महाभारतMahābhārata

MBh, 1, 213

213 of 1995 · 363 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

उक्तवन्तो यदा वाक्यम् असकृत् सर्ववृष्णयः । (१।२)

uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ |

1.3१.३

ततो ऽब्रवीद् वासुदेवो वाक्यं धर्मार्थसंहितम् । (१।३)

tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam |

1.4१.४

मयोक्तं न श्रुतं पूर्वं सहितैः सर्वयादवैः । (१।४)

mayoktaṃ na śrutaṃ pūrvaṃ sahitaiḥ sarvayādavaiḥ |

1.5१.५

अतिक्रान्तम् अतिक्रान्तं न निवर्तति कर्हिचित् । (१।५)

atikrāntam atikrāntaṃ na nivartati karhicit |

1.6१.६

शृणुध्वं सहिताः सर्वे मम वाक्यं सहेतुकम् ॥ (१।६)

śṛṇudhvaṃ sahitāḥ sarve mama vākyaṃ sahetukam ||

2.1२.१

नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् । (२।१)

nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān |

2.2२.२

संमानो ऽभ्यधिकस्तेन प्रयुक्तो ऽयम् असंशयम् ॥ (२।२)

saṃmāno 'bhyadhikastena prayukto 'yam asaṃśayam ||

3.1३.१

अर्थलुब्धान् न वः पार्थो मन्यते सात्वतान् सदा । (३।१)

arthalubdhān na vaḥ pārtho manyate sātvatān sadā |

3.2३.२

स्वयंवरम् अनाधृष्यं मन्यते चापि पाण्डवः ॥ (३।२)

svayaṃvaram anādhṛṣyaṃ manyate cāpi pāṇḍavaḥ ||

4.1४.१

प्रदानम् अपि कन्यायाः पशुवत् को ऽनुमंस्यते । (४।१)

pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate |

4.2४.२

विक्रयं चाप्यपत्यस्य कः कुर्यात् पुरुषो भुवि ॥ (४।२)

vikrayaṃ cāpyapatyasya kaḥ kuryāt puruṣo bhuvi ||

5.1५.१

एतान् दोषांश्च कौन्तेयो दृष्टवान् इति मे मतिः । (५।१)

etān doṣāṃśca kaunteyo dṛṣṭavān iti me matiḥ |

5.2५.२

अतः प्रसह्य हृतवान् कन्यां धर्मेण पाण्डवः ॥ (५।२)

ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ ||

6.1६.१

उचितश्चैव संबन्धः सुभद्रा च यशस्विनी । (६।१)

ucitaścaiva saṃbandhaḥ subhadrā ca yaśasvinī |

6.2६.२

एष चापीदृशः पार्थः प्रसह्य हृतवान् इति ॥ (६।२)

eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti ||

7.1७.१

भरतस्यान्वये जातं शंतनोश्च महात्मनः । (७।१)

bharatasyānvaye jātaṃ śaṃtanośca mahātmanaḥ |

7.2७.२

कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ॥ (७।२)

kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam ||

8.1८.१

न च पश्यामि यः पार्थं विक्रमेण पराजयेत् । (८।१)

na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet |

8.2८.२

वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम् । (८।२)

varjayitvā virūpākṣaṃ bhaganetraharaṃ haram |

8.3८.३

अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ॥ (८।३)

api sarveṣu lokeṣu sendrarudreṣu māriṣa ||

9.1९.१

स च नाम रथस्तादृङ् मदीयास्ते च वाजिनः । (९।१)

sa ca nāma rathastādṛṅ madīyāste ca vājinaḥ |

9.2९.२

मम शस्त्राण्यशेषेण तूणी चाक्षयसायकौ । (९।२)

mama śastrāṇyaśeṣeṇa tūṇī cākṣayasāyakau |

9.3९.३

योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ॥ (९।३)

yoddhā pārthaśca śīghrāstraḥ ko nu tena samo bhavet ||

10.1१०.१

तम् अनुद्रुत्य सान्त्वेन परमेण धनंजयम् । (१०।१)

tam anudrutya sāntvena parameṇa dhanaṃjayam |

10.2१०.२

निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ॥ (१०।२)

nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ ||

11.1११.१

यदि निर्जित्य वः पार्थो बलाद् गच्छेत् स्वकं पुरम् । (११।१)

yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram |

11.2११.२

प्रणश्येद् वो यशः सद्यो न तु सान्त्वे पराजयः । (११।२)

praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ |

11.3११.३

पितृष्वसायाः पुत्रो मे संबन्धं नार्हति द्विषाम् ॥ (११।३)

pitṛṣvasāyāḥ putro me saṃbandhaṃ nārhati dviṣām ||

12.1१२.१

तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर् जनाधिप । (१२।१)

tacchrutvā vāsudevasya tathā cakrur janādhipa |

12.2१२.२

वैशंपायनः । (१२।२)

vaiśaṃpāyanaḥ |

12.3१२.३

उद्योगं कृतवन्तस्ते भेरीं संनाद्य यादवाः । (१२।३)

udyogaṃ kṛtavantaste bherīṃ saṃnādya yādavāḥ |

12.4१२.४

अर्जुनस्तु तदा श्रुत्वा भेरीसंनादनं महत् । (१२।४)

arjunastu tadā śrutvā bherīsaṃnādanaṃ mahat |

12.5१२.५

कौन्तेयस्त्वरमाणस्तु सुभद्राम् अभ्यभाषत । (१२।५)

kaunteyastvaramāṇastu subhadrām abhyabhāṣata |

12.6१२.६

आयान्ति वृष्णयः सर्वे ससुहृज्जनबान्धवाः । (१२।६)

āyānti vṛṣṇayaḥ sarve sasuhṛjjanabāndhavāḥ |

12.7१२.७

त्वदर्थं योद्धुकामास्ते मदरक्तान्तलोचनाः । (१२।७)

tvadarthaṃ yoddhukāmāste madaraktāntalocanāḥ |

12.8१२.८

प्रमत्तान् अशुचीन् मूढान् सुरामत्तान् नराधमान् । (१२।८)

pramattān aśucīn mūḍhān surāmattān narādhamān |

12.9१२.९

वामिनो वाशिनादींस्तु करिष्यामि शरोत्तमैः । (१२।९)

vāmino vāśinādīṃstu kariṣyāmi śarottamaiḥ |

12.10१२.१०

उताहो वा मदोन्मत्तान् नयिष्यामि यमक्षयम् । (१२।१०)

utāho vā madonmattān nayiṣyāmi yamakṣayam |

12.11१२.११

एवम् उक्त्वा प्रियां पार्थो न्यवर्तत महाबलः । (१२।११)

evam uktvā priyāṃ pārtho nyavartata mahābalaḥ |

12.12१२.१२

निवर्तमानं दृष्ट्वैव सुभद्रा त्रस्ततां गता । (१२।१२)

nivartamānaṃ dṛṣṭvaiva subhadrā trastatāṃ gatā |

12.13१२.१३

एवं मा वद पार्थेति पादयोः पतिता तदा । (१२।१३)

evaṃ mā vada pārtheti pādayoḥ patitā tadā |

12.14१२.१४

सुभद्रा नु कलिर् जाता वृष्णीनां निधनाय च । (१२।१४)

subhadrā nu kalir jātā vṛṣṇīnāṃ nidhanāya ca |

12.15१२.१५

एवं ब्रुवन्तः पौरास्ते जनवादं जनाः प्रभो । (१२।१५)

evaṃ bruvantaḥ paurāste janavādaṃ janāḥ prabho |

12.16१२.१६

मम शोकं विवर्धन्ति तस्मात् पापं न चिन्तय । (१२।१६)

mama śokaṃ vivardhanti tasmāt pāpaṃ na cintaya |

12.17१२.१७

परिवादभयान् मुक्ता त्वत्प्रसादाद् भवाम्यहम् । (१२।१७)

parivādabhayān muktā tvatprasādād bhavāmyaham |

12.18१२.१८

एवम् उक्तस्ततः पार्थः प्रियया भद्रया तदा । (१२।१८)

evam uktastataḥ pārthaḥ priyayā bhadrayā tadā |

12.19१२.१९

गमनाय मतिं चक्रे पार्थः सत्यपराक्रमः । (१२।१९)

gamanāya matiṃ cakre pārthaḥ satyaparākramaḥ |

12.20१२.२०

स्मितपूर्वं तदाभाष्य परिष्वज्य प्रियां तदा । (१२।२०)

smitapūrvaṃ tadābhāṣya pariṣvajya priyāṃ tadā |

12.21१२.२१

उत्थाप्य च पुनः पार्थो याहि याहीति सो ऽब्रवीत् । (१२।२१)

utthāpya ca punaḥ pārtho yāhi yāhīti so 'bravīt |

12.22१२.२२

ततः सुभद्रा त्वरिता रश्मीन् संगृह्य पाणिना । (१२।२२)

tataḥ subhadrā tvaritā raśmīn saṃgṛhya pāṇinā |

12.23१२.२३

चोदयामास जवनाञ् शीघ्रम् अश्वान् कृतत्वरा । (१२।२३)

codayāmāsa javanāñ śīghram aśvān kṛtatvarā |

12.24१२.२४

ततस्तु कृतसंनाहा वृष्णिवीराः समाहिताः । (१२।२४)

tatastu kṛtasaṃnāhā vṛṣṇivīrāḥ samāhitāḥ |

12.25१२.२५

प्रत्यानयार्थं पार्थस्य जवनैस्तुरगोत्तमैः । (१२।२५)

pratyānayārthaṃ pārthasya javanaisturagottamaiḥ |

12.26१२.२६

राजमार्गम् अनुप्राप्ता दृष्ट्वा पार्थस्य विक्रमम् । (१२।२६)

rājamārgam anuprāptā dṛṣṭvā pārthasya vikramam |

12.27१२.२७

प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च । (१२।२७)

prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca |

12.28१२.२८

अर्जुनस्य शरान् दृष्ट्वा विस्मयं परमं गताः । (१२।२८)

arjunasya śarān dṛṣṭvā vismayaṃ paramaṃ gatāḥ |

12.29१२.२९

केशवस्य वचस्तथ्यं मन्यमानास्तु यादवाः । (१२।२९)

keśavasya vacastathyaṃ manyamānāstu yādavāḥ |

12.30१२.३०

अतीत्य शैलं रैवतकं श्रुत्वा तु विपृथोर् वचः । (१२।३०)

atītya śailaṃ raivatakaṃ śrutvā tu vipṛthor vacaḥ |

12.31१२.३१

अर्जुनेन कृतं श्रुत्वा गन्तुकामास्तु वृष्णयः । (१२।३१)

arjunena kṛtaṃ śrutvā gantukāmāstu vṛṣṇayaḥ |

12.32१२.३२

श्रुत्वा दूरं गतं पार्थं न्यवर्तन्त नराधिपाः । (१२।३२)

śrutvā dūraṃ gataṃ pārthaṃ nyavartanta narādhipāḥ |

12.33१२.३३

पुरोद्यानान्यतिक्रम्य विशालं च गिरिव्रजम् । (१२।३३)

purodyānānyatikramya viśālaṃ ca girivrajam |

12.34१२.३४

सानुं मुञ्जावतं चैव वनान्युपवनानि च । (१२।३४)

sānuṃ muñjāvataṃ caiva vanānyupavanāni ca |

12.35१२.३५

पुण्येष्वानर्तराष्ट्रेषु वापीपद्मसरांसि च । (१२।३५)

puṇyeṣvānartarāṣṭreṣu vāpīpadmasarāṃsi ca |

12.36१२.३६

प्राप्य धेनुमतीतीर्थम् अश्वरोधसरः प्रति । (१२।३६)

prāpya dhenumatītīrtham aśvarodhasaraḥ prati |

12.37१२.३७

प्रेक्ष्यावर्तं ततः शैलम् अर्बुदं च नगोत्तमम् । (१२।३७)

prekṣyāvartaṃ tataḥ śailam arbudaṃ ca nagottamam |

12.38१२.३८

आराच्छृङ्गम् उपस्थाय तीर्त्वा कारवतीं नदीम् । (१२।३८)

ārācchṛṅgam upasthāya tīrtvā kāravatīṃ nadīm |

12.39१२.३९

प्राप्य साल्वेयराष्ट्राणि निषधान् अभ्यतीत्य च । (१२।३९)

prāpya sālveyarāṣṭrāṇi niṣadhān abhyatītya ca |

12.40१२.४०

देवापृथुपुरं पश्यन् सर्वतः सुसमाहितः । (१२।४०)

devāpṛthupuraṃ paśyan sarvataḥ susamāhitaḥ |

12.41१२.४१

तम् अतीत्य महाबाहुर् देवारण्यम् अपश्यत । (१२।४१)

tam atītya mahābāhur devāraṇyam apaśyata |

12.42१२.४२

पूजयामासुर् आयान्तं देवारण्यमहर्षयः । (१२।४२)

pūjayāmāsur āyāntaṃ devāraṇyamaharṣayaḥ |

12.43१२.४३

स वनानि नदीः शैलान् गिरिप्रस्रवणानि च । (१२।४३)

sa vanāni nadīḥ śailān giriprasravaṇāni ca |

12.44१२.४४

अतीत्य च तथा पार्थः सुभद्रासारथिस्तदा । (१२।४४)

atītya ca tathā pārthaḥ subhadrāsārathistadā |

12.45१२.४५

कौरवं विषयं प्राप्य विशङ्कः समपद्यत । (१२।४५)

kauravaṃ viṣayaṃ prāpya viśaṅkaḥ samapadyata |

12.46१२.४६

सोदर्याणां महाबाहुः सिंहाशयम् इवाशयम् । (१२।४६)

sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam |

12.47१२.४७

दूराद् उपवनोपेतां दाशार्हप्रतिमां पुरीम् । (१२।४७)

dūrād upavanopetāṃ dāśārhapratimāṃ purīm |

12.48१२.४८

क्रोशमात्रे पुरस्यासीद् गोष्ठः पार्थस्य शोभनः । (१२।४८)

krośamātre purasyāsīd goṣṭhaḥ pārthasya śobhanaḥ |

12.49१२.४९

तत्राभीयात् स बीभत्सुर् निविष्टो यदुकन्यया । (१२।४९)

tatrābhīyāt sa bībhatsur niviṣṭo yadukanyayā |

12.50१२.५०

ततः सुभद्रां सत्कृत्य पार्थो वचनम् अब्रवीत् । (१२।५०)

tataḥ subhadrāṃ satkṛtya pārtho vacanam abravīt |

12.51१२.५१

गोपालिकानां वेषेण गच्छ त्वं वृजिनं पुरम् । (१२।५१)

gopālikānāṃ veṣeṇa gaccha tvaṃ vṛjinaṃ puram |

12.52१२.५२

कामव्याहारिणी कृष्णा रोचतां ते वचो मम । (१२।५२)

kāmavyāhāriṇī kṛṣṇā rocatāṃ te vaco mama |

12.53१२.५३

दृष्ट्वा तु परुषं ब्रूयात् सह तत्र मया गताम् । (१२।५३)

dṛṣṭvā tu paruṣaṃ brūyāt saha tatra mayā gatām |

12.54१२.५४

अन्यवेषेण तु गतां दृष्ट्वा सा त्वां प्रियं वदेत् । (१२।५४)

anyaveṣeṇa tu gatāṃ dṛṣṭvā sā tvāṃ priyaṃ vadet |

12.55१२.५५

यत् तु सा प्रथमं ब्रूयान् न तस्यास्ति निवर्तनम् । (१२।५५)

yat tu sā prathamaṃ brūyān na tasyāsti nivartanam |

12.56१२.५६

तस्मान् मानं च दर्पं च व्यपनीय स्वयं व्रज । (१२।५६)

tasmān mānaṃ ca darpaṃ ca vyapanīya svayaṃ vraja |

12.57१२.५७

तस्य तद् वचनं श्रुत्वा सुभद्रा प्रत्यभाषत । (१२।५७)

tasya tad vacanaṃ śrutvā subhadrā pratyabhāṣata |

12.58१२.५८

एवम् एतत् करिष्यामि यथा त्वं पार्थ भाषसे । (१२।५८)

evam etat kariṣyāmi yathā tvaṃ pārtha bhāṣase |

12.59१२.५९

सुभद्राया वचः श्रुत्वा सुप्रीतः पाकशासनिः । (१२।५९)

subhadrāyā vacaḥ śrutvā suprītaḥ pākaśāsaniḥ |

12.60१२.६०

गोपालान् स समानीय त्वरितो वाक्यम् अब्रवीत् । (१२।६०)

gopālān sa samānīya tvarito vākyam abravīt |

12.61१२.६१

तरुण्यः सन्ति यावन्त्यस्ताः सर्वा व्रजयोषितः । (१२।६१)

taruṇyaḥ santi yāvantyastāḥ sarvā vrajayoṣitaḥ |

12.62१२.६२

आगच्छन्तु गमिष्यन्त्या भद्रया सह संगताः । (१२।६२)

āgacchantu gamiṣyantyā bhadrayā saha saṃgatāḥ |

12.63१२.६३

इन्द्रप्रस्थं पुरवरं कृष्णां द्रष्टुं यशस्विनीम् । (१२।६३)

indraprasthaṃ puravaraṃ kṛṣṇāṃ draṣṭuṃ yaśasvinīm |

12.64१२.६४

एतच्छ्रुत्वा तु गोपालैर् आनीता व्रजयोषितः । (१२।६४)

etacchrutvā tu gopālair ānītā vrajayoṣitaḥ |

12.65१२.६५

ततस्ताभिः परिवृतां व्रजस्त्रीभिर् अनिन्दिताम् । (१२।६५)

tatastābhiḥ parivṛtāṃ vrajastrībhir aninditām |

12.66१२.६६

निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ॥ (१२।६६)

nivṛttaścārjunastatra vivāhaṃ kṛtavāṃstataḥ ||

13.1१३.१

उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः । (१३।१)

uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ |

13.2१३.२

विहृत्य च यथाकामं पूजितो वृष्णिनन्दनैः । (१३।२)

vihṛtya ca yathākāmaṃ pūjito vṛṣṇinandanaiḥ |

13.3१३.३

पुष्करेषु ततः शिष्टं कालं वर्तितवान् प्रभुः । (१३।३)

puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ |

13.4१३.४

पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थम् आविशत् ॥ (१३।४)

pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat ||

14.1१४.१

अभिगम्य स राजानं विनयेन समाहितः । (१४।१)

abhigamya sa rājānaṃ vinayena samāhitaḥ |

14.2१४.२

अभ्यर्च्य ब्राह्मणान् पार्थो द्रौपदीम् अभिजग्मिवान् ॥ (१४।२)

abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān ||

15.1१५.१

तं द्रौपदी प्रत्युवाच प्रणयात् कुरुनन्दनम् । (१५।१)

taṃ draupadī pratyuvāca praṇayāt kurunandanam |

15.2१५.२

तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा । (१५।२)

tatraiva gaccha kaunteya yatra sā sātvatātmajā |

15.3१५.३

सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥ (१५।३)

subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate ||

16.1१६.१

तथा बहुविधं कृष्णां विलपन्तीं धनंजयः । (१६।१)

tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ |

16.2१६.२

सान्त्वयामास भूयश्च क्षमयामास चासकृत् ॥ (१६।२)

sāntvayāmāsa bhūyaśca kṣamayāmāsa cāsakṛt ||

17.1१७.१

सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् । (१७।१)

subhadrāṃ tvaramāṇaśca raktakauśeyavāsasam |

17.2१७.२

पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥ (१७।२)

pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ ||

18.1१८.१

साधिकं तेन रूपेण शोभमाना यशस्विनी । (१८।१)

sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī |

18.2१८.२

गोपालिकामध्यगता प्रययौ व्रजिनं पुरम् । (१८।२)

gopālikāmadhyagatā prayayau vrajinaṃ puram |

18.3१८.३

ततः पुरवरश्रेष्ठम् इन्द्रप्रस्थं यशस्विनी । (१८।३)

tataḥ puravaraśreṣṭham indraprasthaṃ yaśasvinī |

18.4१८.४

त्वरिता खाण्डवप्रस्थम् आससाद विवेश च । (१८।४)

tvaritā khāṇḍavaprastham āsasāda viveśa ca |

18.5१८.५

भवनं श्रेष्ठम् आसाद्य वीरपत्नी वराङ्गना । (१८।५)

bhavanaṃ śreṣṭham āsādya vīrapatnī varāṅganā |

18.6१८.६

ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी । (१८।६)

vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī |

18.7१८.७

तां कुन्ती चारुसर्वाङ्गीम् उपाजिघ्रत मूर्धनि । (१८।७)

tāṃ kuntī cārusarvāṅgīm upājighrata mūrdhani |

18.8१८.८

प्रीत्या परमया युक्ता आशीर्भिर् युञ्जतातुलाम् ॥ (१८।८)

prītyā paramayā yuktā āśīrbhir yuñjatātulām ||

19.1१९.१

ततो ऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना । (१९।१)

tato 'bhigamya tvaritā pūrṇendusadṛśānanā |

19.2१९.२

ववन्दे द्रौपदीं भद्रा प्रेष्याहम् इति चाब्रवीत् ॥ (१९।२)

vavande draupadīṃ bhadrā preṣyāham iti cābravīt ||

20.1२०.१

प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् । (२०।१)

pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām |

20.2२०.२

सस्वजे चावदत् प्रीता निःसपत्नो ऽस्तु ते पतिः । (२०।२)

sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ |

20.3२०.३

वीरसूर् भव भद्रे त्वं भव भर्तृप्रिया तथा । (२०।३)

vīrasūr bhava bhadre tvaṃ bhava bhartṛpriyā tathā |

20.4२०.४

ओजसा निभृता बह्वीर् उवाच परमाशिषः । (२०।४)

ojasā nibhṛtā bahvīr uvāca paramāśiṣaḥ |

20.5२०.५

तथैव मुदिता भद्रा ताम् उवाचैवम् अस्त्विति । (२०।५)

tathaiva muditā bhadrā tām uvācaivam astviti |

20.6२०.६

ततः सुभद्रां वार्ष्णेयीं परिष्वज्य शुभाननाम् । (२०।६)

tataḥ subhadrāṃ vārṣṇeyīṃ pariṣvajya śubhānanām |

20.7२०.७

अङ्के निवेश्य मुदिता वासुदेवं प्रशस्य तु । (२०।७)

aṅke niveśya muditā vāsudevaṃ praśasya tu |

20.8२०.८

ततः किलकिलाशब्दः क्षणेन समपद्यत । (२०।८)

tataḥ kilakilāśabdaḥ kṣaṇena samapadyata |

20.9२०.९

हर्षाद् आनर्तयोधानाम् आसाद्य वृजिनं पुरम् । (२०।९)

harṣād ānartayodhānām āsādya vṛjinaṃ puram |

20.10२०.१०

देवपुत्रप्रकाशास्ते जाम्बूनदमयध्वजाः । (२०।१०)

devaputraprakāśāste jāmbūnadamayadhvajāḥ |

20.11२०.११

पृष्ठतो ऽनुययुः पार्थं पुरुहूतम् इवामराः । (२०।११)

pṛṣṭhato 'nuyayuḥ pārthaṃ puruhūtam ivāmarāḥ |

20.12२०.१२

गोभिर् उष्ट्रैः सदश्वैश्च युक्तानि बहुला जनाः । (२०।१२)

gobhir uṣṭraiḥ sadaśvaiśca yuktāni bahulā janāḥ |

20.13२०.१३

ददृशुर् यानमुख्यानि दाशार्हपुरवासिनाम् । (२०।१३)

dadṛśur yānamukhyāni dāśārhapuravāsinām |

20.14२०.१४

ततः पुरवरे यूनां प्रहर्षः समजायत । (२०।१४)

tataḥ puravare yūnāṃ praharṣaḥ samajāyata |

20.15२०.१५

प्रभासाद् आगतं पार्थं दृष्ट्वा स्वम् इव बान्धवम् । (२०।१५)

prabhāsād āgataṃ pārthaṃ dṛṣṭvā svam iva bāndhavam |

20.16२०.१६

सो ऽभियाय पुरश्रेष्ठं दाशार्हगणसंवृतः । (२०।१६)

so 'bhiyāya puraśreṣṭhaṃ dāśārhagaṇasaṃvṛtaḥ |

20.17२०.१७

पौरैः पुरवरैः प्रीत्या परया चाभिनन्दितः । (२०।१७)

pauraiḥ puravaraiḥ prītyā parayā cābhinanditaḥ |

20.18२०.१८

प्राप्य चान्तःपुरद्वारम् अवरुह्य धनंजयः । (२०।१८)

prāpya cāntaḥpuradvāram avaruhya dhanaṃjayaḥ |

20.19२०.१९

ववन्दे धौम्यम् आसाद्य मातरं च धनंजयः । (२०।१९)

vavande dhaumyam āsādya mātaraṃ ca dhanaṃjayaḥ |

20.20२०.२०

स्पृष्ट्वा च चरणौ राज्ञो भीमस्य च धनंजयः । (२०।२०)

spṛṣṭvā ca caraṇau rājño bhīmasya ca dhanaṃjayaḥ |

20.21२०.२१

यमाभ्यां वन्दितो हृष्टः सस्वजे ऽभिननन्द च । (२०।२१)

yamābhyāṃ vandito hṛṣṭaḥ sasvaje 'bhinananda ca |

20.22२०.२२

ब्राह्मणप्रमुखान् सर्वान् भ्रातृभिः सह संगतः । (२०।२२)

brāhmaṇapramukhān sarvān bhrātṛbhiḥ saha saṃgataḥ |

20.23२०.२३

यथार्हं मानयामास पौरजानपदान् अपि । (२०।२३)

yathārhaṃ mānayāmāsa paurajānapadān api |

20.24२०.२४

तत्रस्थान्यनुयात्राणि प्रदाय गुरवे वधूम् । (२०।२४)

tatrasthānyanuyātrāṇi pradāya gurave vadhūm |

20.25२०.२५

पूजयांचक्रुर् आसाद्य कुन्तीपुत्रं युधिष्ठिरम् । (२०।२५)

pūjayāṃcakrur āsādya kuntīputraṃ yudhiṣṭhiram |

20.26२०.२६

पुरस्ताद् एव तेषां तु स महात्मा महायशाः । (२०।२६)

purastād eva teṣāṃ tu sa mahātmā mahāyaśāḥ |

20.27२०.२७

पूजनार्हो ऽभवद् राजा यथैव गदपूर्वजः । (२०।२७)

pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ |

20.28२०.२८

पाण्डवेन यथार्हं ते पूजार्हेण सुपूजिताः । (२०।२८)

pāṇḍavena yathārhaṃ te pūjārheṇa supūjitāḥ |

20.29२०.२९

न्यविशन्ताभ्यनुज्ञाता राज्ञा तुष्टा यशस्विना । (२०।२९)

nyaviśantābhyanujñātā rājñā tuṣṭā yaśasvinā |

20.30२०.३०

ताम् अदीनाम् अदीनार्हां सुभद्रां प्रीतिवर्धिनीम् । (२०।३०)

tām adīnām adīnārhāṃ subhadrāṃ prītivardhinīm |

20.31२०.३१

साक्षाच्छ्रियम् अमन्यन्त पार्थाः कृष्णसहोदराम् । (२०।३१)

sākṣācchriyam amanyanta pārthāḥ kṛṣṇasahodarām |

20.32२०.३२

गुरूणां श्वशुराणां च देवराणां तथैव च । (२०।३२)

gurūṇāṃ śvaśurāṇāṃ ca devarāṇāṃ tathaiva ca |

20.33२०.३३

सुभद्रा स्वेन वृत्तेन बभूव परमप्रिया ॥ (२०।३३)

subhadrā svena vṛttena babhūva paramapriyā ||

21.1२१.१

ततस्ते हृष्टमनसः पाण्डवेया महारथाः । (२१।१)

tataste hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ |

21.2२१.२

कुन्ती च परमप्रीता बभूव जनमेजय । (२१।२)

kuntī ca paramaprītā babhūva janamejaya |

21.3२१.३

युधिष्ठिरमुखाः प्रीता बभूवुर् जनमेजय । (२१।३)

yudhiṣṭhiramukhāḥ prītā babhūvur janamejaya |

21.4२१.४

कुन्ती च परमप्रीता कृष्णा च सततं तथा । (२१।४)

kuntī ca paramaprītā kṛṣṇā ca satataṃ tathā |

21.5२१.५

वैशंपायनः । (२१।५)

vaiśaṃpāyanaḥ |

21.6२१.६

अथ शुश्राव निर्वृत्ते वृष्णीनां परमोत्सवे । (२१।६)

atha śuśrāva nirvṛtte vṛṣṇīnāṃ paramotsave |

21.7२१.७

अर्जुनेन हृतां भद्रां शङ्खचक्रगदाधरः । (२१।७)

arjunena hṛtāṃ bhadrāṃ śaṅkhacakragadādharaḥ |

21.8२१.८

पुरस्ताद् एव पौराणां संशयः समजायत । (२१।८)

purastād eva paurāṇāṃ saṃśayaḥ samajāyata |

21.9२१.९

जानता वासुदेवेन वासितो भरतर्षभः । (२१।९)

jānatā vāsudevena vāsito bharatarṣabhaḥ |

21.10२१.१०

लोकस्य विदितं ह्यद्य पूर्वं विपृथुना यथा । (२१।१०)

lokasya viditaṃ hyadya pūrvaṃ vipṛthunā yathā |

21.11२१.११

सान्त्वयित्वाभ्यनुज्ञातो भद्रया सह संगतः । (२१।११)

sāntvayitvābhyanujñāto bhadrayā saha saṃgataḥ |

21.12२१.१२

दित्सता सोदरां तस्मै पतत्रिवरकेतुना । (२१।१२)

ditsatā sodarāṃ tasmai patatrivaraketunā |

21.13२१.१३

अर्हते पुरुषेन्द्राय पार्थायायतलोचनाम् । (२१।१३)

arhate puruṣendrāya pārthāyāyatalocanām |

21.14२१.१४

सत्कृत्य पाण्डवश्रेष्ठं प्रेषयामास चार्जुनम् । (२१।१४)

satkṛtya pāṇḍavaśreṣṭhaṃ preṣayāmāsa cārjunam |

21.15२१.१५

भद्रया सह बीभत्सुः प्रापितो व्रजिणः पुरम् ॥ (२१।१५)

bhadrayā saha bībhatsuḥ prāpito vrajiṇaḥ puram ||

22.1२२.१

श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् । (२२।१)

śrutvā tu puṇḍarīkākṣaḥ samprāptaṃ svapurottamam |

22.2२२.२

अर्जुनं पाण्डवश्रेष्ठम् इन्द्रप्रस्थगतं तदा । (२२।२)

arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā |

22.3२२.३

यियासुः खाण्डवप्रस्थम् आमन्त्रयत केशवः । (२२।३)

yiyāsuḥ khāṇḍavaprastham āmantrayata keśavaḥ |

22.4२२.४

पूर्वं सत्कृत्य राजानम् आहुकं मधुसूदनः । (२२।४)

pūrvaṃ satkṛtya rājānam āhukaṃ madhusūdanaḥ |

22.5२२.५

राजा विपृथुर् अक्रूरः संकर्षणविडूरथौ । (२२।५)

rājā vipṛthur akrūraḥ saṃkarṣaṇaviḍūrathau |

22.6२२.६

पित्रा च पुरुषेन्द्रेण पुरस्ताद् अभिमानितः । (२२।६)

pitrā ca puruṣendreṇa purastād abhimānitaḥ |

22.7२२.७

संप्रीतः प्रीयमाणेन वृष्णिराज्ञा जनार्दनः । (२२।७)

saṃprītaḥ prīyamāṇena vṛṣṇirājñā janārdanaḥ |

22.8२२.८

अभिमन्त्र्याभ्यनुज्ञातो योजयामास वाहिनीम् । (२२।८)

abhimantryābhyanujñāto yojayāmāsa vāhinīm |

22.9२२.९

ततस्तु यानान्यासाद्य दाशार्हपुरवासिनाम् । (२२।९)

tatastu yānānyāsādya dāśārhapuravāsinām |

22.10२२.१०

सिंहनादः प्रहृष्टानां क्षणेन समपद्यत । (२२।१०)

siṃhanādaḥ prahṛṣṭānāṃ kṣaṇena samapadyata |

22.11२२.११

योजयन्तः सदश्वांश्च यानयुग्यं रथांस्तथा । (२२।११)

yojayantaḥ sadaśvāṃśca yānayugyaṃ rathāṃstathā |

22.12२२.१२

गजांश्च परमप्रीताः समपद्यन्त वृष्णयः ॥ (२२।१२)

gajāṃśca paramaprītāḥ samapadyanta vṛṣṇayaḥ ||

23.1२३.१

आजगाम विशुद्धात्मा सह रामेण केशवः । (२३।१)

ājagāma viśuddhātmā saha rāmeṇa keśavaḥ |

23.2२३.२

वृष्ण्यन्धकमहामात्रैः सह वीरैर् महारथैः ॥ (२३।२)

vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ ||

24.1२४.१

भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः । (२४।१)

bhrātṛbhiśca kumāraiśca yodhaiśca śataśo vṛtaḥ |

24.2२४.२

सैन्येन महता शौरिर् अभिगुप्तः परंतपः ॥ (२४।२)

sainyena mahatā śaurir abhiguptaḥ paraṃtapaḥ ||

25.1२५.१

तत्र दानपतिर् धीमान् आजगाम महायशाः । (२५।१)

tatra dānapatir dhīmān ājagāma mahāyaśāḥ |

25.2२५.२

अक्रूरो वृष्णिवीराणां सेनापतिर् अरिंदमः ॥ (२५।२)

akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdamaḥ ||

26.1२६.१

अनाधृष्टिर् महातेजा उद्धवश्च महायशाः । (२६।१)

anādhṛṣṭir mahātejā uddhavaśca mahāyaśāḥ |

26.2२६.२

साक्षाद् बृहस्पतेः शिष्यो महाबुद्धिर् महायशाः ॥ (२६।२)

sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ ||

27.1२७.१

सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः । (२७।१)

satyakaḥ sātyakiścaiva kṛtavarmā ca sātvataḥ |

27.2२७.२

प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुर् एव च ॥ (२७।२)

pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkur eva ca ||

28.1२८.१

चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुर् एव च । (२८।१)

cārudeṣṇaśca vikrānto jhillī vipṛthur eva ca |

28.2२८.२

सारणश्च महाबाहुर् गदश्च विदुषां वरः ॥ (२८।२)

sāraṇaśca mahābāhur gadaśca viduṣāṃ varaḥ ||

29.1२९.१

एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा । (२९।१)

ete cānye ca bahavo vṛṣṇibhojāndhakāstathā |

29.2२९.२

आजग्मुः खाण्डवप्रस्थम् आदाय हरणं बहु । (२९।२)

ājagmuḥ khāṇḍavaprastham ādāya haraṇaṃ bahu |

29.3२९.३

अन्वाहारं समादाय पृथग् वृष्णिपुरोगमाः । (२९।३)

anvāhāraṃ samādāya pṛthag vṛṣṇipurogamāḥ |

29.4२९.४

प्रययुः सिंहनादेन सुभद्राम् अवलोककाः । (२९।४)

prayayuḥ siṃhanādena subhadrām avalokakāḥ |

29.5२९.५

ते त्वदीर्घेण कालेन कृष्णेन सह यादवाः । (२९।५)

te tvadīrgheṇa kālena kṛṣṇena saha yādavāḥ |

29.6२९.६

पुरम् आसाद्य पार्थानां परां प्रीतिम् अवाप्नुवन् ॥ (२९।६)

puram āsādya pārthānāṃ parāṃ prītim avāpnuvan ||

30.1३०.१

ततो युधिष्ठिरो राजा श्रुत्वा माधवम् आगतम् । (३०।१)

tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam |

30.2३०.२

प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत् तदा ॥ (३०।२)

pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā ||

31.1३१.१

ताभ्यां प्रतिगृहीतं तद् वृष्णिचक्रं समृद्धिमत् । (३१।१)

tābhyāṃ pratigṛhītaṃ tad vṛṣṇicakraṃ samṛddhimat |

31.2३१.२

विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥ (३१।२)

viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam ||

32.1३२.१

सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् । (३२।१)

siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam |

32.2३२.२

चन्दनस्य रसैः शीतैः पुण्यगन्धैर् निषेवितम् ॥ (३२।२)

candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam ||

33.1३३.१

दह्यतागुरुणा चैव देशे देशे सुगन्धिना । (३३।१)

dahyatāguruṇā caiva deśe deśe sugandhinā |

33.2३३.२

गन्धोद्दामम् इवाकाशं बभूव जनमेजय । (३३।२)

gandhoddāmam ivākāśaṃ babhūva janamejaya |

33.3३३.३

सुसंमृष्टजनाकीर्णं वणिग्भिर् उपशोभितम् ॥ (३३।३)

susaṃmṛṣṭajanākīrṇaṃ vaṇigbhir upaśobhitam ||

34.1३४.१

प्रतिपेदे महाबाहुः सह रामेण केशवः । (३४।१)

pratipede mahābāhuḥ saha rāmeṇa keśavaḥ |

34.2३४.२

वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ॥ (३४।२)

vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ ||

35.1३५.१

सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः । (३५।१)

sampūjyamānaḥ pauraiśca brāhmaṇaiśca sahasraśaḥ |

35.2३५.२

विवेश भवनं राज्ञः पुरंदरगृहोपमम् ॥ (३५।२)

viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam ||

36.1३६.१

युधिष्ठिरस्तु रामेण समागच्छद् यथाविधि । (३६।१)

yudhiṣṭhirastu rāmeṇa samāgacchad yathāvidhi |

36.2३६.२

मूर्ध्नि केशवम् आघ्राय पर्यष्वजत बाहुना ॥ (३६।२)

mūrdhni keśavam āghrāya paryaṣvajata bāhunā ||

37.1३७.१

तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् । (३७।१)

taṃ prīyamāṇaṃ kṛṣṇastu vinayenābhyapūjayat |

37.2३७.२

भीमं च पुरुषव्याघ्रं विधिवत् प्रत्यपूजयत् ॥ (३७।२)

bhīmaṃ ca puruṣavyāghraṃ vidhivat pratyapūjayat ||

38.1३८.१

तांश्च वृष्ण्यन्धकश्रेष्ठान् धर्मराजो युधिष्ठिरः । (३८।१)

tāṃśca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ |

38.2३८.२

प्रतिजग्राह सत्कारैर् यथाविधि यथोपगम् ॥ (३८।२)

pratijagrāha satkārair yathāvidhi yathopagam ||

39.1३९.१

गुरुवत् पूजयामास कांश्चित् कांश्चिद् वयस्यवत् । (३९।१)

guruvat pūjayāmāsa kāṃścit kāṃścid vayasyavat |

39.2३९.२

कांश्चिद् अभ्यवदत् प्रेम्णा कैश्चिद् अप्यभिवादितः । (३९।२)

kāṃścid abhyavadat premṇā kaiścid apyabhivāditaḥ |

39.3३९.३

ततः पृथा च पार्थाश्च मुदिताः कृष्णया सह । (३९।३)

tataḥ pṛthā ca pārthāśca muditāḥ kṛṣṇayā saha |

39.4३९.४

पुण्डरीकाक्षम् आसाद्य बभूवुर् मुदितेन्द्रियाः । (३९।४)

puṇḍarīkākṣam āsādya babhūvur muditendriyāḥ |

39.5३९.५

हर्षाद् अभिगतौ दृष्ट्वा संकर्षणजनार्दनौ । (३९।५)

harṣād abhigatau dṛṣṭvā saṃkarṣaṇajanārdanau |

39.6३९.६

बन्धुमन्तं पृथा पार्थं युधिष्ठिरम् अमन्यत । (३९।६)

bandhumantaṃ pṛthā pārthaṃ yudhiṣṭhiram amanyata |

39.7३९.७

ततः संकर्षणाक्रूरावप्रमेयावदीनवत् । (३९।७)

tataḥ saṃkarṣaṇākrūrāvaprameyāvadīnavat |

39.8३९.८

भद्रवत्यै सुभद्रायै धनौघम् उपजह्रतुः । (३९।८)

bhadravatyai subhadrāyai dhanaugham upajahratuḥ |

39.9३९.९

प्रवालानि च वस्त्राणि भूषणानि सहस्रशः । (३९।९)

pravālāni ca vastrāṇi bhūṣaṇāni sahasraśaḥ |

39.10३९.१०

कुथास्तरपरिस्तोमान् व्याघ्राजिनपुरस्कृतान् । (३९।१०)

kuthāstaraparistomān vyāghrājinapuraskṛtān |

39.11३९.११

विविधैश्चैव रत्नौघैर् दीप्तप्रभम् अजायत । (३९।११)

vividhaiścaiva ratnaughair dīptaprabham ajāyata |

39.12३९.१२

शयनासनयानैश्च युधिष्ठिरनिवेशनम् । (३९।१२)

śayanāsanayānaiśca yudhiṣṭhiraniveśanam |

39.13३९.१३

ततः प्रीतिकरो यूनां विवाहपरमोत्सवः । (३९।१३)

tataḥ prītikaro yūnāṃ vivāhaparamotsavaḥ |

39.14३९.१४

भद्रवत्यै सुभद्रायै सप्तरात्रम् अवर्तत ॥ (३९।१४)

bhadravatyai subhadrāyai saptarātram avartata ||

40.1४०.१

ततो ददौ वासुदेवो जन्यार्थे धनम् उत्तमम् । (४०।१)

tato dadau vāsudevo janyārthe dhanam uttamam |

40.2४०.२

हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥ (४०।२)

haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ ||

41.1४१.१

रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् । (४१।१)

rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām |

41.2४१.२

चतुर्युजाम् उपेतानां सूतैः कुशलसंमतैः । (४१।२)

caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ |

41.3४१.३

बाह्लीकसिन्धुजातानां काम्बोजानां शतं शतम् । (४१।३)

bāhlīkasindhujātānāṃ kāmbojānāṃ śataṃ śatam |

41.4४१.४

हरणार्थं ददौ कृष्णस्तुरगाणां जनेश्वर । (४१।४)

haraṇārthaṃ dadau kṛṣṇasturagāṇāṃ janeśvara |

41.5४१.५

सहस्रं प्रददौ कृष्णो गवाम् अयुतम् एव च ॥ (४१।५)

sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca ||

42.1४२.१

श्रीमान् माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् । (४२।१)

śrīmān māthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām |

42.2४२.२

ददौ पार्थाय शुद्धात्मा सहस्राण्येकविंशतिम् । (४२।२)

dadau pārthāya śuddhātmā sahasrāṇyekaviṃśatim |

42.3४२.३

वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् । (४२।३)

vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām |

42.4४२.४

ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् । (४२।४)

dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam |

42.5४२.५

गजानां नित्यमत्तानां सादिभिः समधिष्ठिताम् । (४२।५)

gajānāṃ nityamattānāṃ sādibhiḥ samadhiṣṭhitām |

42.6४२.६

मेघाभानां ददौ कृष्णः सहस्रम् असितेक्षणः । (४२।६)

meghābhānāṃ dadau kṛṣṇaḥ sahasram asitekṣaṇaḥ |

42.7४२.७

काम्बोजारट्टबाह्लीकसिन्धुजातांश्च भारत । (४२।७)

kāmbojāraṭṭabāhlīkasindhujātāṃśca bhārata |

42.8४२.८

सुवर्णकृतसंनाहान् घण्टानादविनादितान् । (४२।८)

suvarṇakṛtasaṃnāhān ghaṇṭānādavināditān |

42.9४२.९

श्वेतचामरसंछन्नान् सर्वशस्त्रैर् अलंकृतान् । (४२।९)

śvetacāmarasaṃchannān sarvaśastrair alaṃkṛtān |

42.10४२.१०

जात्यश्वानां सहस्राणि पञ्चाशत् प्रददौ तदा । (४२।१०)

jātyaśvānāṃ sahasrāṇi pañcāśat pradadau tadā |

42.11४२.११

हयानां चन्द्रसंकाशं श्यामकर्णान् ददौ शतम् ॥ (४२।११)

hayānāṃ candrasaṃkāśaṃ śyāmakarṇān dadau śatam ||

43.1४३.१

तथैवाश्वतरीणां च दान्तानां वातरंहसाम् । (४३।१)

tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām |

43.2४३.२

शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च । (४३।२)

śatānyañjanakeśīnāṃ śvetānāṃ pañca pañca ca |

43.3४३.३

शिबिकानां सहस्रं च प्रददौ मधुसूदनः । (४३।३)

śibikānāṃ sahasraṃ ca pradadau madhusūdanaḥ |

43.4४३.४

प्राच्यानां च प्रतीच्यानां बाह्लीकानां जनार्दनः । (४३।४)

prācyānāṃ ca pratīcyānāṃ bāhlīkānāṃ janārdanaḥ |

43.5४३.५

ददौ शतसहस्रं वै कन्याधनम् अनुत्तमम् ॥ (४३।५)

dadau śatasahasraṃ vai kanyādhanam anuttamam ||

44.1४४.१

स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् । (४४।१)

snāpanotsādane caiva suyuktaṃ vayasānvitam |

44.2४४.२

भोजने पाचने तथा । (४४।२)

bhojane pācane tathā |

44.3४४.३

आधानोद्वासने चैव प्रेरणे यत्र यत्र च । (४४।३)

ādhānodvāsane caiva preraṇe yatra yatra ca |

44.4४४.४

अनुलेपे च गन्धानां पेषणे च विचक्षणम् । (४४।४)

anulepe ca gandhānāṃ peṣaṇe ca vicakṣaṇam |

44.5४४.५

सर्वकर्मणि निष्णातं । (४४।५)

sarvakarmaṇi niṣṇātaṃ |

44.6४४.६

स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥ (४४।६)

strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām ||

45.1४५.१

सुवर्णशतकण्ठीनाम् अरोगाणां सुवाससाम् । (४५।१)

suvarṇaśatakaṇṭhīnām arogāṇāṃ suvāsasām |

45.2४५.२

परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः । (४५।२)

paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ |

45.3४५.३

पृष्ठ्यानाम् अपि चाश्वानां बाह्लिजानां जनार्दनः । (४५।३)

pṛṣṭhyānām api cāśvānāṃ bāhlijānāṃ janārdanaḥ |

45.4४५.४

ददौ शतसहस्राख्यं कन्याधनम् अनुत्तमम् ॥ (४५।४)

dadau śatasahasrākhyaṃ kanyādhanam anuttamam ||

46.1४६.१

कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः । (४६।१)

kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ |

46.2४६.२

मनुष्यभारान् दाशार्हो ददौ दश जनार्दनः । (४६।२)

manuṣyabhārān dāśārho dadau daśa janārdanaḥ |

46.3४६.३

भूषणानां तु मुख्यानां शतभारं ददौ धनम् । (४६।३)

bhūṣaṇānāṃ tu mukhyānāṃ śatabhāraṃ dadau dhanam |

46.4४६.४

मुक्ताहाराणि शुभ्राणि शतसंख्यानि केशवः । (४६।४)

muktāhārāṇi śubhrāṇi śatasaṃkhyāni keśavaḥ |

46.5४६.५

प्रवालानां सहस्रं च तथान्यान् अपि भारत । (४६।५)

pravālānāṃ sahasraṃ ca tathānyān api bhārata |

46.6४६.६

सुवर्णपादपीठानां महार्हास्तरणांस्तथा । (४६।६)

suvarṇapādapīṭhānāṃ mahārhāstaraṇāṃstathā |

46.7४६.७

पर्यङ्काणां सहस्रं च ददौ कन्याधनं तदा ॥ (४६।७)

paryaṅkāṇāṃ sahasraṃ ca dadau kanyādhanaṃ tadā ||

47.1४७.१

गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् । (४७।१)

gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam |

47.2४७.२

गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् । (४७।२)

girikūṭanikāśānāṃ samareṣvanivartinām |

47.3४७.३

सुवर्णकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् ॥ (४७।३)

suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān ||

48.1४८.१

कॢप्तानां पटुघण्टानां वराणां हेममालिनाम् । (४८।१)

kḷptānāṃ paṭughaṇṭānāṃ varāṇāṃ hemamālinām |

48.2४८.२

हस्त्यारोहैर् उपेतानां सहस्रं साहसप्रियः । (४८।२)

hastyārohair upetānāṃ sahasraṃ sāhasapriyaḥ |

48.3४८.३

स्थितानां बद्धघण्टानां गतानां गोचरं भुवः । (४८।३)

sthitānāṃ baddhaghaṇṭānāṃ gatānāṃ gocaraṃ bhuvaḥ |

48.4४८.४

महिषीणाम् अदाद् भूरिपयसाम् अयुतद्वयम् । (४८।४)

mahiṣīṇām adād bhūripayasām ayutadvayam |

48.5४८.५

प्रददौ वासुदेवस्तु वसुदेवाज्ञया तदा ॥ (४८।५)

pradadau vāsudevastu vasudevājñayā tadā ||

49.1४९.१

रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली । (४९।१)

rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī |

49.2४९.२

प्रीयमाणो हलधरः संबन्धप्रीतिम् आवहन् ॥ (४९।२)

prīyamāṇo haladharaḥ saṃbandhaprītim āvahan ||

50.1५०.१

स महाधनरत्नौघो वस्त्रकम्बलफेनवान् । (५०।१)

sa mahādhanaratnaugho vastrakambalaphenavān |

50.2५०.२

महागजमहाग्राहः पताकाशैवलाकुलः ॥ (५०।२)

mahāgajamahāgrāhaḥ patākāśaivalākulaḥ ||

51.1५१.१

पाण्डुसागरम् आविद्धः प्रविवेश महानदः । (५१।१)

pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ |

51.2५१.२

पूर्णम् आपूरयंस्तेषां द्विषच्छोकावहो ऽभवत् ॥ (५१।२)

pūrṇam āpūrayaṃsteṣāṃ dviṣacchokāvaho 'bhavat ||

52.1५२.१

प्रतिजग्राह तत् सर्वं धर्मराजो युधिष्ठिरः । (५२।१)

pratijagrāha tat sarvaṃ dharmarājo yudhiṣṭhiraḥ |

52.2५२.२

बलदेवस्ततो मधु । (५२।२)

baladevastato madhu |

52.3५२.३

दिवारात्रं च सततं सानुजैर् अधिकं मधु । (५२।३)

divārātraṃ ca satataṃ sānujair adhikaṃ madhu |

52.4५२.४

द्राक्षाप्रभवम् अत्यन्तं कापिशायनम् एव च । (५२।४)

drākṣāprabhavam atyantaṃ kāpiśāyanam eva ca |

52.5५२.५

दिव्यमाक्षिकसंमिश्रम् आसवं च मनोरमम् । (५२।५)

divyamākṣikasaṃmiśram āsavaṃ ca manoramam |

52.6५२.६

पद्मरागेन्द्रनीलादिभाजनेषु व्यवस्थितम् । (५२।६)

padmarāgendranīlādibhājaneṣu vyavasthitam |

52.7५२.७

रौप्यसौवर्णमुख्येषु चषकेषु पपुः सुराम् । (५२।७)

raupyasauvarṇamukhyeṣu caṣakeṣu papuḥ surām |

52.8५२.८

पाण्डवो ऽपि च धर्मात्मा । (५२।८)

pāṇḍavo 'pi ca dharmātmā |

52.9५२.९

पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥ (५२।९)

pūjayāmāsa tāṃścaiva vṛṣṇyandhakamahārathān ||

53.1५३.१

ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः । (५३।१)

te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ |

53.2५३.२

विजह्रुर् अमरावासे नराः सुकृतिनो यथा ॥ (५३।२)

vijahrur amarāvāse narāḥ sukṛtino yathā ||

54.1५४.१

तत्र तत्र महापानैर् उत्कृष्टतलनादितैः । (५४।१)

tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ |

54.2५४.२

आसवैश्च महाधनैः पीत्वा पीत्वा तु मैरेयान् । (५४।२)

āsavaiśca mahādhanaiḥ pītvā pītvā tu maireyān |

54.3५४.३

यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥ (५४।३)

yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ ||

55.1५५.१

एवम् उत्तमवीर्यास्ते विहृत्य दिवसान् बहून् । (५५।१)

evam uttamavīryāste vihṛtya divasān bahūn |

55.2५५.२

पूज्य पार्थान् पृथां चैव भद्रां च यदुपुंगवाः । (५५।२)

pūjya pārthān pṛthāṃ caiva bhadrāṃ ca yadupuṃgavāḥ |

55.3५५.३

केशवेनाभ्यनुज्ञाता गन्तुकामाः पुरीं प्रति । (५५।३)

keśavenābhyanujñātā gantukāmāḥ purīṃ prati |

55.4५५.४

पूजिताः कुरुभिर् जग्मुः पुनर् द्वारवतीं पुरीम् ॥ (५५।४)

pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm ||

56.1५६.१

रामं पुरस्कृत्य ययुर् वृष्ण्यन्धकमहारथाः । (५६।१)

rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ |

56.2५६.२

रामः सुभद्रां सम्पूज्य परिष्वज्य स्वसां तदा । (५६।२)

rāmaḥ subhadrāṃ sampūjya pariṣvajya svasāṃ tadā |

56.3५६.३

न्यासेति द्रौपदीम् उक्त्वा परिदाय महाबलः । (५६।३)

nyāseti draupadīm uktvā paridāya mahābalaḥ |

56.4५६.४

पितृष्वसायाश्चरणावभिवाद्य ययौ तदा । (५६।४)

pitṛṣvasāyāścaraṇāvabhivādya yayau tadā |

56.5५६.५

तस्मिन् काले पृथा प्रीता पूजयामास तं तदा । (५६।५)

tasmin kāle pṛthā prītā pūjayāmāsa taṃ tadā |

56.6५६.६

वृष्णिप्रवीराः पार्थैश्च पौरैश्च परमार्चिताः । (५६।६)

vṛṣṇipravīrāḥ pārthaiśca pauraiśca paramārcitāḥ |

56.7५६.७

रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥ (५६।७)

ratnānyādāya śubhrāṇi dattāni kurusattamaiḥ ||

57.1५७.१

वासुदेवस्तु पार्थेन तत्रैव सह भारत । (५७।१)

vāsudevastu pārthena tatraiva saha bhārata |

57.2५७.२

चतुर्विंशदहोरात्रं रममाणो महाबलः । (५७।२)

caturviṃśadahorātraṃ ramamāṇo mahābalaḥ |

57.3५७.३

उवास नगरे रम्ये शक्रप्रस्थे महामनाः । (५७।३)

uvāsa nagare ramye śakraprasthe mahāmanāḥ |

57.4५७.४

व्यचरद् यमुनाकूले पार्थेन सह भारत । (५७।४)

vyacarad yamunākūle pārthena saha bhārata |

57.5५७.५

मृगान् विध्यन् वराहांश्च रेमे सार्धं किरीटिना ॥ (५७।५)

mṛgān vidhyan varāhāṃśca reme sārdhaṃ kirīṭinā ||

58.1५८.१

ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा । (५८।१)

tataḥ subhadrā saubhadraṃ keśavasya priyā svasā |

58.2५८.२

जयन्तम् इव पौलोमी द्युतिमन्तम् अजीजनत् ॥ (५८।२)

jayantam iva paulomī dyutimantam ajījanat ||

59.1५९.१

दीर्घबाहुं महासत्त्वम् ऋषभाक्षम् अरिंदमम् । (५९।१)

dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam |

59.2५९.२

सुभद्रा सुषुवे वीरम् अभिमन्युं नरर्षभम् ॥ (५९।२)

subhadrā suṣuve vīram abhimanyuṃ nararṣabham ||

60.1६०.१

अभीश्च मन्युमांश्चैव ततस्तम् अरिमर्दनम् । (६०।१)

abhīśca manyumāṃścaiva tatastam arimardanam |

60.2६०.२

अभिमन्युम् इति प्राहुर् आर्जुनिं पुरुषर्षभम् ॥ (६०।२)

abhimanyum iti prāhur ārjuniṃ puruṣarṣabham ||

61.1६१.१

स सात्वत्याम् अतिरथः संबभूव धनंजयात् । (६१।१)

sa sātvatyām atirathaḥ saṃbabhūva dhanaṃjayāt |

61.2६१.२

मखे निर्मथ्यमानाद् वा शमीगर्भाद्धुताशनः ॥ (६१।२)

makhe nirmathyamānād vā śamīgarbhāddhutāśanaḥ ||

62.1६२.१

यस्मिञ् जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः । (६२।१)

yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ |

62.2६२.२

अयुतं गा द्विजातिभ्यः प्रादान् निष्कांश्च तावतः ॥ (६२।२)

ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃśca tāvataḥ ||

63.1६३.१

दयितो वासुदेवस्य बाल्यात् प्रभृति चाभवत् । (६३।१)

dayito vāsudevasya bālyāt prabhṛti cābhavat |

63.2६३.२

पितॄणां चैव सर्वेषां प्रजानाम् इव चन्द्रमाः ॥ (६३।२)

pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ ||

64.1६४.१

जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः । (६४।१)

janmaprabhṛti kṛṣṇaśca cakre tasya kriyāḥ śubhāḥ |

64.2६४.२

स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥ (६४।२)

sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī ||

65.1६५.१

चतुष्पादं दशविधं धनुर्वेदम् अरिंदमः । (६५।१)

catuṣpādaṃ daśavidhaṃ dhanurvedam ariṃdamaḥ |

65.2६५.२

अर्जुनाद् वेद वेदज्ञात् सकलं दिव्यमानुषम् ॥ (६५।२)

arjunād veda vedajñāt sakalaṃ divyamānuṣam ||

66.1६६.१

विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः । (६६।१)

vijñāneṣvapi cāstrāṇāṃ sauṣṭhave ca mahābalaḥ |

66.2६६.२

क्रियास्वपि च सर्वासु विशेषान् अभ्यशिक्षयत् ॥ (६६।२)

kriyāsvapi ca sarvāsu viśeṣān abhyaśikṣayat ||

67.1६७.१

आगमे च प्रयोगे च चक्रे तुल्यम् इवात्मनः । (६७।१)

āgame ca prayoge ca cakre tulyam ivātmanaḥ |

67.2६७.२

तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः ॥ (६७।२)

tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanaṃjayaḥ ||

68.1६८.१

सर्वसंहननोपेतं सर्वलक्षणलक्षितम् । (६८।१)

sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam |

68.2६८.२

दुर्धर्षम् ऋषभस्कन्धं व्यात्ताननम् इवोरगम् ॥ (६८।२)

durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam ||

69.1६९.१

सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् । (६९।१)

siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam |

69.2६९.२

मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥ (६९।२)

meghadundubhinirghoṣaṃ pūrṇacandranibhānanam ||

70.1७०.१

कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ । (७०।१)

kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau |

70.2७०.२

ददर्श पुत्रं बीभत्सुर् मघवान् इव तं यथा ॥ (७०।२)

dadarśa putraṃ bībhatsur maghavān iva taṃ yathā ||

71.1७१.१

पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा । (७१।१)

pāñcālyapi ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā |

71.2७१.२

लेभे पञ्च सुतान् वीराञ् शुभान् पञ्चाचलान् इव ॥ (७१।२)

lebhe pañca sutān vīrāñ śubhān pañcācalān iva ||

72.1७२.१

युधिष्ठिरात् प्रतिविन्ध्यं सुतसोमं वृकोदरात् । (७२।१)

yudhiṣṭhirāt prativindhyaṃ sutasomaṃ vṛkodarāt |

72.2७२.२

अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥ (७२।२)

arjunācchrutakarmāṇaṃ śatānīkaṃ ca nākulim ||

73.1७३.१

सहदेवाच्छ्रुतसेनम् एतान् पञ्च महारथान् । (७३।१)

sahadevācchrutasenam etān pañca mahārathān |

73.2७३.२

पाञ्चाली सुषुवे वीरान् आदित्यान् अदितिर् यथा ॥ (७३।२)

pāñcālī suṣuve vīrān ādityān aditir yathā ||

74.1७४.१

शास्त्रतः प्रतिविन्ध्यं तम् ऊचुर् विप्रा युधिष्ठिरम् । (७४।१)

śāstrataḥ prativindhyaṃ tam ūcur viprā yudhiṣṭhiram |

74.2७४.२

परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ॥ (७४।२)

parapraharaṇajñāne prativindhyo bhavatvayam ||

75.1७५.१

सुते सोमसहस्रे तु सोमार्कसमतेजसम् । (७५।१)

sute somasahasre tu somārkasamatejasam |

75.2७५.२

सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥ (७५।२)

sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ ||

76.1७६.१

श्रुतं कर्म महत् कृत्वा निवृत्तेन किरीटिना । (७६।१)

śrutaṃ karma mahat kṛtvā nivṛttena kirīṭinā |

76.2७६.२

जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततो ऽभवत् ॥ (७६।२)

jātaḥ putrastavetyevaṃ śrutakarmā tato 'bhavat ||

77.1७७.१

शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः । (७७।१)

śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ |

77.2७७.२

चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥ (७७।२)

cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam ||

78.1७८.१

ततस्त्वजीजनत् कृष्णा नक्षत्रे वह्निदैवते । (७८।१)

tatastvajījanat kṛṣṇā nakṣatre vahnidaivate |

78.2७८.२

सहदेवात् सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥ (७८।२)

sahadevāt sutaṃ tasmācchrutaseneti taṃ viduḥ ||

79.1७९.१

एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः । (७९।१)

ekavarṣāntarāstveva draupadeyā yaśasvinaḥ |

79.2७९.२

अन्वजायन्त राजेन्द्र परस्परहिते रताः ॥ (७९।२)

anvajāyanta rājendra parasparahite ratāḥ ||

80.1८०.१

जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च । (८०।१)

jātakarmāṇyānupūrvyāccūḍopanayanāni ca |

80.2८०.२

चकार विधिवद् धौम्यस्तेषां भरतसत्तम ॥ (८०।२)

cakāra vidhivad dhaumyasteṣāṃ bharatasattama ||

81.1८१.१

कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः । (८१।१)

kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ |

81.2८१.२

जगृहुः सर्वम् इष्वस्त्रम् अर्जुनाद् दिव्यमानुषम् ॥ (८१।२)

jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam ||

82.1८२.१

देवगर्भोपमैः पुत्रैर् व्यूढोरस्कैर् महाबलैः । (८२।१)

devagarbhopamaiḥ putrair vyūḍhoraskair mahābalaiḥ |

82.2८२.२

अन्विता राजशार्दूल पाण्डवा मुदम् आप्नुवन् ॥ (८२।२)

anvitā rājaśārdūla pāṇḍavā mudam āpnuvan ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 213

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit