंहनादश्च शूराणां श्रूयते सुमहान् अयम् ॥ (६१।२)

siṃhanādaśca śūrāṇāṃ śrūyate sumahān ayam ||

62.1६२.१

दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम् । (६२।१)

diśaṃ prācīṃ samāśritya hṛṣṭānāṃ garjatāṃ bhṛśam |

62.2६२.२

रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः ॥ (६२।२)

rathanemisvanāścaiva śrūyante lomaharṣaṇāḥ ||

63.1६३.१

पाण्डवैर् धार्तराष्ट्राणां यद् इदं कदनं कृतम् । (६३।१)

pāṇḍavair dhārtarāṣṭrāṇāṃ yad idaṃ kadanaṃ kṛtam |

63.2६३.२

वयम् एव त्रयः शिष्टास्तस्मिन्महति वैशसे ॥ (६३।२)

vayam eva trayaḥ śiṣṭāstasminmahati vaiśase ||

64.1६४.१

केचिन्नागशतप्राणाः केचित् सर्वास्त्रकोविदाः । (६४।१)

kecinnāgaśataprāṇāḥ kecit sarvāstrakovidāḥ |

64.2६४.२

निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम् ॥ (६४।२)

nihatāḥ pāṇḍaveyaiḥ sma manye kālasya paryayam ||

65.1६५.१

एवम् एतेन भाव्यं हि नूनं कार्येण तत्त्वतः । (६५।१)

evam etena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ |

65.2६५.२

यथा ह्यस्येदृशी निष्ठा कृते कार्ये ऽपि दुष्करे ॥ (६५।२)

yathā hyasyedṛśī niṣṭhā kṛte kārye 'pi duṣkare ||

66.1६६.१

भवतोस्तु यदि प्रज्ञा न मोहाद् अपचीयते । (६६।१)

bhavatostu yadi prajñā na mohād apacīyate |

66.2६६.२

व्यापन्ने ऽस्मिन्महत्यर्थे यन्नः श्रेयस्तद् उच्यताम् ॥ (६६।२)

vyāpanne 'sminmahatyarthe yannaḥ śreyastad ucyatām ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 10, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit