MBh, 1, 172
Select a line for its word-by-word analysis.
एवम् उक्तः स विप्रर्षिर् वसिष्ठेन महात्मना । (१।२)
evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā |
ततो वृद्धांश्च बालांश्च राक्षसान् स महामुनिः । (३।१)
tato vṛddhāṃśca bālāṃśca rākṣasān sa mahāmuniḥ |
द्वितीयाम् अस्य मा भाङ्क्षं प्रतिज्ञाम् इति निश्चयात् ॥ (४।२)
dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt ||
त्रयाणां पावकानां स सत्रे तस्मिन् महामुनिः । (५।१)
trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ |
आसीत् पुरस्ताद् दीप्तानां चतुर्थ इव पावकः ॥ (५।२)
āsīt purastād dīptānāṃ caturtha iva pāvakaḥ ||
तेजसा दिवि दीप्यन्तं द्वितीयम् इव भास्करम् ॥ (७।२)
tejasā divi dīpyantaṃ dvitīyam iva bhāskaram ||
तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम् । (९।१)
tathā pulastyaḥ pulahaḥ kratuścaiva mahākratum |
पुलस्त्यस्तु वधात् तेषां रक्षसां भरतर्षभ । (१०।१)
pulastyastu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha |
कच्चित् तातापविघ्नं ते कच्चिन् नन्दसि पुत्रक । (११।१)
kaccit tātāpavighnaṃ te kaccin nandasi putraka |
अजानताम् अदोषाणां सर्वेषां रक्षसां वधात् ॥ (११।२)
ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt ||
प्रजोच्छेदम् इमं मह्यं सर्वं सोमपसत्तम । (१२।१)
prajocchedam imaṃ mahyaṃ sarvaṃ somapasattama |
नैष तात द्विजातीनां धर्मो दृष्टस्तपस्विनाम् । (१२।२)
naiṣa tāta dvijātīnāṃ dharmo dṛṣṭastapasvinām |
अधर्मिष्ठं वरिष्ठः सन् कुरुषे त्वं पराशर । (१२।४)
adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāśara |
शक्तिनं चापि धर्मज्ञ नातिक्रान्तुम् इहार्हसि । (१२।५)
śaktinaṃ cāpi dharmajña nātikrāntum ihārhasi |
प्रजानां च ममोच्छेदं न चैवं कर्तुम् अर्हसि । (१२।६)
prajānāṃ ca mamocchedaṃ na caivaṃ kartum arhasi |
शापाद्धि शक्तेर् वासिष्ठ तत् तावद् उपपादितम् । (१२।७)
śāpāddhi śakter vāsiṣṭha tat tāvad upapāditam |
न हि तं राक्षसः कश्चिच्छक्तो भक्षयितुं मुने । (१२।९)
na hi taṃ rākṣasaḥ kaścicchakto bhakṣayituṃ mune |
आत्मनैवात्मनस्तेन सृष्टो मृत्युस्तदाभवत् । (१२।१०)
ātmanaivātmanastena sṛṣṭo mṛtyustadābhavat |
निमित्तभूतस्तत्रासीद् विश्वामित्रः पराशर । (१२।११)
nimittabhūtastatrāsīd viśvāmitraḥ parāśara |
वासिष्ठा भक्षिताश्चासन् कौशिकोत्सृष्टरक्षसा । (१२।१२)
vāsiṣṭhā bhakṣitāścāsan kauśikotsṛṣṭarakṣasā |
शापं न कुर्वन्ति तदा वाक्शस्त्रा यत् परायणम् । (१२।१३)
śāpaṃ na kurvanti tadā vākśastrā yat parāyaṇam |
क्षमावन्तो ऽदहन् देहं देहम् अन्यं व्रजन्ति हि । (१२।१४)
kṣamāvanto 'dahan dehaṃ deham anyaṃ vrajanti hi |
राजा कल्माषपादश्च दिवम् आरोढुम् इच्छति ॥ (१२।१५)
rājā kalmāṣapādaśca divam āroḍhum icchati ||
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः । (१३।१)
ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ |
ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः । (१३।२)
te ca sarve mudā yuktā modante sahitāḥ suraiḥ |
सर्वम् एतद् वसिष्ठस्य विदितं वै महामुने ॥ (१३।३)
sarvam etad vasiṣṭhasya viditaṃ vai mahāmune ||
निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन । (१४।२)
nimittabhūtastvaṃ cātra kratau vāsiṣṭhanandana |
स सत्रं मुञ्च भद्रं ते समाप्तम् इदम् अस्तु ते ॥ (१४।३)
sa satraṃ muñca bhadraṃ te samāptam idam astu te ||
एवम् उक्तः पुलस्त्येन वसिष्ठेन च धीमता । (१५।१)
evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā |
स तत्राद्यापि रक्षांसि वृक्षान् अश्मान एव च । (१७।१)
sa tatrādyāpi rakṣāṃsi vṛkṣān aśmāna eva ca |
भक्षयन् दृश्यते वह्निः सदा पर्वणि पर्वणि ॥ (१७।२)
bhakṣayan dṛśyate vahniḥ sadā parvaṇi parvaṇi ||
Data courtesy of The Digital Corpus of Sanskrit.