MBh, 3, 143
Select a line for its word-by-word analysis.
बद्धगोधाङ्गुलित्राणाः खड्गवन्तो ऽमितौजसः ॥ (१।३)
baddhagodhāṅgulitrāṇāḥ khaḍgavanto 'mitaujasaḥ ||
परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम् । (२।१)
parigṛhya dvijaśreṣṭhāñśreṣṭhāḥ sarvadhanuṣmatām |
वृक्षांश्च बहुलच्छायान् ददृशुर् गिरिमूर्धनि । (३।२)
vṛkṣāṃśca bahulacchāyān dadṛśur girimūrdhani |
चण्डवातं महद् वर्षं प्रादुरासीद् विशां पते ॥ (६।२)
caṇḍavātaṃ mahad varṣaṃ prādurāsīd viśāṃ pate ||
पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् ॥ (७।२)
pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot ||
न स्म प्रज्ञायते किंचिद् आवृते व्योम्नि रेणुना । (८।१)
na sma prajñāyate kiṃcid āvṛte vyomni reṇunā |
न चापि शेकुस्ते कर्तुम् अन्योन्यस्याभिभाषणम् ॥ (८।२)
na cāpi śekuste kartum anyonyasyābhibhāṣaṇam ||
न चापश्यन्त ते ऽन्योन्यं तमसा हतचक्षुषः । (९।१)
na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣuṣaḥ |
द्रुमाणां वातभग्नानां पततां भूतले भृशम् । (१०।१)
drumāṇāṃ vātabhagnānāṃ patatāṃ bhūtale bhṛśam |
अन्येषां च महीजानां शब्दः समभवन् महान् ॥ (१०।२)
anyeṣāṃ ca mahījānāṃ śabdaḥ samabhavan mahān ||
द्यौः स्वित् पतति किं भूमौ दीर्यन्ते पर्वता नु किम् । (११।१)
dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim |
ते यथानन्तरान् वृक्षान् वल्मीकान् विषमाणि च । (१२।१)
te yathānantarān vṛkṣān valmīkān viṣamāṇi ca |
पाणिभिः परिमार्गन्तो भीता वायोर् निलिल्यिरे ॥ (१२।२)
pāṇibhiḥ parimārganto bhītā vāyor nililyire ||
कृष्णाम् आदाय संगत्या तस्थावाश्रित्य पादपम् ॥ (१३।२)
kṛṣṇām ādāya saṃgatyā tasthāvāśritya pādapam ||
धर्मराजश् च धौम्यश् च निलिल्याते महावने । (१४।१)
dharmarājaś ca dhaumyaś ca nililyāte mahāvane |
नकुलो ब्राह्मणाश् चान्ये लोमशश् च महातपाः । (१५।१)
nakulo brāhmaṇāś cānye lomaśaś ca mahātapāḥ |
वृक्षान् आसाद्य संत्रस्तास् तत्र तत्र निलिल्यिरे ॥ (१५।२)
vṛkṣān āsādya saṃtrastās tatra tatra nililyire ||
महद्भिः पृषतैस् तूर्णं वर्षम् अभ्याजगाम ह ॥ (१६।२)
mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha ||
ततो ऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः । (१७।१)
tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ |
प्रादुरासन् सकलुषाः फेनवत्यो विशां पते ॥ (१८।२)
prādurāsan sakaluṣāḥ phenavatyo viśāṃ pate ||
परिसस्रुर् महाशब्दाः प्रकर्षन्त्यो महीरुहान् ॥ (१९।२)
parisasrur mahāśabdāḥ prakarṣantyo mahīruhān ||
गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ॥ (२०।२)
gate hyambhasi nimnāni prādurbhūte divākare ||
निर्जग्मुस् ते शनैः सर्वे समाजग्मुश् च भारत । (२१।१)
nirjagmus te śanaiḥ sarve samājagmuś ca bhārata |
प्रतस्थुश् च पुनर् वीराः पर्वतं गन्धमादनम् ॥ (२१।२)
pratasthuś ca punar vīrāḥ parvataṃ gandhamādanam ||
Data courtesy of The Digital Corpus of Sanskrit.